नैतद् एवं कृत्स्नो ऽनुवाको भक्षणे विनियुज्यत इति। रूपाद् ग्रहणवाक्यं ग्रहणे विनियुज्येत, एहीत्येवमादि सध्यासम् इत्य् एवम् अन्तम्। नृचक्षसम् इत्येवमादि चावख्येषम् इत्य् एवम् अन्तं दर्शने। कुतः? मुख्यार्थम् एवं तद् वाक्यं भवति, इतरथा लक्षणार्थता स्यात्, मुख्यार्थता च न्याय्या न लक्ष्यार्थता। उच्यते - विशेषणानाम् अभिधाने, न किंचिद् अस्ति प्रयोजनम् इत्य् उक्तम्। अत्रोच्यते - नैवैतानि विशेषणानि, पृथग् एवैतानि ग्रहणादीनि स्वैः स्वैर् वाक्यैर् उच्यन्त इति। कुतः? अस्ति हि तैः प्रयोजनम्, चोदितानि हि तानि, कानिचित् तु पृथग्वाक्यैः, कानिचिद् अर्थप्राप्तानि, तान्य् अवश्यं प्रकाशयितव्यानि। तानि प्रकाशयिष्यन्त्य् एतानि वाक्यानि। रूपं चैषां तत्प्रकाशनसामर्थ्यम्, अतो नानार्थत्वान् नैकं वाक्यम् उच्यते। ननु भक्षणवाक्यशेषी भवितुम् अप्य् एषां रूपम् इति। उच्यते - बाढम् अस्ति रूपम्, न तु तद्विशेषणान्य् एतानि कल्प्यन्ते। कस्य हेतोर् अदृष्टार्थानि तथा भवन्ति? उक्तैर् अनुक्तैर् वा विशेषणैस् तावान् एव सो ऽर्थः, इतरथा ग्रहणादीनि प्रकाशयिष्यन्ति, तथा दृष्टार्थानि भविष्यन्ति। तस्माद् रूपोपदेशाभ्याम् अपक्र्षो भवेत् केषांचिद् अत्रेति। गुणाभिधानान् मन्द्रादिर् एकमन्त्रः स्यात् तयोर् एकार्थसंयोगात्
naitad evaṃ kṛtsno 'nuvāko bhakṣaṇe viniyujyata iti. rūpād grahaṇavākyaṃ grahaṇe viniyujyeta, ehītyevamādi sadhyāsam ity evam antam. nṛcakṣasam ityevamādi cāvakhyeṣam ity evam antaṃ darśane. kutaḥ? mukhyārtham evaṃ tad vākyaṃ bhavati, itarathā lakṣaṇārthatā syāt, mukhyārthatā ca nyāyyā na lakṣyārthatā. ucyate - viśeṣaṇānām abhidhāne, na kiṃcid asti prayojanam ity uktam. atrocyate - naivaitāni viśeṣaṇāni, pṛthag evaitāni grahaṇādīni svaiḥ svair vākyair ucyanta iti. kutaḥ? asti hi taiḥ prayojanam, coditāni hi tāni, kānicit tu pṛthagvākyaiḥ, kānicid arthaprāptāni, tāny avaśyaṃ prakāśayitavyāni. tāni prakāśayiṣyanty etāni vākyāni. rūpaṃ caiṣāṃ tatprakāśanasāmarthyam, ato nānārthatvān naikaṃ vākyam ucyate. nanu bhakṣaṇavākyaśeṣī bhavitum apy eṣāṃ rūpam iti. ucyate - bāḍham asti rūpam, na tu tadviśeṣaṇāny etāni kalpyante. kasya hetor adṛṣṭārthāni tathā bhavanti? uktair anuktair vā viśeṣaṇais tāvān eva so 'rthaḥ, itarathā grahaṇādīni prakāśayiṣyanti, tathā dṛṣṭārthāni bhaviṣyanti. tasmād rūpopadeśābhyām apakrṣo bhavet keṣāṃcid atreti. guṇābhidhānān mandrādir ekamantraḥ syāt tayor ekārthasaṃyogāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.