यद् एतत् कर्तृत्वं भोक्तृत्वं चास्याध्यारोप्यते । अवश्यकं तद् असम्यग्दर्शनमोहात् न वस्तुत इति । यथाभूतवस्तुविचारणात् कर्तृत्वभोक्तृत्वे न स्तः । इन्द्रियेन्द्रियार्थद्वेषाभिलाषादिका दृष्टयस् तद्दृष्टीनां दृश्यन्ते नातद्दृष्टीनाम्
yad etat kartṛtvaṃ bhoktṛtvaṃ cāsyādhyāropyate | avaśyakaṃ tad asamyagdarśanamohāt na vastuta iti | yathābhūtavastuvicāraṇāt kartṛtvabhoktṛtve na staḥ | indriyendriyārthadveṣābhilāṣādikā dṛṣṭayas taddṛṣṭīnāṃ dṛśyante nātaddṛṣṭīnām
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.