ननु तर्हि केशोण्डुकवत् भासमानत्वात् जगत् किञ्चिद् अस्ति । तत् कथम् अस्य निर्वाणरूपत्वम् उक्तम् इत्य् । अत्राह न तत् केशोण्डुकं किञ्चित् सा हि दृष्टिस् तथा स्थिता । नैवं दृश्यम् इदं किञ्चिद् इत्थं चिद्व्योम संस्थितम्
nanu tarhi keśoṇḍukavat bhāsamānatvāt jagat kiñcid asti | tat katham asya nirvāṇarūpatvam uktam ity | atrāha na tat keśoṇḍukaṃ kiñcit sā hi dṛṣṭis tathā sthitā / naivaṃ dṛśyam idaṃ kiñcid itthaṃ cidvyoma saṃsthitam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.