यदि पर एवात्मा नित्यशुद्धबुद्धमुक्तस्वभाव एकः परमार्थः सन्"एकमेवाद्वितीयम्" (छाउ।६ । २ । २) इत्यादिश्रुतिभ्यो ऽसदन्यत्किमर्थेयमुपासनोपदिष्टा"आत्मा वा९रे द्रष्टव्यः"(बृउ।२ । ४ । ५) "य आत्मापहतपाप्मा"(छाउ।८ । ७ । १,३) "स क्रतुं कुर्वीत"(छाउ।३ । १४ । १) "आत्मेत्येवोपासीत"(बृउ।१ । ४ । ७) इत्यादिश्रुतिभ्यः, कर्माणि चाग्निहोत्रादीनि? शृणु तत्र कारणम्- आश्रमास्त्रिविधा हीनमध्यमोत्कृष्टदृष्टयः । उपासनोपदिष्टेयं तदर्थम् अनुकम्पया
yadi para evātmā nityaśuddhabuddhamuktasvabhāva ekaḥ paramārthaḥ san"ekamevādvitīyam" (chā.u.6 / 2 / 2) ityādiśrutibhyo 'sadanyatkimartheyamupāsanopadiṣṭā"ātmā vā9re draṣṭavyaḥ"(bṛ.u.2 / 4 / 5) "ya ātmāpahatapāpmā"(chā.u.8 / 7 / 1,3) "sa kratuṃ kurvīta"(chā.u.3 / 14 / 1) "ātmetyevopāsīta"(bṛ.u.1 / 4 / 7) ityādiśrutibhyaḥ, karmāṇi cāgnihotrādīni? śṛṇu tatra kāraṇam- āśramāstrividhā hīnamadhyamotkṛṣṭadṛṣṭayaḥ / upāsanopadiṣṭeyaṃ tadartham anukampayā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.