"यत्र त्वस्य सर्वमात्मैवाभूत्"(बृउ।२ । ४ । १८) इति परमार्थतो द्वैताभावः श्रुत्योक्तस्तमाश्रित्याह- हेतोर् आदिः फलं येषाम् आदिर् हेतुः फलस्य च । हेतोः फलस्य चानादिः कथं तैर् उपवर्ण्यते
"yatra tvasya sarvamātmaivābhūt"(bṛ.u.2 / 4 / 18) iti paramārthato dvaitābhāvaḥ śrutyoktastamāśrityāha- hetor ādiḥ phalaṃ yeṣām ādir hetuḥ phalasya ca / hetoḥ phalasya cānādiḥ kathaṃ tair upavarṇyate
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.