निरवयवानां तु बुद्ध्यादीनाम् अवयवविश्लेषात्मकानित्यत्वासम्भवाद् यो ऽयम् आत्मनो ऽपरिणामरूपेणावस्थानं तन्नाशित्वम् इत्य् आह -- बुद्धीति। नाशित्वम् अनित्यतेति नित्यतायाः स्वरूपं दर्शयति -- नित्यत्वम् इति। वस्तुत्वस्य सत्तातः केचिद् भेदं मन्यन्ते, तत् तु नेष्यत इत्य् आह -- वस्तुत्वम् इति। सत्तैव वस्तुत्वं नापरं किञ्चिद् इत्य् आकृतिग्रन्थे वक्ष्यत इति
niravayavānāṃ tu buddhyādīnām avayavaviśleṣātmakānityatvāsambhavād yo 'yam ātmano 'pariṇāmarūpeṇāvasthānaṃ tannāśitvam ity āha -- buddhīti. nāśitvam anityateti nityatāyāḥ svarūpaṃ darśayati -- nityatvam iti. vastutvasya sattātaḥ kecid bhedaṃ manyante, tat tu neṣyata ity āha -- vastutvam iti. sattaiva vastutvaṃ nāparaṃ kiñcid ity ākṛtigranthe vakṣyata iti
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.