इति। बौद्धगन्धिमीमांसकैर् अप्य् उक्तं - संवित्तयैव हि संवित् संवेद्यते न तु संवेद्यतया नास्याः कर्मभावो विद्यते इति। दृष्टान्ताभाववचनम् अपि चासमर्थम्। न हीदानीम् अनुमानतो बौद्धस्य प्रत्यवस्थानं, येन दृष्टान्ताभाववचनेनोपालभ्यते। निरालम्बनानुमानस्य प्रत्यक्षबाध उक्ते सम्प्रति प्रत्यक्षशक्तिपरीक्षयैव प्रत्यवस्थितं न ज्ञानं बहिरर्थे प्रवर्तितुं शक्तं ग्राह्यलक्षणायोगादित्यादिभिः। अतः किं दृष्टान्ताभाववचनेनोपालभ्यते। अत्रोच्यते -- एवं हि मन्यते। अवश्यम् अयं ग्राह्यग्राहकभावः संविदो बौद्धैर् अभ्युपगन्तव्यः, कथम् अन्यथा सैव सिध्यति। न ह्य् अग्रहणकर्मणः कस्यचित् सिद्धिर् अस्ति। ननु स्वप्रकाशः प्रकाशः किम् अस्य प्रकाशान्तरेण। स्वप्रकाश इति को ऽर्थः। स्वयम् एव प्रकाशते न तु प्रकाशान्तरम् अपेक्षत इति। किं पुनर् इदं प्रकाशत इति प्रकाशाद् अर्थान्तरवचनं, न वा। यद्य् अर्थान्तरवचनम्, अस्ति तर्हि संविदो ऽप्य् अपरः प्रकाशः। अन्यथा प्रकाशत इत्य् अनधिकार्थम् अवचनीयम् एव। स्वरूपं हि संवित्पदेनैवोपात्तम्। अतः प्रतीतिकर्मतैव संविदः प्रकाशतेपदार्थो घटः प्रकाशत इतिवत्। स्याद् एतत्। कर्तृप्रतिनिर्देशो ऽयं नातः कर्मभावो ऽवसीयत इति। नैवम्। एवम् अपि प्रकाशतेपदार्थस्य कर्तृभावो वाच्यः। नासाव् असति प्रकाशभेदे सिध्यति, अद्वितीयस्य भेत्तुम् अशक्यत्वात्। अतो नाप्राप्तस्य सिद्धिर् अस्ति। न चापि कर्मणः प्राप्तिर् अस्तीति सत्याः संविदो ऽवश्यं प्राप्यकर्मता भावान्तरवद् वक्तव्या नान्या गतिर् अस्ति। नन्व् अर्थः कर्म, आत्मा कर्ता, संवित्तु फलं, तत् कथं कर्मेत्य् उच्यते। न। फलस्याप्य् अप्रतीतिकर्मणः सिद्ध्यसम्भवात्। अन्यथा मातृमेययोर् अपि स्वप्रकाशापातात् किं तत्सिद्ध्यर्थं संविदभ्युपगमेन। न प्रयोजनतः संविदं सङ्गिरामहे, अपि तु प्रतीतितः। प्रतीमो हि वयं मातृमेयगोचरां फलभूतां संविदम्। न ततो ऽपि भिन्नाम् अपराम् इति तावत्य् एव व्यवतिष्ठामहे। मैवम्। निराकृतम् इदं नानाकारा धीर् उपलभ्यत इति। न हि नः संवित्प्रकाशवदर्थप्रकाशो ऽपि भासते, नीलाद्याकारमात्रप्रकाशात्। नन्व् अप्रकाशात्मानो घटादयः प्रकाशान्तरम् अपेक्षन्ताम्। संविदस् तु तद्रूपायाः किम् इति प्रकाशान्तरापेक्षया। न, अतद्रूपत्वात्। संविदो ऽपि हि न स्वात्मप्रकाशात्मत्वं, अर्थप्रकाशो ह्य् असौ। २,१२० वक्ष्यति च - ईदृशं वा प्रकाशत्वं तस्येति। अतो ऽवश्याभ्युपगन्तव्यः संवित्सिद्धये प्रकाशभेदः। किम् इदानीम् असिद्धैव संवित् संवेद्यं साधयति संविदन्तरसिद्धा वा। न तावत् पूर्वः कल्पः। अप्रसिद्धा ह्य् असती न संविद् व्यवहाराय घटत इत्य् उक्तम्। संविदन्तराधीनायां तु सिद्धाव् अव्यवस्थापात इत्य् उक्तम्। सत्यम्। न संविदन्तराधीनसिद्धिः संवित् संवेद्यं साधयति। स्वरूपसत्य् एव तु। कथम् अधीविषया सतीति चेद्, न धीविषयभावः सत्ता। किन् तु सामान्यम् उत्पत्त्युत्तरकालभावि तद्वताम्। अतो मृत्सलिलप्रच्छन्नबीजादिवदविदितस्वरूपसामर्थ्यैव संविद् विषयं व्यवस्थापयति। स च व्यवस्थितः सत्यां जिज्ञासायां संविदं संविदन्तराधानेन साधयति। नन्व् इयं विषयसामर्थ्येन संवित्सिद्धिः प्रत्युक्ता वस्त्वन्तरं प्रकल्प्यं स्यात् इत्य् अत्र यथा न प्रत्युच्यते तथानन्तरम् एव वक्ष्यामः यावज्जिज्ञासितज्ञानाद् अव्यवस्थापि नापतेत् । इति। अत एव सहोपलम्भनियमो ऽपि परैर् उक्तो ऽस्मान् प्रत्यसिद्ध एव। विषयवित्तिकाले संविदो ऽनुपलम्भात्। विषयमात्रम् एव हि इदं नीलम् इति नश् चकास्ति, नाहं नीलम् इति। संवित्प्रकाशे च तथा प्रकाशानुपपत्तिः। न हि स्वगोचरा संवित् परनिरूपणात्मिका भवति, स्वपरवेद्ययोर् इदम् अहङ्कारयोर् अविशेषापत्तेः। अयं स्वात्मानम् अहम् इति प्रतिनिर्दिशति परम् इदम् इति। न त्व् अभेदेनेदङ्कारम् अहङ्कारं चोभयम् एकत्र प्रयुङ्क्ते। अतो नास्तीदं नीलम् इत्य् अत्र संविदुपलम्भ इत्य् असिद्धो हेतुः। स्वप्रकाशसंविद्वादिनाम् एव त्व् अयम् उपालम्भ इत्य् उक्तम्। स्याद् एतत्। अज्ञातो ज्ञापकहेतुः कथं ज्ञापयतीति। नायं दोषः। अज्ञातस्यापि चक्षुषो ज्ञानजननोपलब्धेः। ननु चक्षुर् अङ्कुरस्येव बीजं ज्ञानस्य कारकम् एवेति युक्तम् अज्ञातस्यापि जनकत्वम्। मैवम्। ज्ञानहेतोर् एव ज्ञापकत्वसमाख्यानात्। अपि च न ज्ञानं ज्ञापकहेतुः ज्ञानत्वात्। ज्ञानस्य हि जनका धूमादयो ज्ञापकाः न ज्ञानम् एवेति कथम् अज्ञापकस्य ज्ञापकधर्मा आपाद्यन्ते। स्वरूपसत्यैव संविदा विषयः साध्यते। सा तु पश्चाज्ज्ञानान्तरेण साध्यत इति। असति तु ग्राह्यत्वे संविद् एव न सिद्ध्येद् इत्य् आपाद्य ग्राह्यग्राहकत्वम् एकत्वे दूषणम् उच्यते नैकत्राद्वितीये तत् सिध्यतीति। यद् अपि च संवेदनम् असत्यभेदे नीलसंवेदनयोर् अनुपपन्नम् इति। तद् अप्य् अनेनैव निराकृतम्। २,१२१ विपरीतम् इदम् उच्यते -- ऐकात्म्ये संवेदनम् इति, भेदाश्रयत्वाद् ग्राह्यग्राहकभावस्य, स्वप्रकाशत्वनिषेधाच् च। एकं हि तत्त्वम् अविभागं नात्मनि वर्तितुम् अर्हति। स्वात्मनि क्रियाविरोधात्, न ह्य् अङ्गुल्यग्रम् आत्मनात्मानं स्पृशति सूच्यग्रं वा विध्यति। कर्मकर्तारो हि तद्धर्मभेदाश्रयणेनैवोभयथा विवक्ष्यन्ते केदारादयो लवनादौ न त्व् एकान्तम् एकात्मानः। आत्मनो ऽपि ग्राह्यग्राहकभावम् अनन्तरम् एव समाधास्यतीति सिद्धं नैकस्य ग्राह्यग्राहकभाव इति। यत् तु भेदे ग्राह्यलक्षणायोग इति। तद् यद्य् उत्पत्तिसारूप्याभिप्रायेण तदनुमन्यामह एव उक्तदोषत्वाद् एवंविधस्य ग्राह्यत्वस्य। यत् तु ज्ञानोत्पत्तौ सञ्चे(?द्य।त्य)ते तद् ग्राह्यं, कथम् अनात्मभूतम् असम्बद्धं सञ्चेत्यते। एवं ह्य् एकम् एव ज्ञानं विश्वं गोचरयेद्, असम्बन्धाविशेषात्। अस्ति वा ऐकात्म्ये नीलसंवेदनयोः सम्बन्धः। नन्व् असौ भेदाधिष्ठानः कथम् एकत्राविभाग आस्पदं लभते। स्याद् एतत्। ऐकात्म्ये ऽपि किं सम्बन्धेन, स ह्य् एकात्मा स्वप्रकाश एवेति। मैवम्। उक्तो हि स्वात्मनि वृत्तिविरोधः। तस्माद् भिन्नम् एव संवेदनान् नीलं ग्राह्यलक्षणम् उपनिपततीति तद्ग्रहे भेदम् आतिष्ठामहे। अभेद एव तूक्तेन प्रकारेण ग्राह्यलक्षणायोगः। यदा तु ज्ञानार्थयोः सारूप्यनिराकरणार्थं स्थूलानुपपत्तिश् चलाचलोपलम्भादिभिर् आपादिता, तां वनोपन्यासावसरे परिहरिष्यामः। सारूप्येण तु ग्राह्यताम् अनातिष्ठन्तो नेह स्थूलसिद्धाव् आद्रियामहे। तद् एकप्रकाराभिहतम् एव हेतुत्रयम्। कथम् इदानीम् असम्बद्धं प्रकाशते। तत्प्रकाशे वा नातिप्रसङ्गः। नासम्बद्धं प्रकाशते। इन्द्रियाणि हि प्रकाशकानि। तानि च प्राप्यकारित्वाद् अर्थेन सम्बद्धान्य् एवार्थविषयम् आत्मनि ज्ञानं जनयन्ति। तैश् चासन्निहितम् अवर्तमानं वा न प्राप्यत इति नातिप्रसक्तिः। ज्ञानं तु न प्रकाशकं प्रकाशत्वात्। प्रकाशकं च नासम्बद्धं प्रकाशकं प्रदीपवद् इति तत्प्रकारजुषाम् इन्द्रियाणाम् इष्ट एव सम्बन्धः। तत् किम् असम्बन्ध एव ज्ञानार्थयोः। यद्य् एवं कथं घटस्य ज्ञानं नासम्बन्धः। विषयविषयिभावो ऽपि सम्बन्ध एव। स चास्ति ज्ञानार्थयोः। संयोगस् तु नेष्यते समवायो वा। को ऽयं विषयार्थः। येयं प्रतीतिकर्मता। प्रतीतिर् इति हि क्रिया। अस्याम् आत्मा कर्ता। इन्द्रियाणिकरणम्। अर्थः कर्म। तद् येयम् अर्थस्य प्रतीतौ कर्मकारकता तद् एव तस्य विषयत्वं तच् च रूपं प्रतीतेः प्रागभूतं परस्तान् निष्पद्यत इत्य् अवश्यम् आश्रयणीयम्। अन्यथा ज्ञाताज्ञातयोर् अविशेषापत्तेः। २,१२२ तद् एव ज्ञातता(?ति।दि)पदास्पदं ज्ञानज्ञाने लिङ्गं, कथं पुनस् तदप्रतीतायां प्रतीतौ प्रतीयते। ज्ञानविशिष्टता हि ज्ञातता। सा कथम् अज्ञाते विशेषणे ज्ञायते। अज्ञाता वा लिङ्गम् अनुपपद्यमाना वा न ज्ञानं गमयति। न ह्य् अज्ञातं लिङ्गम् अनुपपद्यमानं वा लिङ्गिनम् उपपादकं वोपस्थापयति। तद् इतरेतराश्रयं, ज्ञानज्ञाततयोर् इतरेतराधीनसिद्धित्वात्। स्वरूपमात्रेण त्व् अर्थो न लिङ्ग(?म् इ।म् अ)तिप्रसङ्गाद् इत्य् उक्तम् एव। भवेद् एवं यदि ज्ञानप्रतीतौ ज्ञातः प्रतीतो भवेत् तदुत्पत्तौ तु स प्रतीत इत्य् उच्यते। अतः स्वयं सिद्धो ज्ञानं साधयति। यत् तु ज्ञानविशिष्टता ज्ञाततेति। तन् न। तत्कर्मता हि सेत्य् उक्तम् एव। तत्कर्मभावश् चार्थस्य न तत्प्रतीतौ सम्भवति। किन् तर्हि। तदुत्पत्तौ। तद् अयम् उत्पत्त्यैव ज्ञानस्याप्राप्तपूर्वो विषयः सम्प्रति प्राप्तो ज्ञानम् उपकल्पयति। एष हि प्राग् ज्ञानोत्पत्तेः सुस्वापादावन्ध इवासीत्, न कञ्चिद् विषयम् अज्ञासीत्। तत् केयम् आकस्मिकी विषयाणां प्राप्तिर् इति चिन्तयति -- न हि कदाचिद् भुवाम् अकस्माद् भावः सम्भवति। अहेतुसापेक्षस्य गगनवन्नित्यभावापत्तेः। अभावो वा तत्कुसुमवद् इति भवितव्यम् अस्य कदाचिद्भवतो ऽर्थसन्निकर्षस्य केनापि कारणेन। न ह्य् असौ तथाविधः स्वरूपेणैव, नित्यतथात्वापत्तेः। नेन्द्रिय वशेन। तेष्व् अपि सत्सु सुस्वापादावदर्शनाद् अर्थतथात्वस्य जागरायां चाव्याप्रियमाणेषु। अस्तु तर्हि तद्व्यापार एव तथात्वे हेतुर् अर्थस्य। न, सत्य् अप्य् अभावात्। अस्ति खल्व् अस्य नानार्थैः सन्निकृष्यमाणानाम् इन्द्रियाणाम् असाधारणो व्यापारः। किञ्चिद् एव तु कदाचिज्ज्ञातं भवति। एवम् एवात्ममनसोर् अपि सतोर् अर्थतथात्वादर्शनाद् अहेतुत्वं तथात्वेन। नन्व् अव्यभिचारी मनसो योगस् तद्भावे हेतुर्भविष्यतीति। कस्य इन्द्रियाणाम् आत्मनो वा। तन् न तावदिन्द्रियाणाम्। यद् एव हि किञ्चिद् बहिरिन्द्रियं चक्षुरादि कार्यदर्शनवशान् मनसा संयुक्तम् इत्य् अवगतं तद् एव किञ्चिज् ज्ञापयति। नेतरत् तदिन्द्रियमनोयोगहेतुकत्वेन युज्यते ज्ञातत्वस्येति तद्योगो न हेतुत्वेन कल्प्यते। आत्मन्य् अपि मनोयुक्ते कस्य हेतोः किञ्चिद् एव ज्ञातं नापरम्। येनेन्द्रियं सन्निकृष्यते चक्षुरादि तदात्ममनोयोगाज् ज्ञातं भवतीति चेद्, न। उक्तव्यभिचारत्वात्। चक्षुस्सन्निकृष्टम् अपि हि किञ्चिद् एव कदाचिज्ज्ञातं भवति नापरं, तदसति विशेषे नावकल्पते। अपि च ज्ञानकर्मता ज्ञातत्वं चेतना ज्ञानम् इति चानर्थान्तरम् इति लोकसिद्धम्। तद् यद्य् आत्ममनोयोगश् चेतना, तस्योभयसाधारण्याद् मनश् चैतन्यप्रसङ्गो २,१२३ वर्णितः। न ज्ञानं चेतना, अपि तु संवेदनम् इति चेत्। अस्ति वानयोर् विशेषः। नन्व् एवं नीलं जानाति संवेत्तीति च सह प्रयुज्येत, अर्थभेदेनापर्यायत्वाद् इति नात्ममनस्संयोगो ज्ञानम्। अतो न तत्प्रभावितं भावानां ज्ञातत्वम्। सो ऽयम् अहेतुकः प्राप्यकर्मभावो ऽर्थस्य ज्ञाततात्माजन्यो नावकल्पते। हेत्वभावेन कार्याभावप्रतिबद्धेन तदनुमानात्। सेयं प्रत्यक्षादीनाम् अनुमानविरोधानुपपत्तिः। तानि ह्य् अर्थं प्रापयन्ति। हेत्वभावानुमानं च तत्प्राप्तिं प्रतिक्षिपति। सेयम् अनुपपत्तिर् ज्ञानकल्पनया समाधीयते। अस्ति कश्चिदात्मसमवायी ज्ञानसंवेदनादिपदपर्यायवाच्यो जानातिधातूपादानः क्रियाभेदो यस्मिन्न् अर्थानां प्राप्यकर्मतेति। ननु ज्ञानं गुणः गुणकाण्डेर् पाठात् न तु क्रिया। अतः कथं तस्यार्थः कर्मेत्य् उच्यते। न हि विभोर् आत्मनः स्पन्दसमवायः सम्भवति। न चापरिस्पन्दात्मिका क्रिया, पञ्चानाम् अपि कर्मणां स्पन्दात्मकत्वात्। न। धात्वर्थमात्रस्य क्रियात्वात्। वक्ष्यति च -- क्रिया धात्वर्थमात्रं स्यात् इति। बुध्यत इत्यादिभ्यश् च शब्देभ्यः क्रियाप्रत्यय एवोपजायमानो दृश्यते पूर्वापरीभावावगतेः। अतो युक्तैव ज्ञानकर्मता विषयाणां ज्ञानाकारवादिनाम्। अपि चावश्यम् अप्राप्तपूर्वस्य नीलादेः प्राप्तिर् वक्तव्या। अन्यथा प्रागिवोत्तरकालम् अप्य् अप्रतिभासमाने विषयाकारे आन्ध्यम् एव जगतो भवेत्। भासते विषयाकारो न केनचित् प्राप्यत इति चेत्, कस्य भासते। यदि न कस्यचित्, किंकृतो व्यवहारभेदः। एको हि नीलं विद्वांस् तदुपाददानो दृश्यते। नापरो विद्वान्। सो ऽयं स्वतन्त्रे नीले किंकृतो विशेषः। न हि स्वतन्त्रो भासमानः सर्व(?स्या।स्य) स्यान् न वा कस्यचिद् वनवह्निर् इवानुपलभ्यमानः केनापि। अतो ऽवश्यम् अस्य क्वचित् सन्ताने प्राप्तिर् वक्तव्या। तथा च यदाभासं प्रमेयं तद् इति पठन्ति। न चाप्रमाकर्मणः प्रमेयता सम्भवति। अस्त्य् अयं प्रमेयादिविभागः, किन् तु भ्रान्तिपरिकल्पितः। तथा चोक्तम् -- अविभक्तो ऽपि बुद्ध्यात्मा इति। सत्यम् उक्तम्। अयुक्तं तु तत्। एवं हि न किञ्चित् पारमार्थिकं नाम भवेत्। चिन्मात्रतापि हि प्रतीतिवशाद् एवाश्रीयते। तद्वद् एव तु विषयाकारो ऽपि भासमानः कथम् अपारमार्थिको भवेत्। तद्विपर्यस्तत्वे वा कथं संवित्स्वरूपम् अविपर्यस्तं भवेत्। उभयत्रापि बाधादर्शनात्। अतः संविद् एवात्मनो भिन्नम् अर्थम् इदम् इति दर्शयन्ती नान्यथा वक्तुं शक्यत इति सिद्धम् इदम् इति बहिः प्रसिद्धो विषयो ज्ञानं साधयतीति। २,१२४ यत् तूक्तम् अर्थस्थो धर्मः परेणापि ज्ञातो ज्ञानं गमयेद् इति। तद् अयुक्तम्। अर्थो हि ज्ञातो ऽनुपपद्यमानो ज्ञानकल्पनायां हेतुर् उक्तः। न चासौ सर्वस्य तथा भवति। यस्यैव तु ज्ञानम् उत्पन्नं तस्यासौ ज्ञात इति प्रतीतिसाक्षिकम् एव। यथा यस्यैव गमनं तस्यैव देशान्तरप्राप्तिर् भवति असत्य् अपि गतिज्ञाने। किम् आत्मकः पुनरर्थस्थो धर्मः। उक्तं कर्मकारकतेति। ननु कर्मशक्तिर् अप्रत्यक्षसिद्धा कथं ज्ञानं गमयति। न कर्मशक्त्या ज्ञानं कल्पयामः। कर्मणा त्व् अर्थेन, स तु प्रत्यक्षसिद्ध एव। तस्य चाप्रत्यक्षायाम् अपि शक्तौ कारकान्तरवत् प्रत्यक्षतोपपत्तिः। कारकान्तरशक्तयो ऽपि ह्य् अप्रत्यक्षा एव। न चैतावता तेषाम् अप्रत्यक्षभावः। अतः प्रत्यक्षादिप्रमाणप्राप्तो विषयो ज्ञानकल्पनायां हेतुः। प्राप्तिश् चार्थस्याभूतपूर्वावस्था सर्वस्य स्वसंवेद्येत्य् एके। अन्ये तु हानादिव्यवहारयोग्यतैवार्थस्य प्राप्तिर् इत्य् आहुः। सैव हि ज्ञातत्वम्। तद् एव हि ज्ञानफलम्। क्रियाफलभागिता च कर्मत्वम्। सर्वथा सिद्धं ज्ञाताद् अर्थाज् ज्ञानानुमानम्। ये ऽपि प्रत्यक्षैव संवित् स्वात्मानं विषयवदवस्थापयतीति मन्यन्ते, तैर् अपि ज्ञानोत्पत्तेः प्रागभूतः परस्ताद् भाव्यर्थगतो धर्मभेदो ऽभ्युपगन्तव्यः। न तु ज्ञानप्रत्यक्षतैवार्थप्रत्यक्षता। न ह्य् अन्यस्मिन् प्रत्यक्षे ऽन्यत् प्रत्यक्षं भवति, अतिप्रसङ्गात्। यदि संवित्प्रत्यक्षतैवार्थप्रत्यक्षता भवेद्, अनुमेयादीनाम् अप्य् आपद्येत। अनुमानसंविदो ऽपि प्रत्यक्षत्वात्। अतो ऽवश्यं स्वगत एवार्थस्य विशेषो वक्तव्यः, येन प्रत्यक्षेतरते व्यवतिष्ठेते। अतः सिद्धं नाप्रमाणिका ज्ञेयसिद्धौ ज्ञानकल्पनेति द्वैतसिद्धिः। सर्वसंविदां त्व् आनर्थक्ये विषयाकारप्रत्यभिज्ञा निर्निबन्धनैव भवेत्। एव हि पूर्वेद्युर्दृष्टम् अर्थम् अपरेद्युः प्रत्यभिजानाति। तज्ज्ञानेन सह निरुद्धस्याकारस्य नोपलभ्यते। अन्यः खल्व् अयम् अद्य भुवो ज्ञानस्याकारः। अन्यश् चासौ यः प्राङ् निरूपितनिरुद्धः। कतरद् अत्र प्रत्यभिजानीमः। प्रमाणेतरविभागो ऽपि सर्वसंविदाम् आनर्थक्ये ऽनुपपन्नः। न चार्थक्रियाकारिज्ञानसदसद्भावनिबन्धनो ऽसाव् इति युक्तम्। स्वप्नपरिदृष्टेष्व् अप्य् अर्थेषु (?का।क्व)चिदर्थक्रियाकारिज्ञानोदये प्रामाण्यप्रसङ्गात्। बाध्यते स्वप्नज्ञानम्[७२६]अनन्तरम्, अतो न प्रमाणम् इति चेत्, जाग्रज्ज्ञानम् अपि योग्यवस्थायां बाध्यत एवेति कथं प्रमाणम्। अथ तच्चिरेण बाध्यत इत्य् उच्यते, नैतावता विशेषेण सत्यम् इत्थ्यात्वे भवतः। न हि मायासुवर्णज्ञाने चिरेण विसंवादो दृश्यत २,१२५ इति तत् प्रमाणम्। अतो यत् प्रमाणं तत् प्रमाणम्, अप्रमाणं चाप्रमाणं न त्व् अर्धजरतीयम् उपपद्यते। अतः सिद्धं ज्ञानाद् भिन्न एवार्थो ग्राह्यलक्षणानुयायी ज्ञानं च साधयतीति। दृष्टान्ताभाववचनम् अपि नानुमानदूषणार्थं, किन् तु स्वाभिप्रेतानुमानदूषणपरिहाराय। एवं ह्य् अत्रानुमानम् अन्तर्णीतं नाविभागं द्व्यात्मकम् अविभागत्वाद् अन्यतरांशवद् इति। यदि च कश्चित् कदाचिद् अग्न्यादिषु दर्शनाद् अनैकान्तिकतां ब्रूयात्, तदर्थम् इदम् उक्तं न चैकस्यैवमात्मत्वे दृष्टान्तः कश्चिद् अस्ति ते इति। तच् चैतद् उपरिष्टात् प्रपञ्चयिष्यतीति
iti. bauddhagandhimīmāṃsakair apy uktaṃ - saṃvittayaiva hi saṃvit saṃvedyate na tu saṃvedyatayā nāsyāḥ karmabhāvo vidyate iti. dṛṣṭāntābhāvavacanam api cāsamartham. na hīdānīm anumānato bauddhasya pratyavasthānaṃ, yena dṛṣṭāntābhāvavacanenopālabhyate. nirālambanānumānasya pratyakṣabādha ukte samprati pratyakṣaśaktiparīkṣayaiva pratyavasthitaṃ na jñānaṃ bahirarthe pravartituṃ śaktaṃ grāhyalakṣaṇāyogādityādibhiḥ. ataḥ kiṃ dṛṣṭāntābhāvavacanenopālabhyate. atrocyate -- evaṃ hi manyate. avaśyam ayaṃ grāhyagrāhakabhāvaḥ saṃvido bauddhair abhyupagantavyaḥ, katham anyathā saiva sidhyati. na hy agrahaṇakarmaṇaḥ kasyacit siddhir asti. nanu svaprakāśaḥ prakāśaḥ kim asya prakāśāntareṇa. svaprakāśa iti ko 'rthaḥ. svayam eva prakāśate na tu prakāśāntaram apekṣata iti. kiṃ punar idaṃ prakāśata iti prakāśād arthāntaravacanaṃ, na vā. yady arthāntaravacanam, asti tarhi saṃvido 'py aparaḥ prakāśaḥ. anyathā prakāśata ity anadhikārtham avacanīyam eva. svarūpaṃ hi saṃvitpadenaivopāttam. ataḥ pratītikarmataiva saṃvidaḥ prakāśatepadārtho ghaṭaḥ prakāśata itivat. syād etat. kartṛpratinirdeśo 'yaṃ nātaḥ karmabhāvo 'vasīyata iti. naivam. evam api prakāśatepadārthasya kartṛbhāvo vācyaḥ. nāsāv asati prakāśabhede sidhyati, advitīyasya bhettum aśakyatvāt. ato nāprāptasya siddhir asti. na cāpi karmaṇaḥ prāptir astīti satyāḥ saṃvido 'vaśyaṃ prāpyakarmatā bhāvāntaravad vaktavyā nānyā gatir asti. nanv arthaḥ karma, ātmā kartā, saṃvittu phalaṃ, tat kathaṃ karmety ucyate. na. phalasyāpy apratītikarmaṇaḥ siddhyasambhavāt. anyathā mātṛmeyayor api svaprakāśāpātāt kiṃ tatsiddhyarthaṃ saṃvidabhyupagamena. na prayojanataḥ saṃvidaṃ saṅgirāmahe, api tu pratītitaḥ. pratīmo hi vayaṃ mātṛmeyagocarāṃ phalabhūtāṃ saṃvidam. na tato 'pi bhinnām aparām iti tāvaty eva vyavatiṣṭhāmahe. maivam. nirākṛtam idaṃ nānākārā dhīr upalabhyata iti. na hi naḥ saṃvitprakāśavadarthaprakāśo 'pi bhāsate, nīlādyākāramātraprakāśāt. nanv aprakāśātmāno ghaṭādayaḥ prakāśāntaram apekṣantām. saṃvidas tu tadrūpāyāḥ kim iti prakāśāntarāpekṣayā. na, atadrūpatvāt. saṃvido 'pi hi na svātmaprakāśātmatvaṃ, arthaprakāśo hy asau. 2,120 vakṣyati ca - īdṛśaṃ vā prakāśatvaṃ tasyeti. ato 'vaśyābhyupagantavyaḥ saṃvitsiddhaye prakāśabhedaḥ. kim idānīm asiddhaiva saṃvit saṃvedyaṃ sādhayati saṃvidantarasiddhā vā. na tāvat pūrvaḥ kalpaḥ. aprasiddhā hy asatī na saṃvid vyavahārāya ghaṭata ity uktam. saṃvidantarādhīnāyāṃ tu siddhāv avyavasthāpāta ity uktam. satyam. na saṃvidantarādhīnasiddhiḥ saṃvit saṃvedyaṃ sādhayati. svarūpasaty eva tu. katham adhīviṣayā satīti ced, na dhīviṣayabhāvaḥ sattā. kin tu sāmānyam utpattyuttarakālabhāvi tadvatām. ato mṛtsalilapracchannabījādivadaviditasvarūpasāmarthyaiva saṃvid viṣayaṃ vyavasthāpayati. sa ca vyavasthitaḥ satyāṃ jijñāsāyāṃ saṃvidaṃ saṃvidantarādhānena sādhayati. nanv iyaṃ viṣayasāmarthyena saṃvitsiddhiḥ pratyuktā vastvantaraṃ prakalpyaṃ syāt ity atra yathā na pratyucyate tathānantaram eva vakṣyāmaḥ yāvajjijñāsitajñānād avyavasthāpi nāpatet | iti. ata eva sahopalambhaniyamo 'pi parair ukto 'smān pratyasiddha eva. viṣayavittikāle saṃvido 'nupalambhāt. viṣayamātram eva hi idaṃ nīlam iti naś cakāsti, nāhaṃ nīlam iti. saṃvitprakāśe ca tathā prakāśānupapattiḥ. na hi svagocarā saṃvit paranirūpaṇātmikā bhavati, svaparavedyayor idam ahaṅkārayor aviśeṣāpatteḥ. ayaṃ svātmānam aham iti pratinirdiśati param idam iti. na tv abhedenedaṅkāram ahaṅkāraṃ cobhayam ekatra prayuṅkte. ato nāstīdaṃ nīlam ity atra saṃvidupalambha ity asiddho hetuḥ. svaprakāśasaṃvidvādinām eva tv ayam upālambha ity uktam. syād etat. ajñāto jñāpakahetuḥ kathaṃ jñāpayatīti. nāyaṃ doṣaḥ. ajñātasyāpi cakṣuṣo jñānajananopalabdheḥ. nanu cakṣur aṅkurasyeva bījaṃ jñānasya kārakam eveti yuktam ajñātasyāpi janakatvam. maivam. jñānahetor eva jñāpakatvasamākhyānāt. api ca na jñānaṃ jñāpakahetuḥ jñānatvāt. jñānasya hi janakā dhūmādayo jñāpakāḥ na jñānam eveti katham ajñāpakasya jñāpakadharmā āpādyante. svarūpasatyaiva saṃvidā viṣayaḥ sādhyate. sā tu paścājjñānāntareṇa sādhyata iti. asati tu grāhyatve saṃvid eva na siddhyed ity āpādya grāhyagrāhakatvam ekatve dūṣaṇam ucyate naikatrādvitīye tat sidhyatīti. yad api ca saṃvedanam asatyabhede nīlasaṃvedanayor anupapannam iti. tad apy anenaiva nirākṛtam. 2,121 viparītam idam ucyate -- aikātmye saṃvedanam iti, bhedāśrayatvād grāhyagrāhakabhāvasya, svaprakāśatvaniṣedhāc ca. ekaṃ hi tattvam avibhāgaṃ nātmani vartitum arhati. svātmani kriyāvirodhāt, na hy aṅgulyagram ātmanātmānaṃ spṛśati sūcyagraṃ vā vidhyati. karmakartāro hi taddharmabhedāśrayaṇenaivobhayathā vivakṣyante kedārādayo lavanādau na tv ekāntam ekātmānaḥ. ātmano 'pi grāhyagrāhakabhāvam anantaram eva samādhāsyatīti siddhaṃ naikasya grāhyagrāhakabhāva iti. yat tu bhede grāhyalakṣaṇāyoga iti. tad yady utpattisārūpyābhiprāyeṇa tadanumanyāmaha eva uktadoṣatvād evaṃvidhasya grāhyatvasya. yat tu jñānotpattau sañce(?dya/tya)te tad grāhyaṃ, katham anātmabhūtam asambaddhaṃ sañcetyate. evaṃ hy ekam eva jñānaṃ viśvaṃ gocarayed, asambandhāviśeṣāt. asti vā aikātmye nīlasaṃvedanayoḥ sambandhaḥ. nanv asau bhedādhiṣṭhānaḥ katham ekatrāvibhāga āspadaṃ labhate. syād etat. aikātmye 'pi kiṃ sambandhena, sa hy ekātmā svaprakāśa eveti. maivam. ukto hi svātmani vṛttivirodhaḥ. tasmād bhinnam eva saṃvedanān nīlaṃ grāhyalakṣaṇam upanipatatīti tadgrahe bhedam ātiṣṭhāmahe. abheda eva tūktena prakāreṇa grāhyalakṣaṇāyogaḥ. yadā tu jñānārthayoḥ sārūpyanirākaraṇārthaṃ sthūlānupapattiś calācalopalambhādibhir āpāditā, tāṃ vanopanyāsāvasare parihariṣyāmaḥ. sārūpyeṇa tu grāhyatām anātiṣṭhanto neha sthūlasiddhāv ādriyāmahe. tad ekaprakārābhihatam eva hetutrayam. katham idānīm asambaddhaṃ prakāśate. tatprakāśe vā nātiprasaṅgaḥ. nāsambaddhaṃ prakāśate. indriyāṇi hi prakāśakāni. tāni ca prāpyakāritvād arthena sambaddhāny evārthaviṣayam ātmani jñānaṃ janayanti. taiś cāsannihitam avartamānaṃ vā na prāpyata iti nātiprasaktiḥ. jñānaṃ tu na prakāśakaṃ prakāśatvāt. prakāśakaṃ ca nāsambaddhaṃ prakāśakaṃ pradīpavad iti tatprakārajuṣām indriyāṇām iṣṭa eva sambandhaḥ. tat kim asambandha eva jñānārthayoḥ. yady evaṃ kathaṃ ghaṭasya jñānaṃ nāsambandhaḥ. viṣayaviṣayibhāvo 'pi sambandha eva. sa cāsti jñānārthayoḥ. saṃyogas tu neṣyate samavāyo vā. ko 'yaṃ viṣayārthaḥ. yeyaṃ pratītikarmatā. pratītir iti hi kriyā. asyām ātmā kartā. indriyāṇikaraṇam. arthaḥ karma. tad yeyam arthasya pratītau karmakārakatā tad eva tasya viṣayatvaṃ tac ca rūpaṃ pratīteḥ prāgabhūtaṃ parastān niṣpadyata ity avaśyam āśrayaṇīyam. anyathā jñātājñātayor aviśeṣāpatteḥ. 2,122 tad eva jñātatā(?ti/di)padāspadaṃ jñānajñāne liṅgaṃ, kathaṃ punas tadapratītāyāṃ pratītau pratīyate. jñānaviśiṣṭatā hi jñātatā. sā katham ajñāte viśeṣaṇe jñāyate. ajñātā vā liṅgam anupapadyamānā vā na jñānaṃ gamayati. na hy ajñātaṃ liṅgam anupapadyamānaṃ vā liṅginam upapādakaṃ vopasthāpayati. tad itaretarāśrayaṃ, jñānajñātatayor itaretarādhīnasiddhitvāt. svarūpamātreṇa tv artho na liṅga(?m i/m a)tiprasaṅgād ity uktam eva. bhaved evaṃ yadi jñānapratītau jñātaḥ pratīto bhavet tadutpattau tu sa pratīta ity ucyate. ataḥ svayaṃ siddho jñānaṃ sādhayati. yat tu jñānaviśiṣṭatā jñātateti. tan na. tatkarmatā hi sety uktam eva. tatkarmabhāvaś cārthasya na tatpratītau sambhavati. kin tarhi. tadutpattau. tad ayam utpattyaiva jñānasyāprāptapūrvo viṣayaḥ samprati prāpto jñānam upakalpayati. eṣa hi prāg jñānotpatteḥ susvāpādāvandha ivāsīt, na kañcid viṣayam ajñāsīt. tat keyam ākasmikī viṣayāṇāṃ prāptir iti cintayati -- na hi kadācid bhuvām akasmād bhāvaḥ sambhavati. ahetusāpekṣasya gaganavannityabhāvāpatteḥ. abhāvo vā tatkusumavad iti bhavitavyam asya kadācidbhavato 'rthasannikarṣasya kenāpi kāraṇena. na hy asau tathāvidhaḥ svarūpeṇaiva, nityatathātvāpatteḥ. nendriya vaśena. teṣv api satsu susvāpādāvadarśanād arthatathātvasya jāgarāyāṃ cāvyāpriyamāṇeṣu. astu tarhi tadvyāpāra eva tathātve hetur arthasya. na, saty apy abhāvāt. asti khalv asya nānārthaiḥ sannikṛṣyamāṇānām indriyāṇām asādhāraṇo vyāpāraḥ. kiñcid eva tu kadācijjñātaṃ bhavati. evam evātmamanasor api sator arthatathātvādarśanād ahetutvaṃ tathātvena. nanv avyabhicārī manaso yogas tadbhāve heturbhaviṣyatīti. kasya indriyāṇām ātmano vā. tan na tāvadindriyāṇām. yad eva hi kiñcid bahirindriyaṃ cakṣurādi kāryadarśanavaśān manasā saṃyuktam ity avagataṃ tad eva kiñcij jñāpayati. netarat tadindriyamanoyogahetukatvena yujyate jñātatvasyeti tadyogo na hetutvena kalpyate. ātmany api manoyukte kasya hetoḥ kiñcid eva jñātaṃ nāparam. yenendriyaṃ sannikṛṣyate cakṣurādi tadātmamanoyogāj jñātaṃ bhavatīti ced, na. uktavyabhicāratvāt. cakṣussannikṛṣṭam api hi kiñcid eva kadācijjñātaṃ bhavati nāparaṃ, tadasati viśeṣe nāvakalpate. api ca jñānakarmatā jñātatvaṃ cetanā jñānam iti cānarthāntaram iti lokasiddham. tad yady ātmamanoyogaś cetanā, tasyobhayasādhāraṇyād manaś caitanyaprasaṅgo 2,123 varṇitaḥ. na jñānaṃ cetanā, api tu saṃvedanam iti cet. asti vānayor viśeṣaḥ. nanv evaṃ nīlaṃ jānāti saṃvettīti ca saha prayujyeta, arthabhedenāparyāyatvād iti nātmamanassaṃyogo jñānam. ato na tatprabhāvitaṃ bhāvānāṃ jñātatvam. so 'yam ahetukaḥ prāpyakarmabhāvo 'rthasya jñātatātmājanyo nāvakalpate. hetvabhāvena kāryābhāvapratibaddhena tadanumānāt. seyaṃ pratyakṣādīnām anumānavirodhānupapattiḥ. tāni hy arthaṃ prāpayanti. hetvabhāvānumānaṃ ca tatprāptiṃ pratikṣipati. seyam anupapattir jñānakalpanayā samādhīyate. asti kaścidātmasamavāyī jñānasaṃvedanādipadaparyāyavācyo jānātidhātūpādānaḥ kriyābhedo yasminn arthānāṃ prāpyakarmateti. nanu jñānaṃ guṇaḥ guṇakāṇḍer pāṭhāt na tu kriyā. ataḥ kathaṃ tasyārthaḥ karmety ucyate. na hi vibhor ātmanaḥ spandasamavāyaḥ sambhavati. na cāparispandātmikā kriyā, pañcānām api karmaṇāṃ spandātmakatvāt. na. dhātvarthamātrasya kriyātvāt. vakṣyati ca -- kriyā dhātvarthamātraṃ syāt iti. budhyata ityādibhyaś ca śabdebhyaḥ kriyāpratyaya evopajāyamāno dṛśyate pūrvāparībhāvāvagateḥ. ato yuktaiva jñānakarmatā viṣayāṇāṃ jñānākāravādinām. api cāvaśyam aprāptapūrvasya nīlādeḥ prāptir vaktavyā. anyathā prāgivottarakālam apy apratibhāsamāne viṣayākāre āndhyam eva jagato bhavet. bhāsate viṣayākāro na kenacit prāpyata iti cet, kasya bhāsate. yadi na kasyacit, kiṃkṛto vyavahārabhedaḥ. eko hi nīlaṃ vidvāṃs tadupādadāno dṛśyate. nāparo vidvān. so 'yaṃ svatantre nīle kiṃkṛto viśeṣaḥ. na hi svatantro bhāsamānaḥ sarva(?syā/sya) syān na vā kasyacid vanavahnir ivānupalabhyamānaḥ kenāpi. ato 'vaśyam asya kvacit santāne prāptir vaktavyā. tathā ca yadābhāsaṃ prameyaṃ tad iti paṭhanti. na cāpramākarmaṇaḥ prameyatā sambhavati. asty ayaṃ prameyādivibhāgaḥ, kin tu bhrāntiparikalpitaḥ. tathā coktam -- avibhakto 'pi buddhyātmā iti. satyam uktam. ayuktaṃ tu tat. evaṃ hi na kiñcit pāramārthikaṃ nāma bhavet. cinmātratāpi hi pratītivaśād evāśrīyate. tadvad eva tu viṣayākāro 'pi bhāsamānaḥ katham apāramārthiko bhavet. tadviparyastatve vā kathaṃ saṃvitsvarūpam aviparyastaṃ bhavet. ubhayatrāpi bādhādarśanāt. ataḥ saṃvid evātmano bhinnam artham idam iti darśayantī nānyathā vaktuṃ śakyata iti siddham idam iti bahiḥ prasiddho viṣayo jñānaṃ sādhayatīti. 2,124 yat tūktam arthastho dharmaḥ pareṇāpi jñāto jñānaṃ gamayed iti. tad ayuktam. artho hi jñāto 'nupapadyamāno jñānakalpanāyāṃ hetur uktaḥ. na cāsau sarvasya tathā bhavati. yasyaiva tu jñānam utpannaṃ tasyāsau jñāta iti pratītisākṣikam eva. yathā yasyaiva gamanaṃ tasyaiva deśāntaraprāptir bhavati asaty api gatijñāne. kim ātmakaḥ punararthastho dharmaḥ. uktaṃ karmakārakateti. nanu karmaśaktir apratyakṣasiddhā kathaṃ jñānaṃ gamayati. na karmaśaktyā jñānaṃ kalpayāmaḥ. karmaṇā tv arthena, sa tu pratyakṣasiddha eva. tasya cāpratyakṣāyām api śaktau kārakāntaravat pratyakṣatopapattiḥ. kārakāntaraśaktayo 'pi hy apratyakṣā eva. na caitāvatā teṣām apratyakṣabhāvaḥ. ataḥ pratyakṣādipramāṇaprāpto viṣayo jñānakalpanāyāṃ hetuḥ. prāptiś cārthasyābhūtapūrvāvasthā sarvasya svasaṃvedyety eke. anye tu hānādivyavahārayogyataivārthasya prāptir ity āhuḥ. saiva hi jñātatvam. tad eva hi jñānaphalam. kriyāphalabhāgitā ca karmatvam. sarvathā siddhaṃ jñātād arthāj jñānānumānam. ye 'pi pratyakṣaiva saṃvit svātmānaṃ viṣayavadavasthāpayatīti manyante, tair api jñānotpatteḥ prāgabhūtaḥ parastād bhāvyarthagato dharmabhedo 'bhyupagantavyaḥ. na tu jñānapratyakṣataivārthapratyakṣatā. na hy anyasmin pratyakṣe 'nyat pratyakṣaṃ bhavati, atiprasaṅgāt. yadi saṃvitpratyakṣataivārthapratyakṣatā bhaved, anumeyādīnām apy āpadyeta. anumānasaṃvido 'pi pratyakṣatvāt. ato 'vaśyaṃ svagata evārthasya viśeṣo vaktavyaḥ, yena pratyakṣetarate vyavatiṣṭhete. ataḥ siddhaṃ nāpramāṇikā jñeyasiddhau jñānakalpaneti dvaitasiddhiḥ. sarvasaṃvidāṃ tv ānarthakye viṣayākārapratyabhijñā nirnibandhanaiva bhavet. eva hi pūrvedyurdṛṣṭam artham aparedyuḥ pratyabhijānāti. tajjñānena saha niruddhasyākārasya nopalabhyate. anyaḥ khalv ayam adya bhuvo jñānasyākāraḥ. anyaś cāsau yaḥ prāṅ nirūpitaniruddhaḥ. katarad atra pratyabhijānīmaḥ. pramāṇetaravibhāgo 'pi sarvasaṃvidām ānarthakye 'nupapannaḥ. na cārthakriyākārijñānasadasadbhāvanibandhano 'sāv iti yuktam. svapnaparidṛṣṭeṣv apy artheṣu (?kā/kva)cidarthakriyākārijñānodaye prāmāṇyaprasaṅgāt. bādhyate svapnajñānam[726]anantaram, ato na pramāṇam iti cet, jāgrajjñānam api yogyavasthāyāṃ bādhyata eveti kathaṃ pramāṇam. atha taccireṇa bādhyata ity ucyate, naitāvatā viśeṣeṇa satyam itthyātve bhavataḥ. na hi māyāsuvarṇajñāne cireṇa visaṃvādo dṛśyata 2,125 iti tat pramāṇam. ato yat pramāṇaṃ tat pramāṇam, apramāṇaṃ cāpramāṇaṃ na tv ardhajaratīyam upapadyate. ataḥ siddhaṃ jñānād bhinna evārtho grāhyalakṣaṇānuyāyī jñānaṃ ca sādhayatīti. dṛṣṭāntābhāvavacanam api nānumānadūṣaṇārthaṃ, kin tu svābhipretānumānadūṣaṇaparihārāya. evaṃ hy atrānumānam antarṇītaṃ nāvibhāgaṃ dvyātmakam avibhāgatvād anyatarāṃśavad iti. yadi ca kaścit kadācid agnyādiṣu darśanād anaikāntikatāṃ brūyāt, tadartham idam uktaṃ na caikasyaivamātmatve dṛṣṭāntaḥ kaścid asti te iti. tac caitad upariṣṭāt prapañcayiṣyatīti
Sanskrit only: no published translation is held for this verse.