२,१०३ यदि त्व् अर्थप्रकाशात् प्राग् ज्ञानं नोत्पद्येतैव, ततो ऽसतो ग्रहणासम्भवान् न गृह्येत, न त्व् एवं भवद्भिर् अपीष्यते। उत्पन्नायाम् एव बुद्धाव् अर्थस्य ज्ञातत्वाभ्युपगमात्। ततः प्रागुत्पन्नस्याग्रहणकारणाभावादाव् अश्यकं तादात्विकं ग्रहणम् इत्य् आह -- प्राक् चार्थेति अस्यान्तेन। यदि तूत्प(?न्नं।न्न) प्रतिबन्धं च केनापि न गृह्यत इत्य् उच्यते नित्यासंवेद्यतैव तर्ह्य् आपद्येत। ततश् चाभाव एव ज्ञानस्य भवेद् इत्य् अभिप्रायेणाह -- न चेद् इति
2,103 yadi tv arthaprakāśāt prāg jñānaṃ notpadyetaiva, tato 'sato grahaṇāsambhavān na gṛhyeta, na tv evaṃ bhavadbhir apīṣyate. utpannāyām eva buddhāv arthasya jñātatvābhyupagamāt. tataḥ prāgutpannasyāgrahaṇakāraṇābhāvādāv aśyakaṃ tādātvikaṃ grahaṇam ity āha -- prāk cārtheti asyāntena. yadi tūtpa(?nnaṃ/nna) pratibandhaṃ ca kenāpi na gṛhyata ity ucyate nityāsaṃvedyataiva tarhy āpadyeta. tataś cābhāva eva jñānasya bhaved ity abhiprāyeṇāha -- na ced iti
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.