अपि च, अहम् इति यो ऽयम् अस्मत्प्रयोगः तत्सम्भिन्ना विशदतरम् आत्मगोचरा संविदुत्पद्यमाना दृश्य(?न्ते।ते।) ज्ञानं तु न स्वगोचरं जातु जायमानम् उपलब्धम्। अतो नात्मद्र्ष्टान्तेन ज्ञानस्योभयरूपता वक्तुं शक्या। न हि तद् अहं नीलम् इति कदाचिद् उत्पद्यमानं दृश्यते। सर्वदेदम् प्रयोगसम्भिन्नबोधात्। अत उपपन्नैवात्मकर्तृकात्मनि संवित्तिः न तु ज्ञान इत्य् आह -- अस्मत्प्रयोगसम्भिन्नेति। अत्रैके वदन्ति कुमारस्वामिवादिनः -- नात्मास्मत्प्रयोगसम्भिन्नबोधवेद्यः। न हि वयं कार्यकारणसङ्घातातिरेकिणम् अयम् अस्मीति पुरुषं बुध्यामहे। पृथिव्यादिद्रव्यानुभव एव स्वप्रकाशः स्वम् आत्मानं स्वप्रकाश्यम् आत्मानं मेयं च द्रव्याद्यवस्थापयति। न हि विषयवित्ताव् अप्रतिसंहिते पुरुषे स्वपरवेद्ययोर् अतिशयः सिध्यति। अतो विषया न बोद्धर्यनवभासमाने भासन्ते। नासौ तेषु। अत एव विषयवेदनोपरमे जडाकाशादिवदात्मनो ऽवस्थानं सङ्गिरन्ते। यदा खल्व् अयं पुरुषः प्रक्षीणाशेषकर्माशयो मुच्यते, तदा ज्ञानकारणानाम् इन्द्रियादीनाम् अभावाद् असति विषयवेदने चिद्रहितः खवद् अवतिष्ठते। निश्शेषवैशेषिकात्मगुणोच्छेदलक्षणम् एव हि मोक्षं मन्यन्ते। न चैवम् अपुरुषार्थत्वं, दुःखोपरमस्यापि पुरुषेणार्थ्यमानत्वात्। संसारिणो हि दुःखेनोद्विग्ना अत्यन्ताय तदुच्छेदम् अभिसन्दधाना गृहेभ्यः प्रव्रजन्तो दृश्यन्ते। न नु सुखम् अप्य् आत्मनो वैशेषिको गुणः। तस्योच्छेदाद् अपुरुषार्थत्वम् अपि भवेत्। मैवम्। सुखम् अपि संसारिणो नानाविधानेकदुःखसङ्कुलं नातिचिरम् अनुवर्तत इति महान्तस् तद् अपि दुःखपक्ष एव निक्षिपन्तो मोक्षायोत्तिष्ठन्ते। अतो नास्ति २,१२८ विषयवेदनोपरमे नरस्य चैतन्यम्। अत एवायम् अहरहस्सुखापे सन्मात्रतयावतिष्ठते। न पुनः किञ्चिज्जानाति। तत्र चानुभवे स्वप्नपरिचितानाम् इवार्थानाम् उपरिष्टात् स्मरणं भवेत्। न चैतद् अस्ति। अतो नानवभासमानेषु विषयेषु बोद्धा प्रख्यायते। न च विषयवित्ताव् अस्मत्प्रयोगसम्भेदः इदम् प्रयोगसम्भेदाद् इति नास्मत्सम्भेदे विषयानवग्रहाद् आत्मग्रहः। नापि विषयवित्ताव् आत्मग्रहे अस्मत्प्रयोगसम्भेद इत्य् असमञ्जसम् अस्मत्प्रयोगसम्भिन्नेति। अत आह -- ज्ञानस्येति। अयम् अभिप्रायः -- अस्मत्प्रयोगसम्भिन्नो ऽस्ति बोधो न वा। यदि नास्ति, जितम् अनुत्तरा गुरवः। सतस् तु किम् आलम्बनम् इति वक्तव्यं शरीरम् इन्द्रियाणि वा। न तावच्छरीरं, ज्ञातृगोचरत्वात्। अहं जानामीति ज्ञातारम् अहंप्रत्ययो ऽवलम्बते। न च शरीरं चेतयते भौतिकत्वाद् भूतानां चाचेतनत्वात्, कारणगुणपूर्वकत्वाच् च कार्यगुणानाम्। अत एव नेन्द्रियाणि ज्ञातॄणि। न च ज्ञानं, प्रत्यभिज्ञानात्। अयं हि पूर्वेद्युर् दृष्टम् अर्थम् उत्तरेद्युः प्रत्यभिजानानः पूर्वापरसाधारणम् आत्मानम् अनुसन्दधाति अहम् इदम् अदर्शम् इति। तत् तु ज्ञानगोचरत्वे ऽनुपपन्नम्। अन्यो हि तदा यः पूर्वेद्युर् दृष्टवान्, अन्यश् चायं यो ऽद्य पश्यति, क्षणिकत्वाज् ज्ञानानाम्। अतः -- बुद्धीन्द्रियशरीरेभ्यो भिन्नो ऽहङ्कारगोचरः । संवित्सामर्थ्यसिद्धत्वान् न जहात्य् उक्तरूपताम् ॥ इति। तद् इदम् उक्तं - ज्ञानस्यैव च कर्तरीति। ज्ञानकर्तुर् हीयम् अस्मत्प्रयोगसम्भिन्ना संवित्तिः, न चान्यो ज्ञानस्य कर्तेत्य् उक्तम्। अतः संविद्बलादेवोभयरूपतात्मनः सिध्यति न त्व् एवमात्मैवात्मानं ज्ञानं जानाति जातुचित् । तद् धीदं नीलम् इति यत् सर्वदा परगोचरम् ॥ यत् तु न कार्यकरणसङ्घातातिरेकिणं प्रतिपद्यामहे इति। किम् एवं देहाद्यालम्बनो ऽहंप्रत्ययः। तत् तावत् प्रत्युक्तम् एव। न चानालम्बनो ऽयम्, अत्रत्यसिद्धान्तात्। तद् अयम् अनालम्बनम् आत्मानम् अलभमानः स्वगोचरं ज्ञातारम् आकर्षति। स प्रतीतिबलसिद्धोभयरूपः पुरुषो न नोपपद्यते। देहेन्द्रियादिसङ्कीर्णस् तु न विविच्योपलक्षयितुं शक्यते अयं नामासौ पुरुष इति। न चैतावता न गृहीतो भवति। न हि क्षीरोदकसंसर्गे विवेकेनागृहीते इति २,१२९ न गृहीतम् उभयम्। एवम् इहापि संमुग्धबुद्धः पुरुषः प्रत्याहारादिकं योगम् अभ्यस्यद्भिर् नित्यनैमित्तिकमात्रानुष्ठायिभिर् अकुर्वद्भिर् निषिद्धं भोगप्रक्षीणाशेषकर्माशयैर् अयम् अस्मीति विविच्यापरोक्षीक्रियते। न त्व् अयं विषयवित्ताव् अप्य् अयं नामेति विविच्यते। ये ऽपि विषयवेदनावसर एव नरो गृह्यते इत्य् आस्थिताः, तैर् अप्य् अस्य विवेको दर्शयितुम् अशक्य एव। अतो नायं दोषः विवेको नावगम्यत इति। न त्व् अयं विषयवेदनावसरे ज्ञायते। न हि तदा तदतिरेकिणः कस्यचित् प्रतीतिर् अस्तीत्य् अनन्तरम् एव वक्ष्यते न त्व् अत्रेत्य् अनेन। संविद् एव तावत् तदा नावभासते, यदायत्तो भावानां भेदः प्राग् एव संवेत्ता। यत् त्व् एवं स्वपरवेद्ययोर् अनतिशय इति। तन् न। यस्य हि ज्ञानम् उत्पन्नं, तस्य विषया भासन्ते इत्य् उक्तम् एव। अतः कथम् उत्पन्नज्ञानेन संविदितम् अन्यो ऽनुभवेत् तेन वा ज्ञातं तदन्यः। न हि बोद्धृसंवेदनकृतः स्वपरवेद्ययोर् भेदः, येनैवम् आपद्येत। एतावतैव ह्य् एकस्यासौ वेद्यः, नापरस्य, यत् तस्य ज्ञानम् उत्पन्नम्। एवम् अपि भवेद् एतद् यद्य् असत्यां बोद्धृवित्तौ विषया न विदिता भवेयुः। तद्वित्तिर् एव वा विषयवेदनं भवेत्। न त्व् एवं, केवलविषयावग्रहात्। अन्यगोचरज्ञानस्यान्यविषयत्वासम्भवात्। एवं चासत्यां विषयवित्तौ पुरुषो न प्रकाशत इत्य् अपि दुरुक्तम्। एवं ह्य् उपरतकरणग्रामस्य मोक्षो मरणम् एव शब्दान्तरेणानुज्ञातो भवेत्। न खल्व् अपि ज्ञानात्मनः पुरुषस्य सदसत्त्वयोर् अस्ति विशेषः। तद् अयम् अपवर्गदशायां प्रकाशत एव। केन पुनर् अयं तदा प्रकाश्यते। न केनचित्। स्वप्रकाश एवेत्य् एके। न त्व् एवं, स्वप्रकाशत्वनिषेधाद् अविभागस्य। तदापि त्व् अयं धर्मधर्मित्वविभागाश्रयणेन प्रत्ययात्मना ग्राहको द्रव्यादिरूपेण ग्राह्य इति वाच्यम्। किम् अस्ति तदा धर्मधर्मिभेदः। को दोषः। श्रुतिविरोधः। श्रूयते हि एकम् अद्वितीयम् इति। न। व्यतिरिक्तग्राह्यनिषेधात्। अन्यथा ह्य् आत्मभेदो ऽपि न सिध्येत्। न चासौ नेष्यते, मुक्तेतराविभागापत्तेः। अपि च अर्थावग्रहनिवृत्त्यर्था एवं विसंवादा इति तत्र तत्रोक्तम्। अतो ऽपवर्गे ऽपि ग्राह्यग्राहकाकार एवात्मा। श्रूयते च जानात्य् एवायं पुरुषो ज्ञातव्यं तु न वेदेति। न हि तदा ज्ञातुर् ज्ञप्तेर् विपरिलोपो विद्यते। न तु विभक्तम् अस्त्य् अन्यद् यतो द्वितीयं जानीयाद् इति। तस्माज् जानातिपदप्रयोगाद् अवगच्छामः यद् अस्ति मोक्षे ऽपि कर्मभावः पुरुषस्येति। जानातेर् अकर्मकस्याप्रयोगात्। इयांस् तु विशेषः यद् अयं भूतेन्द्रियवशो विषयोपरागात् तच्छयाभेदान् २,१३० प्रतिपद्यमानो ऽविभक्तज्ञानशक्तिर् आभासते। निजैव त्व् अस्य चितिशक्तिः। सा असति विषयोपराग आत्मगोचरैवावतिष्ठते। कथम् अकरणिका ज्ञानोत्पत्तिर् इति चेद्, मैवम्। तदानीम् अपि मनसो भावात्। नित्यं हि तदात्मवद् उपेयते। आह च -- प्रत्याहारादिकं योगम् अभ्यस्यन् विहितक्रियः । मनःकरणकेनात्मा प्रत्यक्षेण प्रतीयते ॥ इति। न चैवं विषयवेदनप्रसङ्गः, मनसो बहिरस्वातन्त्र्यात्। विषयवित्तीनां च सुखदुःखहेतुत्वेन कर्मजन्यत्वाद् असति कर्मसंस्कारे ऽनुपपत्तेः। आत्मज्ञानं च न कर्मजन्यम् इति विगलितनिखिलकर्माशयस्यैव निष्पद्यते। केवलज्ञाननिराकरणे ऽपि विषयवेदनान्य् एव प्रत्युक्तानि नात्मज्ञानम्। आह च -- निजं यत्त्वात्मचैतन्यम् आनन्दो ऽध्यक्ष्यते च यः । यच् च नित्यविभुत्यादि तेनात्मा नैव मोक्ष्यते ॥ इति। सुस्वापे ऽपि त्वात्मसंविद् अस्त्य् एवेति केचित्। अत एव सुषुप्तप्रतिबुद्धः सुखम् अहम् अस्वाप्सम् इत्य् आत्मानं प्रतिसन्धत्ते। अथ वा तत्र कर्माशयानुवृत्तेस् तत्परतन्त्रं मनो न केवलम् आत्मानं प्रकाशयति, न विषयवित्तिविरहात्। अतो न विषयसंवेदन एवात्मसंवेदनम्। अपि चैवं मेयमातृगोचरायाम् एकस्यां संविदि भासमानयोः किंकृतः कर्मकर्तृभावः। एवं हि तद्द्विकर्मकं ज्ञानं भवेत्। यत् तूक्तं परसमवायिक्रियाफलभागिता कर्मतेति, तद् अयुक्तम्। यद् एव हि ज्ञानोत्पत्तावाप्यते तत् प्राप्यं कर्म। तथाचात्मेति कथम् अस्याकर्मत्वम्। अपि च केयं क्रिया, यत्समवायात् तत्फलभागितया आत्मनः कर्तृत्वम्। किं पुनस् तत्। उक्तम् आत्म(म)नोयोग इति। नन्व् अस्य मनस्य् अपि समवायात् तस्यापि कर्तृत्वप्रसङ्गः। तत्फलसम्बन्धश् चोभयोर् अप्य् अविशेषाद् आपद्यते। तत्र चोक्तो मनश् चैतन्यप्रसङ्ग इति सिद्धं न विषयवित्तेर् एव त्रयसिद्धिर् इति। यच् चास्मिन् दर्शने दुःखोपरतिर् एव मोक्ष इत्य् उक्तम्। तद् अप्य् अयुक्तम्, आनन्दश्रुतेः। श्रूयते हि विज्ञानम् आनन्दं ब्रह्म आनन्दं ब्रह्मणो रूपम् इति च। तद् एतत् प्रेयः पुत्राद् इति च। न च दुःखनिवृत्तिर् एवानन्दः, अश्मादौ प्रसङ्गात्। स्याद् एतत्। प्रत्यग्वृत्तिर् उपलभ्यमाना दुःखाभावात्मना सुखम्। न चात्मा किञ्चित् प्रत्यग् जानाति अचेतनत्वाद् इति नासौ दुःखायते सुखायते वा। मैवम्। एवम् अपि देहिनो भिन्नावयवसंयोगी सुखदुःखसाधनजन्मा २,१३१ युगपत् सुखदुःखभोगो न स्यात्। दुःखायमान एव ह्य् एकत्र भागे परत्र सुखायते। तद् दुःखनिवृत्तौ सुखे ऽनुपपन्नम्। प्रदेशान्तरे दुःखाभावः सुखम् इति चेद्, न। स्वसंवेद्यत्वाद् आह्लादविशेषस्य, प्रदेशान्तरे दुःखाभावे च सुखे नरकान्तरे दुःखाभावान् नरकान्तरे सुखित्वप्रसङ्गः। तत् तावद् दुःखनिवृत्तिः सुखम्। न चास्याम् आनन्दवादो गौणः, प्रमाणाभावात्। न ह्य् आनन्दश्रुत्यर्थे मुख्ये गृह्यमाणे किञ्चिद् अनुपपन्नं, येन गौणतया व्याख्यायते। अतो विज्ञानम् आनन्दं ब्रह्मेति प्रतिजानीमहे। असञ्चेतितस् त्व् आनन्दो ऽप्य् असत्कल्प एवेति सिद्धम् अन्तरेणैव विषयवेदनम् अस्मत्प्रयोगसम्भिन्नायां संवित्तावात्मा प्रकाशत इति
api ca, aham iti yo 'yam asmatprayogaḥ tatsambhinnā viśadataram ātmagocarā saṃvidutpadyamānā dṛśya(?nte/te.) jñānaṃ tu na svagocaraṃ jātu jāyamānam upalabdham. ato nātmadrṣṭāntena jñānasyobhayarūpatā vaktuṃ śakyā. na hi tad ahaṃ nīlam iti kadācid utpadyamānaṃ dṛśyate. sarvadedam prayogasambhinnabodhāt. ata upapannaivātmakartṛkātmani saṃvittiḥ na tu jñāna ity āha -- asmatprayogasambhinneti. atraike vadanti kumārasvāmivādinaḥ -- nātmāsmatprayogasambhinnabodhavedyaḥ. na hi vayaṃ kāryakāraṇasaṅghātātirekiṇam ayam asmīti puruṣaṃ budhyāmahe. pṛthivyādidravyānubhava eva svaprakāśaḥ svam ātmānaṃ svaprakāśyam ātmānaṃ meyaṃ ca dravyādyavasthāpayati. na hi viṣayavittāv apratisaṃhite puruṣe svaparavedyayor atiśayaḥ sidhyati. ato viṣayā na boddharyanavabhāsamāne bhāsante. nāsau teṣu. ata eva viṣayavedanoparame jaḍākāśādivadātmano 'vasthānaṃ saṅgirante. yadā khalv ayaṃ puruṣaḥ prakṣīṇāśeṣakarmāśayo mucyate, tadā jñānakāraṇānām indriyādīnām abhāvād asati viṣayavedane cidrahitaḥ khavad avatiṣṭhate. niśśeṣavaiśeṣikātmaguṇocchedalakṣaṇam eva hi mokṣaṃ manyante. na caivam apuruṣārthatvaṃ, duḥkhoparamasyāpi puruṣeṇārthyamānatvāt. saṃsāriṇo hi duḥkhenodvignā atyantāya taducchedam abhisandadhānā gṛhebhyaḥ pravrajanto dṛśyante. na nu sukham apy ātmano vaiśeṣiko guṇaḥ. tasyocchedād apuruṣārthatvam api bhavet. maivam. sukham api saṃsāriṇo nānāvidhānekaduḥkhasaṅkulaṃ nāticiram anuvartata iti mahāntas tad api duḥkhapakṣa eva nikṣipanto mokṣāyottiṣṭhante. ato nāsti 2,128 viṣayavedanoparame narasya caitanyam. ata evāyam aharahassukhāpe sanmātratayāvatiṣṭhate. na punaḥ kiñcijjānāti. tatra cānubhave svapnaparicitānām ivārthānām upariṣṭāt smaraṇaṃ bhavet. na caitad asti. ato nānavabhāsamāneṣu viṣayeṣu boddhā prakhyāyate. na ca viṣayavittāv asmatprayogasambhedaḥ idam prayogasambhedād iti nāsmatsambhede viṣayānavagrahād ātmagrahaḥ. nāpi viṣayavittāv ātmagrahe asmatprayogasambheda ity asamañjasam asmatprayogasambhinneti. ata āha -- jñānasyeti. ayam abhiprāyaḥ -- asmatprayogasambhinno 'sti bodho na vā. yadi nāsti, jitam anuttarā guravaḥ. satas tu kim ālambanam iti vaktavyaṃ śarīram indriyāṇi vā. na tāvaccharīraṃ, jñātṛgocaratvāt. ahaṃ jānāmīti jñātāram ahaṃpratyayo 'valambate. na ca śarīraṃ cetayate bhautikatvād bhūtānāṃ cācetanatvāt, kāraṇaguṇapūrvakatvāc ca kāryaguṇānām. ata eva nendriyāṇi jñātṝṇi. na ca jñānaṃ, pratyabhijñānāt. ayaṃ hi pūrvedyur dṛṣṭam artham uttaredyuḥ pratyabhijānānaḥ pūrvāparasādhāraṇam ātmānam anusandadhāti aham idam adarśam iti. tat tu jñānagocaratve 'nupapannam. anyo hi tadā yaḥ pūrvedyur dṛṣṭavān, anyaś cāyaṃ yo 'dya paśyati, kṣaṇikatvāj jñānānām. ataḥ -- buddhīndriyaśarīrebhyo bhinno 'haṅkāragocaraḥ | saṃvitsāmarthyasiddhatvān na jahāty uktarūpatām || iti. tad idam uktaṃ - jñānasyaiva ca kartarīti. jñānakartur hīyam asmatprayogasambhinnā saṃvittiḥ, na cānyo jñānasya kartety uktam. ataḥ saṃvidbalādevobhayarūpatātmanaḥ sidhyati na tv evamātmaivātmānaṃ jñānaṃ jānāti jātucit | tad dhīdaṃ nīlam iti yat sarvadā paragocaram || yat tu na kāryakaraṇasaṅghātātirekiṇaṃ pratipadyāmahe iti. kim evaṃ dehādyālambano 'haṃpratyayaḥ. tat tāvat pratyuktam eva. na cānālambano 'yam, atratyasiddhāntāt. tad ayam anālambanam ātmānam alabhamānaḥ svagocaraṃ jñātāram ākarṣati. sa pratītibalasiddhobhayarūpaḥ puruṣo na nopapadyate. dehendriyādisaṅkīrṇas tu na vivicyopalakṣayituṃ śakyate ayaṃ nāmāsau puruṣa iti. na caitāvatā na gṛhīto bhavati. na hi kṣīrodakasaṃsarge vivekenāgṛhīte iti 2,129 na gṛhītam ubhayam. evam ihāpi saṃmugdhabuddhaḥ puruṣaḥ pratyāhārādikaṃ yogam abhyasyadbhir nityanaimittikamātrānuṣṭhāyibhir akurvadbhir niṣiddhaṃ bhogaprakṣīṇāśeṣakarmāśayair ayam asmīti vivicyāparokṣīkriyate. na tv ayaṃ viṣayavittāv apy ayaṃ nāmeti vivicyate. ye 'pi viṣayavedanāvasara eva naro gṛhyate ity āsthitāḥ, tair apy asya viveko darśayitum aśakya eva. ato nāyaṃ doṣaḥ viveko nāvagamyata iti. na tv ayaṃ viṣayavedanāvasare jñāyate. na hi tadā tadatirekiṇaḥ kasyacit pratītir astīty anantaram eva vakṣyate na tv atrety anena. saṃvid eva tāvat tadā nāvabhāsate, yadāyatto bhāvānāṃ bhedaḥ prāg eva saṃvettā. yat tv evaṃ svaparavedyayor anatiśaya iti. tan na. yasya hi jñānam utpannaṃ, tasya viṣayā bhāsante ity uktam eva. ataḥ katham utpannajñānena saṃviditam anyo 'nubhavet tena vā jñātaṃ tadanyaḥ. na hi boddhṛsaṃvedanakṛtaḥ svaparavedyayor bhedaḥ, yenaivam āpadyeta. etāvataiva hy ekasyāsau vedyaḥ, nāparasya, yat tasya jñānam utpannam. evam api bhaved etad yady asatyāṃ boddhṛvittau viṣayā na viditā bhaveyuḥ. tadvittir eva vā viṣayavedanaṃ bhavet. na tv evaṃ, kevalaviṣayāvagrahāt. anyagocarajñānasyānyaviṣayatvāsambhavāt. evaṃ cāsatyāṃ viṣayavittau puruṣo na prakāśata ity api duruktam. evaṃ hy uparatakaraṇagrāmasya mokṣo maraṇam eva śabdāntareṇānujñāto bhavet. na khalv api jñānātmanaḥ puruṣasya sadasattvayor asti viśeṣaḥ. tad ayam apavargadaśāyāṃ prakāśata eva. kena punar ayaṃ tadā prakāśyate. na kenacit. svaprakāśa evety eke. na tv evaṃ, svaprakāśatvaniṣedhād avibhāgasya. tadāpi tv ayaṃ dharmadharmitvavibhāgāśrayaṇena pratyayātmanā grāhako dravyādirūpeṇa grāhya iti vācyam. kim asti tadā dharmadharmibhedaḥ. ko doṣaḥ. śrutivirodhaḥ. śrūyate hi ekam advitīyam iti. na. vyatiriktagrāhyaniṣedhāt. anyathā hy ātmabhedo 'pi na sidhyet. na cāsau neṣyate, muktetarāvibhāgāpatteḥ. api ca arthāvagrahanivṛttyarthā evaṃ visaṃvādā iti tatra tatroktam. ato 'pavarge 'pi grāhyagrāhakākāra evātmā. śrūyate ca jānāty evāyaṃ puruṣo jñātavyaṃ tu na vedeti. na hi tadā jñātur jñapter viparilopo vidyate. na tu vibhaktam asty anyad yato dvitīyaṃ jānīyād iti. tasmāj jānātipadaprayogād avagacchāmaḥ yad asti mokṣe 'pi karmabhāvaḥ puruṣasyeti. jānāter akarmakasyāprayogāt. iyāṃs tu viśeṣaḥ yad ayaṃ bhūtendriyavaśo viṣayoparāgāt tacchayābhedān 2,130 pratipadyamāno 'vibhaktajñānaśaktir ābhāsate. nijaiva tv asya citiśaktiḥ. sā asati viṣayoparāga ātmagocaraivāvatiṣṭhate. katham akaraṇikā jñānotpattir iti ced, maivam. tadānīm api manaso bhāvāt. nityaṃ hi tadātmavad upeyate. āha ca -- pratyāhārādikaṃ yogam abhyasyan vihitakriyaḥ | manaḥkaraṇakenātmā pratyakṣeṇa pratīyate || iti. na caivaṃ viṣayavedanaprasaṅgaḥ, manaso bahirasvātantryāt. viṣayavittīnāṃ ca sukhaduḥkhahetutvena karmajanyatvād asati karmasaṃskāre 'nupapatteḥ. ātmajñānaṃ ca na karmajanyam iti vigalitanikhilakarmāśayasyaiva niṣpadyate. kevalajñānanirākaraṇe 'pi viṣayavedanāny eva pratyuktāni nātmajñānam. āha ca -- nijaṃ yattvātmacaitanyam ānando 'dhyakṣyate ca yaḥ | yac ca nityavibhutyādi tenātmā naiva mokṣyate || iti. susvāpe 'pi tvātmasaṃvid asty eveti kecit. ata eva suṣuptapratibuddhaḥ sukham aham asvāpsam ity ātmānaṃ pratisandhatte. atha vā tatra karmāśayānuvṛttes tatparatantraṃ mano na kevalam ātmānaṃ prakāśayati, na viṣayavittivirahāt. ato na viṣayasaṃvedana evātmasaṃvedanam. api caivaṃ meyamātṛgocarāyām ekasyāṃ saṃvidi bhāsamānayoḥ kiṃkṛtaḥ karmakartṛbhāvaḥ. evaṃ hi taddvikarmakaṃ jñānaṃ bhavet. yat tūktaṃ parasamavāyikriyāphalabhāgitā karmateti, tad ayuktam. yad eva hi jñānotpattāvāpyate tat prāpyaṃ karma. tathācātmeti katham asyākarmatvam. api ca keyaṃ kriyā, yatsamavāyāt tatphalabhāgitayā ātmanaḥ kartṛtvam. kiṃ punas tat. uktam ātma(ma)noyoga iti. nanv asya manasy api samavāyāt tasyāpi kartṛtvaprasaṅgaḥ. tatphalasambandhaś cobhayor apy aviśeṣād āpadyate. tatra cokto manaś caitanyaprasaṅga iti siddhaṃ na viṣayavitter eva trayasiddhir iti. yac cāsmin darśane duḥkhoparatir eva mokṣa ity uktam. tad apy ayuktam, ānandaśruteḥ. śrūyate hi vijñānam ānandaṃ brahma ānandaṃ brahmaṇo rūpam iti ca. tad etat preyaḥ putrād iti ca. na ca duḥkhanivṛttir evānandaḥ, aśmādau prasaṅgāt. syād etat. pratyagvṛttir upalabhyamānā duḥkhābhāvātmanā sukham. na cātmā kiñcit pratyag jānāti acetanatvād iti nāsau duḥkhāyate sukhāyate vā. maivam. evam api dehino bhinnāvayavasaṃyogī sukhaduḥkhasādhanajanmā 2,131 yugapat sukhaduḥkhabhogo na syāt. duḥkhāyamāna eva hy ekatra bhāge paratra sukhāyate. tad duḥkhanivṛttau sukhe 'nupapannam. pradeśāntare duḥkhābhāvaḥ sukham iti ced, na. svasaṃvedyatvād āhlādaviśeṣasya, pradeśāntare duḥkhābhāve ca sukhe narakāntare duḥkhābhāvān narakāntare sukhitvaprasaṅgaḥ. tat tāvad duḥkhanivṛttiḥ sukham. na cāsyām ānandavādo gauṇaḥ, pramāṇābhāvāt. na hy ānandaśrutyarthe mukhye gṛhyamāṇe kiñcid anupapannaṃ, yena gauṇatayā vyākhyāyate. ato vijñānam ānandaṃ brahmeti pratijānīmahe. asañcetitas tv ānando 'py asatkalpa eveti siddham antareṇaiva viṣayavedanam asmatprayogasambhinnāyāṃ saṃvittāvātmā prakāśata iti
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.