एवं तावद् ननूत्पन्नायाम् इत्यादिभाष्याक्षेपपरिहारौ वर्णितौ। अयम् अपरो ऽस्योत्तरग्रन्थः -- सत्यम्। पूर्वं बुद्धिर् उत्पद्यते न पूर्वं ज्ञायते। भवति हि कदाचिद् एतद् यज्ज्ञातो ऽर्थः सन्नज्ञात इत्य् उच्यते इति। तस्य यथाश्रुतगृहीतस्य तावदर्थम् आह -- यस् त्व् इति। यो ऽस्याः परिचोदनायाः सिद्धान्तग्रन्थः स प्राग् एव निरूपितः केवलग्राहकग्रहणप्रतिपादनावसरे। एवं हि तत्रोक्तं - न पूर्वं ज्ञायते बुद्धिर् इत्य् अत्रैतद् वदिष्यते । ग्राहकस्यैव संवित्तिर् लक्ष्यते ग्रहणे क्वचित् ॥ २,१८८ इति। तद् इदम् उक्तं भवति हि कदाचिद् एतद् यद् ज्ञातो ऽर्थः सन्नज्ञात इत्य् उच्यत इति। अर्थाकारविविक्तं ज्ञानमात्रम् एव स्मर्यत इति यावत्। उक्तं च न स्मरामीति। एवम् उक्तार्थं भाष्यम् आक्षिपति -- न त्व् एतद् इति सार्धेन। सत्यम्। पूर्वं बुद्धिर् उत्पद्यते न तु पूर्वं ज्ञायते इति प्रतिज्ञायाम् अयं हेतुर् उक्तः यत् किल ज्ञातो ऽप्य् अर्थः कदाचिद् अज्ञातवन् न स्मर्यते, तस्मान् न पूर्वं बुद्धिर् ज्ञायते इति। इदं च बालप्रलपितप्रायम्। किं खल्व् अत्र केन सम्बध्यते यज्ज्ञातो न स्मर्यते तत्र पूर्वं बुद्धिर् न ज्ञायत इति, तस्मान् न तावद् एतस्यां प्रतिज्ञायां साक्षात् साधनम् इति
evaṃ tāvad nanūtpannāyām ityādibhāṣyākṣepaparihārau varṇitau. ayam aparo 'syottaragranthaḥ -- satyam. pūrvaṃ buddhir utpadyate na pūrvaṃ jñāyate. bhavati hi kadācid etad yajjñāto 'rthaḥ sannajñāta ity ucyate iti. tasya yathāśrutagṛhītasya tāvadartham āha -- yas tv iti. yo 'syāḥ paricodanāyāḥ siddhāntagranthaḥ sa prāg eva nirūpitaḥ kevalagrāhakagrahaṇapratipādanāvasare. evaṃ hi tatroktaṃ - na pūrvaṃ jñāyate buddhir ity atraitad vadiṣyate | grāhakasyaiva saṃvittir lakṣyate grahaṇe kvacit || 2,188 iti. tad idam uktaṃ bhavati hi kadācid etad yad jñāto 'rthaḥ sannajñāta ity ucyata iti. arthākāraviviktaṃ jñānamātram eva smaryata iti yāvat. uktaṃ ca na smarāmīti. evam uktārthaṃ bhāṣyam ākṣipati -- na tv etad iti sārdhena. satyam. pūrvaṃ buddhir utpadyate na tu pūrvaṃ jñāyate iti pratijñāyām ayaṃ hetur uktaḥ yat kila jñāto 'py arthaḥ kadācid ajñātavan na smaryate, tasmān na pūrvaṃ buddhir jñāyate iti. idaṃ ca bālapralapitaprāyam. kiṃ khalv atra kena sambadhyate yajjñāto na smaryate tatra pūrvaṃ buddhir na jñāyata iti, tasmān na tāvad etasyāṃ pratijñāyāṃ sākṣāt sādhanam iti
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.