इदानीं लक्षणभाष्यव्याख्यानावसरे प्राथम्याद् अनुमानलक्षणम् अनुसन्धास्यति। तत्र च ज्ञातसम्बन्धस्येत्य् उच्यते। तत्र न विद्मः को ज्ञातसम्बन्धसमासार्थ इति। न तावत् पुरुषस् सम्बन्धी समुदायो वा। अनुपादानात्। न ह्य् अनुपात्तान्यपदार्थको बहुव्रीहिर् भवति। ननु बुद्धिसम्बन्धोपस्थापितः पुरुषस् समुदायिद्वयाक्षिप्तस् समुदायो वा विशेष्यते। बुद्धिर् हि स्वशब्दाद् अवगता तद्वन्तम् अन्तरेणात्मानम् अलभमानोपस्थापयति स्वाश्रयम् इति नानुपादानदोषः। नैतद् एवम्। गम्यमानस्याविशेषणात्। न खलु धूमशब्दार्थाविनाभावाद् अवगतो ऽग्निर् ज्वलतीति विशेष्यते। वक्ष्यति च -- गम्यमानस्य चार्थस्य नैव दृष्टं विशेषणम् । इति। स्यान् मतम्। सत्यम्। अनुपात्तं न विशेष्यते। उपात्त एव त्व् इह सम्बन्धी। तथा हि अयम् अत्र पदान्वयः। अनुमानम् एकदेशदर्शनाद् एकदेशान्तरे बुद्धिर् इति। अतः कस्यैकदेशस्येत्य् आकाङ्क्षायां स एवैकदेशो ज्ञातसम्बन्धस्येति विशेष्यते। ननु दर्शनोपसर्जनत्वाद् एकदेशो न विशेषणम् अर्हति। न ह्य् उपसर्जनं पदं पदान्तरेण सम्बध्यते। न हि भवति पुरुषं प्रत्युपसर्जनीभूतस्य राज्ञः ऋद्धस्य राजपुरुष इति विशेषणम्। उच्यते। नोपसर्जनत्वाद् असम्बन्धः। आकाङ्क्षितं हि पूरणसमर्थम् उपसर्जनेनापि सम्बध्यत एव। अत्रैकदेशदर्शनाद् इत्य् उक्ते ऽस्ति कस्यैकदेशस्येत्य् आकाङ्क्षा। अर्थसम्बन्धे ऽप्य् आकाङ्क्षैव हेतुः। उपसर्जनसंज्ञा तु उपसर्जनं पूर्वम् (२।२।३०) इति पूर्वप्रयोगसिद्ध्यर्थैव। अत एव हि कस्य गुरुकुलम् इति व्यवहारोपपत्तिः। तत्र हि कुलोपसर्जनस्यैव गुरोः कस्येति विशेषणम्। अपि च दर्शनक्रियाकर्मणो दृश्यस्यैकदेशस्य प्राधान्यम् अप्रधानस्य सापेक्षस्यापि पदान्तरेण सम्बन्धो दृष्टः, यथा राजपुरुषश् शोभन इति। अत उपपन्नं ज्ञातसम्बन्धस्यैकदेशदर्शनाद् इति। नोपपन्नम्। उक्तं हि गुरुणैव -- नोपसर्जनं पदं पदान्तरेण सम्बध्यते ऋद्धस्य राजपुरुष इतिवत् इति। न च परिहृतम्। उपसर्जनविशेषणे ३,३ हि ऋद्धी राजानं विशिष्यात्। यत् तूक्तम् -- आकाङ्क्षा सम्बन्धे हेतुः इति तद् अयुक्तम्। आकाङ्क्षावतो ऽप्य् अयोग्यस्य पदान्तरानन्वयात्। इह च दर्शनोपसर्जनत्वाद् अन्वयायोग्यत्वम् उक्तम्। अथोच्येत एकवाक्यतायाम् अयं दोषः एकदेशदर्शनाद् एकदेशान्तरे बुद्धिर् अनुमानम्। अतः पर्यवसिते वाक्ये कस्येइकदेशस्येत्य् आकाङ्क्षायां वाक्यगतम् एकदेशस्येति पदं ज्ञातसम्बन्धस्येति विशेष्यत इति। तन् न। आकाङ्क्षावाक्यस्याश्रवणात्। स एवानुपात्तान्यपदार्थदोषः। यत्र तूपादानं तत्रोपसर्जनत्वाद् अयोग्यत्वम् उक्तम्। अपि च वाक्यभेद एवात्र दोषः। यच् च दर्शनं दृश्यप्रधानम् इत्य् उक्तं, तद् अप्य् अयुक्तम्। उत्तरपदार्थप्रधानत्वात् तत्पुरुषस्य। न च वास्तवं गुणप्रधानभावम् आश्रित्य पदान्तरसम्बन्धो दृष्टः। राजपुरुषे ऽदर्शनात्। ननु शाब्दम् एवैकदेशस्य प्राधान्यं गम्यते। कृद्योगलक्षणा हीयं कर्मणि षष्ठी। न। अश्रवणात्। न हि समासे षष्ठी श्रूयते। न चाश्रूयमाणा स्वार्थम् अभिधत्ते। किन् तु निषादस्थपतिवल्लक्षणया तदर्थो ऽवगम्यते। श्रुत्या तु दृश्यावच्छिन्नं दर्शनम् एव प्रधानतयावगम्यते। उत्तरपदार्थप्रधानानुशासनम् अप्य् अत एव। समासात् तथैवावगतेः। न च वास्तवं प्राधान्यम् उपसर्जनस्य पदान्तरसम्बन्धे सापेक्षसमासे वा हेतुः। कस्य गुरुकुलम् इति नित्यसापेक्षत्वाद् गुरुशब्दस्य नासामर्थ्यं दोषः न ह्य् अनन्तर्भाव्य प्रतिसम्बन्धिनं गुर्वर्थो ऽवगम्यते। सम्बन्धिशब्दत्वात् तस्य। अतो ऽपेक्षितार्थान्तर एवासौ वृत्ताव् अनुप्रविशतीति न दोषः। न त्व् एवम् एकदेशशब्द इति वैषम्यम्। अतो दुरधिगमो ज्ञातसम्बन्धसमासार्थः। अत आह -- प्रमातेति। अयम् अभिप्रायः -- सत्यम्। एकदेशो नान्यपदार्थः। किन् तु प्रमातैव बुद्धिसम्बन्धोपस्थापितो ज्ञातसम्बन्ध इति निर्दिश्यते। गम्यमानम् अपि चाव्यभिचारिणा चिह्नेनोपस्थापितं विशेष्यत एव। न हि नमः पिनाकपाणय इत्य् अन्यपदार्थानुपादानं दोषाय। अपि च ऐन्द्रवायवं गृह्णातीति बहुव्रीहिसमासार्थो देवतातद्धितः कथम् आहृत्यानुपात्ते सोमरसे वर्तते। अथ सोमं क्रीणाति अभिषुणोति पावयति। ३,४ धारया गृह्णातीति प्रकरणावगतस् सोमरसो ऽन्यपदार्थ इत्य् उच्यते। इहापि बुद्ध्यविनाभावावगतस्य प्रमातुर् बहुव्रीह्यर्थत्वं नानुपपन्नम्। पूर्वपक्षस्थितेन वार्तिककृता गम्यमानं न विशेष्यत इति यद् उक्तं तद् एव दुर्लभलब्धम् इव मन्वानैः कैश्चिद् वल्गितम् इत्य् उपेक्षणीयम् एव। सिद्धान्ते हि गम्यमानाया एव व्यक्तेर् गावौ शुक्लो गौर् इति च विभक्त्या शब्दान्तरेण च विशेषणं भविष्यति। मञ्चाः क्रोशन्तीति च। आह च -- जातेर् अस्तित्वनास्तित्वे न हि कश्चिद् विवक्षति । नित्यत्वाल् लक्ष्यमाणाया व्यक्तेस् ते हि विशेषणे ॥ इति। धूमो ऽयं ज्वलतीति न भवति। अनभिधानात्। न हि लोकः पर्यनुयोक्तुम् अर्हति। यस् तु वैयात्याद् धूमशब्देनाग्निं लक्षयित्वा तथा प्रयुयुङ्क्षति न तं निवारयामः। नन्व् एवं प्रमातरि ज्ञातसम्बन्धे सति नैकदेशो विशेषित इति व्यापकैकदेशदृशो व्याप्यस्मृतिर् अनुमानम् आपद्येत। न त्व् एतद् इष्टम्। व्याप्याद् धि व्यापकज्ञानम् अनुमानम्। ज्ञातसम्बन्धस्यैकदेशस्येति सम्बन्धे स्याद् अपि विशिष्टैकदेशलाभः। तत्र हि ज्ञातसम्बन्धस्येति षष्ठ्या व्याप्य एव सम्बन्धी प्रतिपाद्यते। सर्वत्र हि व्याप्य एव हि षष्ठी दृष्टा। उच्यते। उक्तम् अस्माभिर् नेदम् अलौकिकं किञ्चित् प्रमाणानां स्वरूपम् उपवर्ण्यते। लोकप्रसिद्धम् एव त्व् अपरीक्षाप्रतिपादनार्थं स्वरूपम् अनूद्यते, लोके हि नियाम्यैकदेशदर्शन एव नियामकैकदेशज्ञानम् अनुमानम् इति प्रसिद्धम् इति। अस्त्य् अपि हि विशेषणे विशिष्टैकदेशो लभ्यते। अपि चासन्निकृष्टे ऽर्थ इति वदति। न च व्यापकदृशस् साहचर्यमात्रात् व्याप्यस्मृतिर् असन्निकृष्टविषया। पूर्वप्रमाणानधिकार्थाविषयत्वात् स्मृतेः। व्याप्याद् एव त्व् अनुभूतपूर्वनियमाद् व्यापकविशिष्टः पर्वतादिर् अवगम्यते। अत उपपन्नो विशिष्टैकदेशलाभ इति। यत् तु ज्ञातसम्बन्धस्यैकदेशस्येत्य् अत्र षष्ठ्या विशेषप्रतिपादनम् उक्तम्। तद् अयुक्तं व्यापकाद् अपि षष्ठ्युत्पत्तेः। भवति हि कृतकत्वम् अनित्यताया हेतुर् इति व्यवहारः। व्यापिका चानित्यता कृतकत्वस्य। तस्माद् अविशेषितोपादाने ऽपि व्याख्यानतस् सम्बन्धविशेषाद् (एक)देशविशेषलाभो नानुपपन्नः। भवति हि व्याख्यानतो विशेषप्रतिपत्तिर् न तु सन्देहाद् अलक्षणम् इति सूक्तं प्रमाता ज्ञातसम्बन्ध इति। ३,५ व्याख्यानान्तरम् आह -- एकदेशीति। एकदेशौ हि नैकदेशिनम् अन्तरेण स्याताम् इति आक्षिप्तस्यैकदेशिनो युक्तम् अन्यपदार्थत्वम्। नन्व् एवं ज्ञातसम्बन्धस्यैकदेशिनो य एकदेशस् तस्यैकदेशस्य दर्शनाद् इत्य् उच्यमाने स एव दर्शनोपसर्जनत्वाद् एकदेशस्यैकदेशिनः सम्बन्धस् सम्बन्धिविशेषापेक्षस्य वा समासदोषः प्रसज्यते। भवेद् एतद् एवम्। यद्य् एकदेशव्यतिरेकजनिता षष्ठी स्यात्। इयं त्व् एकदेशदर्शनव्यतिरेकजनिता षष्ठी तद् अपि परम्परया वाजपेयस्य यूप इतिवदेकदेशिनो भवत्य् एव। कः पुनर् अत्रैकदेशी ज्ञातसम्बन्धः पक्षस् सपक्षो वा। न तावत् पक्षः ज्ञायमानसम्बन्धत्वात्। न च सपक्षः सिद्धत्वेनाननुमेयत्वात्। नैष दोषः। व्याप्तिर् हि न सकृद्दर्शननिर्ग्राह्या। भूयोभिस् तु दर्शनैः पूर्वपूर्वावगतसकलदेशकालविविक्तधूमवन्मात्रस्याग्निमत्तया व्याप्तिर् अवधारिता। न पुनर् अत्रायम् इदानीं वा धूमवान् अग्निमान् इति। अतः पक्षैकदेशिनो ऽपि सामान्यतो धूमवत्तौपाधिकसम्बन्धो ज्ञात इति स एव ज्ञातसंबन्धः। सामान्यतो गृहीते ऽपि देशादिभेदेन प्रत्यक्षप्रत्यभिज्ञानवन्नानुमानप्रत्यभिज्ञानम् अनुपपन्नम् इति न प्रमेयाभावः। एकदेश्यैकदेशौ चाश्रयाश्रयिणाव् अभिमतौ। न पुनर् अवयवावयविनाव् इति द्रष्टव्यम् इति
idānīṃ lakṣaṇabhāṣyavyākhyānāvasare prāthamyād anumānalakṣaṇam anusandhāsyati. tatra ca jñātasambandhasyety ucyate. tatra na vidmaḥ ko jñātasambandhasamāsārtha iti. na tāvat puruṣas sambandhī samudāyo vā. anupādānāt. na hy anupāttānyapadārthako bahuvrīhir bhavati. nanu buddhisambandhopasthāpitaḥ puruṣas samudāyidvayākṣiptas samudāyo vā viśeṣyate. buddhir hi svaśabdād avagatā tadvantam antareṇātmānam alabhamānopasthāpayati svāśrayam iti nānupādānadoṣaḥ. naitad evam. gamyamānasyāviśeṣaṇāt. na khalu dhūmaśabdārthāvinābhāvād avagato 'gnir jvalatīti viśeṣyate. vakṣyati ca -- gamyamānasya cārthasya naiva dṛṣṭaṃ viśeṣaṇam | iti. syān matam. satyam. anupāttaṃ na viśeṣyate. upātta eva tv iha sambandhī. tathā hi ayam atra padānvayaḥ. anumānam ekadeśadarśanād ekadeśāntare buddhir iti. ataḥ kasyaikadeśasyety ākāṅkṣāyāṃ sa evaikadeśo jñātasambandhasyeti viśeṣyate. nanu darśanopasarjanatvād ekadeśo na viśeṣaṇam arhati. na hy upasarjanaṃ padaṃ padāntareṇa sambadhyate. na hi bhavati puruṣaṃ pratyupasarjanībhūtasya rājñaḥ ṛddhasya rājapuruṣa iti viśeṣaṇam. ucyate. nopasarjanatvād asambandhaḥ. ākāṅkṣitaṃ hi pūraṇasamartham upasarjanenāpi sambadhyata eva. atraikadeśadarśanād ity ukte 'sti kasyaikadeśasyety ākāṅkṣā. arthasambandhe 'py ākāṅkṣaiva hetuḥ. upasarjanasaṃjñā tu upasarjanaṃ pūrvam (2.2.30) iti pūrvaprayogasiddhyarthaiva. ata eva hi kasya gurukulam iti vyavahāropapattiḥ. tatra hi kulopasarjanasyaiva guroḥ kasyeti viśeṣaṇam. api ca darśanakriyākarmaṇo dṛśyasyaikadeśasya prādhānyam apradhānasya sāpekṣasyāpi padāntareṇa sambandho dṛṣṭaḥ, yathā rājapuruṣaś śobhana iti. ata upapannaṃ jñātasambandhasyaikadeśadarśanād iti. nopapannam. uktaṃ hi guruṇaiva -- nopasarjanaṃ padaṃ padāntareṇa sambadhyate ṛddhasya rājapuruṣa itivat iti. na ca parihṛtam. upasarjanaviśeṣaṇe 3,3 hi ṛddhī rājānaṃ viśiṣyāt. yat tūktam -- ākāṅkṣā sambandhe hetuḥ iti tad ayuktam. ākāṅkṣāvato 'py ayogyasya padāntarānanvayāt. iha ca darśanopasarjanatvād anvayāyogyatvam uktam. athocyeta ekavākyatāyām ayaṃ doṣaḥ ekadeśadarśanād ekadeśāntare buddhir anumānam. ataḥ paryavasite vākye kasyeikadeśasyety ākāṅkṣāyāṃ vākyagatam ekadeśasyeti padaṃ jñātasambandhasyeti viśeṣyata iti. tan na. ākāṅkṣāvākyasyāśravaṇāt. sa evānupāttānyapadārthadoṣaḥ. yatra tūpādānaṃ tatropasarjanatvād ayogyatvam uktam. api ca vākyabheda evātra doṣaḥ. yac ca darśanaṃ dṛśyapradhānam ity uktaṃ, tad apy ayuktam. uttarapadārthapradhānatvāt tatpuruṣasya. na ca vāstavaṃ guṇapradhānabhāvam āśritya padāntarasambandho dṛṣṭaḥ. rājapuruṣe 'darśanāt. nanu śābdam evaikadeśasya prādhānyaṃ gamyate. kṛdyogalakṣaṇā hīyaṃ karmaṇi ṣaṣṭhī. na. aśravaṇāt. na hi samāse ṣaṣṭhī śrūyate. na cāśrūyamāṇā svārtham abhidhatte. kin tu niṣādasthapativallakṣaṇayā tadartho 'vagamyate. śrutyā tu dṛśyāvacchinnaṃ darśanam eva pradhānatayāvagamyate. uttarapadārthapradhānānuśāsanam apy ata eva. samāsāt tathaivāvagateḥ. na ca vāstavaṃ prādhānyam upasarjanasya padāntarasambandhe sāpekṣasamāse vā hetuḥ. kasya gurukulam iti nityasāpekṣatvād guruśabdasya nāsāmarthyaṃ doṣaḥ na hy anantarbhāvya pratisambandhinaṃ gurvartho 'vagamyate. sambandhiśabdatvāt tasya. ato 'pekṣitārthāntara evāsau vṛttāv anupraviśatīti na doṣaḥ. na tv evam ekadeśaśabda iti vaiṣamyam. ato duradhigamo jñātasambandhasamāsārthaḥ. ata āha -- pramāteti. ayam abhiprāyaḥ -- satyam. ekadeśo nānyapadārthaḥ. kin tu pramātaiva buddhisambandhopasthāpito jñātasambandha iti nirdiśyate. gamyamānam api cāvyabhicāriṇā cihnenopasthāpitaṃ viśeṣyata eva. na hi namaḥ pinākapāṇaya ity anyapadārthānupādānaṃ doṣāya. api ca aindravāyavaṃ gṛhṇātīti bahuvrīhisamāsārtho devatātaddhitaḥ katham āhṛtyānupātte somarase vartate. atha somaṃ krīṇāti abhiṣuṇoti pāvayati. 3,4 dhārayā gṛhṇātīti prakaraṇāvagatas somaraso 'nyapadārtha ity ucyate. ihāpi buddhyavinābhāvāvagatasya pramātur bahuvrīhyarthatvaṃ nānupapannam. pūrvapakṣasthitena vārtikakṛtā gamyamānaṃ na viśeṣyata iti yad uktaṃ tad eva durlabhalabdham iva manvānaiḥ kaiścid valgitam ity upekṣaṇīyam eva. siddhānte hi gamyamānāyā eva vyakter gāvau śuklo gaur iti ca vibhaktyā śabdāntareṇa ca viśeṣaṇaṃ bhaviṣyati. mañcāḥ krośantīti ca. āha ca -- jāter astitvanāstitve na hi kaścid vivakṣati | nityatvāl lakṣyamāṇāyā vyaktes te hi viśeṣaṇe || iti. dhūmo 'yaṃ jvalatīti na bhavati. anabhidhānāt. na hi lokaḥ paryanuyoktum arhati. yas tu vaiyātyād dhūmaśabdenāgniṃ lakṣayitvā tathā prayuyuṅkṣati na taṃ nivārayāmaḥ. nanv evaṃ pramātari jñātasambandhe sati naikadeśo viśeṣita iti vyāpakaikadeśadṛśo vyāpyasmṛtir anumānam āpadyeta. na tv etad iṣṭam. vyāpyād dhi vyāpakajñānam anumānam. jñātasambandhasyaikadeśasyeti sambandhe syād api viśiṣṭaikadeśalābhaḥ. tatra hi jñātasambandhasyeti ṣaṣṭhyā vyāpya eva sambandhī pratipādyate. sarvatra hi vyāpya eva hi ṣaṣṭhī dṛṣṭā. ucyate. uktam asmābhir nedam alaukikaṃ kiñcit pramāṇānāṃ svarūpam upavarṇyate. lokaprasiddham eva tv aparīkṣāpratipādanārthaṃ svarūpam anūdyate, loke hi niyāmyaikadeśadarśana eva niyāmakaikadeśajñānam anumānam iti prasiddham iti. asty api hi viśeṣaṇe viśiṣṭaikadeśo labhyate. api cāsannikṛṣṭe 'rtha iti vadati. na ca vyāpakadṛśas sāhacaryamātrāt vyāpyasmṛtir asannikṛṣṭaviṣayā. pūrvapramāṇānadhikārthāviṣayatvāt smṛteḥ. vyāpyād eva tv anubhūtapūrvaniyamād vyāpakaviśiṣṭaḥ parvatādir avagamyate. ata upapanno viśiṣṭaikadeśalābha iti. yat tu jñātasambandhasyaikadeśasyety atra ṣaṣṭhyā viśeṣapratipādanam uktam. tad ayuktaṃ vyāpakād api ṣaṣṭhyutpatteḥ. bhavati hi kṛtakatvam anityatāyā hetur iti vyavahāraḥ. vyāpikā cānityatā kṛtakatvasya. tasmād aviśeṣitopādāne 'pi vyākhyānatas sambandhaviśeṣād (eka)deśaviśeṣalābho nānupapannaḥ. bhavati hi vyākhyānato viśeṣapratipattir na tu sandehād alakṣaṇam iti sūktaṃ pramātā jñātasambandha iti. 3,5 vyākhyānāntaram āha -- ekadeśīti. ekadeśau hi naikadeśinam antareṇa syātām iti ākṣiptasyaikadeśino yuktam anyapadārthatvam. nanv evaṃ jñātasambandhasyaikadeśino ya ekadeśas tasyaikadeśasya darśanād ity ucyamāne sa eva darśanopasarjanatvād ekadeśasyaikadeśinaḥ sambandhas sambandhiviśeṣāpekṣasya vā samāsadoṣaḥ prasajyate. bhaved etad evam. yady ekadeśavyatirekajanitā ṣaṣṭhī syāt. iyaṃ tv ekadeśadarśanavyatirekajanitā ṣaṣṭhī tad api paramparayā vājapeyasya yūpa itivadekadeśino bhavaty eva. kaḥ punar atraikadeśī jñātasambandhaḥ pakṣas sapakṣo vā. na tāvat pakṣaḥ jñāyamānasambandhatvāt. na ca sapakṣaḥ siddhatvenānanumeyatvāt. naiṣa doṣaḥ. vyāptir hi na sakṛddarśananirgrāhyā. bhūyobhis tu darśanaiḥ pūrvapūrvāvagatasakaladeśakālaviviktadhūmavanmātrasyāgnimattayā vyāptir avadhāritā. na punar atrāyam idānīṃ vā dhūmavān agnimān iti. ataḥ pakṣaikadeśino 'pi sāmānyato dhūmavattaupādhikasambandho jñāta iti sa eva jñātasaṃbandhaḥ. sāmānyato gṛhīte 'pi deśādibhedena pratyakṣapratyabhijñānavannānumānapratyabhijñānam anupapannam iti na prameyābhāvaḥ. ekadeśyaikadeśau cāśrayāśrayiṇāv abhimatau. na punar avayavāvayavināv iti draṣṭavyam iti
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.