Library·Sucaritamisra: Mimamsaslokavarttikakasika·13

Sucaritamisra: Mimamsaslokavarttikakasika 13

इदानीं लक्षणभाष्यव्याख्यानावसरे प्राथम्याद् अनुमानलक्षणम् अनुसन्धास्यति। तत्र च ज्ञातसम्बन्धस्येत्य् उच्यते। तत्र न विद्मः को ज्ञातसम्बन्धसमासार्थ इति। न तावत् पुरुषस् सम्बन्धी समुदायो वा। अनुपादानात्। न ह्य् अनुपात्तान्यपदार्थको बहुव्रीहिर् भवति। ननु बुद्धिसम्बन्धोपस्थापितः पुरुषस् समुदायिद्वयाक्षिप्तस् समुदायो वा विशेष्यते। बुद्धिर् हि स्वशब्दाद् अवगता तद्वन्तम् अन्तरेणात्मानम् अलभमानोपस्थापयति स्वाश्रयम् इति नानुपादानदोषः। नैतद् एवम्। गम्यमानस्याविशेषणात्। न खलु धूमशब्दार्थाविनाभावाद् अवगतो ऽग्निर् ज्वलतीति विशेष्यते। वक्ष्यति च -- गम्यमानस्य चार्थस्य नैव दृष्टं विशेषणम् । इति। स्यान् मतम्। सत्यम्। अनुपात्तं न विशेष्यते। उपात्त एव त्व् इह सम्बन्धी। तथा हि अयम् अत्र पदान्वयः। अनुमानम् एकदेशदर्शनाद् एकदेशान्तरे बुद्धिर् इति। अतः कस्यैकदेशस्येत्य् आकाङ्क्षायां स एवैकदेशो ज्ञातसम्बन्धस्येति विशेष्यते। ननु दर्शनोपसर्जनत्वाद् एकदेशो न विशेषणम् अर्हति। न ह्य् उपसर्जनं पदं पदान्तरेण सम्बध्यते। न हि भवति पुरुषं प्रत्युपसर्जनीभूतस्य राज्ञः ऋद्धस्य राजपुरुष इति विशेषणम्। उच्यते। नोपसर्जनत्वाद् असम्बन्धः। आकाङ्क्षितं हि पूरणसमर्थम् उपसर्जनेनापि सम्बध्यत एव। अत्रैकदेशदर्शनाद् इत्य् उक्ते ऽस्ति कस्यैकदेशस्येत्य् आकाङ्क्षा। अर्थसम्बन्धे ऽप्य् आकाङ्क्षैव हेतुः। उपसर्जनसंज्ञा तु उपसर्जनं पूर्वम् (२।२।३०) इति पूर्वप्रयोगसिद्ध्यर्थैव। अत एव हि कस्य गुरुकुलम् इति व्यवहारोपपत्तिः। तत्र हि कुलोपसर्जनस्यैव गुरोः कस्येति विशेषणम्। अपि च दर्शनक्रियाकर्मणो दृश्यस्यैकदेशस्य प्राधान्यम् अप्रधानस्य सापेक्षस्यापि पदान्तरेण सम्बन्धो दृष्टः, यथा राजपुरुषश् शोभन इति। अत उपपन्नं ज्ञातसम्बन्धस्यैकदेशदर्शनाद् इति। नोपपन्नम्। उक्तं हि गुरुणैव -- नोपसर्जनं पदं पदान्तरेण सम्बध्यते ऋद्धस्य राजपुरुष इतिवत् इति। न च परिहृतम्। उपसर्जनविशेषणे ३,३ हि ऋद्धी राजानं विशिष्यात्। यत् तूक्तम् -- आकाङ्क्षा सम्बन्धे हेतुः इति तद् अयुक्तम्। आकाङ्क्षावतो ऽप्य् अयोग्यस्य पदान्तरानन्वयात्। इह च दर्शनोपसर्जनत्वाद् अन्वयायोग्यत्वम् उक्तम्। अथोच्येत एकवाक्यतायाम् अयं दोषः एकदेशदर्शनाद् एकदेशान्तरे बुद्धिर् अनुमानम्। अतः पर्यवसिते वाक्ये कस्येइकदेशस्येत्य् आकाङ्क्षायां वाक्यगतम् एकदेशस्येति पदं ज्ञातसम्बन्धस्येति विशेष्यत इति। तन् न। आकाङ्क्षावाक्यस्याश्रवणात्। स एवानुपात्तान्यपदार्थदोषः। यत्र तूपादानं तत्रोपसर्जनत्वाद् अयोग्यत्वम् उक्तम्। अपि च वाक्यभेद एवात्र दोषः। यच् च दर्शनं दृश्यप्रधानम् इत्य् उक्तं, तद् अप्य् अयुक्तम्। उत्तरपदार्थप्रधानत्वात् तत्पुरुषस्य। न च वास्तवं गुणप्रधानभावम् आश्रित्य पदान्तरसम्बन्धो दृष्टः। राजपुरुषे ऽदर्शनात्। ननु शाब्दम् एवैकदेशस्य प्राधान्यं गम्यते। कृद्योगलक्षणा हीयं कर्मणि षष्ठी। न। अश्रवणात्। न हि समासे षष्ठी श्रूयते। न चाश्रूयमाणा स्वार्थम् अभिधत्ते। किन् तु निषादस्थपतिवल्लक्षणया तदर्थो ऽवगम्यते। श्रुत्या तु दृश्यावच्छिन्नं दर्शनम् एव प्रधानतयावगम्यते। उत्तरपदार्थप्रधानानुशासनम् अप्य् अत एव। समासात् तथैवावगतेः। न च वास्तवं प्राधान्यम् उपसर्जनस्य पदान्तरसम्बन्धे सापेक्षसमासे वा हेतुः। कस्य गुरुकुलम् इति नित्यसापेक्षत्वाद् गुरुशब्दस्य नासामर्थ्यं दोषः न ह्य् अनन्तर्भाव्य प्रतिसम्बन्धिनं गुर्वर्थो ऽवगम्यते। सम्बन्धिशब्दत्वात् तस्य। अतो ऽपेक्षितार्थान्तर एवासौ वृत्ताव् अनुप्रविशतीति न दोषः। न त्व् एवम् एकदेशशब्द इति वैषम्यम्। अतो दुरधिगमो ज्ञातसम्बन्धसमासार्थः। अत आह -- प्रमातेति। अयम् अभिप्रायः -- सत्यम्। एकदेशो नान्यपदार्थः। किन् तु प्रमातैव बुद्धिसम्बन्धोपस्थापितो ज्ञातसम्बन्ध इति निर्दिश्यते। गम्यमानम् अपि चाव्यभिचारिणा चिह्नेनोपस्थापितं विशेष्यत एव। न हि नमः पिनाकपाणय इत्य् अन्यपदार्थानुपादानं दोषाय। अपि च ऐन्द्रवायवं गृह्णातीति बहुव्रीहिसमासार्थो देवतातद्धितः कथम् आहृत्यानुपात्ते सोमरसे वर्तते। अथ सोमं क्रीणाति अभिषुणोति पावयति। ३,४ धारया गृह्णातीति प्रकरणावगतस् सोमरसो ऽन्यपदार्थ इत्य् उच्यते। इहापि बुद्ध्यविनाभावावगतस्य प्रमातुर् बहुव्रीह्यर्थत्वं नानुपपन्नम्। पूर्वपक्षस्थितेन वार्तिककृता गम्यमानं न विशेष्यत इति यद् उक्तं तद् एव दुर्लभलब्धम् इव मन्वानैः कैश्चिद् वल्गितम् इत्य् उपेक्षणीयम् एव। सिद्धान्ते हि गम्यमानाया एव व्यक्तेर् गावौ शुक्लो गौर् इति च विभक्त्या शब्दान्तरेण च विशेषणं भविष्यति। मञ्चाः क्रोशन्तीति च। आह च -- जातेर् अस्तित्वनास्तित्वे न हि कश्चिद् विवक्षति । नित्यत्वाल् लक्ष्यमाणाया व्यक्तेस् ते हि विशेषणे ॥ इति। धूमो ऽयं ज्वलतीति न भवति। अनभिधानात्। न हि लोकः पर्यनुयोक्तुम् अर्हति। यस् तु वैयात्याद् धूमशब्देनाग्निं लक्षयित्वा तथा प्रयुयुङ्क्षति न तं निवारयामः। नन्व् एवं प्रमातरि ज्ञातसम्बन्धे सति नैकदेशो विशेषित इति व्यापकैकदेशदृशो व्याप्यस्मृतिर् अनुमानम् आपद्येत। न त्व् एतद् इष्टम्। व्याप्याद् धि व्यापकज्ञानम् अनुमानम्। ज्ञातसम्बन्धस्यैकदेशस्येति सम्बन्धे स्याद् अपि विशिष्टैकदेशलाभः। तत्र हि ज्ञातसम्बन्धस्येति षष्ठ्या व्याप्य एव सम्बन्धी प्रतिपाद्यते। सर्वत्र हि व्याप्य एव हि षष्ठी दृष्टा। उच्यते। उक्तम् अस्माभिर् नेदम् अलौकिकं किञ्चित् प्रमाणानां स्वरूपम् उपवर्ण्यते। लोकप्रसिद्धम् एव त्व् अपरीक्षाप्रतिपादनार्थं स्वरूपम् अनूद्यते, लोके हि नियाम्यैकदेशदर्शन एव नियामकैकदेशज्ञानम् अनुमानम् इति प्रसिद्धम् इति। अस्त्य् अपि हि विशेषणे विशिष्टैकदेशो लभ्यते। अपि चासन्निकृष्टे ऽर्थ इति वदति। न च व्यापकदृशस् साहचर्यमात्रात् व्याप्यस्मृतिर् असन्निकृष्टविषया। पूर्वप्रमाणानधिकार्थाविषयत्वात् स्मृतेः। व्याप्याद् एव त्व् अनुभूतपूर्वनियमाद् व्यापकविशिष्टः पर्वतादिर् अवगम्यते। अत उपपन्नो विशिष्टैकदेशलाभ इति। यत् तु ज्ञातसम्बन्धस्यैकदेशस्येत्य् अत्र षष्ठ्या विशेषप्रतिपादनम् उक्तम्। तद् अयुक्तं व्यापकाद् अपि षष्ठ्युत्पत्तेः। भवति हि कृतकत्वम् अनित्यताया हेतुर् इति व्यवहारः। व्यापिका चानित्यता कृतकत्वस्य। तस्माद् अविशेषितोपादाने ऽपि व्याख्यानतस् सम्बन्धविशेषाद् (एक)देशविशेषलाभो नानुपपन्नः। भवति हि व्याख्यानतो विशेषप्रतिपत्तिर् न तु सन्देहाद् अलक्षणम् इति सूक्तं प्रमाता ज्ञातसम्बन्ध इति। ३,५ व्याख्यानान्तरम् आह -- एकदेशीति। एकदेशौ हि नैकदेशिनम् अन्तरेण स्याताम् इति आक्षिप्तस्यैकदेशिनो युक्तम् अन्यपदार्थत्वम्। नन्व् एवं ज्ञातसम्बन्धस्यैकदेशिनो य एकदेशस् तस्यैकदेशस्य दर्शनाद् इत्य् उच्यमाने स एव दर्शनोपसर्जनत्वाद् एकदेशस्यैकदेशिनः सम्बन्धस् सम्बन्धिविशेषापेक्षस्य वा समासदोषः प्रसज्यते। भवेद् एतद् एवम्। यद्य् एकदेशव्यतिरेकजनिता षष्ठी स्यात्। इयं त्व् एकदेशदर्शनव्यतिरेकजनिता षष्ठी तद् अपि परम्परया वाजपेयस्य यूप इतिवदेकदेशिनो भवत्य् एव। कः पुनर् अत्रैकदेशी ज्ञातसम्बन्धः पक्षस् सपक्षो वा। न तावत् पक्षः ज्ञायमानसम्बन्धत्वात्। न च सपक्षः सिद्धत्वेनाननुमेयत्वात्। नैष दोषः। व्याप्तिर् हि न सकृद्दर्शननिर्ग्राह्या। भूयोभिस् तु दर्शनैः पूर्वपूर्वावगतसकलदेशकालविविक्तधूमवन्मात्रस्याग्निमत्तया व्याप्तिर् अवधारिता। न पुनर् अत्रायम् इदानीं वा धूमवान् अग्निमान् इति। अतः पक्षैकदेशिनो ऽपि सामान्यतो धूमवत्तौपाधिकसम्बन्धो ज्ञात इति स एव ज्ञातसंबन्धः। सामान्यतो गृहीते ऽपि देशादिभेदेन प्रत्यक्षप्रत्यभिज्ञानवन्नानुमानप्रत्यभिज्ञानम् अनुपपन्नम् इति न प्रमेयाभावः। एकदेश्यैकदेशौ चाश्रयाश्रयिणाव् अभिमतौ। न पुनर् अवयवावयविनाव् इति द्रष्टव्यम् इति

idānīṃ lakṣaṇabhāṣyavyākhyānāvasare prāthamyād anumānalakṣaṇam anusandhāsyati. tatra ca jñātasambandhasyety ucyate. tatra na vidmaḥ ko jñātasambandhasamāsārtha iti. na tāvat puruṣas sambandhī samudāyo vā. anupādānāt. na hy anupāttānyapadārthako bahuvrīhir bhavati. nanu buddhisambandhopasthāpitaḥ puruṣas samudāyidvayākṣiptas samudāyo vā viśeṣyate. buddhir hi svaśabdād avagatā tadvantam antareṇātmānam alabhamānopasthāpayati svāśrayam iti nānupādānadoṣaḥ. naitad evam. gamyamānasyāviśeṣaṇāt. na khalu dhūmaśabdārthāvinābhāvād avagato 'gnir jvalatīti viśeṣyate. vakṣyati ca -- gamyamānasya cārthasya naiva dṛṣṭaṃ viśeṣaṇam | iti. syān matam. satyam. anupāttaṃ na viśeṣyate. upātta eva tv iha sambandhī. tathā hi ayam atra padānvayaḥ. anumānam ekadeśadarśanād ekadeśāntare buddhir iti. ataḥ kasyaikadeśasyety ākāṅkṣāyāṃ sa evaikadeśo jñātasambandhasyeti viśeṣyate. nanu darśanopasarjanatvād ekadeśo na viśeṣaṇam arhati. na hy upasarjanaṃ padaṃ padāntareṇa sambadhyate. na hi bhavati puruṣaṃ pratyupasarjanībhūtasya rājñaḥ ṛddhasya rājapuruṣa iti viśeṣaṇam. ucyate. nopasarjanatvād asambandhaḥ. ākāṅkṣitaṃ hi pūraṇasamartham upasarjanenāpi sambadhyata eva. atraikadeśadarśanād ity ukte 'sti kasyaikadeśasyety ākāṅkṣā. arthasambandhe 'py ākāṅkṣaiva hetuḥ. upasarjanasaṃjñā tu upasarjanaṃ pūrvam (2.2.30) iti pūrvaprayogasiddhyarthaiva. ata eva hi kasya gurukulam iti vyavahāropapattiḥ. tatra hi kulopasarjanasyaiva guroḥ kasyeti viśeṣaṇam. api ca darśanakriyākarmaṇo dṛśyasyaikadeśasya prādhānyam apradhānasya sāpekṣasyāpi padāntareṇa sambandho dṛṣṭaḥ, yathā rājapuruṣaś śobhana iti. ata upapannaṃ jñātasambandhasyaikadeśadarśanād iti. nopapannam. uktaṃ hi guruṇaiva -- nopasarjanaṃ padaṃ padāntareṇa sambadhyate ṛddhasya rājapuruṣa itivat iti. na ca parihṛtam. upasarjanaviśeṣaṇe 3,3 hi ṛddhī rājānaṃ viśiṣyāt. yat tūktam -- ākāṅkṣā sambandhe hetuḥ iti tad ayuktam. ākāṅkṣāvato 'py ayogyasya padāntarānanvayāt. iha ca darśanopasarjanatvād anvayāyogyatvam uktam. athocyeta ekavākyatāyām ayaṃ doṣaḥ ekadeśadarśanād ekadeśāntare buddhir anumānam. ataḥ paryavasite vākye kasyeikadeśasyety ākāṅkṣāyāṃ vākyagatam ekadeśasyeti padaṃ jñātasambandhasyeti viśeṣyata iti. tan na. ākāṅkṣāvākyasyāśravaṇāt. sa evānupāttānyapadārthadoṣaḥ. yatra tūpādānaṃ tatropasarjanatvād ayogyatvam uktam. api ca vākyabheda evātra doṣaḥ. yac ca darśanaṃ dṛśyapradhānam ity uktaṃ, tad apy ayuktam. uttarapadārthapradhānatvāt tatpuruṣasya. na ca vāstavaṃ guṇapradhānabhāvam āśritya padāntarasambandho dṛṣṭaḥ. rājapuruṣe 'darśanāt. nanu śābdam evaikadeśasya prādhānyaṃ gamyate. kṛdyogalakṣaṇā hīyaṃ karmaṇi ṣaṣṭhī. na. aśravaṇāt. na hi samāse ṣaṣṭhī śrūyate. na cāśrūyamāṇā svārtham abhidhatte. kin tu niṣādasthapativallakṣaṇayā tadartho 'vagamyate. śrutyā tu dṛśyāvacchinnaṃ darśanam eva pradhānatayāvagamyate. uttarapadārthapradhānānuśāsanam apy ata eva. samāsāt tathaivāvagateḥ. na ca vāstavaṃ prādhānyam upasarjanasya padāntarasambandhe sāpekṣasamāse vā hetuḥ. kasya gurukulam iti nityasāpekṣatvād guruśabdasya nāsāmarthyaṃ doṣaḥ na hy anantarbhāvya pratisambandhinaṃ gurvartho 'vagamyate. sambandhiśabdatvāt tasya. ato 'pekṣitārthāntara evāsau vṛttāv anupraviśatīti na doṣaḥ. na tv evam ekadeśaśabda iti vaiṣamyam. ato duradhigamo jñātasambandhasamāsārthaḥ. ata āha -- pramāteti. ayam abhiprāyaḥ -- satyam. ekadeśo nānyapadārthaḥ. kin tu pramātaiva buddhisambandhopasthāpito jñātasambandha iti nirdiśyate. gamyamānam api cāvyabhicāriṇā cihnenopasthāpitaṃ viśeṣyata eva. na hi namaḥ pinākapāṇaya ity anyapadārthānupādānaṃ doṣāya. api ca aindravāyavaṃ gṛhṇātīti bahuvrīhisamāsārtho devatātaddhitaḥ katham āhṛtyānupātte somarase vartate. atha somaṃ krīṇāti abhiṣuṇoti pāvayati. 3,4 dhārayā gṛhṇātīti prakaraṇāvagatas somaraso 'nyapadārtha ity ucyate. ihāpi buddhyavinābhāvāvagatasya pramātur bahuvrīhyarthatvaṃ nānupapannam. pūrvapakṣasthitena vārtikakṛtā gamyamānaṃ na viśeṣyata iti yad uktaṃ tad eva durlabhalabdham iva manvānaiḥ kaiścid valgitam ity upekṣaṇīyam eva. siddhānte hi gamyamānāyā eva vyakter gāvau śuklo gaur iti ca vibhaktyā śabdāntareṇa ca viśeṣaṇaṃ bhaviṣyati. mañcāḥ krośantīti ca. āha ca -- jāter astitvanāstitve na hi kaścid vivakṣati | nityatvāl lakṣyamāṇāyā vyaktes te hi viśeṣaṇe || iti. dhūmo 'yaṃ jvalatīti na bhavati. anabhidhānāt. na hi lokaḥ paryanuyoktum arhati. yas tu vaiyātyād dhūmaśabdenāgniṃ lakṣayitvā tathā prayuyuṅkṣati na taṃ nivārayāmaḥ. nanv evaṃ pramātari jñātasambandhe sati naikadeśo viśeṣita iti vyāpakaikadeśadṛśo vyāpyasmṛtir anumānam āpadyeta. na tv etad iṣṭam. vyāpyād dhi vyāpakajñānam anumānam. jñātasambandhasyaikadeśasyeti sambandhe syād api viśiṣṭaikadeśalābhaḥ. tatra hi jñātasambandhasyeti ṣaṣṭhyā vyāpya eva sambandhī pratipādyate. sarvatra hi vyāpya eva hi ṣaṣṭhī dṛṣṭā. ucyate. uktam asmābhir nedam alaukikaṃ kiñcit pramāṇānāṃ svarūpam upavarṇyate. lokaprasiddham eva tv aparīkṣāpratipādanārthaṃ svarūpam anūdyate, loke hi niyāmyaikadeśadarśana eva niyāmakaikadeśajñānam anumānam iti prasiddham iti. asty api hi viśeṣaṇe viśiṣṭaikadeśo labhyate. api cāsannikṛṣṭe 'rtha iti vadati. na ca vyāpakadṛśas sāhacaryamātrāt vyāpyasmṛtir asannikṛṣṭaviṣayā. pūrvapramāṇānadhikārthāviṣayatvāt smṛteḥ. vyāpyād eva tv anubhūtapūrvaniyamād vyāpakaviśiṣṭaḥ parvatādir avagamyate. ata upapanno viśiṣṭaikadeśalābha iti. yat tu jñātasambandhasyaikadeśasyety atra ṣaṣṭhyā viśeṣapratipādanam uktam. tad ayuktaṃ vyāpakād api ṣaṣṭhyutpatteḥ. bhavati hi kṛtakatvam anityatāyā hetur iti vyavahāraḥ. vyāpikā cānityatā kṛtakatvasya. tasmād aviśeṣitopādāne 'pi vyākhyānatas sambandhaviśeṣād (eka)deśaviśeṣalābho nānupapannaḥ. bhavati hi vyākhyānato viśeṣapratipattir na tu sandehād alakṣaṇam iti sūktaṃ pramātā jñātasambandha iti. 3,5 vyākhyānāntaram āha -- ekadeśīti. ekadeśau hi naikadeśinam antareṇa syātām iti ākṣiptasyaikadeśino yuktam anyapadārthatvam. nanv evaṃ jñātasambandhasyaikadeśino ya ekadeśas tasyaikadeśasya darśanād ity ucyamāne sa eva darśanopasarjanatvād ekadeśasyaikadeśinaḥ sambandhas sambandhiviśeṣāpekṣasya vā samāsadoṣaḥ prasajyate. bhaved etad evam. yady ekadeśavyatirekajanitā ṣaṣṭhī syāt. iyaṃ tv ekadeśadarśanavyatirekajanitā ṣaṣṭhī tad api paramparayā vājapeyasya yūpa itivadekadeśino bhavaty eva. kaḥ punar atraikadeśī jñātasambandhaḥ pakṣas sapakṣo vā. na tāvat pakṣaḥ jñāyamānasambandhatvāt. na ca sapakṣaḥ siddhatvenānanumeyatvāt. naiṣa doṣaḥ. vyāptir hi na sakṛddarśananirgrāhyā. bhūyobhis tu darśanaiḥ pūrvapūrvāvagatasakaladeśakālaviviktadhūmavanmātrasyāgnimattayā vyāptir avadhāritā. na punar atrāyam idānīṃ vā dhūmavān agnimān iti. ataḥ pakṣaikadeśino 'pi sāmānyato dhūmavattaupādhikasambandho jñāta iti sa eva jñātasaṃbandhaḥ. sāmānyato gṛhīte 'pi deśādibhedena pratyakṣapratyabhijñānavannānumānapratyabhijñānam anupapannam iti na prameyābhāvaḥ. ekadeśyaikadeśau cāśrayāśrayiṇāv abhimatau. na punar avayavāvayavināv iti draṣṭavyam iti

Sanskrit only: no published translation is held for this verse.

कर्मधारयसमासो वायम् इत्य् आह -- कर्मधारयेति। अयम् अर्थः -- ज्ञातश् चासौ संबन्धश् चेति कर्मधारयो ऽयम्। अत्र च पक्षे संबन्धिनि गम्ये गमके चैकदेशता। कथं सम्बन्ध्याधारस्य सम्बन्धस्य सम्बन्धिनाव् एकदेशौ। न हि भूधराधारस्य धूमस्यैकदेशो गिरिः। आधेयम् एव तु धूमस् तदेकदेशतया मन्यते। उच्यते। भवत्याधारांशे ऽप्य् एकदेशवाचोयुक्तिः। यथा अवयव्याधारेष्व् अवयवेषु च समूहिष्व् इति निरवद्यम्

karmadhārayasamāso vāyam ity āha -- karmadhārayeti. ayam arthaḥ -- jñātaś cāsau saṃbandhaś ceti karmadhārayo 'yam. atra ca pakṣe saṃbandhini gamye gamake caikadeśatā. kathaṃ sambandhyādhārasya sambandhasya sambandhināv ekadeśau. na hi bhūdharādhārasya dhūmasyaikadeśo giriḥ. ādheyam eva tu dhūmas tadekadeśatayā manyate. ucyate. bhavatyādhārāṃśe 'py ekadeśavācoyuktiḥ. yathā avayavyādhāreṣv avayaveṣu ca samūhiṣv iti niravadyam

Sanskrit only: no published translation is held for this verse.

द्वयं वान्यपदार्थ इत्य् आह -- द्वयं वेति। सम्बन्धगरहणकाले परस्परसम्बन्धम् उपलब्धं व्याप्यव्यापकद्वयं ज्ञातसम्बन्धम् उच्यते, तस्य च स मुदायिनाव् एकदेशौ। यथा चैतद् एवं तथा प्राग् एवोक्तम् इति। किं ३,६ पुनः कर्मधारयपक्षे द्वयान्यपदार्थत्वे वा प्रमेयम्। न तावत् सम्बन्धसमुदायाव् एव। तयोः पूर्वम् एवावगतत्वात्। अधुना च धर्मधर्मिविभागेनानवगमात्। न चान्य एकदेशी। तस्यानुपादानात्। न चैकदेशाभ्याम् आक्षेपः। सम्बन्धसमुदायनिराकाङ्क्षत्वात्। न च स्वतन्त्रैकदेशदर्शनात् स्वतन्त्रैकदेशान्तरे ज्ञानम् अनुमानं, सिद्धत्वात्। वक्ष्यति हि न धर्ममात्रं, सिद्धत्वाद् इति। अत्राभिधीयते -- अयम् अत्रार्थो ज्ञातस्य सम्बन्धस्य ज्ञातसम्बन्धस्य वा द्वयस्य क्वचिद् एकदेशदर्शनात् तत्रैवैकदेशान्तरे बुद्धिर् अनुमानम् इति। कुत एतत्। असन्निकृष्टग्रहणात्। न हि स्वतन्त्रैकदेशो ऽसन्निकृष्टः। क्वचिद् एव पर्वतादाव् एकदेशो ऽसन्निकृष्टो भवति। तत्रानवगतपूर्वत्वाद् इति किम् अनुपपन्नम् इति। कः पुनर् अत्र सम्बन्धो ऽनुमानाङ्गम् इष्यते। अविनाभावस् तादात्म्यतदुत्पत्तिनिमित्तक इति केचित्। एवं हि तैर् उक्तम्। कार्यकारणभावाद् वा स्वभावाद् वा नियामकात् । अविनाभावनियमो ऽदर्शनान् न न दर्शनात् ॥ इति। न हि विपक्षसपक्षयोर् अदर्शनाद् दर्शनाद् वाविनाभावसिद्धिः। तेनानियतस्यापि तत्र वृत्तेः सम्भवात्। किञ्चिद्विपक्षव्यावृत्त्या च सर्वविपक्षव्यावृत्त्यसिद्धेः। सर्वविपक्षाणां च युगपद् ग्रहीतुम् अशक्तेः। किन् तु अग्न्यादौ सति धूमादेर् भावाद् असति चाभावात् तदायत्तस्वभावो धूमादिर् इति विदिते तदविनाभावस् सिद्ध्यति। तत्कार्यस्य तम् अन्तरेणात्मलाभाभावात्। तद् अत्राग्नौ दर्शनम् इतरत्रादर्शनं तदुत्पत्तौ हेतुः। ततो ऽविनाभावसिद्धिः। तादात्म्ये ऽपि तत्सिद्धिः तं विना भवतस् तादात्म्यानुपपत्तेः। नन्व् एवंविधान्वयविरहिणो गन्धान् न रूपरसादयो ऽनुमीयेरन्। न च खलु तस्य रूपम् आत्मा। न च कारणम् इति कथं ततस् तत्सिद्धिः। श्रूयतां यथा सिद्ध्यति। रसाद् एव हि स्वहेताव् अग्नाव् इव धूमाद् अनुमीयमाने समसामग्रीकेन्धनविकारवद्रूपावगतिर् इति नानुपपत्तिः। यथाहुः -- एकसामग्र्यधीनस्य रूपादेर् रसतो गतिः । हेतुधर्मानुमानेन धूमेन्धनविकारवत् ॥ ३,७ इति। ननु युक्तेन्धनविकारे तस्य धूमस्य चैकाग्निकारणत्वाद् अवगतिः। न तु रूपरसाव् एककारणकौ। कारणरसा हि कार्ये रसम् आरभन्ते। कारणरूपाणि च कार्ये रूपम्। तत् कुतस् समानकारणता। नैककारणतयैकसामग्र्यधीनत्वम्। किन् तु रसाद् रसहेतुर् अनुमीयमानः प्रवृत्तिरूपजननशक्तिरूपोपादानकारणसहकृतो ऽनुमीयते। तथाविधस्यैव कारणत्वात् प्रवृत्तिशक्तिना च कारणेन रूपं जन्यत इति रूपसिद्धिः। तद् इदम् अनुपपन्नम् यत् तावत् कार्यं कारणेन विना न भवतीति ततस् तज्ज्ञानम् उक्तम्। तद् अयुक्तम्। कथं हि कारणेन विना कार्यम् एव न भवति इत्य् एतद् एवावसेयम्। तद् विना भवतो नित्यं सत्त्वम् असत्त्वं वा स्यात्। ततश् च कार्यतैव हीयेत। उक्तं हि तैः -- नित्यं सत्त्वम् असत्त्वं वा हेतोर् अन्यानपेक्षणात् । अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः ॥ इति। अपेक्षातः कादाचित्कत्वम् अनपेक्षं तु सदसद् वा स्यात्। गगनशशविषाणवद् इति चेत्। यद्य् एवम् अन्यो ऽयं कार्यकारणभावात् स्वभावनियमः यदनपेक्षं तन्नित्यं सदसद् वा भवतीति। यच् च रसाद् रूपावगतिर् एकसामग्र्यधीनत्वाद् इत्य् उक्तम्। तद् अप्य् अयुक्तम्। यद्य् अपि प्रवृत्तिशक्तिरूपोपादानकारणसहकृतो रसहेतुर् अवगतः स्वकार्याद्, रूपं तु कुतो ऽअवगम्यते। प्रवृत्तिसामर्थ्यात् कारणाद् इति चेत्। ननु नादो रूपस्य कार्यं नात्मेति कथं तदवगमे हेतुः। प्रवृत्तिशक्तेः कारणस्य कार्याव्यभिचाराद् इति चेत्। न। तर्हि कार्यतदात्मनोर् एवाविनाभावः कारणे ऽपि (?भावाद्।भवेत्)। भवत्व् इति चेत्। न। अग्नेर् अपि धूमानुमानप्रसङ्गात्। अस्त्व् इति चेत्। अतन्त्रं तर्हि कार्यत्वम् अनुमाने। स्यान् मतम्। न प्रवृत्तिसामर्थ्यात् कारणाद् रूपानुमानम्। अपि तर्हि रूपवद्रूपकारणसहकारिणा रसकारणेन रसो जन्यते। सहकारिकारणम् अपि सविशेषणं कारणम् एवेति रसाद् इतरेतरानुगृहीतं कारणचक्रम् अनुभास्यत इति। तन् न। कार्यकारणयोर् अयौगपद्याद् रूपकारणस्य तद्वत्तानुपपत्तिः। पारिशेष्याद् (?दूष्याद्) रूपम् एव सहकारीति वाच्यम्। तत्र च वृथा तत्कारणानुमानपरिश्रमः। रूपं सहकारीत्य् अपि नानिर्णीतरूपरसाविनाभावो ऽनुभवितुम् उत्सहते। प्राग् एव तु तन्निर्णये वृथारूपतद्धेत्वोस् सहकारित्वकल्पना। ३,८ अपि चानुभवविरुद्धम् एवेदम्। न खलु रसम् उपलभ्य तद्धेत्वनुमानमुखेन रूपावगतिर् लौकिकानाम्। अपि तर्हि रूपरसयोस् साहित्यनियमात् सहसैव रसाद् रूपम् अनुमीयते। अपि च कार्यकारणभूतयोर् एव बहुलम् अनुमानव्यवहारो दृश्यते इत्य् अनादृत्यं कार्यत्वम् अव्यभिचारे। तादात्म्यम् अपि मेयाभावप्रसङ्गाद् धेयम् एव। किं हि वृक्षात्मनि शिंशपात्वे विदिते मेयम् अवशिष्यते। निर्भागत्वात्। ऐकात्म्ये ऽपि वस्तुनः काल्पनिको भेद इति चेत्, न तावन्निर्भागं वस्तु, भागावग्रहाणां देशादिभेदे ऽप्य् अबाधितानां सम्यक्त्वात्। काल्पनिकभेदाश्रयत्वाच् चानुमानस्य वास्तवम् ऐकात्म्यम् अनङ्गम्। वृक्षव्यवहारो ऽनुमीयत इति चेद् कथम् अनात्मव्यवहारश् शिंशपात्वाद् अनुमीयते। तादात्म्ये वृक्षवदननुमानप्रसङ्गात्। व्यवहारयोग्यतायाम् अप्य् एवम् एवेति यत् किञ्चिद् एतत्। एवम् एव वैशेषिकादिसमयसिद्धा अपि कार्यकारणभावादयस् सम्बन्धप्रकाराः प्रत्युक्ता वेदितव्याः। ते ऽपि ह्य् अनियताननुमानोत्पत्तिकारणम्। अस्तु तर्हि नियमो वानुमानाङ्गम्। न। प्रमाणाभावाद् अनवगतेः। न तावदापातजं प्रत्यक्षम् अस्यावधारणक्षमम्। ईक्षते खल्व् अयं विस्फारिताक्षस् सहसा महानसे धूमम् अग्निना सहितम्। न तु जानाति नियतो ऽयम् अनेनेति। दुरधिगमो हि सर्वभावानां स्वभावनियमः। न तम् उन्नेतुम् उत्सहन्ते झट् इति महान्तो ऽपि। न हि निर्विकल्पकागोचरे विकल्पः प्रमाणम्। तत्पुरस्सरत्वात् तस्य। स्याद् एतत्। देशादिभेदेष्व् अव्यभिचारात् स्वभावनियमो ऽवधार्यत इति। केनावधार्यते सर्वदर्शनानाम् अन्वयमात्रे व्यापारात्। अथ पूर्वपूर्वज्ञानजनितभावनासचिवम् अन्तिमम् अनेनायं नियत इति भवत्य् आलोचनाज्ञानम्। ततो विकल्पाः प्रवर्तिष्यन्त इति। नैतद् एवम्। इन्द्रियव्यापारसापेक्षं हि प्रत्यक्षम्। न च सहभावदर्शनाद् अन्यत्र बहिर् इन्द्रियव्यापारः। न च बहिर् विषयवेदने तन्निरपेक्षम् अन्तःकरणं प्रवर्तते। अपि च निरूपितरूपा अपि भावा देशादिभेदेष्व् अन्यथाभवन्तो ऽनुभूयन्त इति न स्वभावनियमं प्रत्याश्रयितुम् उचितं प्रामाणिकानाम्। तदाहुः -- देशकालादिरूपाणां भेदाद् भिन्नासु शक्तिषु । भावानाम् अनुमानेन प्रसिद्धिर् अतिदुर्लभा ॥ ३,९ इति तस्माद् वक्तव्यो ऽनुमानाङ्गभूतस् सम्बन्धः। अत आह -- सम्बन्ध इति। व्याप्तिर् हि साहित्यनियमम् अपदिशति। तद्दर्शिनो ह्य् एकदेशदर्शनाद् एकदेशान्तरे बुद्धिर् उत्पद्यते, अतस् सामान्यवचनो ऽपि सम्बन्धशब्द उपरितनसमभिव्याहाराद् अत्रानुमानलक्षणग्रन्थे विशेषपरो भवति। उपरि चास्यावधारणे प्रमाणं वक्ष्यत इति

dvayaṃ vānyapadārtha ity āha -- dvayaṃ veti. sambandhagarahaṇakāle parasparasambandham upalabdhaṃ vyāpyavyāpakadvayaṃ jñātasambandham ucyate, tasya ca sa mudāyināv ekadeśau. yathā caitad evaṃ tathā prāg evoktam iti. kiṃ 3,6 punaḥ karmadhārayapakṣe dvayānyapadārthatve vā prameyam. na tāvat sambandhasamudāyāv eva. tayoḥ pūrvam evāvagatatvāt. adhunā ca dharmadharmivibhāgenānavagamāt. na cānya ekadeśī. tasyānupādānāt. na caikadeśābhyām ākṣepaḥ. sambandhasamudāyanirākāṅkṣatvāt. na ca svatantraikadeśadarśanāt svatantraikadeśāntare jñānam anumānaṃ, siddhatvāt. vakṣyati hi na dharmamātraṃ, siddhatvād iti. atrābhidhīyate -- ayam atrārtho jñātasya sambandhasya jñātasambandhasya vā dvayasya kvacid ekadeśadarśanāt tatraivaikadeśāntare buddhir anumānam iti. kuta etat. asannikṛṣṭagrahaṇāt. na hi svatantraikadeśo 'sannikṛṣṭaḥ. kvacid eva parvatādāv ekadeśo 'sannikṛṣṭo bhavati. tatrānavagatapūrvatvād iti kim anupapannam iti. kaḥ punar atra sambandho 'numānāṅgam iṣyate. avinābhāvas tādātmyatadutpattinimittaka iti kecit. evaṃ hi tair uktam. kāryakāraṇabhāvād vā svabhāvād vā niyāmakāt | avinābhāvaniyamo 'darśanān na na darśanāt || iti. na hi vipakṣasapakṣayor adarśanād darśanād vāvinābhāvasiddhiḥ. tenāniyatasyāpi tatra vṛtteḥ sambhavāt. kiñcidvipakṣavyāvṛttyā ca sarvavipakṣavyāvṛttyasiddheḥ. sarvavipakṣāṇāṃ ca yugapad grahītum aśakteḥ. kin tu agnyādau sati dhūmāder bhāvād asati cābhāvāt tadāyattasvabhāvo dhūmādir iti vidite tadavinābhāvas siddhyati. tatkāryasya tam antareṇātmalābhābhāvāt. tad atrāgnau darśanam itaratrādarśanaṃ tadutpattau hetuḥ. tato 'vinābhāvasiddhiḥ. tādātmye 'pi tatsiddhiḥ taṃ vinā bhavatas tādātmyānupapatteḥ. nanv evaṃvidhānvayavirahiṇo gandhān na rūparasādayo 'numīyeran. na ca khalu tasya rūpam ātmā. na ca kāraṇam iti kathaṃ tatas tatsiddhiḥ. śrūyatāṃ yathā siddhyati. rasād eva hi svahetāv agnāv iva dhūmād anumīyamāne samasāmagrīkendhanavikāravadrūpāvagatir iti nānupapattiḥ. yathāhuḥ -- ekasāmagryadhīnasya rūpāder rasato gatiḥ | hetudharmānumānena dhūmendhanavikāravat || 3,7 iti. nanu yuktendhanavikāre tasya dhūmasya caikāgnikāraṇatvād avagatiḥ. na tu rūparasāv ekakāraṇakau. kāraṇarasā hi kārye rasam ārabhante. kāraṇarūpāṇi ca kārye rūpam. tat kutas samānakāraṇatā. naikakāraṇatayaikasāmagryadhīnatvam. kin tu rasād rasahetur anumīyamānaḥ pravṛttirūpajananaśaktirūpopādānakāraṇasahakṛto 'numīyate. tathāvidhasyaiva kāraṇatvāt pravṛttiśaktinā ca kāraṇena rūpaṃ janyata iti rūpasiddhiḥ. tad idam anupapannam yat tāvat kāryaṃ kāraṇena vinā na bhavatīti tatas tajjñānam uktam. tad ayuktam. kathaṃ hi kāraṇena vinā kāryam eva na bhavati ity etad evāvaseyam. tad vinā bhavato nityaṃ sattvam asattvaṃ vā syāt. tataś ca kāryataiva hīyeta. uktaṃ hi taiḥ -- nityaṃ sattvam asattvaṃ vā hetor anyānapekṣaṇāt | apekṣāto hi bhāvānāṃ kādācitkatvasambhavaḥ || iti. apekṣātaḥ kādācitkatvam anapekṣaṃ tu sadasad vā syāt. gaganaśaśaviṣāṇavad iti cet. yady evam anyo 'yaṃ kāryakāraṇabhāvāt svabhāvaniyamaḥ yadanapekṣaṃ tannityaṃ sadasad vā bhavatīti. yac ca rasād rūpāvagatir ekasāmagryadhīnatvād ity uktam. tad apy ayuktam. yady api pravṛttiśaktirūpopādānakāraṇasahakṛto rasahetur avagataḥ svakāryād, rūpaṃ tu kuto 'avagamyate. pravṛttisāmarthyāt kāraṇād iti cet. nanu nādo rūpasya kāryaṃ nātmeti kathaṃ tadavagame hetuḥ. pravṛttiśakteḥ kāraṇasya kāryāvyabhicārād iti cet. na. tarhi kāryatadātmanor evāvinābhāvaḥ kāraṇe 'pi (?bhāvād/bhavet). bhavatv iti cet. na. agner api dhūmānumānaprasaṅgāt. astv iti cet. atantraṃ tarhi kāryatvam anumāne. syān matam. na pravṛttisāmarthyāt kāraṇād rūpānumānam. api tarhi rūpavadrūpakāraṇasahakāriṇā rasakāraṇena raso janyate. sahakārikāraṇam api saviśeṣaṇaṃ kāraṇam eveti rasād itaretarānugṛhītaṃ kāraṇacakram anubhāsyata iti. tan na. kāryakāraṇayor ayaugapadyād rūpakāraṇasya tadvattānupapattiḥ. pāriśeṣyād (?dūṣyād) rūpam eva sahakārīti vācyam. tatra ca vṛthā tatkāraṇānumānapariśramaḥ. rūpaṃ sahakārīty api nānirṇītarūparasāvinābhāvo 'nubhavitum utsahate. prāg eva tu tannirṇaye vṛthārūpataddhetvos sahakāritvakalpanā. 3,8 api cānubhavaviruddham evedam. na khalu rasam upalabhya taddhetvanumānamukhena rūpāvagatir laukikānām. api tarhi rūparasayos sāhityaniyamāt sahasaiva rasād rūpam anumīyate. api ca kāryakāraṇabhūtayor eva bahulam anumānavyavahāro dṛśyate ity anādṛtyaṃ kāryatvam avyabhicāre. tādātmyam api meyābhāvaprasaṅgād dheyam eva. kiṃ hi vṛkṣātmani śiṃśapātve vidite meyam avaśiṣyate. nirbhāgatvāt. aikātmye 'pi vastunaḥ kālpaniko bheda iti cet, na tāvannirbhāgaṃ vastu, bhāgāvagrahāṇāṃ deśādibhede 'py abādhitānāṃ samyaktvāt. kālpanikabhedāśrayatvāc cānumānasya vāstavam aikātmyam anaṅgam. vṛkṣavyavahāro 'numīyata iti ced katham anātmavyavahāraś śiṃśapātvād anumīyate. tādātmye vṛkṣavadananumānaprasaṅgāt. vyavahārayogyatāyām apy evam eveti yat kiñcid etat. evam eva vaiśeṣikādisamayasiddhā api kāryakāraṇabhāvādayas sambandhaprakārāḥ pratyuktā veditavyāḥ. te 'pi hy aniyatānanumānotpattikāraṇam. astu tarhi niyamo vānumānāṅgam. na. pramāṇābhāvād anavagateḥ. na tāvadāpātajaṃ pratyakṣam asyāvadhāraṇakṣamam. īkṣate khalv ayaṃ visphāritākṣas sahasā mahānase dhūmam agninā sahitam. na tu jānāti niyato 'yam aneneti. duradhigamo hi sarvabhāvānāṃ svabhāvaniyamaḥ. na tam unnetum utsahante jhaṭ iti mahānto 'pi. na hi nirvikalpakāgocare vikalpaḥ pramāṇam. tatpurassaratvāt tasya. syād etat. deśādibhedeṣv avyabhicārāt svabhāvaniyamo 'vadhāryata iti. kenāvadhāryate sarvadarśanānām anvayamātre vyāpārāt. atha pūrvapūrvajñānajanitabhāvanāsacivam antimam anenāyaṃ niyata iti bhavaty ālocanājñānam. tato vikalpāḥ pravartiṣyanta iti. naitad evam. indriyavyāpārasāpekṣaṃ hi pratyakṣam. na ca sahabhāvadarśanād anyatra bahir indriyavyāpāraḥ. na ca bahir viṣayavedane tannirapekṣam antaḥkaraṇaṃ pravartate. api ca nirūpitarūpā api bhāvā deśādibhedeṣv anyathābhavanto 'nubhūyanta iti na svabhāvaniyamaṃ pratyāśrayitum ucitaṃ prāmāṇikānām. tadāhuḥ -- deśakālādirūpāṇāṃ bhedād bhinnāsu śaktiṣu | bhāvānām anumānena prasiddhir atidurlabhā || 3,9 iti tasmād vaktavyo 'numānāṅgabhūtas sambandhaḥ. ata āha -- sambandha iti. vyāptir hi sāhityaniyamam apadiśati. taddarśino hy ekadeśadarśanād ekadeśāntare buddhir utpadyate, atas sāmānyavacano 'pi sambandhaśabda uparitanasamabhivyāhārād atrānumānalakṣaṇagranthe viśeṣaparo bhavati. upari cāsyāvadhāraṇe pramāṇaṃ vakṣyata iti

Sanskrit only: no published translation is held for this verse.

यदि ज्ञातसम्बन्धस्यानुमानं स तर्हि सम्बन्धो द्व्याश्रय इत्य् उभयानुमाने लिङ्गं स्याद् अत आह -- व्याप्येति

yadi jñātasambandhasyānumānaṃ sa tarhi sambandho dvyāśraya ity ubhayānumāne liṅgaṃ syād ata āha -- vyāpyeti

Sanskrit only: no published translation is held for this verse.

अत्र कारणम् आह -- यो यस्येति द्वयेन। सः -- समन्यूनदेशकालो हि व्याप्यो भवति। पूर्वं तावद् यत्रोभयोर् अपि धर्मयोर् व्याप्यव्यापकत्वं। यथा परस्ताद् उदाहरिष्यते। उत्तरस् तु यथा धूमादिः, स हि प्रायेणाग्निदेशकालवर्त्ती भवति। सत्य् अपि चाग्नावभवंस् ततो देशकालाभ्यां न्यूनो भवति। यावन्ताव् अग्नेर् देशकालौ तावन्तौ नास्येति न्यूनत्वं। अत एव चासाव् अग्नेर् व्यापको न भवति। सकलतदीयदेशकालाव्याप्तेः। व्यापकस् तु समाधिकदेशकालः। अत्रापि पूर्वोक्त एव पूर्वः। उत्तरस् तु यथाग्नेर् एव धूमस्य। स हि तस्य देशकालौ तावद् व्याप्नोत्य् एव। असत्य् अपि धूमे भवन् देशकालाभ्याम् अधिको ऽप्य् अभिधीयते। यतश् चानयोर् ईदृशं स्वरूपं नान्यथा व्याप्यव्यापकतात्मकता, तेन कारणेन व्याप्य एव गृहीते व्यापकस्य ग्रहणं भवति यद् असौ तं विनापि न भवत्य् एव। न ह्य् असाव् अग्निर् इव धूमस्याग्नेर् देशकालाव् अतिक्रम्यापि भवति। येन तं विनापि भवस् तं न गमयेत्। अग्निस् त्व् अनेवंविध इति नासौ धूमस्य गमको भवति। ननु चायं विशेषो ३,१० ज्ञातसम्बन्धशब्दान् नावगम्यते। स हि सम्बन्धज्ञानमात्रम् अङ्गतया दर्शयति, न व्याप्यताम् इति कुतो विशेषलाभः। उक्तम् अत्र लौकिकलक्षणानुवादेनापरीक्षाप्रतिपादनार्थम् इदं भाष्यम्। लोके च व्याप्यैकदेशदर्शिन एव व्यापकज्ञानम् अनुमानम् इति सिद्धम्। न ह्य् अन्यथेति चापकृष्य पूर्वेण योजयित्वा तेनेति तदुपजीवनेन व्याख्येयम् इति

atra kāraṇam āha -- yo yasyeti dvayena. saḥ -- samanyūnadeśakālo hi vyāpyo bhavati. pūrvaṃ tāvad yatrobhayor api dharmayor vyāpyavyāpakatvaṃ. yathā parastād udāhariṣyate. uttaras tu yathā dhūmādiḥ, sa hi prāyeṇāgnideśakālavarttī bhavati. saty api cāgnāvabhavaṃs tato deśakālābhyāṃ nyūno bhavati. yāvantāv agner deśakālau tāvantau nāsyeti nyūnatvaṃ. ata eva cāsāv agner vyāpako na bhavati. sakalatadīyadeśakālāvyāpteḥ. vyāpakas tu samādhikadeśakālaḥ. atrāpi pūrvokta eva pūrvaḥ. uttaras tu yathāgner eva dhūmasya. sa hi tasya deśakālau tāvad vyāpnoty eva. asaty api dhūme bhavan deśakālābhyām adhiko 'py abhidhīyate. yataś cānayor īdṛśaṃ svarūpaṃ nānyathā vyāpyavyāpakatātmakatā, tena kāraṇena vyāpya eva gṛhīte vyāpakasya grahaṇaṃ bhavati yad asau taṃ vināpi na bhavaty eva. na hy asāv agnir iva dhūmasyāgner deśakālāv atikramyāpi bhavati. yena taṃ vināpi bhavas taṃ na gamayet. agnis tv anevaṃvidha iti nāsau dhūmasya gamako bhavati. nanu cāyaṃ viśeṣo 3,10 jñātasambandhaśabdān nāvagamyate. sa hi sambandhajñānamātram aṅgatayā darśayati, na vyāpyatām iti kuto viśeṣalābhaḥ. uktam atra laukikalakṣaṇānuvādenāparīkṣāpratipādanārtham idaṃ bhāṣyam. loke ca vyāpyaikadeśadarśina eva vyāpakajñānam anumānam iti siddham. na hy anyatheti cāpakṛṣya pūrveṇa yojayitvā teneti tadupajīvanena vyākhyeyam iti

Sanskrit only: no published translation is held for this verse.

ननु व्यापकाद् अपि व्याप्यसंवित्तिर् दृष्टा। अनित्यत्वाद् इव कृतकत्वस्य। भवति हि भावानाम् अनित्यत्वात् कृतकत्वानुमानम्। व्यापकं चानित्यत्वं कृतकत्वस्य। अतो व्यापकं गम्यं व्याप्यं गमकम् इत्य् अव्यापकम् अत आह -- व्यापकत्वेति। अयम् अभिप्रायः। सत्यं व्यापकस्य गमकत्वम्। न तु व्यापकत्वगृहीतस्य। तेन हि रूपेण गृहीतो ऽसौ व्याप्याद् देशकालाधिक्ये ऽपि न विरुध्यते। न चाधिकदेशकालः प्रतिपादको भवति। तं विनापि भावाद् इत्य् उक्तम् एव। ननु व्याप्यतापि तस्यास्ति। अस्तु नाम, वस्तुतस् तत् तु रूपं न गृहीतम् इति कथं गमकत्वम्। अवगते तु ताद्रूप्ये तेनैव गमकत्वं न व्यापकतया। अतो व्याप्यतैवानुमानाङ्गं न व्यापकतेति सूक्तम् इति

nanu vyāpakād api vyāpyasaṃvittir dṛṣṭā. anityatvād iva kṛtakatvasya. bhavati hi bhāvānām anityatvāt kṛtakatvānumānam. vyāpakaṃ cānityatvaṃ kṛtakatvasya. ato vyāpakaṃ gamyaṃ vyāpyaṃ gamakam ity avyāpakam ata āha -- vyāpakatveti. ayam abhiprāyaḥ. satyaṃ vyāpakasya gamakatvam. na tu vyāpakatvagṛhītasya. tena hi rūpeṇa gṛhīto 'sau vyāpyād deśakālādhikye 'pi na virudhyate. na cādhikadeśakālaḥ pratipādako bhavati. taṃ vināpi bhāvād ity uktam eva. nanu vyāpyatāpi tasyāsti. astu nāma, vastutas tat tu rūpaṃ na gṛhītam iti kathaṃ gamakatvam. avagate tu tādrūpye tenaiva gamakatvaṃ na vyāpakatayā. ato vyāpyataivānumānāṅgaṃ na vyāpakateti sūktam iti

Sanskrit only: no published translation is held for this verse.

व्याप्यत्वम् अङ्गं न व्यापकत्वम् इत्य् एतद् एवासङ्कीर्णोदाहरणेन दर्शयति -- विस्पष्टेति। यत्र व्याप्यव्यापकभावो न सङ्कीर्यते, तत्र विस्पष्टम् एवैतद् उपलक्षितम्। यथा व्याप्यं गमकं व्यापकं गम्यम् इति। गोविषाणित्वयोर् हि व्याप्यं गोत्वं व्यापकं विषणित्वम् अनुमापयति न तु विषाणिता गोत्वम्। व्यापिका हि सा। मितौ -- अनुमाने। गोविषाणित्वयोर् अयं गम्यगमकविवेको दृष्ट इत्य् अर्थः

vyāpyatvam aṅgaṃ na vyāpakatvam ity etad evāsaṅkīrṇodāharaṇena darśayati -- vispaṣṭeti. yatra vyāpyavyāpakabhāvo na saṅkīryate, tatra vispaṣṭam evaitad upalakṣitam. yathā vyāpyaṃ gamakaṃ vyāpakaṃ gamyam iti. goviṣāṇitvayor hi vyāpyaṃ gotvaṃ vyāpakaṃ viṣaṇitvam anumāpayati na tu viṣāṇitā gotvam. vyāpikā hi sā. mitau -- anumāne. goviṣāṇitvayor ayaṃ gamyagamakaviveko dṛṣṭa ity arthaḥ

Sanskrit only: no published translation is held for this verse.

३,११ एवम् असङ्करे गम्यगमकविवेकाद् यत्रापि व्याप्तिसङ्करो भवति तत्रापि व्याप्यत्वम् एव गमकत्वे कारणम् इति निष्कृष्यत इत्य् आह -- तेनेति

3,11 evam asaṅkare gamyagamakavivekād yatrāpi vyāptisaṅkaro bhavati tatrāpi vyāpyatvam eva gamakatve kāraṇam iti niṣkṛṣyata ity āha -- teneti

Sanskrit only: no published translation is held for this verse.

ननु व्याप्तिर् अनुमानाङ्गम् इत्य् उक्तम्। कस्य पुनर् इयं संयोगिनस् समवायिनस् सम्बन्धिसम्बन्धिनो वा। न ह्य् अत्र व्यवस्थाम् उपलभामहे। सर्वेषाम् अप्य् अनुमापकत्वात्। तद् यदि संयोगी व्याप्यः। रसाद् रूपानुमानं न स्यात्। अथ समवायी धूमाद् अग्न्यनुमानम्, सम्बन्धिसम्बन्धिनश् च पित्रोर् ब्राह्मणत्वात् पुत्रस्य ब्राह्मणत्वानुमानम् इत्यादि दर्शयितव्यम्। अपि च व्याप्तिर् इत्य् अन्वयो ऽभिधीयते। उपश्लेष इति यावत्। न चासौ भूमौ प्रतिष्ठितेनाग्निना गगनगतस्य धूमाग्रस्य सम्भवति। न च भूमिष्ठां शङ्कुच्छायां दिवि वर्तमानः ऋक्षोदयो ऽन्वेति। व्याप्तिश् च कस्यचित् केनचिद् भवन्ती देशतो वा स्यात् कालतो वा। पूर्वस्मिन् कल्पे भाविनस् सवितुर् उदयस्याद्यतनार्कस्यैवोदयात् अष्टौ यामानतिक्रम्यानुमानं न स्यात्। परस्मिन् धूमाद् अग्न्यनुमानम् इत्यादि पर्यनुयोक्तव्यम्। अत आह -- तेनेति द्वयेन। येन खल्व् अपि विवक्षितावान्तरविभागं व्याप्यतामात्रम् अनुमानाङ्गम् तेन कारणेन यस्यैव संयोगादीनाम् अन्यतमस्य, येनैव तेषाम् अन्यतमेन, यादृशी उपश्लेष्टेनेतरेण वा व्याप्यता प्रागवगता, सैवानुमाने कारणं भवति। न ह्य् उपश्लेषो व्याप्तिः। उक्तं हि -- सम्बन्धनियमो ऽसाव् इति। स चानुपश्लिष्टेनापि भवति। यो हि यस्मिन् सति भवति, असति च न भवति, तेन नियम्यत इत्य् उच्यते। किम् अत्रोपश्लेषेण। न चात्र देशादीनाम् अन्यतमविवक्षा। यावति हि देशे काले वा वर्तमानस्य यस्य व्याप्यता निरूपितपूर्वा, यावद्देशकालभाविना व्यापकेन तस्य व्यापकांशस्य तावत्य् एव देशादौ वर्तमानस्य स व्याप्यांशस् तादृग् एव, गगनादिवर्त्तिधर्म्यन्तरे दृष्टान्तधर्म्यपेक्षया साध्यधर्मिणि दृष्टस् सन् प्रतिपादको भवति। ३,१२ नियमो ह्य् अनुमानाङ्गम्। स च सर्वेषाम् अविशिष्ट एव किम् अवान्तरविभागेन। देशे यावतीत्य् अनतिदूरम् अधिरूढस्य धूमादेर् दूरतरवर्त्तिनो ऽपि नदीपूरस्य व्याप्तिं दर्शयति। शङ्कुच्छायायाश् च नितान्त(दूर)वर्तिना ऋक्षोदयेन। यावति काल इति च भाविनस् सवितुर् उदयानुमानादाव् अपि व्याप्तिं दर्शयतीति

nanu vyāptir anumānāṅgam ity uktam. kasya punar iyaṃ saṃyoginas samavāyinas sambandhisambandhino vā. na hy atra vyavasthām upalabhāmahe. sarveṣām apy anumāpakatvāt. tad yadi saṃyogī vyāpyaḥ. rasād rūpānumānaṃ na syāt. atha samavāyī dhūmād agnyanumānam, sambandhisambandhinaś ca pitror brāhmaṇatvāt putrasya brāhmaṇatvānumānam ityādi darśayitavyam. api ca vyāptir ity anvayo 'bhidhīyate. upaśleṣa iti yāvat. na cāsau bhūmau pratiṣṭhitenāgninā gaganagatasya dhūmāgrasya sambhavati. na ca bhūmiṣṭhāṃ śaṅkucchāyāṃ divi vartamānaḥ ṛkṣodayo 'nveti. vyāptiś ca kasyacit kenacid bhavantī deśato vā syāt kālato vā. pūrvasmin kalpe bhāvinas savitur udayasyādyatanārkasyaivodayāt aṣṭau yāmānatikramyānumānaṃ na syāt. parasmin dhūmād agnyanumānam ityādi paryanuyoktavyam. ata āha -- teneti dvayena. yena khalv api vivakṣitāvāntaravibhāgaṃ vyāpyatāmātram anumānāṅgam tena kāraṇena yasyaiva saṃyogādīnām anyatamasya, yenaiva teṣām anyatamena, yādṛśī upaśleṣṭenetareṇa vā vyāpyatā prāgavagatā, saivānumāne kāraṇaṃ bhavati. na hy upaśleṣo vyāptiḥ. uktaṃ hi -- sambandhaniyamo 'sāv iti. sa cānupaśliṣṭenāpi bhavati. yo hi yasmin sati bhavati, asati ca na bhavati, tena niyamyata ity ucyate. kim atropaśleṣeṇa. na cātra deśādīnām anyatamavivakṣā. yāvati hi deśe kāle vā vartamānasya yasya vyāpyatā nirūpitapūrvā, yāvaddeśakālabhāvinā vyāpakena tasya vyāpakāṃśasya tāvaty eva deśādau vartamānasya sa vyāpyāṃśas tādṛg eva, gaganādivarttidharmyantare dṛṣṭāntadharmyapekṣayā sādhyadharmiṇi dṛṣṭas san pratipādako bhavati. 3,12 niyamo hy anumānāṅgam. sa ca sarveṣām aviśiṣṭa eva kim avāntaravibhāgena. deśe yāvatīty anatidūram adhirūḍhasya dhūmāder dūrataravarttino 'pi nadīpūrasya vyāptiṃ darśayati. śaṅkucchāyāyāś ca nitānta(dūra)vartinā ṛkṣodayena. yāvati kāla iti ca bhāvinas savitur udayānumānādāv api vyāptiṃ darśayatīti

Sanskrit only: no published translation is held for this verse.

नन्व् अस्यां व्याप्तौ न किञ्चित् प्रमाणम् अस्तीत्य् उक्तम् अत आह -- भूयोदर्शनेति। कथं पुनर्भूयोदर्शनगम्या व्याप्तिः। किं हि तत्र प्रत्येकम् एव भूयांसि दर्शनानि प्रमाणम् आहोस्विद् दर्शनसङ्घातः पूर्वतनदर्शनाहितसंस्कारसचिवम् अन्तिमं प्रमान्तरं वा भूयोदर्शनप्रभवम्। तत्र न तावत् प्रत्येकसन्दर्शनसमधिगम्या व्याप्तिर् इत्य् अवसितम् एव। नो खल्व् अस्य सहसाग्निधूमाव् अग्निशरणे विलोकयमानस्याग्निना व्याप्तो धूम इति मतिर् आविरस्ति। न चाननुभूतम् अविकल्पकेन सविकल्पकेनापि विषयीक्रियते। न चानेकदर्शनारब्धो दर्शनसमुदायः कश्चिद् अस्ति, तस्य दर्शनातिरेकेणाभावात्। निरुद्धानागतप्रत्युत्पन्नानां चासंहन्यमानत्वात्। पुरस्तनानेकदर्शनाहितसंस्कारसहायम् अन्तिमं तु दर्शनं कतरत् प्रमाणम् इति चिन्तनीयम्। न तावत् प्रत्यक्षम्। तद् धि द्वेधा विभक्तम्। आलोचनाज्ञानं तत्प्रभवं च विकल्पसम्भिन्नम्। न तावत् पूर्वं व्याप्तेर् अवधारणे समर्थम् अप्रतिसन्धानात्। व्याप्तेश् चायम् अनेन प्रतिबद्ध इति प्रतिसन्धानात्मकत्वात्। न च तदनपेक्षम् उत्तरम् आत्मानं लभते। यच् चेदं संस्काराणां साचिव्यम्, इदम् अपि न चतुरश्रम्। संस्काराः खलु यद्वस्तुरूपोपलम्भसम्भावितात्मानो भवन्ति, तत्रैव स्मृतिमात्रम् आदधति। न पुनरर्थान्तरग्रहणाय कल्पन्ते। प्रत्यक्षे च व्याप्तिप्रमाणे कथम् अतद्विषयाणां व्याप्तिसिद्धिः। भवति हि यथायथं दृष्टानुमितश्रुतेभ्यः कर्मफलेभ्यः पुंविशेषेषु वैदिककर्मानुमानम्। न च तत्तत्कर्मनियमस् तस्य तस्य पश्वादेः फलस्यापरोक्षम् ईक्ष्यते अतीन्द्रियत्वात्। यच् चेदम् अध्वरे ३,१३ वितते वैदिकाद् अङ्गात् प्रधानाच् चापूर्वानुमानम्, तद् अपि न स्यात्। व्याप्त्यवधारणे प्रमाणाभावात्। मेघाभावाच् च वृष्ट्यभावानुमानम् इत्यादि दर्शयितव्यम्। अतो न तावत् प्रत्यक्षा व्याप्तिः। न चानुमानिकी। प्रमाणाभावाद् एव तदधीनात्मलाभस्य तस्यानुपपत्तेः। शब्दस् त्व् अनागतोत्पाद्यभावविषयो न सिद्धव्याप्तिकॢप्तये प्रभवति। उपमानम् अपि प्रमाणान्तरप्रसिद्धवस्तुसादृश्यमात्रविषयं न वस्तुनस् सत्तां प्रमिणोति। अर्थापत्तिर् अप्य् अन्यथानुपपद्यमानार्थविषया दर्शनप्रभवा। न च सहितावधारितयोर् असत्यां व्याप्तौ किञ्चिदनुपपन्नं नाम। ननु कार्यता नोपपद्यते। कथं हि कार्यम् असति कारणे भवति। भूयोदर्शनसमधिगम्यं च कार्यत्वम् इति भूयोदर्शनप्रसूतकार्यत्वावगमान्यथानुपपत्तिप्रमाणिका कारणव्याप्तिसिद्धिः। कथम् इदानीम् अकार्यकारणभूतेषु व्याप्तिस् सेत्स्यति। भूयांसि दर्शनान्य् एवासत्यां व्याप्तौ नोपपद्यन्त इति चेत्, किं हि तेषां व्याप्तिम् अन्तरेण न सम्भवति स्वरूपं, तावच् च कारणसामग्रीकं हि वस् सिद्धम्। स्वगोचरप्रकाशनम् अपि स्वत एव विषयस्यापि स्वप्रमाणपरिच्छिन्नस्य न किञ्चिदनुपपन्नं पश्यामः। न चासौ प्रमाणान्तरेण प्रतिहन्यते। यन्नोपपद्येत। न च भावस्वरूपा व्याप्तिर् अभावेन प्रमीयत इति साम्प्रतम्। तत्रासाव् अभावप्रमाणिका न स्याद् एव। स्यान् मतम् -- केयम् अन्या धूमस्याग्निना व्याप्तिर् अनग्निनिवृत्तेः। सा चाभावरूपत्वाद् अभावेन प्रमीयत इति युक्तम् एव। तन् न। वस्तुरूपत्वात्। वस्तुरूपो हि स्वभावो धूमादेः केनचिन् नियतः। इतरया व्यावर्तते खल्व् अयं शशविषाणाभावाद् अपीति शशविषाणेनापि नियम्येत। कथम् असता नियम्यत इति चेत्। को दोषः। व्यावृत्तिर् हि नियमः, सा चास्तीति किं शशविषाणस्य सत्त्वासत्त्वाभ्याम्। यदि मतं विपक्षव्यावृत्तिर् नियम इति। को यं विपक्षो नाम। यो हि येन नियम्यते तस्य तत्परिपन्थी विपक्षः। व्याप्यते च शशविषाणेन तदभावान् निवृत्तो धूम इत्य् अनग्निर् इव तदभावो ऽपि विपक्ष एव। अपि चाशेषविपक्षाणाम् उपलब्ध्ययोग्यत्वान् न तेभ्यो निवृत्तिर् अभावेन शक्यते ऽवगन्तुम्। योग्यप्रमाणाभावो ३,१४ ह्य् अभावे प्रमाणम् इति वक्ष्यते। अतो न किञ्चिद् व्याप्तौ प्रमाणम्। मानसम् इति चेत्। न। बहिरस्वातन्त्र्यात्। तत्रैतत् स्याद् -- यद्य् अप्य् बहिरिन्द्रियाण्य् अतीतानागतादिभिर् भावभेदैर् व्याप्तिं ग्रहीतुम् असमर्थानि, मनस् तु सकलातीतादिविषयपरिच्छेदसाधारणं प्रतिबद्धसामर्थ्यं क्वचिद् इति तद्बलभाविना प्रत्यक्षेण व्याप्तिर् ग्रहीष्यत इति। तच् च नैवं, बहिरस्वातन्त्र्यान् मनसः। नो खल्व् अपि बहिर्विषयबोधे मनस्स्वतन्त्रम् इति वर्णितम्। तथा हि। मनसस् सार्धम् इत्य् अत्र। स्वतन्त्रे हि बहिरिष्यमाणे मनसि सर्वस् सर्वदर्शी स्यात्। संस्कारतो व्यवस्थेति चेत्। न। स्मृतिहेतुत्वात्। तत्रैतत् स्यात् -- यद्य् अपि केवलम् अस्वतन्त्रं मनो बहिर्विषयावधारणे, तथापि पूर्वपूर्वानुभवजनितसंस्कारसनाथं बहिर् अपि वर्तीष्यते चक्षुराद्यनुगृहीतम् इव रूपादौ। अतो नाव्यवस्था। तच् च नैवम्। स्मृतिहेतुत्वात्। स्मृतिमात्रहेतवो हि पूर्वानुभवप्रभावितास् संस्कारा नोत्सहन्ते मनसो बहिरवग्रहे ऽनुग्रहम् आधातुम्। स्मृतिविषयान्तराणाम् अपि ग्रहणप्रसङ्गात्। अस्ति हि तत्रापि स्मृतिहेतुस् संस्कारः। स चेद् ग्रहणे क्वचिन् मनसस् सहायी भवतीति किं न स्मृतिविषयान्तराण्य् अपि ग्राहयतीति यत् किञ्चिद् एतत्। यस् तु वदति -- साहित्यम् अग्निधूमयोस् सम्बन्धः। स च प्रथमसमधिगमसमय एव संविदितः। अनवच्छिन्नदेशकालश् चाग्निधूमयोस् सम्बन्धो भासते। न हीदानीम् अत्र वा तयोस् सम्बन्ध इति भवति मतिः। अपि तर्हि सन्निहितवर्तमानयोर् एवेदन्तया प्रतिभासमानयोर् देशकालौ सम्बन्धश् च तयोर् विशेषणम् इमौ सम्बद्धाव् इति। नेदानीम् अत्र वा सम्बन्ध इति। तद् एवम् अनवच्छिन्नरूपः स्वाभाविक एव संबन्धः सिद्धो भवति। स्वाभाविकत्वे च न व्यभिचाराशङ्कोपपत्तिमती। किम् इदानीम् अनङ्गभूतम् एव भूयोदर्शनम्। नानङ्गम्। अङ्गं त्व् औपाधिकाशङ्कानिराकरणेन। वह्निर् हि धूमेन संयुक्तस् संवेदितो ऽपि कदाचिद् विधूमो दृश्यते। तत्रार्द्रेन्धनादिर् उपाधिर् अनुप्रविशति। न तु स्वाभाविको ऽग्नेर् धूमेन संबन्ध इति निश्चीयते। तद्दर्शनाच् च धूमे ऽपि भवति शङ्का। कदाचिद् औपाधिकः पावकेनास्यापि संबन्ध इति। सा भूयोदर्शनेन निवर्त्यते। बहुशो ऽपि दृश्यमानस्य धूमस्य नाग्निसंबन्धे कश्चिद् उपाधिर् उपलभ्यते। प्रयत्नेनापि चान्विष्टो न दृष्ट उपाधिर् नास्तीति निश्चीयते। तद् एवं ३,१५ धूममात्रानुबन्ध्यग्निर् इति सिद्धं भवति। ततश् चानौपाधिकस्य न व्यभिचाराशङ्केति। स वक्तव्यः किम् इदानीं साहित्यमात्रम् अनुमानाङ्गं तन्नियमो वा। यदि साहित्यमात्रं तत् तर्हि प्रथमदर्शन एव समधिगतम् इति पुनर्धूमदर्शिनो ऽविदितव्याप्तेर् अप्य् अनुमानं स्यात्। अथ तन्नियमः, तस्यैवेदं प्रमाणम् अनुस्रियते कुतस् सिध्यतीति। न हि प्रथमदर्शिनो ऽयम् अनेन नियत इति मतिर् आविर्भवन्ती दृश्यते। अनवच्छिन्नदेशकालतयावगतस् संबन्धः स्वाभाविको भवति, ततो नियम इति चेत्। स तर्हि तथाविधः प्रथमम् एवावगत इति भूयोर् दर्शनं नापेक्षेत। तथा दृष्टस्याप्य् अग्नेर् धूमसंबन्धो व्यभिचरति। तद्दर्शनाच् च धूमे ऽपि व्यभिचाराशङ्का जायते। तन्निराकरणायासकृद्दर्शनापेक्षेति चेत्। यद्य् अनवच्छिन्नस्यापि देशतः कालतो वा कदाचित् कस्यचिद् वियोगो दृश्यते। कस् तर्हि इतरत्रापि समाश्वासः। नन्व् इयम् आशङ्का भूयोदर्शनेन निराक्रियत इत्य् उक्तम्। कथं निराक्रियते। यदा शतशो ऽपि धूमवान् अग्निर् अवगतो विधूमो दृश्यते। न चात्र प्रतिनियमः इयद्भिर् दर्शनैर् अव्यभिचारः सिध्यति इति। ननु धूमस्याप्य् अग्निसंबन्धे न कश्चिद् उपाधिर् उपलभ्यते अग्नेर् इव धूमसंबन्धे। अतः कथम् असौ सत्य् अपि धूमे न भविष्यति। न। देशादेर् एवोपाधित्वेन शङ्क्यमानत्वात्। अग्नौ धूमसंबन्धव्यभिचारम् उपलभ्याशङ्कते -- कदाचिद् धूमस्याप्य् अग्निसम्बन्धे देशकालाद्युपाधिः स्याद् इति। दृष्टं हि क्वचिद् देशे खर्जूराणां पिण्डखर्जूरफलत्वम्। वृश्चिकदंशनस्य च मरणकारणत्वम्। तद्देशान्तरे न भवति। तद्वत् धूमो ऽपि जातु जायेतान्तरेणापि हुताशनं क्वचिद् इति शङ्कमाना न तस्य नियमम् अग्निनाध्यवस्यन्ति शतांशेनापि। विपक्षाद् व्यावृत्तिश् शङ्क्यमाना अनुमानोदयं प्रतिबध्नातीति कतरच् चेदं प्रमाणम्, अनौपाधिको ऽग्निर् धूममात्रानुबन्धीति। न तावत् प्रत्यक्षम्। साहित्यमात्रोपक्षीणत्वात्। नानुमानम्। तस्यासत्यां व्याप्तावसम्भवात्। व्याप्तिसिद्ध्यर्थं चापरापरानुमानकल्पनायाम् अनवस्थापातात्। प्रमाणान्तराणि निराकृतपूर्वाण्य् एव। अतो व्याख्येयम् अनुमानाङ्गसम्बन्धावधारणे प्रमाणम्, तद् व्याख्यायते। ३,१६ इदं तावत् प्रमाणाभाववादी वक्तव्यः। किं खलु व्याप्तिगोचरं ज्ञानं न जायत एव, सन्दिग्धं वा जायते, विपर्येति वा। त्रेधा हि परीक्षकैर् अप्रामाण्यं विभक्तम्। प्रकारान्तरासम्भवात्। न तावदाद्यः पक्षः। संविद्व्यवहारविरोधात्। दृश्यते हि बहुलं धूमम् अग्नाव् उपलभमानो ऽयम् अनेन नियत इत्य् अवधारणपुरस्सरं ततो ऽग्निम् अनुमाय तदनुरूपं व्यवहरमाणः। तन्नासत्यां व्याप्तिसंवित्ताव् उपपद्येत। व्यवहारदर्शनाद् एव संशयविपर्ययौ निराकार्यौ। ताभ्याम् एवंविधव्यवहारासम्भवात्। अतो न तावद् अप्रामाण्यम्। प्रामाण्यं तु षोढा विभज्यते। तद् यथायोग्यं कस्यचित् कस्याञ्चित् व्याप्तिसंवित्तौ व्यवस्थापयामः। यथैव तावद् धूमस्याग्निना व्याप्तौ प्रत्यक्षस्य। न हीह प्रमाणान्तराणि सम्भवन्तीति वर्णितम् एव। ननु प्रथमदर्शने ऽनवगमात् प्रत्यक्षासम्भवो ऽप्य् उक्त एव। अत एव भूयोदर्शनावगम्यत्वम्। ननु तान्य् अपि विकल्प्य दूषितानि प्रत्येकसाहित्ययोर् असम्भवात्। सत्यम्। न प्रत्येकं व्याप्तिर् अवगम्यते। न च दर्शनानि संहन्यन्ते। प्राचीनानेकदर्शनजनितसंस्कारसहाये चरमे दर्शने चेतसि चकास्ति धूमस्य वह्निनियतस्वभावत्वं, रत्नतत्त्वम् एव परीक्षमाणस्य, शब्दतत्त्वम् इव व्याकरणस्मृतिसंस्कृतस्य, ब्राह्मणतम् एव मातापितृसम्बन्धस्मरणसहकृतस्य, तैलाद् विविक्तम् इव विलीनाज्यं रसगन्धसहकृतेन्द्रियस्य। न ह्य् एतत् सर्वम् आपातान् न प्रतिभातम् इति परस्ताद् अपि भासमानम् अन्यथा भवति। न च प्रमाणान्तरत्वम् आपादयति। ननूक्तं न स्मृतेर् अन्यत्र संस्कारा व्याप्रियन्त इति। केन वा संस्काराणां स्मृतेर् अन्यत्र व्यापार उपेयते। स्मारयन्त एव तु ते पूर्वपूर्वावगतम् अग्निसम्बन्धं धूमस्य व्याप्तिसंविदं जनयितुम् अभिप्रवृत्तस्येन्द्रियस्य सहायीभवन्ति। आन्तरालिकस्मृतिव्यवहितम् अपि चेन्द्रियसम्बन्धानुसारि प्रत्यक्षम् इति वर्णितम्। इन्द्रियसम्बन्धफलापरोक्षाव् अभासानुसारात्। न च यत् सहसा न प्रतिभाति तत्पशाद् अपि प्रतिभासमानं प्रत्यक्षतां जहाति। यथोदाहृतेष्व् एव तावत् ब्राह्मणस्वम्। ननु न तावद् आपातजं प्रत्यक्षं व्याप्तौ प्रमाणम् इति भणितम्। तत्पूर्वकं च सविकल्पकम् इति कथं तस्यापि प्रामाण्यम्। अस्ति वा ब्राह्मणादिप्रत्यक्षे ३,१७ निर्विकल्पकावस्थायां वृद्धादाव् इव नरान्तरविविक्ताकारप्रतिभासः। येन परस्तात् सविकल्पकं प्रवर्तते। यथा तु तत्र पिण्डमात्रदर्शिनः स्मृतयोनिसम्बन्धस्य ब्राह्मणो ऽयम् इति प्रत्यक्षं जायते, एवम् इहापि बहुशो ऽग्निधूमदर्शिनो ऽन्तिमे दर्शने निर्विकल्पकावृत्तधूमस्वलक्षणस्याग्निना नियतो ऽयम् इति धूमस्वभावगोचरं प्रत्यक्षम्, एतावद् एव सविकल्पकस्य निर्विकल्पकपूर्वत्वम्, यत् तज्जन्मपूर्विका प्रवृत्तिः, संज्ञादिस्मरणार्थं हि तत् प्रथमम् अर्थ्यते। तच् चेह व्यक्तिदर्शन एव पूर्वसंस्कारोद्बोधात् सिद्धम् इति नावश्यमनयोस् समानविषयता। अत एव तैलविविक्तविलीनाज्यबोधे तैलम् इदम् इति विपर्यस्यतो गन्धसहकृतेन्द्रियस्य (स)विकल्पकप्रत्यक्षत्वसिद्धिः। न हि तत्रासङ्कीर्णा घृताकारा संविद् आसीत्। तैलम् इदम् इति विपर्ययात्। अतः परस्ताद् एव सहकारिवशात् निर्विकल्पकोपदर्शितव्यक्तिविषयं घृतम् इदम् इति सविकल्पकं प्रत्यक्षम् आविरस्ति। एवम् इहापीति न दोषः। किं पुनर् इह सविकल्पकेन विषयीक्रियते। नियतो ऽयम् अनेनेति नियमः। अस्य हि बहुलं धूमम् अग्नाव् उपलभमानस्यानग्नौ च व्यतिरेकम् अन्ते भवति विमर्शः -- अपि स्याद् व्याप्तो ऽयम् अनेनेति। कथम् अपरथा जाङ्गलादिभेदभिन्नानेकदेशपरित्यागेन सायमादिभेदभिन्नानेककालपरिहारेण च तृणदारुगोमयेन्धनादिसमवधानविशेषं प्रत्यनादृतो ऽग्निम् एवानुधावत्यनग्नौ च न भवति। ततः परं च यथाग्निर् धूमभास्वरत्वादिपरित्यागेनापि (?दु।कु)कूलालातादौ वर्तमानोष्णत्वम् अजहत् तन्नियतो भवति। एवम् अग्निना धूम इत्य् अपरोक्षनिश्चयो जायते। यत् तु देशान्तरादौ व्यभिचार इति, तन् न तावद् दृष्टपूर्वं नापि श्रुतम् इति नाशङ्काम् अधिरोहति। एवम् अपि तु शङ्कमानस्य सर्वप्रमाणेष्व् अनाश्वासः क्वचिद् व्यभिचारदर्शनात्। यत् त्व् अवधारितो ऽपि स्वभावनियमो देशान्तरादाव् अन्यथा भवति वृश्चिकादेर् इति। तन् न। अवान्तरजातिभेदात्। न हि यद् येन नियतम् अवगतम् अबाधितं च तदन्यथा भवति। अवान्तरजातिभेदात् तु शक्तिसदसद्भावकृता कार्यव्यवस्थेति न क्वचिद् व्यभिचारः। ननु अनुमानम् एव किं नेष्यते। यद् औपाधिकं तद् व्यभिचरति। अग्निर् इव धूमम्। न च तथा धूमो ऽग्निम् इत्य् अनौपाधिक इति। भवत्व् एवम्। ३,१८ अव्यवस्था तूपस्थिता। अर्थापत्तिस् तर्हि भवतु। इदम् एव चाग्नौ दर्शनम् अनग्नौ चादर्शनम् अनुपपद्यमानम् अग्निना नियमं प्रतिपादयति। किम् अत्र नोपपद्यते। दर्शनं तावत् तत्र भवतीत्य् एतावतैवोपपन्नम्, न हि यद् एकत्र भवति तेनान्यत्र न भवितव्यम्। अन्यत्र भवतो ऽदर्शनम् अनुपपन्नम् इति चेत्। न। विप्रकृष्टानाम् अन्येषाम् अप्य् असन्निकर्षाद् अदर्शनोपपत्तेः। सन्निहितेष्व् अनग्निष्व् अदर्शनम् अनुपपन्नम् इति चेद् अभावाद् उपपत्तेः। तेषु ह्य् असौ नास्त्व् एव, कथम् उपल(?भ्यते।भ्येत)। तत्र सताप्य् अन्यत्रापि न भवितव्यम् एवेति किम् अत्र प्रमाणम्। अतो दर्शनादर्शनसहकृतेन्द्रियस्यैव वस्तुस्वभावावधारणम् अपरोक्षं जायत इत्य् एवं समर्थनीयम्। नन्व् एतद् एव न विद्मः। कीदृशो ऽसौ वस्तुनः स्वभावो ऽवधार्यत इति। उक्तम् असकृद् धूमो ऽग्निना नियत इति। एतद् उक्तं भवति -- यदा यत्र धूमस् तदा तत्राग्निर् इति। ननु सन्निहितवर्तमानदेशकालमात्रसम्बन्धो ऽस्तु प्रत्यक्षः। अनागतादिसम्बन्धस् तु कथम्, अतिप्रसङ्गो हि तथा (सति) स्यात्। न। सन्निहितरूपमात्रोपलम्भात्। रूपम् एव तु तादृशं धूमादीनां यद् एवम् उन्नीयते, स्थिरम् इव रूपं कुड्यादीनाम्। अस्ति हि तेषु विध्युदादिविलक्षणकालान्तरस्थायिरूपप्रकाशः। सन्निहितावान्तरसम्बन्धो न प्रत्यक्ष इति तद्रूपम् अप्रत्यक्षं भवति। अप्रत्यक्षे हि तस्मिन् नेदं रजतम् इति पूर्वानुभूतरजतबाधो न स्याद्, भिन्नविषयत्वात्। स्वकाले हि पूर्वविज्ञानेन रजतं विषयीकृतं न भविष्यद्बाधकज्ञानक्षण इति कथं तत्राप्रसक्तं बाध्यते। कालान्तरसम्बन्धो ऽपि तेन रूपेण पूर्वज्ञानावधारितं भविष्यज्ज्ञानकालम् अपि व्याप्नोतीति भवति समानविषयताम् आसाद्य बाधः। ननु यद् वस्तुनो रूपं तत्परानपेक्षम् अवगम्यते, अग्नेर् इवोष्णत्वम्। न च धूमस्यागृहीतप्रतिसम्बन्धिना तद्रूपम् अवगम्यत इति कथं वस्तुरूपत्वम्। मैवम्। सम्बन्धो ह्य् असौ, कथम् अनवगते प्रतिसम्बन्धिन्य् अवसीयते। यथाह -- नियमो नाम सम्बन्धः स्वमतेनोच्यते ऽधुना । इति। अतो यद् एतद् अग्निना धूमस्य नियतत्वं भावात्मकम् इदं तत्प्रत्यक्षेणावगम्यत इति किम् अनुपपन्नम्। यथा चानग्निनिवृत्तिर् न नियमः तथा वर्णितम् एव। विपक्षव्यावृत्त्या तु विधिरूप एव नियमः परीक्षकैर् व्याख्याय परेभ्यः प्रतिपाद्यते। ३,१९ ननु नियम्यत्वम् अपि कर्मकारकत्वं, तच् च शक्तिरूपं कथं प्रत्यक्षम्। न। कारकान्तरप्रत्यक्षवद् उपपत्तेः। कारकान्तरशक्तयो ऽपि हि न प्रत्यक्षाः, अतो ऽसत्य् एव शक्तिप्रत्यक्षत्वे कारकं प्रत्यक्षम् एषितव्यम्। एवम् इहापि नियम्यः प्रत्यक्षो भविष्यतीति किम् अनुपपन्नम्। अतस् सिद्धं तावत् प्रत्यक्षत्वम्। आगमिकेषु चार्थेषु तस्य तस्य फलस्य तेन तेन वेदवेद्येन कर्मणा समन्वयात्, कर्मान्तरान्वयस्य चानवगमाद् अनेनैव कर्मणेदं फलं व्याप्तम् इति शास्त्राद् अवगम्यते। नियतसाध्यत्वावगमात्। मेघाभाववृष्ट्यभावयोश् च स्वतन्त्राभावप्रतीत्यसम्भवाद् भावयोर् एव कथञ्चिद् व्याप्तिसंवेदनम्। मेघाभावो नाम नभस एवावस्थाविशेषः। जलधरनिरोधनिर्मुक्तस्य निर्वातस्तिमितमहार्णवप्रतीकाशम् आकाशस्य वपुस् संलक्ष्यते। वृष्ट्यभाव इति च पृथिव्या एव निबिडकठोरपाण्डुरादिभावः। तच् च रूपम् उभयस्यापि प्रत्यक्षसमधिगम्यम् एवेति तद् एव तत्र व्याप्तिप्रमाणम्। एवम् अन्यत्रापि दर्शयितव्यम् इति। भवतु तावद् अन्यद् व्याख्यास्याम इति समधिगतं तावद् व्याप्तेस् स्वरूपं प्रमाणं च। इदं तु चिन्तनीयम्। कस्य केन व्याप्तिर् इति। न ह्य् एकत्र विदिताव् अग्निधूमविशेषौ प्रदेशान्तरे दृश्येते। यत् तयोर् एकस्यैकेनान्वयव्यतिरेकसमधिगम्या व्याप्तिर् भवेत्, अतो वाच्यं व्याप्तेर् अधिकरणम्। अत आह -- सामान्येति। सत्यं न विशेषयोर् व्याप्तिः, सामान्यात्मनोर् एव तु कस्यचिद् धर्मिणो धर्मयोस् तत्तद्भेदपरित्यागेन व्याप्तिर् अवगम्यते धूमाकृतिर् अग्न्याकृत्या नियतेति। अतो न कश्चिद् दोष इति। इदं तु प्रायिकम्, स्थायिनोस् तु विशेषयोर् अपि क्वचिद् व्याप्तिर् भवत्य् एवेत्य् आह -- क्वचिद् इति

nanv asyāṃ vyāptau na kiñcit pramāṇam astīty uktam ata āha -- bhūyodarśaneti. kathaṃ punarbhūyodarśanagamyā vyāptiḥ. kiṃ hi tatra pratyekam eva bhūyāṃsi darśanāni pramāṇam āhosvid darśanasaṅghātaḥ pūrvatanadarśanāhitasaṃskārasacivam antimaṃ pramāntaraṃ vā bhūyodarśanaprabhavam. tatra na tāvat pratyekasandarśanasamadhigamyā vyāptir ity avasitam eva. no khalv asya sahasāgnidhūmāv agniśaraṇe vilokayamānasyāgninā vyāpto dhūma iti matir āvirasti. na cānanubhūtam avikalpakena savikalpakenāpi viṣayīkriyate. na cānekadarśanārabdho darśanasamudāyaḥ kaścid asti, tasya darśanātirekeṇābhāvāt. niruddhānāgatapratyutpannānāṃ cāsaṃhanyamānatvāt. purastanānekadarśanāhitasaṃskārasahāyam antimaṃ tu darśanaṃ katarat pramāṇam iti cintanīyam. na tāvat pratyakṣam. tad dhi dvedhā vibhaktam. ālocanājñānaṃ tatprabhavaṃ ca vikalpasambhinnam. na tāvat pūrvaṃ vyāpter avadhāraṇe samartham apratisandhānāt. vyāpteś cāyam anena pratibaddha iti pratisandhānātmakatvāt. na ca tadanapekṣam uttaram ātmānaṃ labhate. yac cedaṃ saṃskārāṇāṃ sācivyam, idam api na caturaśram. saṃskārāḥ khalu yadvasturūpopalambhasambhāvitātmāno bhavanti, tatraiva smṛtimātram ādadhati. na punararthāntaragrahaṇāya kalpante. pratyakṣe ca vyāptipramāṇe katham atadviṣayāṇāṃ vyāptisiddhiḥ. bhavati hi yathāyathaṃ dṛṣṭānumitaśrutebhyaḥ karmaphalebhyaḥ puṃviśeṣeṣu vaidikakarmānumānam. na ca tattatkarmaniyamas tasya tasya paśvādeḥ phalasyāparokṣam īkṣyate atīndriyatvāt. yac cedam adhvare 3,13 vitate vaidikād aṅgāt pradhānāc cāpūrvānumānam, tad api na syāt. vyāptyavadhāraṇe pramāṇābhāvāt. meghābhāvāc ca vṛṣṭyabhāvānumānam ityādi darśayitavyam. ato na tāvat pratyakṣā vyāptiḥ. na cānumānikī. pramāṇābhāvād eva tadadhīnātmalābhasya tasyānupapatteḥ. śabdas tv anāgatotpādyabhāvaviṣayo na siddhavyāptikḷptaye prabhavati. upamānam api pramāṇāntaraprasiddhavastusādṛśyamātraviṣayaṃ na vastunas sattāṃ pramiṇoti. arthāpattir apy anyathānupapadyamānārthaviṣayā darśanaprabhavā. na ca sahitāvadhāritayor asatyāṃ vyāptau kiñcidanupapannaṃ nāma. nanu kāryatā nopapadyate. kathaṃ hi kāryam asati kāraṇe bhavati. bhūyodarśanasamadhigamyaṃ ca kāryatvam iti bhūyodarśanaprasūtakāryatvāvagamānyathānupapattipramāṇikā kāraṇavyāptisiddhiḥ. katham idānīm akāryakāraṇabhūteṣu vyāptis setsyati. bhūyāṃsi darśanāny evāsatyāṃ vyāptau nopapadyanta iti cet, kiṃ hi teṣāṃ vyāptim antareṇa na sambhavati svarūpaṃ, tāvac ca kāraṇasāmagrīkaṃ hi vas siddham. svagocaraprakāśanam api svata eva viṣayasyāpi svapramāṇaparicchinnasya na kiñcidanupapannaṃ paśyāmaḥ. na cāsau pramāṇāntareṇa pratihanyate. yannopapadyeta. na ca bhāvasvarūpā vyāptir abhāvena pramīyata iti sāmpratam. tatrāsāv abhāvapramāṇikā na syād eva. syān matam -- keyam anyā dhūmasyāgninā vyāptir anagninivṛtteḥ. sā cābhāvarūpatvād abhāvena pramīyata iti yuktam eva. tan na. vasturūpatvāt. vasturūpo hi svabhāvo dhūmādeḥ kenacin niyataḥ. itarayā vyāvartate khalv ayaṃ śaśaviṣāṇābhāvād apīti śaśaviṣāṇenāpi niyamyeta. katham asatā niyamyata iti cet. ko doṣaḥ. vyāvṛttir hi niyamaḥ, sā cāstīti kiṃ śaśaviṣāṇasya sattvāsattvābhyām. yadi mataṃ vipakṣavyāvṛttir niyama iti. ko yaṃ vipakṣo nāma. yo hi yena niyamyate tasya tatparipanthī vipakṣaḥ. vyāpyate ca śaśaviṣāṇena tadabhāvān nivṛtto dhūma ity anagnir iva tadabhāvo 'pi vipakṣa eva. api cāśeṣavipakṣāṇām upalabdhyayogyatvān na tebhyo nivṛttir abhāvena śakyate 'vagantum. yogyapramāṇābhāvo 3,14 hy abhāve pramāṇam iti vakṣyate. ato na kiñcid vyāptau pramāṇam. mānasam iti cet. na. bahirasvātantryāt. tatraitat syād -- yady apy bahirindriyāṇy atītānāgatādibhir bhāvabhedair vyāptiṃ grahītum asamarthāni, manas tu sakalātītādiviṣayaparicchedasādhāraṇaṃ pratibaddhasāmarthyaṃ kvacid iti tadbalabhāvinā pratyakṣeṇa vyāptir grahīṣyata iti. tac ca naivaṃ, bahirasvātantryān manasaḥ. no khalv api bahirviṣayabodhe manassvatantram iti varṇitam. tathā hi. manasas sārdham ity atra. svatantre hi bahiriṣyamāṇe manasi sarvas sarvadarśī syāt. saṃskārato vyavastheti cet. na. smṛtihetutvāt. tatraitat syāt -- yady api kevalam asvatantraṃ mano bahirviṣayāvadhāraṇe, tathāpi pūrvapūrvānubhavajanitasaṃskārasanāthaṃ bahir api vartīṣyate cakṣurādyanugṛhītam iva rūpādau. ato nāvyavasthā. tac ca naivam. smṛtihetutvāt. smṛtimātrahetavo hi pūrvānubhavaprabhāvitās saṃskārā notsahante manaso bahiravagrahe 'nugraham ādhātum. smṛtiviṣayāntarāṇām api grahaṇaprasaṅgāt. asti hi tatrāpi smṛtihetus saṃskāraḥ. sa ced grahaṇe kvacin manasas sahāyī bhavatīti kiṃ na smṛtiviṣayāntarāṇy api grāhayatīti yat kiñcid etat. yas tu vadati -- sāhityam agnidhūmayos sambandhaḥ. sa ca prathamasamadhigamasamaya eva saṃviditaḥ. anavacchinnadeśakālaś cāgnidhūmayos sambandho bhāsate. na hīdānīm atra vā tayos sambandha iti bhavati matiḥ. api tarhi sannihitavartamānayor evedantayā pratibhāsamānayor deśakālau sambandhaś ca tayor viśeṣaṇam imau sambaddhāv iti. nedānīm atra vā sambandha iti. tad evam anavacchinnarūpaḥ svābhāvika eva saṃbandhaḥ siddho bhavati. svābhāvikatve ca na vyabhicārāśaṅkopapattimatī. kim idānīm anaṅgabhūtam eva bhūyodarśanam. nānaṅgam. aṅgaṃ tv aupādhikāśaṅkānirākaraṇena. vahnir hi dhūmena saṃyuktas saṃvedito 'pi kadācid vidhūmo dṛśyate. tatrārdrendhanādir upādhir anupraviśati. na tu svābhāviko 'gner dhūmena saṃbandha iti niścīyate. taddarśanāc ca dhūme 'pi bhavati śaṅkā. kadācid aupādhikaḥ pāvakenāsyāpi saṃbandha iti. sā bhūyodarśanena nivartyate. bahuśo 'pi dṛśyamānasya dhūmasya nāgnisaṃbandhe kaścid upādhir upalabhyate. prayatnenāpi cānviṣṭo na dṛṣṭa upādhir nāstīti niścīyate. tad evaṃ 3,15 dhūmamātrānubandhyagnir iti siddhaṃ bhavati. tataś cānaupādhikasya na vyabhicārāśaṅketi. sa vaktavyaḥ kim idānīṃ sāhityamātram anumānāṅgaṃ tanniyamo vā. yadi sāhityamātraṃ tat tarhi prathamadarśana eva samadhigatam iti punardhūmadarśino 'viditavyāpter apy anumānaṃ syāt. atha tanniyamaḥ, tasyaivedaṃ pramāṇam anusriyate kutas sidhyatīti. na hi prathamadarśino 'yam anena niyata iti matir āvirbhavantī dṛśyate. anavacchinnadeśakālatayāvagatas saṃbandhaḥ svābhāviko bhavati, tato niyama iti cet. sa tarhi tathāvidhaḥ prathamam evāvagata iti bhūyor darśanaṃ nāpekṣeta. tathā dṛṣṭasyāpy agner dhūmasaṃbandho vyabhicarati. taddarśanāc ca dhūme 'pi vyabhicārāśaṅkā jāyate. tannirākaraṇāyāsakṛddarśanāpekṣeti cet. yady anavacchinnasyāpi deśataḥ kālato vā kadācit kasyacid viyogo dṛśyate. kas tarhi itaratrāpi samāśvāsaḥ. nanv iyam āśaṅkā bhūyodarśanena nirākriyata ity uktam. kathaṃ nirākriyate. yadā śataśo 'pi dhūmavān agnir avagato vidhūmo dṛśyate. na cātra pratiniyamaḥ iyadbhir darśanair avyabhicāraḥ sidhyati iti. nanu dhūmasyāpy agnisaṃbandhe na kaścid upādhir upalabhyate agner iva dhūmasaṃbandhe. ataḥ katham asau saty api dhūme na bhaviṣyati. na. deśāder evopādhitvena śaṅkyamānatvāt. agnau dhūmasaṃbandhavyabhicāram upalabhyāśaṅkate -- kadācid dhūmasyāpy agnisambandhe deśakālādyupādhiḥ syād iti. dṛṣṭaṃ hi kvacid deśe kharjūrāṇāṃ piṇḍakharjūraphalatvam. vṛścikadaṃśanasya ca maraṇakāraṇatvam. taddeśāntare na bhavati. tadvat dhūmo 'pi jātu jāyetāntareṇāpi hutāśanaṃ kvacid iti śaṅkamānā na tasya niyamam agninādhyavasyanti śatāṃśenāpi. vipakṣād vyāvṛttiś śaṅkyamānā anumānodayaṃ pratibadhnātīti katarac cedaṃ pramāṇam, anaupādhiko 'gnir dhūmamātrānubandhīti. na tāvat pratyakṣam. sāhityamātropakṣīṇatvāt. nānumānam. tasyāsatyāṃ vyāptāvasambhavāt. vyāptisiddhyarthaṃ cāparāparānumānakalpanāyām anavasthāpātāt. pramāṇāntarāṇi nirākṛtapūrvāṇy eva. ato vyākhyeyam anumānāṅgasambandhāvadhāraṇe pramāṇam, tad vyākhyāyate. 3,16 idaṃ tāvat pramāṇābhāvavādī vaktavyaḥ. kiṃ khalu vyāptigocaraṃ jñānaṃ na jāyata eva, sandigdhaṃ vā jāyate, viparyeti vā. tredhā hi parīkṣakair aprāmāṇyaṃ vibhaktam. prakārāntarāsambhavāt. na tāvadādyaḥ pakṣaḥ. saṃvidvyavahāravirodhāt. dṛśyate hi bahulaṃ dhūmam agnāv upalabhamāno 'yam anena niyata ity avadhāraṇapurassaraṃ tato 'gnim anumāya tadanurūpaṃ vyavaharamāṇaḥ. tannāsatyāṃ vyāptisaṃvittāv upapadyeta. vyavahāradarśanād eva saṃśayaviparyayau nirākāryau. tābhyām evaṃvidhavyavahārāsambhavāt. ato na tāvad aprāmāṇyam. prāmāṇyaṃ tu ṣoḍhā vibhajyate. tad yathāyogyaṃ kasyacit kasyāñcit vyāptisaṃvittau vyavasthāpayāmaḥ. yathaiva tāvad dhūmasyāgninā vyāptau pratyakṣasya. na hīha pramāṇāntarāṇi sambhavantīti varṇitam eva. nanu prathamadarśane 'navagamāt pratyakṣāsambhavo 'py ukta eva. ata eva bhūyodarśanāvagamyatvam. nanu tāny api vikalpya dūṣitāni pratyekasāhityayor asambhavāt. satyam. na pratyekaṃ vyāptir avagamyate. na ca darśanāni saṃhanyante. prācīnānekadarśanajanitasaṃskārasahāye carame darśane cetasi cakāsti dhūmasya vahniniyatasvabhāvatvaṃ, ratnatattvam eva parīkṣamāṇasya, śabdatattvam iva vyākaraṇasmṛtisaṃskṛtasya, brāhmaṇatam eva mātāpitṛsambandhasmaraṇasahakṛtasya, tailād viviktam iva vilīnājyaṃ rasagandhasahakṛtendriyasya. na hy etat sarvam āpātān na pratibhātam iti parastād api bhāsamānam anyathā bhavati. na ca pramāṇāntaratvam āpādayati. nanūktaṃ na smṛter anyatra saṃskārā vyāpriyanta iti. kena vā saṃskārāṇāṃ smṛter anyatra vyāpāra upeyate. smārayanta eva tu te pūrvapūrvāvagatam agnisambandhaṃ dhūmasya vyāptisaṃvidaṃ janayitum abhipravṛttasyendriyasya sahāyībhavanti. āntarālikasmṛtivyavahitam api cendriyasambandhānusāri pratyakṣam iti varṇitam. indriyasambandhaphalāparokṣāv abhāsānusārāt. na ca yat sahasā na pratibhāti tatpaśād api pratibhāsamānaṃ pratyakṣatāṃ jahāti. yathodāhṛteṣv eva tāvat brāhmaṇasvam. nanu na tāvad āpātajaṃ pratyakṣaṃ vyāptau pramāṇam iti bhaṇitam. tatpūrvakaṃ ca savikalpakam iti kathaṃ tasyāpi prāmāṇyam. asti vā brāhmaṇādipratyakṣe 3,17 nirvikalpakāvasthāyāṃ vṛddhādāv iva narāntaraviviktākārapratibhāsaḥ. yena parastāt savikalpakaṃ pravartate. yathā tu tatra piṇḍamātradarśinaḥ smṛtayonisambandhasya brāhmaṇo 'yam iti pratyakṣaṃ jāyate, evam ihāpi bahuśo 'gnidhūmadarśino 'ntime darśane nirvikalpakāvṛttadhūmasvalakṣaṇasyāgninā niyato 'yam iti dhūmasvabhāvagocaraṃ pratyakṣam, etāvad eva savikalpakasya nirvikalpakapūrvatvam, yat tajjanmapūrvikā pravṛttiḥ, saṃjñādismaraṇārthaṃ hi tat prathamam arthyate. tac ceha vyaktidarśana eva pūrvasaṃskārodbodhāt siddham iti nāvaśyamanayos samānaviṣayatā. ata eva tailaviviktavilīnājyabodhe tailam idam iti viparyasyato gandhasahakṛtendriyasya (sa)vikalpakapratyakṣatvasiddhiḥ. na hi tatrāsaṅkīrṇā ghṛtākārā saṃvid āsīt. tailam idam iti viparyayāt. ataḥ parastād eva sahakārivaśāt nirvikalpakopadarśitavyaktiviṣayaṃ ghṛtam idam iti savikalpakaṃ pratyakṣam āvirasti. evam ihāpīti na doṣaḥ. kiṃ punar iha savikalpakena viṣayīkriyate. niyato 'yam aneneti niyamaḥ. asya hi bahulaṃ dhūmam agnāv upalabhamānasyānagnau ca vyatirekam ante bhavati vimarśaḥ -- api syād vyāpto 'yam aneneti. katham aparathā jāṅgalādibhedabhinnānekadeśaparityāgena sāyamādibhedabhinnānekakālaparihāreṇa ca tṛṇadārugomayendhanādisamavadhānaviśeṣaṃ pratyanādṛto 'gnim evānudhāvatyanagnau ca na bhavati. tataḥ paraṃ ca yathāgnir dhūmabhāsvaratvādiparityāgenāpi (?du/ku)kūlālātādau vartamānoṣṇatvam ajahat tanniyato bhavati. evam agninā dhūma ity aparokṣaniścayo jāyate. yat tu deśāntarādau vyabhicāra iti, tan na tāvad dṛṣṭapūrvaṃ nāpi śrutam iti nāśaṅkām adhirohati. evam api tu śaṅkamānasya sarvapramāṇeṣv anāśvāsaḥ kvacid vyabhicāradarśanāt. yat tv avadhārito 'pi svabhāvaniyamo deśāntarādāv anyathā bhavati vṛścikāder iti. tan na. avāntarajātibhedāt. na hi yad yena niyatam avagatam abādhitaṃ ca tadanyathā bhavati. avāntarajātibhedāt tu śaktisadasadbhāvakṛtā kāryavyavastheti na kvacid vyabhicāraḥ. nanu anumānam eva kiṃ neṣyate. yad aupādhikaṃ tad vyabhicarati. agnir iva dhūmam. na ca tathā dhūmo 'gnim ity anaupādhika iti. bhavatv evam. 3,18 avyavasthā tūpasthitā. arthāpattis tarhi bhavatu. idam eva cāgnau darśanam anagnau cādarśanam anupapadyamānam agninā niyamaṃ pratipādayati. kim atra nopapadyate. darśanaṃ tāvat tatra bhavatīty etāvataivopapannam, na hi yad ekatra bhavati tenānyatra na bhavitavyam. anyatra bhavato 'darśanam anupapannam iti cet. na. viprakṛṣṭānām anyeṣām apy asannikarṣād adarśanopapatteḥ. sannihiteṣv anagniṣv adarśanam anupapannam iti ced abhāvād upapatteḥ. teṣu hy asau nāstv eva, katham upala(?bhyate/bhyeta). tatra satāpy anyatrāpi na bhavitavyam eveti kim atra pramāṇam. ato darśanādarśanasahakṛtendriyasyaiva vastusvabhāvāvadhāraṇam aparokṣaṃ jāyata ity evaṃ samarthanīyam. nanv etad eva na vidmaḥ. kīdṛśo 'sau vastunaḥ svabhāvo 'vadhāryata iti. uktam asakṛd dhūmo 'gninā niyata iti. etad uktaṃ bhavati -- yadā yatra dhūmas tadā tatrāgnir iti. nanu sannihitavartamānadeśakālamātrasambandho 'stu pratyakṣaḥ. anāgatādisambandhas tu katham, atiprasaṅgo hi tathā (sati) syāt. na. sannihitarūpamātropalambhāt. rūpam eva tu tādṛśaṃ dhūmādīnāṃ yad evam unnīyate, sthiram iva rūpaṃ kuḍyādīnām. asti hi teṣu vidhyudādivilakṣaṇakālāntarasthāyirūpaprakāśaḥ. sannihitāvāntarasambandho na pratyakṣa iti tadrūpam apratyakṣaṃ bhavati. apratyakṣe hi tasmin nedaṃ rajatam iti pūrvānubhūtarajatabādho na syād, bhinnaviṣayatvāt. svakāle hi pūrvavijñānena rajataṃ viṣayīkṛtaṃ na bhaviṣyadbādhakajñānakṣaṇa iti kathaṃ tatrāprasaktaṃ bādhyate. kālāntarasambandho 'pi tena rūpeṇa pūrvajñānāvadhāritaṃ bhaviṣyajjñānakālam api vyāpnotīti bhavati samānaviṣayatām āsādya bādhaḥ. nanu yad vastuno rūpaṃ tatparānapekṣam avagamyate, agner ivoṣṇatvam. na ca dhūmasyāgṛhītapratisambandhinā tadrūpam avagamyata iti kathaṃ vasturūpatvam. maivam. sambandho hy asau, katham anavagate pratisambandhiny avasīyate. yathāha -- niyamo nāma sambandhaḥ svamatenocyate 'dhunā | iti. ato yad etad agninā dhūmasya niyatatvaṃ bhāvātmakam idaṃ tatpratyakṣeṇāvagamyata iti kim anupapannam. yathā cānagninivṛttir na niyamaḥ tathā varṇitam eva. vipakṣavyāvṛttyā tu vidhirūpa eva niyamaḥ parīkṣakair vyākhyāya parebhyaḥ pratipādyate. 3,19 nanu niyamyatvam api karmakārakatvaṃ, tac ca śaktirūpaṃ kathaṃ pratyakṣam. na. kārakāntarapratyakṣavad upapatteḥ. kārakāntaraśaktayo 'pi hi na pratyakṣāḥ, ato 'saty eva śaktipratyakṣatve kārakaṃ pratyakṣam eṣitavyam. evam ihāpi niyamyaḥ pratyakṣo bhaviṣyatīti kim anupapannam. atas siddhaṃ tāvat pratyakṣatvam. āgamikeṣu cārtheṣu tasya tasya phalasya tena tena vedavedyena karmaṇā samanvayāt, karmāntarānvayasya cānavagamād anenaiva karmaṇedaṃ phalaṃ vyāptam iti śāstrād avagamyate. niyatasādhyatvāvagamāt. meghābhāvavṛṣṭyabhāvayoś ca svatantrābhāvapratītyasambhavād bhāvayor eva kathañcid vyāptisaṃvedanam. meghābhāvo nāma nabhasa evāvasthāviśeṣaḥ. jaladharanirodhanirmuktasya nirvātastimitamahārṇavapratīkāśam ākāśasya vapus saṃlakṣyate. vṛṣṭyabhāva iti ca pṛthivyā eva nibiḍakaṭhorapāṇḍurādibhāvaḥ. tac ca rūpam ubhayasyāpi pratyakṣasamadhigamyam eveti tad eva tatra vyāptipramāṇam. evam anyatrāpi darśayitavyam iti. bhavatu tāvad anyad vyākhyāsyāma iti samadhigataṃ tāvad vyāptes svarūpaṃ pramāṇaṃ ca. idaṃ tu cintanīyam. kasya kena vyāptir iti. na hy ekatra viditāv agnidhūmaviśeṣau pradeśāntare dṛśyete. yat tayor ekasyaikenānvayavyatirekasamadhigamyā vyāptir bhavet, ato vācyaṃ vyāpter adhikaraṇam. ata āha -- sāmānyeti. satyaṃ na viśeṣayor vyāptiḥ, sāmānyātmanor eva tu kasyacid dharmiṇo dharmayos tattadbhedaparityāgena vyāptir avagamyate dhūmākṛtir agnyākṛtyā niyateti. ato na kaścid doṣa iti. idaṃ tu prāyikam, sthāyinos tu viśeṣayor api kvacid vyāptir bhavaty evety āha -- kvacid iti

Sanskrit only: no published translation is held for this verse.

अत्रैवोदाहरणम् आह -- कृत्तिकोदयम् इति। यत्र हि कृत्तिकोदयं दृष्ट्वा रोहिण्यासत्तिः कथ्यते -- अनन्तरम् उदेष्यति रोहिणीति, तस्मिन्न् अनुमाने विशेषस्यैव विशेषेण व्याप्तिः। न हि तयोस् सामान्यम् अस्ति। व्यक्तिभेदे प्रमाणाभावात्। प्रत्यभिज्ञायते हि सैवेयं कृत्तिका, सैवेयं रोहिणीति। कथम् अन्या भविष्यति। अतस् सिद्धं विशेषयोर् एवात्र व्याप्तिर् इति। यदि तर्हि व्याप्तिर् अनुमानाङ्गम्, अस्ति खल्व् असौ हिंसात्वस्याधर्मत्वेन बाह्यहिंसास्व् इत्य् अतः क्रताव् अपि हिंसात्वाद् अधर्मत्वम् अनुमीयते। तत्र ३,२० दैक्षपशुहिंसादीनाम् अधर्मत्वं प्रसज्येतेत्य् अत आह -- व्याप्तेश् चेति द्वयेन। अयम् अभिप्रायः -- सत्यम् आपाताद् भवति भ्रमः, यथा किल हिंसात्वमात्रानुबन्ध्यधर्मत्वम् इति। न त्व् एतद् एवम्। निर्ज्ञातेन ह्य् अधर्मत्वेन हिंसात्वं व्याप्यते। न च शास्त्रादृते तज्ज्ञानोपायस् सम्भवति। न च हिंसात्वमात्रम् अनर्थसाधनम् इति शास्त्रम् अस्ति। विशेषहिंसाया विहितत्वात्। विध्यवरुद्धविषये च प्रतिषेधानवकाशात्। प्रतिषेधम् अन्तरेण चानर्थसाधनत्वज्ञानोपायाभावात्। अतः परिहृत्यापवादविषयम् उत्सर्गो ऽभिनिविशत इति हिंसान्तराणि न हिंस्याद् इति प्रतिषेधो ऽवलम्बते। एवं च यद्य् अपि बाह्यहिंसासु हिंसात्वाधर्मत्वयोस् साहित्यम् अवगतं, तथापि न हिंसात्वम् अधर्मत्वप्रयोजकम्। किन् तु निषिद्धत्वम्। असत्य् अपि हिंसात्वे निषिद्धत्वमात्रेण सुरापानादाव् अधर्मत्वसिद्धेः। अतो य एवास्मिन् सत्य् एवास्य भवितुं शक्तिर् अस्ति इत्य् अनेन रूपेण निरूप्यते। व्याप्यतयावगम्यत इति यावत्। स एव धर्मः प्रयोजक इत्य् उच्यते। परप्रयुक्तव्याप्त्युपजीविनस् तु हिंसात्वादयः, न तैर् अधर्मत्वादिव्यापकांशो ऽवधारयितुं शक्यते। न हि बाह्यहिंसा हिंसेत्य् एवाधर्मः, किन् तु निषिद्धेति। अतो न क्वचिद् विहितानां दैक्षपश्वादिहिंसानाम् अधर्मत्वम् इति

atraivodāharaṇam āha -- kṛttikodayam iti. yatra hi kṛttikodayaṃ dṛṣṭvā rohiṇyāsattiḥ kathyate -- anantaram udeṣyati rohiṇīti, tasminn anumāne viśeṣasyaiva viśeṣeṇa vyāptiḥ. na hi tayos sāmānyam asti. vyaktibhede pramāṇābhāvāt. pratyabhijñāyate hi saiveyaṃ kṛttikā, saiveyaṃ rohiṇīti. katham anyā bhaviṣyati. atas siddhaṃ viśeṣayor evātra vyāptir iti. yadi tarhi vyāptir anumānāṅgam, asti khalv asau hiṃsātvasyādharmatvena bāhyahiṃsāsv ity ataḥ kratāv api hiṃsātvād adharmatvam anumīyate. tatra 3,20 daikṣapaśuhiṃsādīnām adharmatvaṃ prasajyetety ata āha -- vyāpteś ceti dvayena. ayam abhiprāyaḥ -- satyam āpātād bhavati bhramaḥ, yathā kila hiṃsātvamātrānubandhyadharmatvam iti. na tv etad evam. nirjñātena hy adharmatvena hiṃsātvaṃ vyāpyate. na ca śāstrādṛte tajjñānopāyas sambhavati. na ca hiṃsātvamātram anarthasādhanam iti śāstram asti. viśeṣahiṃsāyā vihitatvāt. vidhyavaruddhaviṣaye ca pratiṣedhānavakāśāt. pratiṣedham antareṇa cānarthasādhanatvajñānopāyābhāvāt. ataḥ parihṛtyāpavādaviṣayam utsargo 'bhiniviśata iti hiṃsāntarāṇi na hiṃsyād iti pratiṣedho 'valambate. evaṃ ca yady api bāhyahiṃsāsu hiṃsātvādharmatvayos sāhityam avagataṃ, tathāpi na hiṃsātvam adharmatvaprayojakam. kin tu niṣiddhatvam. asaty api hiṃsātve niṣiddhatvamātreṇa surāpānādāv adharmatvasiddheḥ. ato ya evāsmin saty evāsya bhavituṃ śaktir asti ity anena rūpeṇa nirūpyate. vyāpyatayāvagamyata iti yāvat. sa eva dharmaḥ prayojaka ity ucyate. paraprayuktavyāptyupajīvinas tu hiṃsātvādayaḥ, na tair adharmatvādivyāpakāṃśo 'vadhārayituṃ śakyate. na hi bāhyahiṃsā hiṃsety evādharmaḥ, kin tu niṣiddheti. ato na kvacid vihitānāṃ daikṣapaśvādihiṃsānām adharmatvam iti

Sanskrit only: no published translation is held for this verse.

ये त्व् एवंजातीयकान् अप्य् अप्रयोजकान् हेतून् प्रयुञ्जते, ते सुलभैः प्रतिहेत्वादिदोषैश् चिरं भ्राम्यन्ति। शक्यते हि प्रतिहेतुर् दर्शयितुं, दैक्षपशुहिंसा धर्मः विहितत्वाद् अग्निहोत्रादिवद् इति। प्रयोजके हि हेताव् एवंजातीयका दोषा नास्पदं लभन्ते। अप्रयोजके तु सुलभा एव। तद् एतद् आह -- ये त्व् इति। विस्रब्धम् इति क्रियाविशेषणम्। यथा विश्वासो भवति तथा प्रयुञ्जत इत्य् अर्थः

ye tv evaṃjātīyakān apy aprayojakān hetūn prayuñjate, te sulabhaiḥ pratihetvādidoṣaiś ciraṃ bhrāmyanti. śakyate hi pratihetur darśayituṃ, daikṣapaśuhiṃsā dharmaḥ vihitatvād agnihotrādivad iti. prayojake hi hetāv evaṃjātīyakā doṣā nāspadaṃ labhante. aprayojake tu sulabhā eva. tad etad āha -- ye tv iti. visrabdham iti kriyāviśeṣaṇam. yathā viśvāso bhavati tathā prayuñjata ity arthaḥ

Sanskrit only: no published translation is held for this verse.

३,२१ प्रतिहेत्वादिदोषैर् भ्राम्यन्तीत्य् उक्तम् तान् एव दोषानुपन्यस्यति -- तेष्व् इति। प्रतिहेतुस् तावद् अस्माभिर् उक्त एव। आगमविरोधो ऽप्य् एवंवादिनाम् आपद्यत एव, आगमैकप्रमाणत्वाद् धर्माधर्मयोः। क्वचिद् इष्टविघातः क्वचिद् अलौकिकविवाद इति

3,21 pratihetvādidoṣair bhrāmyantīty uktam tān eva doṣānupanyasyati -- teṣv iti. pratihetus tāvad asmābhir ukta eva. āgamavirodho 'py evaṃvādinām āpadyata eva, āgamaikapramāṇatvād dharmādharmayoḥ. kvacid iṣṭavighātaḥ kvacid alaukikavivāda iti

Sanskrit only: no published translation is held for this verse.

आगमविरोधोदाहरणं तावद् आह -- निषिद्धत्वेनेति। इदं चानागतावेक्षणन्यायेन प्राग् एवास्माभिर् व्याख्यातम् इति

āgamavirodhodāharaṇaṃ tāvad āha -- niṣiddhatveneti. idaṃ cānāgatāvekṣaṇanyāyena prāg evāsmābhir vyākhyātam iti

Sanskrit only: no published translation is held for this verse.

इष्टविरोधोदाहरणम् आह -- हेतुद्वयेति। बाधकारणदोषाधीनं हि सर्वत्र मिथ्याबुद्धीनां मिथ्यात्वम्, न च ज्ञानत्वेनोत्पत्तिमत्त्वेन वा प्रयुज्यते, सत्यमिथ्यात्वसाधारणत्वाद् अनयोः। ज्ञानत्वाद् एव तन्मिथ्यात्वं साधयतो बौद्धस्येष्टविघातकारी हेतुः, धर्मधर्मिस्वरूपस्वविशेषयोर् अपि प्रतिक्षेपात्। सर्वलोकप्रसिद्धपृथिव्याद्यपलापाच् चालोकिकविवादो ऽप्य् अत्रैव दर्शयितव्यः, न हि सर्वविज्ञानानि मिथ्येत्य् एवंविधं विवादं लौकिकास् सहन्ते। सहसैव ह्य् एवंविधविवादश्राविणाम् उद्वेगो जायते। यथा -- अचन्द्रश् शशीत्यादौ। अतो ऽयम् अलौकिको विवादः। तथा चोक्तम् -- सर्वलोकप्रसिद्ध्या च पक्षबाधो ऽत्र ते ध्रुवम् । इति

iṣṭavirodhodāharaṇam āha -- hetudvayeti. bādhakāraṇadoṣādhīnaṃ hi sarvatra mithyābuddhīnāṃ mithyātvam, na ca jñānatvenotpattimattvena vā prayujyate, satyamithyātvasādhāraṇatvād anayoḥ. jñānatvād eva tanmithyātvaṃ sādhayato bauddhasyeṣṭavighātakārī hetuḥ, dharmadharmisvarūpasvaviśeṣayor api pratikṣepāt. sarvalokaprasiddhapṛthivyādyapalāpāc cālokikavivādo 'py atraiva darśayitavyaḥ, na hi sarvavijñānāni mithyety evaṃvidhaṃ vivādaṃ laukikās sahante. sahasaiva hy evaṃvidhavivādaśrāviṇām udvego jāyate. yathā -- acandraś śaśītyādau. ato 'yam alaukiko vivādaḥ. tathā coktam -- sarvalokaprasiddhyā ca pakṣabādho 'tra te dhruvam | iti

Sanskrit only: no published translation is held for this verse.

अपरम् अप्य् आगमविरोधस्योदाहरणं दर्शयति -- त्रैवर्णिकेति। सन्ति खलु स्वर्गकामो यजेतेत्य् एवं विहितानि सोमादीनि कर्माणि। तेषु किं ३,२२ चतुर्णां वर्णानाम् अधिकारः, उतापशूद्राणां त्रयाणाम् इति संशये चतुर्णाम् इति प्राप्तम्, चत्वारो ऽपि हि वर्णाः स्वर्गं कामयन्त इति स्वर्गकामपदेनाभिधीयन्ते। स्वर्गकामश् चात्राधिकारितया ज्ञायत इति प्राप्ते उक्तम् -- अपशूद्राणाम् अधिकार इति। विद्याग्निसाध्या हि ते क्रतवः। अनग्निर् अविद्वांश् चान्तिमो वर्णः। कथम् असौ वैतानिके कर्मण्य् अधिक्रियते। ननु श्रुत्यर्थावगताधिकारसामर्थ्याद् एव शूद्रस्याप्य् अग्निविद्ययोर् आक्षेपो भविष्यति। न। अविधानात्। त्रैवर्णिकस्यैव अष्टवर्षं ब्राह्मणम् उपनयीत वसन्ते ब्राह्मणो ऽग्रीनाद् अधीत इत्य् एवमादिभिर् अग्निविद्ये विहिते। न चानियमेनैव ते शूद्रस्यापि भविष्यत इति शक्यते वक्तुम्। को हि प्रतिलब्धविद्याग्निसम्बन्धस् त्रैवर्णिकाधिकारसम्पादितासु कामश्रुतिषु नियतकालवयोवस्थम् उपनयनमाधानं वा जधन्यवर्णस्योपकल्पयितुम् उत्सहते। अतस् त्रैवर्णिकत्वप्रयुक्तम् एव यागादीनां स्वर्गहेतुत्वम्। न मनुष्यत्वमात्रेण शूद्रसमवायिना प्रयुज्यते। तद् यदि कश्चिद् अनुमानकुशलः प्रयुङ्क्ते शूद्रकृतो यागः स्वर्गहेतुः मनुष्यकृतत्वात् त्रैवर्णिकाचरितयागवद् इति। तस्यागमविरोधः। नन्व् आगमविरोध उदाहृत एव, किं पुनस् तदुदाहरणेन। उच्यते। पूर्वम् अधर्मत्वानुमानस्य वैदिकहिंसाविषयस्य साक्षादागमविरोधो वर्णितः, व्यक्तम् एव दैक्षपशुहिंसा विधीयमानत्वाद् अर्थसाधनम् इत्य् एतद् अवगम्यते, कथम् असाव् अधर्मो भविष्यतीति, चोदनालक्षणस्यार्थस्य धर्मत्वात्। इह तु शूद्रकृतस्य यागादेः स्वर्गहेतुता न साक्षादागमेन प्रतिक्षिप्यते। किन् तु त्रैवर्णिकाधिकारलाभाद् अर्थाद् इतरनिरास इति विशेषः

aparam apy āgamavirodhasyodāharaṇaṃ darśayati -- traivarṇiketi. santi khalu svargakāmo yajetety evaṃ vihitāni somādīni karmāṇi. teṣu kiṃ 3,22 caturṇāṃ varṇānām adhikāraḥ, utāpaśūdrāṇāṃ trayāṇām iti saṃśaye caturṇām iti prāptam, catvāro 'pi hi varṇāḥ svargaṃ kāmayanta iti svargakāmapadenābhidhīyante. svargakāmaś cātrādhikāritayā jñāyata iti prāpte uktam -- apaśūdrāṇām adhikāra iti. vidyāgnisādhyā hi te kratavaḥ. anagnir avidvāṃś cāntimo varṇaḥ. katham asau vaitānike karmaṇy adhikriyate. nanu śrutyarthāvagatādhikārasāmarthyād eva śūdrasyāpy agnividyayor ākṣepo bhaviṣyati. na. avidhānāt. traivarṇikasyaiva aṣṭavarṣaṃ brāhmaṇam upanayīta vasante brāhmaṇo 'grīnād adhīta ity evamādibhir agnividye vihite. na cāniyamenaiva te śūdrasyāpi bhaviṣyata iti śakyate vaktum. ko hi pratilabdhavidyāgnisambandhas traivarṇikādhikārasampāditāsu kāmaśrutiṣu niyatakālavayovastham upanayanamādhānaṃ vā jadhanyavarṇasyopakalpayitum utsahate. atas traivarṇikatvaprayuktam eva yāgādīnāṃ svargahetutvam. na manuṣyatvamātreṇa śūdrasamavāyinā prayujyate. tad yadi kaścid anumānakuśalaḥ prayuṅkte śūdrakṛto yāgaḥ svargahetuḥ manuṣyakṛtatvāt traivarṇikācaritayāgavad iti. tasyāgamavirodhaḥ. nanv āgamavirodha udāhṛta eva, kiṃ punas tadudāharaṇena. ucyate. pūrvam adharmatvānumānasya vaidikahiṃsāviṣayasya sākṣādāgamavirodho varṇitaḥ, vyaktam eva daikṣapaśuhiṃsā vidhīyamānatvād arthasādhanam ity etad avagamyate, katham asāv adharmo bhaviṣyatīti, codanālakṣaṇasyārthasya dharmatvāt. iha tu śūdrakṛtasya yāgādeḥ svargahetutā na sākṣādāgamena pratikṣipyate. kin tu traivarṇikādhikāralābhād arthād itaranirāsa iti viśeṣaḥ

Sanskrit only: no published translation is held for this verse.

अप्रयोजकोदाहरणच्छलेनेदानीं परोपालम्भनार्थम् उदाहरणान्तराणि दर्शयति -- कृतेति द्वयेन। प्रयत्नानन्तरज्ञानसदृशाः प्रत्ययानवस्थानादयो ऽभिमताः तैश् शब्दगोचरैस् तस्य विनाशिता न प्रयुज्यते। कृतकत्वादिप्रयुक्ता ह्य् असौ। न च कृतकत्वम् एव प्रयत्नानन्तरदर्शनेन साधयितुं शक्यम्। आकाशादिभिर् व्यभिचारात्। यदि तर्हि सावयवत्वप्रयुक्ता विनाशिता, ३,२३ किम् इदानीं नश्वराणि भुवनानि भुवनसन्निवेशाश् च महीमहीधरोदधिप्रभृतयः। सत्यम्। सर्वम् एव सावयवं विनाशधर्मकम्, महीमहीधरादयो ऽपि समासादितस्वावयवसंयोगविभागविशेषा भागशो नश्यन्त्य् एव। निरन्वयम् तु विनाशं न कस्यचिद् अभ्युपगच्छामः। एवं महाभूमेर् अप्य् आवापोद्वापभेदान् नाशो दर्शयितव्यः। तथा यद् अपि वैशेषिकैर् जातिमत्त्वाद् ऐन्द्रियकत्वाच् च शब्दानित्यत्वम् अनुमितं, तद् अप्य् अयुक्तम्। एतद् धि जातिमत्त्वादि वस्तुसन्मात्रनिबन्धनम् एव नित्यानित्यसाधारणम्, नानेनानित्यता साध्यते। किम् इदं वस्तुसन्मात्रनिबन्धनम् इति, परमार्थसन्निबन्धनम् इत्य् उक्तं भवति। परमार्थसन्त एव घटाकाशात्मादय इन्द्रियविषया जातिमन्तश् च, न भ्रान्तिसंविदिताः शशविषाणादय इवेति

aprayojakodāharaṇacchalenedānīṃ paropālambhanārtham udāharaṇāntarāṇi darśayati -- kṛteti dvayena. prayatnānantarajñānasadṛśāḥ pratyayānavasthānādayo 'bhimatāḥ taiś śabdagocarais tasya vināśitā na prayujyate. kṛtakatvādiprayuktā hy asau. na ca kṛtakatvam eva prayatnānantaradarśanena sādhayituṃ śakyam. ākāśādibhir vyabhicārāt. yadi tarhi sāvayavatvaprayuktā vināśitā, 3,23 kim idānīṃ naśvarāṇi bhuvanāni bhuvanasanniveśāś ca mahīmahīdharodadhiprabhṛtayaḥ. satyam. sarvam eva sāvayavaṃ vināśadharmakam, mahīmahīdharādayo 'pi samāsāditasvāvayavasaṃyogavibhāgaviśeṣā bhāgaśo naśyanty eva. niranvayam tu vināśaṃ na kasyacid abhyupagacchāmaḥ. evaṃ mahābhūmer apy āvāpodvāpabhedān nāśo darśayitavyaḥ. tathā yad api vaiśeṣikair jātimattvād aindriyakatvāc ca śabdānityatvam anumitaṃ, tad apy ayuktam. etad dhi jātimattvādi vastusanmātranibandhanam eva nityānityasādhāraṇam, nānenānityatā sādhyate. kim idaṃ vastusanmātranibandhanam iti, paramārthasannibandhanam ity uktaṃ bhavati. paramārthasanta eva ghaṭākāśātmādaya indriyaviṣayā jātimantaś ca, na bhrāntisaṃviditāḥ śaśaviṣāṇādaya iveti

Sanskrit only: no published translation is held for this verse.

एवम् अप्रयोजकस्यासाधकत्वम् उक्तम् उपसंहरति -- तस्माद् इति। अयम् अर्थः -- य एव निषिद्धत्वादिर् अर्थो यस्याधर्मत्वादेस् साधनशक्तियुक्तत्वेनावगतः। अस्मिन् सत्य् अमुना भवितव्यम् इतीदृश्या शक्त्यावधार्यत इति यावत्। नियम्यशक्तिर् एव हि साधनशक्तिर् इत्य् आख्यायते, नियतावगतो हि नियामकं शक्नोति (गमयितुं) नान्य इति, (स) नियम्य एव गमको न प्रसङ्गान्वितो हिंसात्वाधिः। निषिद्धत्वेनान्वेतुम् अभिप्रवृत्तेनाधर्मत्वेन प्रसङ्गाद् धि हिंसात्वम् अप्य् अन्वितम् इति प्रसङ्गान्वितं हिंसात्वं नाधर्मत्वस्य गमकं भवतीति

evam aprayojakasyāsādhakatvam uktam upasaṃharati -- tasmād iti. ayam arthaḥ -- ya eva niṣiddhatvādir artho yasyādharmatvādes sādhanaśaktiyuktatvenāvagataḥ. asmin saty amunā bhavitavyam itīdṛśyā śaktyāvadhāryata iti yāvat. niyamyaśaktir eva hi sādhanaśaktir ity ākhyāyate, niyatāvagato hi niyāmakaṃ śaknoti (gamayituṃ) nānya iti, (sa) niyamya eva gamako na prasaṅgānvito hiṃsātvādhiḥ. niṣiddhatvenānvetum abhipravṛttenādharmatvena prasaṅgād dhi hiṃsātvam apy anvitam iti prasaṅgānvitaṃ hiṃsātvaṃ nādharmatvasya gamakaṃ bhavatīti

Sanskrit only: no published translation is held for this verse.

एवं तावत् सर्वप्रकारो ऽनुमानाङ्गभूतस् सम्बन्धपदार्थो व्याख्यातः। इदानीम् एकदेशदर्शनाद् एकदेशान्तरे बुद्धिर् इति व्याख्येयम्। तत्र चैतद् एव तावद् वक्तव्यम्। स्वतन्त्रैकदेशदर्शनात् तथाविधैकदेशान्तरे ज्ञानम् अनुमानम् इत्य् आपद्येत। तच् चायुक्तम्। स्मरणं हि तत्, कथम् अनुमानं भवेत्। ३,२४ अथैकदेशदर्शनाद् एकदेशान्तरविशिष्ट एकदेश्यनुमानस्य विषय इष्यते। तन् न। अनुपात्तत्वात्। न ह्य् अत्रैकदेशी केनचिच्छब्देनोपात्तः। अतस् तदनुपादानान् न्यूनं लक्षणम् इत्य् आशङ्क्याह -- उपात्त इति। यद्य् अपि स्वशब्देन नैकदेश्युपात्तस् तथाप्य् एकदेशशब्दाभ्याम् एवार्थाद् आक्षिप्यत इति न न्यूनत्वदोष इति

evaṃ tāvat sarvaprakāro 'numānāṅgabhūtas sambandhapadārtho vyākhyātaḥ. idānīm ekadeśadarśanād ekadeśāntare buddhir iti vyākhyeyam. tatra caitad eva tāvad vaktavyam. svatantraikadeśadarśanāt tathāvidhaikadeśāntare jñānam anumānam ity āpadyeta. tac cāyuktam. smaraṇaṃ hi tat, katham anumānaṃ bhavet. 3,24 athaikadeśadarśanād ekadeśāntaraviśiṣṭa ekadeśyanumānasya viṣaya iṣyate. tan na. anupāttatvāt. na hy atraikadeśī kenacicchabdenopāttaḥ. atas tadanupādānān nyūnaṃ lakṣaṇam ity āśaṅkyāha -- upātta iti. yady api svaśabdena naikadeśyupāttas tathāpy ekadeśaśabdābhyām evārthād ākṣipyata iti na nyūnatvadoṣa iti

Sanskrit only: no published translation is held for this verse.