३,९१ न चैष प्रकारो लिङ्गगतौ सम्भवतीत्य् आह -- न त्व् इति। न ह्य् अत्र प्राग् अपि लिङ्गावगमे प्रमाणं किञ्चिद् उपपद्यते, यत् प्रमाणज्ञानेनोपस्थाप्यत इति। न च लिङ्गज्ञानम् अपि स्मृतिर् एवेति वाच्यम्। पूर्वप्रमाणाभावाद् एवेत्य् आह -- तदभावाद् इति
3,91 na caiṣa prakāro liṅgagatau sambhavatīty āha -- na tv iti. na hy atra prāg api liṅgāvagame pramāṇaṃ kiñcid upapadyate, yat pramāṇajñānenopasthāpyata iti. na ca liṅgajñānam api smṛtir eveti vācyam. pūrvapramāṇābhāvād evety āha -- tadabhāvād iti
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.