एतद् एव निराकरोति -- स्याद् एवम् इति। निराकृते स्वभाववादे ऽदृष्टं कल्पयितुं शक्यते। न च स्वभाववादो निराकर्तुं शक्यते। कर्मशक्तिवैचित्र्यसिद्ध्यर्थम् अवश्याभ्युपगमनीय इत्य् आह -- कर्मशक्तेर् इति। अवश्यं हि फलवैचित्र्यसिद्ध्यर्थं कर्मणां शक्तिभेदो ऽङ्गीकरणीयः। न हि तत्र स्वभावाद् अन्यो हेतुर् उत्प्रेक्षितुम् अपि शक्यत इति
etad eva nirākaroti -- syād evam iti. nirākṛte svabhāvavāde 'dṛṣṭaṃ kalpayituṃ śakyate. na ca svabhāvavādo nirākartuṃ śakyate. karmaśaktivaicitryasiddhyartham avaśyābhyupagamanīya ity āha -- karmaśakter iti. avaśyaṃ hi phalavaicitryasiddhyarthaṃ karmaṇāṃ śaktibhedo 'ṅgīkaraṇīyaḥ. na hi tatra svabhāvād anyo hetur utprekṣitum api śakyata iti
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.