न च वाच्यं मा ज्ञायि कर्मफलविवेकः। अस्ति तावत् कारणसामान्यज्ञानम् इति। तावता च प्रवृत्त्यभावाद् इत्य् आह -- इतीति। प्रवृत्त्यङ्गस्य च ज्ञानस्य हानोपादानार्थिभिर् मूलं परीक्ष्यत इत्य् आह -- प्रवृत्तीति
na ca vācyaṃ mā jñāyi karmaphalavivekaḥ. asti tāvat kāraṇasāmānyajñānam iti. tāvatā ca pravṛttyabhāvād ity āha -- itīti. pravṛttyaṅgasya ca jñānasya hānopādānārthibhir mūlaṃ parīkṣyata ity āha -- pravṛttīti
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.