अन्यन् मतं - प्राग् अपि नामनियोगान् नामाकारग्राह्यशक्तिर् अर्थस्यासीद् इति। अत्यन्तासत्या गगनकुसुमवद् भावयितुम् अशक्यत्वात्। नियोगे तु कृते ऽसौ शक्तिर् अभिव्यज्यते परम्। अतः प्राग् अपि तद्रूपसद्भावे ऽस्ति प्रमाणम् इति न पाररूप्यं, तद् एतद् आह -- नियोगाद् इति
anyan mataṃ - prāg api nāmaniyogān nāmākāragrāhyaśaktir arthasyāsīd iti. atyantāsatyā gaganakusumavad bhāvayitum aśakyatvāt. niyoge tu kṛte 'sau śaktir abhivyajyate param. ataḥ prāg api tadrūpasadbhāve 'sti pramāṇam iti na pārarūpyaṃ, tad etad āha -- niyogād iti
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.