ननु नियोगो नियुक्तिः। स च नियोक्तृव्यापारः। न च वेदे नियोक्तास्ति अपौरुषेयत्वात्। शब्दस्य चानियोक्तृत्वान् न तद्व्यापारो नियोगः। अदूरविप्रकर्षेण तु नियोगादिपदप्रयोगः। याथात्म्यवेदनायां तु लिङ् एव पठितव्यः। सा ह्य् अस्य प्रमाणम्। किम् आत्मकस् तर्ह्य् अयम्। उक्तं कार्यात्मेति। न च द्रव्याद्यनात्मकत्वाद् अभावः, तद्वद् एव कार्यम् अपि तद्विभक्तम् एव देशकालनरावस्थान्तराविपर्ययात् स्वसंवित्संवेद्यं नास्तीति शक्यते ऽवगन्तुम्। उदीयते खल्व् अपि लिङादिश्राविणां कार्यसंवित्। न चेयम् अनालम्बना, न च स्वांशालम्बनेति विज्ञानवादे वर्णितम्। अतो निर्विषया संविदात्मानम् अलभमाना स्वविषयभूतं कार्यम् उपकल्पयति। न च प्रतिभामात्रम् इदम् इति वाच्यम्। अनियतनिमित्ता हि प्रतिपत्तिः प्रतिभा। न चेयम् अनियतनिमित्ता, शब्दनिमित्तत्वात् तदनन्तरम् उत्पत्तेः। कथम् अनन्यगोचरे कार्यात्मनि व्युत्पत्तिः। तदभावे वा शब्दात् प्रतिपत्तिः कल्प्यताम्। लिङादीनां सकलेतरशब्दविलक्षणः को ऽपि महिमा, यदविदितसम(?या।या अ)पि स्वार्थं गमयन्ति। अथवा सर्वस्याकुमारमास्थविरं च कार्यावगतिः प्रवृत्तिहेतुर् इति प्रसिद्धिः। २,१० तदन्यम् अपि लिङादिशब्दश्रवणानन्तरं चेष्टाविशिष्टम् उपलभ्याकलयति नूनम् इतः सकाशाद् अस्य कार्यसंविदासीत् कथम् अपरथा प्रवर्तत इति। नन्व् एवं क्रियाम् एव कार्यतया अज्ञासीद् इति परस्यापि तद्गोचराम् एव कार्यधियम् उन्नयति। न। वर्तमानापदेशेषु सत्य् अपि क्रियाज्ञाने प्रवृत्त्यदर्शनात्, क्रियात्मनः कार्यस्य व्यभिचारात् प्रवृत्तावहेतुत्वात्। एतद् एव फले ऽपि दर्शयितव्यम्। अतो निर्मुक्ताखिलफलादिविकल्पम् अव्यभिचरितप्रवृत्तिसम्बन्धं कार्यमात्रं लिङादिभ्यः प्रयोज्यवृद्धेनावगतम् इति व्युत्पद्यमानो जानाति। न हि कार्यावगतिर् भवति प्रवृत्तिश् च नेति सम्भवति। अतः कार्यम् एव कार्यविधिर् इत्य् आचार्याः प्रतिपेदिरे। ननु च प्रेषणादयो लिङर्थाः। न, स्वसन्ताने प्रवृत्तिहेतुत्वेन तेषाम् अनुपलब्धेः। वेदे च व्यभिचारात्। (ननु तर्)हीष्टाभ्युपायता लिङादीनाम् अर्थो भविष्यति। सर्वो हि समीहितोपायम् आकलय्य तत्र तत्र प्रवर्तत इति परम् अपि चेष्टमानम् उपलभ्य जानाति नूनम् इष्टो ॥॥॥।मव्यापारः शब्दश्रवणानन्तरं चायं चेष्टत इति शब्देनेष्टाभ्युपायता प्रतिपादिता भवति। स एव विधिः। प्रवर्तनारूपो हि सः। प्रवृत्तिहेतुं धर्मं च प्रवदन्ति ॥॥॥ । अतः प्रेषणाध्येषणाभ्यनुज्ञातिरिक्तम् अप्रवृत्तप्रवर्तनं नियोज्यार्थकर्मगोचरं लोकवेदसाधारणं चोदनोपदेशपर्यायपदवाच्यं लिङादीनाम् अर्थो विधिर् इति युक्तम्। हि ॥॥॥॥त्य जैमिनिनोक्तम् उपदेश इति। भाष्यकारेण च उपदेश इति विशिष्टस्य शब्दस्योच्चारणम् इति विवृतम्। पुरुषार्थोपायं किलानवगतम् अवगमयन् शब्दान्तरे दूरम् उत्क्र्ष्टो लिङादिशब्दो ऽविशिष्ट इत्य् उक्तम्। अतो लोकवेदतन्त्रान्तरानुगतो ऽयम् एव सिद्धान्त इति कैश् चिद् उन्नीतम्। तद् इदम् अनुपपन्नम्। तथा हि -- संविद् एव तावत् परिपन्थिनी। न हि लिङादिश्रवणसमनन्तरम् इष्टाभ्युपायो ऽयं व्यापार इति भवति मतिः। अपि तर्हि, प्रवर्तनावगतिः। ननु चेष्टाभ्युपायतैव प्रवर्तना प्रवृत्तिहेतुत्वात्। तन् न। एवं सति यस्य पर्णमयी जुहूर् भवति इत्य् अत्रापि विधित्वप्रसङ्गः। तरति मृत्युम् इत्य् अत्रापि। भवति हि तत्रापि पर्णमयता अपापश्लोकश्रवणस्य अश्वमेधो वा ब्रह्महत्यातरणस्य साधनम् इति प्रतिपत्तिः। यदि मतम् -- अस्येदं भवतीत्य् अन्वयमात्रम् अत्रावगम्यते न व्यतिरेकः, न च तम् अन्तरेण साध्यसाधनसम्बन्धो २,११ ऽवगम्यते इति। कथं तर्हि स्वर्गकामो यजेतेत्य् अत्रापि स्वर्गयागयोः साध्यसाधनसंवित्। न हि तत्रापि सति योगे स्वर्गो भवति असति नेति मतिः। यागेनेति हि तृतीया साधनभावम् अवगमयतीति चेद्, न। तृतीयाश्रवणात्। विधेर् अयं महिमा यदतृतीयान्तो ऽपि यजिः करणतया निर्दिश्यते। स चेद् अन्यो नाभ्युपगम्यते कथं स्वभावसाध्यो यजिः करणतया निर्दिश्यते। अपि च यत्र स्पष्टम् इष्टाभ्युपायत्वम् अवगम्यते यागस्य यथेष्टाभ्युपायो ऽयं यागः यागेन स्वर्गः सिध्यतीति वा, तत्रापि विधित्वप्रसङ्गः। किञ् च तद्द्वेषीति तत्कारि चायम् एवं ब्रुवाणो दृश्यते। तथा हि प्रतिभा विधिर् इति निरस्यतैतद् उक्तं - न निरालम्बनं ज्ञानं क्रिया साधनयोगिनी । समान्यस्मिन् इति। तद् इदं तवापि समानम् इति वर्णितम्। अपि च एवंवादिना साधु समर्थितं विधाव् अनाश्रिते इति। अत्र हि विध्यधीना यागादेर् इष्टाभ्युपायता न तु सैव विधिर् इति दर्शयति। तस्माद् अतिकुशलैर् उपदेशापदेशयोर् अविशेष एवोपपादित इति निर्मुक्ताखिलोपाधिविधितत्त्वम् अतीन्द्रियम् अन्यदेवेति पूर्वोक्तम् एव साधीयः। अत्र वदामः -- नैवम् अपि यागस्वर्गयोः साध्यसाधनसम्बन्धसिद्धिः। नियोगो हि तदा साध्यः। न च साध्यद्वयम् एकत्र समवैति, समत्वाद् असम्बन्धात्। ननु नियोगसिद्धिनान्तरीयकी स्वर्गसिद्धिः। अत एव साध्यविवृद्धिर् इयं न तु स्वर्गो ऽपि स्वतन्त्रतया साध्यः। निरपेक्षं च साध्यद्वयम् एकत्र विरुध्यते, नानुगुणम्। यथाह -- नियोगसिद्धौ सर्वं तदनुगुणम् इति। केन नेष्यते। तस्माद् अविरोध इति। तद् असत्। किं हि स्वर्गसिद्धिम् अन्तरेण नियोगस्य न सिध्यति। न हि नित्याधिकारेषु नियोगः साध्यान्तरम् आकाङ्क्षति। कामाधिकाराः काम्यपर्यन्ता इति चेत्, को हेतुः। कमिसाध्यत्वागवतिः। तथा हि स्वर्गकामो यजेतेति साध्यस्वर्गविशिष्टाधिकारिसाध्यो नियोगो ऽवगम्यते। स कथम् असिध्यति स्वर्गे सिध्येत्। अतः स्वर्गसिद्धिर् अवगम्यत इति नः साध्यस्वर्गविशिष्टो ऽधिकारी। २,१२ कस् तर्हि। काम्यस्वर्गविशिष्टः। अतः स्वर्गं कामयमानः पुरुषो नियोगं साधयिष्यति। अन्यदिच्छतो ऽन्यत्र क्रिया नोपपद्यत इति चेद्, न। नियोगसामर्थ्याद् उपपत्तेः। नियोगो हि प्रधानभूतः साध्यतयावगतः स्वर्गम् अपि कामयमानम् आत्मन्य् आकर्षतीति किम् अनुपपन्नम्। अपि च सिध्यन्न् अपि स्वर्गो यागात् सिध्यतीति न नः प्रमाणम्। स्वर्गयागौ हि युगपदरुणैकहायनीवदेकप्रधानकार्यान्वयिनौ नान्योन्यान्वयम् अनुभवतः। न चारुणिम्न इव द्रव्यावछेदशक्तिर् यजेर् अपि स्वर्गसाधनशक्तिर् अवधृता प्रमाणान्तरेण। ननु किम् अत्र प्रमाणान्तरेण। स्वर्गे याग एव प्रमाणम्। स हि स्वर्गकामं यागे नियुङ्क्ते। न चाकामोपाये कामी नियोक्तुं शक्यते। उक्तोत्तरम् इदम्। किं हि भगवतो नियोगस्यालौकिकस्यासदृशमहिम्नो दुः(खत)या फले ऽपि नरं प्रवर्तयति। तस्य ह्य् अनुपाये कामिनं नियुञ्जानस्य किम् इव हीयेत। यागे नियोगो नियुङ्क्ते इति वदता नूनम् इदम् अवधीरितम्। आरम्भे हि पुरुषो नियुज्यते न कर्मणीति। तस्मान् न स्वर्गयागयोः साध्यसाधनसम्बन्धसिद्धिः। यद् अपि च क्रियादिकार्ये व्यभिचाराद् अनुपाधिके व्युत्पत्तिर् इत्य् उक्तं, तदयुक्तम्। प्रतीतविषयत्वाद् व्युत्पत्तेः। न हि क्रियादिव्यभिचारात् शशविषाणं लिङाद्यर्थ इति शक्यते वक्तुम्। यद् अपि मन्यते क्रियाकार्य एव लोके व्युत्पन्नः फलसमभिव्याहाराद् वेदे ऽन्यदविनाशि कार्यं लिङाद्यर्थ इति प्रत्येष्यते। लोके तु संमुग्धेनापि व्यवहारसिद्धेर् न शब्दार्थतत्त्वनिरूपणम्। बहव एव गौणलाक्षणिकशब्दनिबन्धना लोके व्यवहारा दृश्यन्ते। वेदे तु स्वर्गकामो यजेतेति क्रियात्मनः कार्यस्य भङ्गुरत्वाद् आमुष्मिकस्वर्गादिफलसाधनाशक्तेः कालान्तरस्थायिक्रियातो भिन्नं कार्यम् उपेयते। वाक्यशेषाच् चैकत्र समुन्नीतः शब्दार्थो यववराहाद्यर्थवदन्यत्रासत्य् अपि वाक्यशेषे ऽवगम्यते। नित्याधिकारेष्व् असत्य् अपि फलपदसमभिव्याहारे तथाविधम् एव कार्यं लिङादीनाम् अर्थो भविष्यतीति। तद् इदम् अन्यद् एवाभ्यस्तम् अन्यच् चोपनिपतितम्। क्रियाकार्ये (विष्पन्न?) स्थायिकार्यं प्रतिपद्यते। न च क्रियायाः फलसाधनताशक्तेर् अशब्दार्थः सन् युक्तः कल्पयितुम्। कामं कर्मण एवाफलनिष्पत्तेः समस्ति रूपम् इति कल्पयितुम् उचितम्। न च पूर्वावगतशब्दार्थान्यथाकरणम्। न हि कर्मण्य् अनुशिष्टा द्वितीया सक्तुषु तदसम्भवाद् विपरिवर्त्य करणम् अभिधत्त इति युक्तम् अभिधातुम्। सर्वशब्देष्व् अनाश्वासप्रङ्गात्। अत एव २,१३ तत्र तत्र यथाश्रुतार्थसमन्वयानुपपत्तेः क्वचिद् गुणवादः क्वचिल्लक्षणा क्वचिद् विनियोगभङ्ग इति तन्त्रे व्यवहारः। न तु विनियोगभङ्गाद् अभिधानम् एव शब्दानाम् अन्यथा नीयते। अपि च श्रुतकर्मफलसम्बन्धानुपपत्तेर् अनवगतपूर्वम् अपूर्वं कार्यं लिङर्थम् उपयता साधु श्रुतम् उपपादितम्। किं हि लिङापराद्धं यत् तस्यालौकिकम् अर्थम् अतिक्रम्य कर्मफलसम्बन्ध उपपाद्यते। ननु नाद्यापि लिङर्थो निश्चीयते। अयम् एव हि निर्णयसमयः। अत्र च श्रुतफलपदान्तरसमभिव्याहारोपपत्तये ऽतीन्द्रियम् एव कार्यम् इति निश्चीयते। अतो न किञ्चिद् विरोत्स्यत इति। किम् इदानीं स्वर्गकामो यजेतेति श्रुतेर् अप्रतीतिर् एव, लिङर्थे संशयो वा। अप्रतीतौ क्रियात्मनः कार्यस्य फलसम्बन्धानुपपत्तिर् इत्य् एतद् एव दुर्भणम्। संशयस् तु पक्षद्वयावलम्बी। न चालौकिके क्रियातिरेकिणि कार्ये लिङादयो निरूपितप्रयोगाः। न चात्यन्तापरिदृष्टापूर्वार्थगोचरः संशयो दृष्टचरः। यवादिषु त्व् आर्यम्लेच्छप्रयोगनिबन्धनो दृष्टपूर्वार्थगोचरः संशयो युक्त एव। अत एवात्र न वाक्यशेषान् निर्णयः। सन्दिग्धे हि स वर्णितः। न च लिङर्थे संशयः। किन् तु लोके व्युत्पत्त्यनुसारेण क्रियात्मन्य् एव कार्ये निश्चयः। यद् अप्य् उच्यते कर्मफलसम्बन्धोपपत्तये ऽन्यत् कार्यम् उपलभ्यत इति। केन वा कर्मफलसम्बन्धो दर्शितः। न ह्य् अयं वैनियोगिकः। नियोग एवात्र प्रमाणम्। स चेत् तदधीनसिद्धिः दुरुत्तरम् इतरेतराश्रयम्, सिद्धो हि नियोगो विषयीभूतस्य भावार्थस्य करणताम् आह। तत्सिद्ध्या च नियोगात्मलाभ इत्य् अलम् अनेनापि। यथावार्त्तिकम् अनुसन्धास्यामः। एवं हि वार्त्तिककृता भावार्थाधिकरणे उक्तं लिङादिशब्दानां पुरुषं प्रति प्रयोजकव्यापारो ऽभिधात्मिका भावना विधिर् इति। द्वे किल भावने मीमांसकाः सङ्गिरन्ते शब्दात्मिकाम् अर्थात्मिकां च। तत्रार्थात्मिका सर्वाख्यातसाधारणी स्वर्गादिफलधर्मिका यागादिधात्वर्थकरणिका स्ववाक्यप्रकरणान्यप्रकरणानारभ्यवादस्मृतिलोकाचारप्राप्ततत्तद् इति कर्तव्यतावती तत्र तत्र सिध्यति। शब्दात्मिका तु लिङादिशब्दानां प्रयोजकानां प्रयोज्यपुरुषकर्मिकाभिधासम्बन्धज्ञानकारणिकार्थवादोदितप्राशस्त्येति कर्तव्यतावतीति विवेचनीयम्। कथं पुनरभिधा शब्दात्मिका। शब्दव्यापारो हि सः। न। व्यापारतद्वतोर् अनतिभेदाद् उपपत्तेः। द्रव्यम् २,१४ एव हि पूर्वावस्थातः प्रच्युतं पराम् अवस्थाम् अप्राप्तं पूर्वापरीभूतं व्यापारशब्दवाच्यम्। कथं लिङादीनाम् अभिधा पुरुषकर्मिका। न हि ते पुरुषम् अभिदधति भावनावचनत्वात्। सत्यम्। भावनैव तैर् अभिधीयमाना न स्वरूपमात्रेण वर्तमानापदेशवद् अभिधीयते। किन् तु कुर्याद् (इति) प्रवृत्तिविषयतया। न च शब्दशक्तयो ऽनुयोक्तुम् अर्हन्ति। तथा हि -- लिङादिश्रवणानन्तरं प्रयोज्यवृद्धं चेष्टमानम् उपलभ्य ततः प्रवृत्तिहेतुप्रत्ययः प्रयोज्यस्यावगम्यत इति तावत् सर्ववादिसिद्धम् अविवादम्। प्रवृत्तिहेतुस्वरूपे तु बहुधा विवादः। तत्र क्रियाफलादीनां व्यभिचाराद् अप्रवृत्तिहेतुत्वात्, प्रमाणान्तरागोचरे तु प्रवृत्तिहेतौ व्युत्पत्त्यसम्भवात्, कर्मफलसम्बन्धानुपपत्तेश् च सकलेतरप्रकारासम्भवाद् अविवादसिद्धम् अभिधेयप्रत्ययबलोन्नीयमानस्वरूपं लिङादीनाम् अभिधानम् एव प्रवृत्तिहेतुर् इति साम्प्रतम्। सा च प्रवर्तनेति स्थितम्। सा च प्रवर्त्यकर्मिका। प्रवर्त्यश् च पुरुष इति युक्तं पुरुषकर्मत्वम् अभिधायाः। लिङादिव्यापारो ऽप्य् अभिधेयप्रत्ययहेतुत्वाद् अभिधेत्य् उच्यते। पुरुषं च प्रवर्तयन् प्रवर्तनेति गीयते। न च सर्वाभिधासु प्रसङ्गः, शब्दशक्तिवैचित्र्याद् इत्य् उक्तम्। शक्तिर् हि कार्यदर्शनसमधिगम्या। तद् यतः प्रवृत्तिदर्शनं तद्व्यापारः प्रवर्तना, प्रवृत्तिहेतुत्वात्। न च शब्दान्तरेभ्यः प्रवृत्तिर् उपलभ्यत इति न तदभिधायास् तथात्वप्रसङ्गः। यश् चाभिधाया अनभिधाने दोषः उक्तः, सो ऽभिधानपक्षाभ्युपगमेनैव परिहृतः। यत् तु कार्योन्नेयत्वाद् अनभिधानत्वम् उक्तं तद् अप्य् अयुक्तम्। किं हि कार्यम् अनुपपद्यमानं प्रवर्तनाम् अवगमयति। न तावद् भावनावगतिः, वर्तमानापदेशेष्व् अपि प्रसङ्गात्। अतो ऽनन्यप्रमाणत्वाद् उपपन्नम् अभिधेयत्वम् अभिधायाः। यत् तु अनन्यप्रमाणके व्युत्पत्त्यसम्भव इत्य् उक्तम्। न, अर्थापत्तिप्रमाणकत्वात्। नन्व् अर्थापत्त्या प्रवर्तनापदेशसाधारणम् अभिधाया रूपम् उन्नीयते। न च तावन्मात्रं प्रवर्तना लडादिभ्यो ऽपि प्रवृत्तिसंवेदनप्रसङ्गात्। असाधारणस् तु को ऽपि विशेषो लिङ्प्रवृत्तेः प्रमाणान्तरागोचर एवेति दुष्परिहरो व्युत्पत्तिविरहः। मैवम्। प्रवृत्तिहेतुत्वेनार्थापत्तितस् तदवगमात्। तथा हि -- यत्र तावत् लिङादिभ्यः प्रवृत्तिर् उपलभ्यते, तत्र मया प्रवर्तितव्यम् इत्य् अन्तःसङ्कल्पमूलात्मा लिङ्प्रवृत्तिविशेष उन्नीयते। अप्रवर्तमाना अपि प्रवर्तस्वेति मामयमाहेति लिङ्श्राविणो वक्तारं निर्दिशन्ति। तद् अवसीयते प्रवृत्तिहेतुर् अभिहितो लिङा। स च नर्ते वापारात् सिध्यतीत्य् उक्तम् एव। न च किम् आत्मको लिङ्व्यापार २,१५ इति वाच्यम्। अन्तःसङ्कल्पमूलात्मा ह्य् असाव् इति वक्ष्यति। नासाव् उदासीनः कदाचिद् अवगम्यते। प्रवृत्तिजनन एव हि भावभेदे व्युत्पत्तिर् आसीद् इति स्वयम् अपि प्रवर्तितव्यम् इति प्रतिपद्यमान एव हि लिङर्थं प्रतिपद्यते। नोदासीनम् आख्यातान्तरवत्। नो हि फलादयः स्वरूपेणावगताः प्रवर्तयन्ति। अस्य त्वयम् एवात्मा यत् प्रवृत्तिधियं जनयति। अपर्यनुयोज्यत्वाद् वस्तुस्वरूपाणां नामाख्यातविभागवदुपपत्तेः। सो ऽयम् एवमात्मनि लिङर्थे व्युत्पन्नः स्वप्रतिपत्तिकाले न शब्दादृते तम् अर्थं बुध्यत इत्य् अनन्यप्रमाणकत्वम्। न तु प्रवर्तनास्वरूपम् एवान्यतो नावगतं, येन मतान्तरवद् व्युत्पत्तिविरहश् चोद्येत। सम्प्रति तु न जातेर् इव व्यक्तिम् अन्यतः प्रवर्तनां प्रतिपद्यामह इति शाब्दीम् अभिदध्महे। न चाभिधा नाभिधीयत इति वाच्यम्। अभिधाशब्दवदुपपत्तेः। यद् एव हि शब्दश्रवणानन्तरम् अनन्यलभ्यं बुद्धौ विपरिवर्तते तदभिधेयम्। तथा च लिङादीनाम् अभिधानम् इति किं नाभिधीयते। उक्तं हि लिङादिभ्यः प्रवृत्तिहेतुरुपलभ्यत इति। न च लिङादीनाम् अभिधात्मनो व्यापाराद् अन्यः प्रवृत्तिहेतुः शक्यते निरूपयितुम् इति। अत एव नानवस्था। न हि प्रवर्तनावत् तदभिधानम् अपि शब्दाद् अवगम्यते, यत् तद्गोचरम् अपरम् अभिधानम् उपेयते। न च लिङादिस्वरूपाभिधानप्रसक्तिः, स्वयम् एव तद्व्यापारवैलक्षण्यात्। लिङुपश्लेषे हि विशेषके विशेषणाभिधानम् आपादितम्। स्वगते तु विशेषे तदनवकाशम् एव। सर्वे शब्दव्यापाराः खल्व् अपि स्वरूपेणैव व्यतिभिद्यन्ते। अत एव विलक्षणाभिधेयप्रत्ययहेतुभावभाजः एकस्या अपि विधिविभक्तेः क्रियाकालादिवन्नाभिधाभिधानम् अनुपपन्नम्। अतो लिङादीनाम् अभिधा प्रवर्तना सो ऽयं विधिः। आह च -- अभिधां भावनाम् आहुर् अन्याम् एव लिङादयः । इति। तद् अनेनैवमात्मना विधिना सम्बद्धा भावना प्रवृत्तिविषयतयावगता फलवत्तया निश्चीयते, स्वसन्ताने फलवतः प्रवृत्तिविषयतयावगतेः। तथा चावगतानुष्ठीयत इति विधिशक्तिम् उपक्रान्ताम् अवसीदन्तीम् उत्तभ्नाति फलवत्ता, न तु सैव विधिर् इति। अत एवापुरुषार्थेषु सागरं तरेद् इत्य् एवमादिषु विध्यवगतिः। तथा तत्र न स्याद् इतरथा तत्र न स्यात् अपुरुषार्थत्वात्(?)। लिङ्व्यापारस् तु तत्राप्य् अविशिष्टः, निर्वाहिकायास् तु फलवत्तायाः प्रमाणाभावाद् न २,१६ निर्वहति। तदभावश् चानाप्तवाक्यत्वात्। वेदे त्व् अपौरुषेयत्वान् न पुरुषदोषाशङ्कापीत्य् उपपादितम्। विधौ तु तम् अतिक्रम्येति प्रपञ्चितश् च विधिर् अपि मनाग् इत्य् उपरम्यते इति
nanu niyogo niyuktiḥ. sa ca niyoktṛvyāpāraḥ. na ca vede niyoktāsti apauruṣeyatvāt. śabdasya cāniyoktṛtvān na tadvyāpāro niyogaḥ. adūraviprakarṣeṇa tu niyogādipadaprayogaḥ. yāthātmyavedanāyāṃ tu liṅ eva paṭhitavyaḥ. sā hy asya pramāṇam. kim ātmakas tarhy ayam. uktaṃ kāryātmeti. na ca dravyādyanātmakatvād abhāvaḥ, tadvad eva kāryam api tadvibhaktam eva deśakālanarāvasthāntarāviparyayāt svasaṃvitsaṃvedyaṃ nāstīti śakyate 'vagantum. udīyate khalv api liṅādiśrāviṇāṃ kāryasaṃvit. na ceyam anālambanā, na ca svāṃśālambaneti vijñānavāde varṇitam. ato nirviṣayā saṃvidātmānam alabhamānā svaviṣayabhūtaṃ kāryam upakalpayati. na ca pratibhāmātram idam iti vācyam. aniyatanimittā hi pratipattiḥ pratibhā. na ceyam aniyatanimittā, śabdanimittatvāt tadanantaram utpatteḥ. katham ananyagocare kāryātmani vyutpattiḥ. tadabhāve vā śabdāt pratipattiḥ kalpyatām. liṅādīnāṃ sakaletaraśabdavilakṣaṇaḥ ko 'pi mahimā, yadaviditasama(?yā/yā a)pi svārthaṃ gamayanti. athavā sarvasyākumāramāsthaviraṃ ca kāryāvagatiḥ pravṛttihetur iti prasiddhiḥ. 2,10 tadanyam api liṅādiśabdaśravaṇānantaraṃ ceṣṭāviśiṣṭam upalabhyākalayati nūnam itaḥ sakāśād asya kāryasaṃvidāsīt katham aparathā pravartata iti. nanv evaṃ kriyām eva kāryatayā ajñāsīd iti parasyāpi tadgocarām eva kāryadhiyam unnayati. na. vartamānāpadeśeṣu saty api kriyājñāne pravṛttyadarśanāt, kriyātmanaḥ kāryasya vyabhicārāt pravṛttāvahetutvāt. etad eva phale 'pi darśayitavyam. ato nirmuktākhilaphalādivikalpam avyabhicaritapravṛttisambandhaṃ kāryamātraṃ liṅādibhyaḥ prayojyavṛddhenāvagatam iti vyutpadyamāno jānāti. na hi kāryāvagatir bhavati pravṛttiś ca neti sambhavati. ataḥ kāryam eva kāryavidhir ity ācāryāḥ pratipedire. nanu ca preṣaṇādayo liṅarthāḥ. na, svasantāne pravṛttihetutvena teṣām anupalabdheḥ. vede ca vyabhicārāt. (nanu tar)hīṣṭābhyupāyatā liṅādīnām artho bhaviṣyati. sarvo hi samīhitopāyam ākalayya tatra tatra pravartata iti param api ceṣṭamānam upalabhya jānāti nūnam iṣṭo .......mavyāpāraḥ śabdaśravaṇānantaraṃ cāyaṃ ceṣṭata iti śabdeneṣṭābhyupāyatā pratipāditā bhavati. sa eva vidhiḥ. pravartanārūpo hi saḥ. pravṛttihetuṃ dharmaṃ ca pravadanti ...... . ataḥ preṣaṇādhyeṣaṇābhyanujñātiriktam apravṛttapravartanaṃ niyojyārthakarmagocaraṃ lokavedasādhāraṇaṃ codanopadeśaparyāyapadavācyaṃ liṅādīnām artho vidhir iti yuktam. hi ........tya jaimininoktam upadeśa iti. bhāṣyakāreṇa ca upadeśa iti viśiṣṭasya śabdasyoccāraṇam iti vivṛtam. puruṣārthopāyaṃ kilānavagatam avagamayan śabdāntare dūram utkrṣṭo liṅādiśabdo 'viśiṣṭa ity uktam. ato lokavedatantrāntarānugato 'yam eva siddhānta iti kaiś cid unnītam. tad idam anupapannam. tathā hi -- saṃvid eva tāvat paripanthinī. na hi liṅādiśravaṇasamanantaram iṣṭābhyupāyo 'yaṃ vyāpāra iti bhavati matiḥ. api tarhi, pravartanāvagatiḥ. nanu ceṣṭābhyupāyataiva pravartanā pravṛttihetutvāt. tan na. evaṃ sati yasya parṇamayī juhūr bhavati ity atrāpi vidhitvaprasaṅgaḥ. tarati mṛtyum ity atrāpi. bhavati hi tatrāpi parṇamayatā apāpaślokaśravaṇasya aśvamedho vā brahmahatyātaraṇasya sādhanam iti pratipattiḥ. yadi matam -- asyedaṃ bhavatīty anvayamātram atrāvagamyate na vyatirekaḥ, na ca tam antareṇa sādhyasādhanasambandho 2,11 'vagamyate iti. kathaṃ tarhi svargakāmo yajetety atrāpi svargayāgayoḥ sādhyasādhanasaṃvit. na hi tatrāpi sati yoge svargo bhavati asati neti matiḥ. yāgeneti hi tṛtīyā sādhanabhāvam avagamayatīti ced, na. tṛtīyāśravaṇāt. vidher ayaṃ mahimā yadatṛtīyānto 'pi yajiḥ karaṇatayā nirdiśyate. sa ced anyo nābhyupagamyate kathaṃ svabhāvasādhyo yajiḥ karaṇatayā nirdiśyate. api ca yatra spaṣṭam iṣṭābhyupāyatvam avagamyate yāgasya yatheṣṭābhyupāyo 'yaṃ yāgaḥ yāgena svargaḥ sidhyatīti vā, tatrāpi vidhitvaprasaṅgaḥ. kiñ ca taddveṣīti tatkāri cāyam evaṃ bruvāṇo dṛśyate. tathā hi pratibhā vidhir iti nirasyataitad uktaṃ - na nirālambanaṃ jñānaṃ kriyā sādhanayoginī | samānyasmin iti. tad idaṃ tavāpi samānam iti varṇitam. api ca evaṃvādinā sādhu samarthitaṃ vidhāv anāśrite iti. atra hi vidhyadhīnā yāgāder iṣṭābhyupāyatā na tu saiva vidhir iti darśayati. tasmād atikuśalair upadeśāpadeśayor aviśeṣa evopapādita iti nirmuktākhilopādhividhitattvam atīndriyam anyadeveti pūrvoktam eva sādhīyaḥ. atra vadāmaḥ -- naivam api yāgasvargayoḥ sādhyasādhanasambandhasiddhiḥ. niyogo hi tadā sādhyaḥ. na ca sādhyadvayam ekatra samavaiti, samatvād asambandhāt. nanu niyogasiddhināntarīyakī svargasiddhiḥ. ata eva sādhyavivṛddhir iyaṃ na tu svargo 'pi svatantratayā sādhyaḥ. nirapekṣaṃ ca sādhyadvayam ekatra virudhyate, nānuguṇam. yathāha -- niyogasiddhau sarvaṃ tadanuguṇam iti. kena neṣyate. tasmād avirodha iti. tad asat. kiṃ hi svargasiddhim antareṇa niyogasya na sidhyati. na hi nityādhikāreṣu niyogaḥ sādhyāntaram ākāṅkṣati. kāmādhikārāḥ kāmyaparyantā iti cet, ko hetuḥ. kamisādhyatvāgavatiḥ. tathā hi svargakāmo yajeteti sādhyasvargaviśiṣṭādhikārisādhyo niyogo 'vagamyate. sa katham asidhyati svarge sidhyet. ataḥ svargasiddhir avagamyata iti naḥ sādhyasvargaviśiṣṭo 'dhikārī. 2,12 kas tarhi. kāmyasvargaviśiṣṭaḥ. ataḥ svargaṃ kāmayamānaḥ puruṣo niyogaṃ sādhayiṣyati. anyadicchato 'nyatra kriyā nopapadyata iti ced, na. niyogasāmarthyād upapatteḥ. niyogo hi pradhānabhūtaḥ sādhyatayāvagataḥ svargam api kāmayamānam ātmany ākarṣatīti kim anupapannam. api ca sidhyann api svargo yāgāt sidhyatīti na naḥ pramāṇam. svargayāgau hi yugapadaruṇaikahāyanīvadekapradhānakāryānvayinau nānyonyānvayam anubhavataḥ. na cāruṇimna iva dravyāvachedaśaktir yajer api svargasādhanaśaktir avadhṛtā pramāṇāntareṇa. nanu kim atra pramāṇāntareṇa. svarge yāga eva pramāṇam. sa hi svargakāmaṃ yāge niyuṅkte. na cākāmopāye kāmī niyoktuṃ śakyate. uktottaram idam. kiṃ hi bhagavato niyogasyālaukikasyāsadṛśamahimno duḥ(khata)yā phale 'pi naraṃ pravartayati. tasya hy anupāye kāminaṃ niyuñjānasya kim iva hīyeta. yāge niyogo niyuṅkte iti vadatā nūnam idam avadhīritam. ārambhe hi puruṣo niyujyate na karmaṇīti. tasmān na svargayāgayoḥ sādhyasādhanasambandhasiddhiḥ. yad api ca kriyādikārye vyabhicārād anupādhike vyutpattir ity uktaṃ, tadayuktam. pratītaviṣayatvād vyutpatteḥ. na hi kriyādivyabhicārāt śaśaviṣāṇaṃ liṅādyartha iti śakyate vaktum. yad api manyate kriyākārya eva loke vyutpannaḥ phalasamabhivyāhārād vede 'nyadavināśi kāryaṃ liṅādyartha iti pratyeṣyate. loke tu saṃmugdhenāpi vyavahārasiddher na śabdārthatattvanirūpaṇam. bahava eva gauṇalākṣaṇikaśabdanibandhanā loke vyavahārā dṛśyante. vede tu svargakāmo yajeteti kriyātmanaḥ kāryasya bhaṅguratvād āmuṣmikasvargādiphalasādhanāśakteḥ kālāntarasthāyikriyāto bhinnaṃ kāryam upeyate. vākyaśeṣāc caikatra samunnītaḥ śabdārtho yavavarāhādyarthavadanyatrāsaty api vākyaśeṣe 'vagamyate. nityādhikāreṣv asaty api phalapadasamabhivyāhāre tathāvidham eva kāryaṃ liṅādīnām artho bhaviṣyatīti. tad idam anyad evābhyastam anyac copanipatitam. kriyākārye (viṣpanna?) sthāyikāryaṃ pratipadyate. na ca kriyāyāḥ phalasādhanatāśakter aśabdārthaḥ san yuktaḥ kalpayitum. kāmaṃ karmaṇa evāphalaniṣpatteḥ samasti rūpam iti kalpayitum ucitam. na ca pūrvāvagataśabdārthānyathākaraṇam. na hi karmaṇy anuśiṣṭā dvitīyā saktuṣu tadasambhavād viparivartya karaṇam abhidhatta iti yuktam abhidhātum. sarvaśabdeṣv anāśvāsapraṅgāt. ata eva 2,13 tatra tatra yathāśrutārthasamanvayānupapatteḥ kvacid guṇavādaḥ kvacillakṣaṇā kvacid viniyogabhaṅga iti tantre vyavahāraḥ. na tu viniyogabhaṅgād abhidhānam eva śabdānām anyathā nīyate. api ca śrutakarmaphalasambandhānupapatter anavagatapūrvam apūrvaṃ kāryaṃ liṅartham upayatā sādhu śrutam upapāditam. kiṃ hi liṅāparāddhaṃ yat tasyālaukikam artham atikramya karmaphalasambandha upapādyate. nanu nādyāpi liṅartho niścīyate. ayam eva hi nirṇayasamayaḥ. atra ca śrutaphalapadāntarasamabhivyāhāropapattaye 'tīndriyam eva kāryam iti niścīyate. ato na kiñcid virotsyata iti. kim idānīṃ svargakāmo yajeteti śruter apratītir eva, liṅarthe saṃśayo vā. apratītau kriyātmanaḥ kāryasya phalasambandhānupapattir ity etad eva durbhaṇam. saṃśayas tu pakṣadvayāvalambī. na cālaukike kriyātirekiṇi kārye liṅādayo nirūpitaprayogāḥ. na cātyantāparidṛṣṭāpūrvārthagocaraḥ saṃśayo dṛṣṭacaraḥ. yavādiṣu tv āryamlecchaprayoganibandhano dṛṣṭapūrvārthagocaraḥ saṃśayo yukta eva. ata evātra na vākyaśeṣān nirṇayaḥ. sandigdhe hi sa varṇitaḥ. na ca liṅarthe saṃśayaḥ. kin tu loke vyutpattyanusāreṇa kriyātmany eva kārye niścayaḥ. yad apy ucyate karmaphalasambandhopapattaye 'nyat kāryam upalabhyata iti. kena vā karmaphalasambandho darśitaḥ. na hy ayaṃ vainiyogikaḥ. niyoga evātra pramāṇam. sa cet tadadhīnasiddhiḥ duruttaram itaretarāśrayam, siddho hi niyogo viṣayībhūtasya bhāvārthasya karaṇatām āha. tatsiddhyā ca niyogātmalābha ity alam anenāpi. yathāvārttikam anusandhāsyāmaḥ. evaṃ hi vārttikakṛtā bhāvārthādhikaraṇe uktaṃ liṅādiśabdānāṃ puruṣaṃ prati prayojakavyāpāro 'bhidhātmikā bhāvanā vidhir iti. dve kila bhāvane mīmāṃsakāḥ saṅgirante śabdātmikām arthātmikāṃ ca. tatrārthātmikā sarvākhyātasādhāraṇī svargādiphaladharmikā yāgādidhātvarthakaraṇikā svavākyaprakaraṇānyaprakaraṇānārabhyavādasmṛtilokācāraprāptatattad iti kartavyatāvatī tatra tatra sidhyati. śabdātmikā tu liṅādiśabdānāṃ prayojakānāṃ prayojyapuruṣakarmikābhidhāsambandhajñānakāraṇikārthavādoditaprāśastyeti kartavyatāvatīti vivecanīyam. kathaṃ punarabhidhā śabdātmikā. śabdavyāpāro hi saḥ. na. vyāpāratadvator anatibhedād upapatteḥ. dravyam 2,14 eva hi pūrvāvasthātaḥ pracyutaṃ parām avasthām aprāptaṃ pūrvāparībhūtaṃ vyāpāraśabdavācyam. kathaṃ liṅādīnām abhidhā puruṣakarmikā. na hi te puruṣam abhidadhati bhāvanāvacanatvāt. satyam. bhāvanaiva tair abhidhīyamānā na svarūpamātreṇa vartamānāpadeśavad abhidhīyate. kin tu kuryād (iti) pravṛttiviṣayatayā. na ca śabdaśaktayo 'nuyoktum arhanti. tathā hi -- liṅādiśravaṇānantaraṃ prayojyavṛddhaṃ ceṣṭamānam upalabhya tataḥ pravṛttihetupratyayaḥ prayojyasyāvagamyata iti tāvat sarvavādisiddham avivādam. pravṛttihetusvarūpe tu bahudhā vivādaḥ. tatra kriyāphalādīnāṃ vyabhicārād apravṛttihetutvāt, pramāṇāntarāgocare tu pravṛttihetau vyutpattyasambhavāt, karmaphalasambandhānupapatteś ca sakaletaraprakārāsambhavād avivādasiddham abhidheyapratyayabalonnīyamānasvarūpaṃ liṅādīnām abhidhānam eva pravṛttihetur iti sāmpratam. sā ca pravartaneti sthitam. sā ca pravartyakarmikā. pravartyaś ca puruṣa iti yuktaṃ puruṣakarmatvam abhidhāyāḥ. liṅādivyāpāro 'py abhidheyapratyayahetutvād abhidhety ucyate. puruṣaṃ ca pravartayan pravartaneti gīyate. na ca sarvābhidhāsu prasaṅgaḥ, śabdaśaktivaicitryād ity uktam. śaktir hi kāryadarśanasamadhigamyā. tad yataḥ pravṛttidarśanaṃ tadvyāpāraḥ pravartanā, pravṛttihetutvāt. na ca śabdāntarebhyaḥ pravṛttir upalabhyata iti na tadabhidhāyās tathātvaprasaṅgaḥ. yaś cābhidhāyā anabhidhāne doṣaḥ uktaḥ, so 'bhidhānapakṣābhyupagamenaiva parihṛtaḥ. yat tu kāryonneyatvād anabhidhānatvam uktaṃ tad apy ayuktam. kiṃ hi kāryam anupapadyamānaṃ pravartanām avagamayati. na tāvad bhāvanāvagatiḥ, vartamānāpadeśeṣv api prasaṅgāt. ato 'nanyapramāṇatvād upapannam abhidheyatvam abhidhāyāḥ. yat tu ananyapramāṇake vyutpattyasambhava ity uktam. na, arthāpattipramāṇakatvāt. nanv arthāpattyā pravartanāpadeśasādhāraṇam abhidhāyā rūpam unnīyate. na ca tāvanmātraṃ pravartanā laḍādibhyo 'pi pravṛttisaṃvedanaprasaṅgāt. asādhāraṇas tu ko 'pi viśeṣo liṅpravṛtteḥ pramāṇāntarāgocara eveti duṣpariharo vyutpattivirahaḥ. maivam. pravṛttihetutvenārthāpattitas tadavagamāt. tathā hi -- yatra tāvat liṅādibhyaḥ pravṛttir upalabhyate, tatra mayā pravartitavyam ity antaḥsaṅkalpamūlātmā liṅpravṛttiviśeṣa unnīyate. apravartamānā api pravartasveti māmayamāheti liṅśrāviṇo vaktāraṃ nirdiśanti. tad avasīyate pravṛttihetur abhihito liṅā. sa ca narte vāpārāt sidhyatīty uktam eva. na ca kim ātmako liṅvyāpāra 2,15 iti vācyam. antaḥsaṅkalpamūlātmā hy asāv iti vakṣyati. nāsāv udāsīnaḥ kadācid avagamyate. pravṛttijanana eva hi bhāvabhede vyutpattir āsīd iti svayam api pravartitavyam iti pratipadyamāna eva hi liṅarthaṃ pratipadyate. nodāsīnam ākhyātāntaravat. no hi phalādayaḥ svarūpeṇāvagatāḥ pravartayanti. asya tvayam evātmā yat pravṛttidhiyaṃ janayati. aparyanuyojyatvād vastusvarūpāṇāṃ nāmākhyātavibhāgavadupapatteḥ. so 'yam evamātmani liṅarthe vyutpannaḥ svapratipattikāle na śabdādṛte tam arthaṃ budhyata ity ananyapramāṇakatvam. na tu pravartanāsvarūpam evānyato nāvagataṃ, yena matāntaravad vyutpattivirahaś codyeta. samprati tu na jāter iva vyaktim anyataḥ pravartanāṃ pratipadyāmaha iti śābdīm abhidadhmahe. na cābhidhā nābhidhīyata iti vācyam. abhidhāśabdavadupapatteḥ. yad eva hi śabdaśravaṇānantaram ananyalabhyaṃ buddhau viparivartate tadabhidheyam. tathā ca liṅādīnām abhidhānam iti kiṃ nābhidhīyate. uktaṃ hi liṅādibhyaḥ pravṛttiheturupalabhyata iti. na ca liṅādīnām abhidhātmano vyāpārād anyaḥ pravṛttihetuḥ śakyate nirūpayitum iti. ata eva nānavasthā. na hi pravartanāvat tadabhidhānam api śabdād avagamyate, yat tadgocaram aparam abhidhānam upeyate. na ca liṅādisvarūpābhidhānaprasaktiḥ, svayam eva tadvyāpāravailakṣaṇyāt. liṅupaśleṣe hi viśeṣake viśeṣaṇābhidhānam āpāditam. svagate tu viśeṣe tadanavakāśam eva. sarve śabdavyāpārāḥ khalv api svarūpeṇaiva vyatibhidyante. ata eva vilakṣaṇābhidheyapratyayahetubhāvabhājaḥ ekasyā api vidhivibhakteḥ kriyākālādivannābhidhābhidhānam anupapannam. ato liṅādīnām abhidhā pravartanā so 'yaṃ vidhiḥ. āha ca -- abhidhāṃ bhāvanām āhur anyām eva liṅādayaḥ | iti. tad anenaivamātmanā vidhinā sambaddhā bhāvanā pravṛttiviṣayatayāvagatā phalavattayā niścīyate, svasantāne phalavataḥ pravṛttiviṣayatayāvagateḥ. tathā cāvagatānuṣṭhīyata iti vidhiśaktim upakrāntām avasīdantīm uttabhnāti phalavattā, na tu saiva vidhir iti. ata evāpuruṣārtheṣu sāgaraṃ tared ity evamādiṣu vidhyavagatiḥ. tathā tatra na syād itarathā tatra na syāt apuruṣārthatvāt(?). liṅvyāpāras tu tatrāpy aviśiṣṭaḥ, nirvāhikāyās tu phalavattāyāḥ pramāṇābhāvād na 2,16 nirvahati. tadabhāvaś cānāptavākyatvāt. vede tv apauruṣeyatvān na puruṣadoṣāśaṅkāpīty upapāditam. vidhau tu tam atikramyeti prapañcitaś ca vidhir api manāg ity uparamyate iti
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.