Library·Sucaritamisra: Mimamsaslokavarttikakasika·7

Sucaritamisra: Mimamsaslokavarttikakasika 7

२,१ अत्र भाष्यकारेण प्रत्यक्षाद्यनिमित्तत्वे प्रतिपादिते सदुप्लम्भकप्रमाणप्रत्यस्तम(?य।याद् अभा)वप्रमेयतां धर्मस्याशङ्क्य तन्निराकरणपरतयौत्पत्तिकसूत्रम् अवतारितम् अभावो ऽपि नास्ति यतः औत्पत्तिकस् तु शब्दस्यार्थेन सम्बन्धस् तस्य ज्ञानम् उपदेशो ऽव्यतिरेकश् चार्थे ऽनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वात् इति। तच् च चोदनैवेत्य् अवधारणं चाक्षिपति -- प्रत्यक्षादाव् इति। अयम् अर्थः -- भावगोचरनिखिलप्रमाणाभावे ह्य् अभावः प्रमाणम्। न चेह तथा, लोकप्रसिद्धेर् एवाभावात्। न च सा न प्रमाणं, ब्राह्मणादिवर्णविवेकस्य तदधीनत्वात्। इतरथा तदभावात्। न खलु सुनिपुणम् अपि विलोकयमाना वयं क्षत्रियादिविलक्षणं ब्राह्मणशब्दवाच्यं पिण्डानुगतम् अपरं रूपम् अपरोक्षम् ईक्षामहे। तदवश्यं वर्णविवेकाय लोकप्रसिद्धिः स्वतन्त्रा प्रमाणम् आस्थेया। अपि च सकलशब्दार्थावधारणम् एव तदायत्तं, ताम् अन्तरेण प्रमाणान्तरासम्भवात्। अतो निषिद्धे ऽपि प्रत्यक्षादौ नाभावश(ङ्का)। न च चोदनैवेत्य् अवधारणोपपत्तिर् इति

2,1 atra bhāṣyakāreṇa pratyakṣādyanimittatve pratipādite saduplambhakapramāṇapratyastama(?ya/yād abhā)vaprameyatāṃ dharmasyāśaṅkya tannirākaraṇaparatayautpattikasūtram avatāritam abhāvo 'pi nāsti yataḥ autpattikas tu śabdasyārthena sambandhas tasya jñānam upadeśo 'vyatirekaś cārthe 'nupalabdhe tatpramāṇaṃ bādarāyaṇasyānapekṣatvāt iti. tac ca codanaivety avadhāraṇaṃ cākṣipati -- pratyakṣādāv iti. ayam arthaḥ -- bhāvagocaranikhilapramāṇābhāve hy abhāvaḥ pramāṇam. na ceha tathā, lokaprasiddher evābhāvāt. na ca sā na pramāṇaṃ, brāhmaṇādivarṇavivekasya tadadhīnatvāt. itarathā tadabhāvāt. na khalu sunipuṇam api vilokayamānā vayaṃ kṣatriyādivilakṣaṇaṃ brāhmaṇaśabdavācyaṃ piṇḍānugatam aparaṃ rūpam aparokṣam īkṣāmahe. tadavaśyaṃ varṇavivekāya lokaprasiddhiḥ svatantrā pramāṇam āstheyā. api ca sakalaśabdārthāvadhāraṇam eva tadāyattaṃ, tām antareṇa pramāṇāntarāsambhavāt. ato niṣiddhe 'pi pratyakṣādau nābhāvaśa(ṅkā). na ca codanaivety avadhāraṇopapattir iti

Sanskrit only: no published translation is held for this verse.

२,२ प्रसिद्धिम् एव दर्शयति -- धार्मिकेति ह्यन्तेन। अनुग्रहकारिणि हि लौकिका धार्मिकशब्दं प्रयुञ्जाना दृश्यन्ते। पीडाकारिणि चाधा(र्मिकशब्दम्)। यश् च धर्मम् आचरति स धार्मिकः। तद् यद्य् अनुग्रहो धर्मः तद् एवम् उपपद्यते नान्यथेति। एतद् एव भगवतो व्यासस्याप्य् अभिमतम् इति दर्शयति -- तथेति प्रयोजनमन्तेन। निर्(विषय)प्रयोगासम्भवात् तद्विषयम् इदमा प्रतिनिर्दिशति। तद् अयम् अर्थः -- विशिष्टविषये पुण्यपापपदद्वये आचण्डालं मनुष्याणां विद्यमाने तेनैव धर्माधर्मप्रमितिसिद्धेर् अनर्थकं शास्त्रम् इति। नन्व् एवं पुण्यपापप्रमाणकौ धर्माधर्माव् उक्तौ, न लोकप्रमाण(कौ)। नैवम्। तत्प्रयोगस्यैव लोकायत्तत्वात्। तस्माद् अयम् अनुपालम्भ इति

2,2 prasiddhim eva darśayati -- dhārmiketi hyantena. anugrahakāriṇi hi laukikā dhārmikaśabdaṃ prayuñjānā dṛśyante. pīḍākāriṇi cādhā(rmikaśabdam). yaś ca dharmam ācarati sa dhārmikaḥ. tad yady anugraho dharmaḥ tad evam upapadyate nānyatheti. etad eva bhagavato vyāsasyāpy abhimatam iti darśayati -- tatheti prayojanamantena. nir(viṣaya)prayogāsambhavāt tadviṣayam idamā pratinirdiśati. tad ayam arthaḥ -- viśiṣṭaviṣaye puṇyapāpapadadvaye ācaṇḍālaṃ manuṣyāṇāṃ vidyamāne tenaiva dharmādharmapramitisiddher anarthakaṃ śāstram iti. nanv evaṃ puṇyapāpapramāṇakau dharmādharmāv uktau, na lokapramāṇa(kau). naivam. tatprayogasyaiva lokāyattatvāt. tasmād ayam anupālambha iti

Sanskrit only: no published translation is held for this verse.

एवम् आक्षिप्य समादधाति -- निर्मूलेतीत्यन्तेन। अयम् अर्थः -- प्रसिद्धिर् हि प्रज्ञानम्। तच् च (ज्ञा)नद्रढिमा। न च निर्मूलं ज्ञानम् आत्मानं लभते प्राग् एव ज्ञानद्रढिमा। तद् एवं निर्मूलायाः प्रसिद्धेर् अभावात् कुतः सा प्रवृत्तेति प्रमाणैर् अन्विष्यत इति। ननु च कार्यद्रढिम्ना मूलं कल्पयिष्यते, स्मृतिद्रढिम्नेव श्रुतिर् अत आह -- प्रत्यक्षादीति। सत्यम्। समूला प्रसिद्धिः प्रत्यक्षादिमूलतया प्रत्यक्षसूत्रे निवारिता चोदना (मूलं) भविष्यत्य् एवेति

evam ākṣipya samādadhāti -- nirmūletītyantena. ayam arthaḥ -- prasiddhir hi prajñānam. tac ca (jñā)nadraḍhimā. na ca nirmūlaṃ jñānam ātmānaṃ labhate prāg eva jñānadraḍhimā. tad evaṃ nirmūlāyāḥ prasiddher abhāvāt kutaḥ sā pravṛtteti pramāṇair anviṣyata iti. nanu ca kāryadraḍhimnā mūlaṃ kalpayiṣyate, smṛtidraḍhimneva śrutir ata āha -- pratyakṣādīti. satyam. samūlā prasiddhiḥ pratyakṣādimūlatayā pratyakṣasūtre nivāritā codanā (mūlaṃ) bhaviṣyaty eveti

Sanskrit only: no published translation is held for this verse.

ननु सन्निकृष्टार्थगोचरम् एव सर्वं प्रमाणम्। अतः प्रसिद्धेः प्रमाणान्तरागोचरार्थत्वं गुणः न दोषाय, अत आह -- न चेति। न च प्रत्यक्षादीनि परित्यज्य लोको नाम प्रमाणगणे प्रमाणम् उपसंख्यायते। वर्णविवेकसम्बन्धावधारणयोस् तु प्रत्यक्षादिप्रमाणत्वं वनसम्बन्धपरिहारयोर् अभिधास्याम इति। २,३ अपि च भवेद् अपि प्रसिद्धिः प्रमाणं, यदि व्यवस्थितैव प्रसिद्धिः स्यात्। सा त्व् अव्यवस्थिता। तथा हि -- संसारमोचका नाम नास्तिका बाह्यहिंसाम् एव धर्मम् आहुः। अन्ये तु तपः (?प्र।प्रा)जापत्यादि पीडात्मकत्वात् परपीडावत् अधर्म॥॥॥।स्तु विधिनिषेधप्रमाणकौ तद्विपरीतौ धर्माधर्मौ सङ्गिरन्ते(?।) तद् एवं म्लेच्छार्याणां परस्परविगानान् न लोकप्रसिद्धत्वं धर्माधर्मयोर् उपपद्यत इत्य् आह -- संसारेति सार्धेन

nanu sannikṛṣṭārthagocaram eva sarvaṃ pramāṇam. ataḥ prasiddheḥ pramāṇāntarāgocarārthatvaṃ guṇaḥ na doṣāya, ata āha -- na ceti. na ca pratyakṣādīni parityajya loko nāma pramāṇagaṇe pramāṇam upasaṃkhyāyate. varṇavivekasambandhāvadhāraṇayos tu pratyakṣādipramāṇatvaṃ vanasambandhaparihārayor abhidhāsyāma iti. 2,3 api ca bhaved api prasiddhiḥ pramāṇaṃ, yadi vyavasthitaiva prasiddhiḥ syāt. sā tv avyavasthitā. tathā hi -- saṃsāramocakā nāma nāstikā bāhyahiṃsām eva dharmam āhuḥ. anye tu tapaḥ (?pra/prā)jāpatyādi pīḍātmakatvāt parapīḍāvat adharma.......stu vidhiniṣedhapramāṇakau tadviparītau dharmādharmau saṅgirante(?.) tad evaṃ mlecchāryāṇāṃ parasparavigānān na lokaprasiddhatvaṃ dharmādharmayor upapadyata ity āha -- saṃsāreti sārdhena

Sanskrit only: no published translation is held for this verse.

नन्व् अनुमानाभाससङ्करेण प्रमाणम् अप्रमाणीभवति। न हि प्रत्यक्षाभाससङ्करात् प्रत्यक्षम् अप्रमाणं भवति। अथ तत्र कारणदोषसदसद्भावनिबन्धनः प्रमाणतदाभासविवेकः, सो ऽत्राप्य् अविशिष्टः। अत्रापि स्मृतिकारैर् विवेकोपायो दर्शित एव। आचारश् चैव साधूनाम् इत्यादिना। साधवश् चार्याः। स्वाभाविककृष्णमृगचरणोपलक्षितार्यावर्तनिवासिनश् चार्यशब्दवाच्याः। अतस् तदाचारो धर्मो ऽन्यो ऽधर्म इति विवेको भविष्यति, अत आह -- न चेति। शास्त्रसदसद्भावनिबन्धनो ह्य् आर्यम्लेच्छविभागः तद(नाश्रयेण) त्व् आर्यम्लेच्छविभागो दुर्भणः। अत एव शास्त्रस्था वा तन्निमित्तत्वात् (१।३।९) इति वक्ष्यतीति। अस्तु तर्हि शास्त्रमूलार्थप्रसिद्धिः प्रमाणम् अत आह तन्मूलेति। न स्वतन्त्रायाः प्रसिद्धेर् एव प्रामाण्यं सिध्यतीत्य् अभिप्रायः

nanv anumānābhāsasaṅkareṇa pramāṇam apramāṇībhavati. na hi pratyakṣābhāsasaṅkarāt pratyakṣam apramāṇaṃ bhavati. atha tatra kāraṇadoṣasadasadbhāvanibandhanaḥ pramāṇatadābhāsavivekaḥ, so 'trāpy aviśiṣṭaḥ. atrāpi smṛtikārair vivekopāyo darśita eva. ācāraś caiva sādhūnām ityādinā. sādhavaś cāryāḥ. svābhāvikakṛṣṇamṛgacaraṇopalakṣitāryāvartanivāsinaś cāryaśabdavācyāḥ. atas tadācāro dharmo 'nyo 'dharma iti viveko bhaviṣyati, ata āha -- na ceti. śāstrasadasadbhāvanibandhano hy āryamlecchavibhāgaḥ tada(nāśrayeṇa) tv āryamlecchavibhāgo durbhaṇaḥ. ata eva śāstrasthā vā tannimittatvāt (1.3.9) iti vakṣyatīti. astu tarhi śāstramūlārthaprasiddhiḥ pramāṇam ata āha tanmūleti. na svatantrāyāḥ prasiddher eva prāmāṇyaṃ sidhyatīty abhiprāyaḥ

Sanskrit only: no published translation is held for this verse.

अतः सकलभावप्रमाणनिराकरणात् शङ्किताभावनिराकरणेन चोदनैव धर्माधर्मयोः प्रमाणम् इत्य् उपपन्नम् इत्य् आह -- तस्माद् इति। पश्यताम् इति। षष्ठी चानादरे (२।३।३८) इत्यनादरे षष्ठीति

ataḥ sakalabhāvapramāṇanirākaraṇāt śaṅkitābhāvanirākaraṇena codanaiva dharmādharmayoḥ pramāṇam ity upapannam ity āha -- tasmād iti. paśyatām iti. ṣaṣṭhī cānādare (2.3.38) ityanādare ṣaṣṭhīti

Sanskrit only: no published translation is held for this verse.

२,४ अत्र भाष्यकारेण औपत्तिकस् तु शब्दस्यार्थेन सम्बन्धस् तस्याग्निहोत्रादिलक्षणस्य धर्मस्य निमित्तम् इत्य् उक्त्वा (कथम्) इति प्रश्नानन्तरम् उपदेशो हि भवतीति सौत्रम् उपदेशपदं व्याख्यातं, तत्र न ज्ञायते केनास्य सम्बन्ध इति योग्यपदान्वयं दर्शयति -- उपदेश इति। तस्य धर्मस्योपदेशो ज्ञानं प्रमाणम् इति। ननूपदेशो ग्रन्थसन्दर्भात्मा, ज्ञानं चार्थावग्रहः। कथम् अनयोः सामानाधिकरण्यम् अत आह -- ज्ञायत इति। भावसाधनो हि ज्ञानशब्दो नोपदेशशब्देन सामानाधिकरण्यं लभते। अयं तु ज्ञायते ऽनेनेति करणसाधन इति युक्तं सामानाधिकरण्यम् इति

2,4 atra bhāṣyakāreṇa aupattikas tu śabdasyārthena sambandhas tasyāgnihotrādilakṣaṇasya dharmasya nimittam ity uktvā (katham) iti praśnānantaram upadeśo hi bhavatīti sautram upadeśapadaṃ vyākhyātaṃ, tatra na jñāyate kenāsya sambandha iti yogyapadānvayaṃ darśayati -- upadeśa iti. tasya dharmasyopadeśo jñānaṃ pramāṇam iti. nanūpadeśo granthasandarbhātmā, jñānaṃ cārthāvagrahaḥ. katham anayoḥ sāmānādhikaraṇyam ata āha -- jñāyata iti. bhāvasādhano hi jñānaśabdo nopadeśaśabdena sāmānādhikaraṇyaṃ labhate. ayaṃ tu jñāyate 'neneti karaṇasādhana iti yuktaṃ sāmānādhikaraṇyam iti

Sanskrit only: no published translation is held for this verse.

कथं पुनर् उपदेशो धर्मे प्रमाणम् अत आह -- औत्पत्तिकेति। बाधकारणदोषाधीनं ह्य् अप्रामाण्यम्। तत्र सम्बन्धौत्पत्तिकत्वप्रतिपादनेन तद्द्वारा पुरुषानुप्रवेशाभावात्, पुरुषाश्रयत्वाच् च शब्दे दोषाणां कारणदोषनिवारणं तावत् कृतम्। तन्निराकरणेन सहाप्रामाण्यम् अनपोदितम् इत्य् अव्यतिरेकपदप्रयोजनम् आह -- अबाध इति। अव्यतिरेकपदेनाबाधः प्रतिपाद्यते न हि देशकालयोर् उभयोर् अपि चोदनाजनितं ज्ञानं विपर्येतीति। तद् एवं बाधकारणदोषनिराकरणे कृते ऽनपोदितम् औत्सर्गिकं प्रामाण्यम् इति तत् प्रमाणम् इत्य् अनेनोक्तम् इति दर्शयति -- स्वत इति

kathaṃ punar upadeśo dharme pramāṇam ata āha -- autpattiketi. bādhakāraṇadoṣādhīnaṃ hy aprāmāṇyam. tatra sambandhautpattikatvapratipādanena taddvārā puruṣānupraveśābhāvāt, puruṣāśrayatvāc ca śabde doṣāṇāṃ kāraṇadoṣanivāraṇaṃ tāvat kṛtam. tannirākaraṇena sahāprāmāṇyam anapoditam ity avyatirekapadaprayojanam āha -- abādha iti. avyatirekapadenābādhaḥ pratipādyate na hi deśakālayor ubhayor api codanājanitaṃ jñānaṃ viparyetīti. tad evaṃ bādhakāraṇadoṣanirākaraṇe kṛte 'napoditam autsargikaṃ prāmāṇyam iti tat pramāṇam ity anenoktam iti darśayati -- svata iti

Sanskrit only: no published translation is held for this verse.

अत्र चार्थे ऽनुपलब्ध इत्य् उच्यते। तद् अयुक्तम्। उपलब्धार्थविषयम् अपि प्रमाणं भवत्य् एव। अनुभूतिर् हि प्रमाणं प्रत्युत्पन्नेन्द्रियलिङ्गादिजनिता च संविदनुभूतिः। अत एवोन्मीलि(ताक्ष)स्यैकभावगोचराणां धारावाहिकसंविदां प्रामाण्यम् उपपन्नं भवति। अन्यथा तन् न स्यात्। न हि तत्रानवगतं किञ्चिद् अनुभूयते। देशकालान्तरसम्बन्धो ऽनुभूयत इति चेद्, न। एकदेशस्थे ऽपि भावात्। २,५ कालस् तु परोक्षः। न च परोक्षापरोक्षसम्बन्धो ऽपरोक्षो भवति, तरुमरुत्संयोगवत्। अतो (ऽवगतार्थम्) अनधिकार्थम् अपि ग्रहणं इति वाच्यम्। न चैवं स्मृतित्वापातः। स्मृतिर् हि पूर्वानुभवप्रभावितभावनावशलब्धसिद्धिर् नाधिकम् अपेक्षते (?ग्रहण + त्व) नेन्द्रियसापेक्षम् इत्य् उक्तम्। अत एव गृहीतम् अपि पुनर्गृह्यमाणं दृश्यत इति लौकिका व्यपदिशन्ति, न तु स्मर्यत इति। अतो न विद्मः किमर्थे ऽनुपलब्ध इत्य् अनेन निरस्यत इति (अत आह -) सर्वस्येति। अयम् अर्थः -- अनुपलब्धार्थविषयम् एव सर्वं प्रमाणम्। अन्यथा स्मृतित्वापातात्। न हि ग्रहणस्मरणयोर् गृहीतागृहीतगोचरयोर् गृहीतागृहीतगोचरगतो विशेष उपलभ्यते। यत् तु कारणभेदाद् भेद इत्य् उक्तम् सत्यम्। स्वरूपभेदौपयिकः कारणभेदः। स्वरूपं तु गृहीतागृहीतविषयत्वाद् एव भिन्नम्। अनुभूतिर् ग्रहणम् इति चेद्, यद्य् अपि सो ऽनुभूतिः अनुमानादिषु स्मृतित्वप्रसङ्गः। अतो ऽअवश्यं गृहीतागृहीतागोचरत्वम् एव ग्रहणस्मरणयोर् भेदः। किम् इदानीं धारावाहिकसंविदो न प्रमाणम्। न हि का ॥॥॥।क्तम्। अत्रोच्यते। तत्राप्य् उत्तरोत्तरकालाकलितभावप्रत्याकलनाद् उपपन्नम् एवाधिकगन्तृतया प्रामाण्यम्। न च वैशेषिकादिवत् परोक्षं कालम् आचक्ष्महे। प्रत्यक्षम् एव हि ॥॥।वर्तमानकालसम्बन्धान् भावानुपलभामहे। कथम् अरूपं प्रत्यक्षम् इति चेत्। आकाशवद् भविष्यति। न हि रूपि प्रत्यक्षम् इति नः प्रत्यक्षलक्षणम् अपि तर्हि संविद् एव परोक्षापरोक्षनिर्भासोदीयमानेदं प्रत्यक्षम् इदम् अप्रत्यक्षम् इति विभजते। तद् एवं विस्फारिताक्षस्य व्यक्तानुपलक्षितोत्तरोत्तरसूक्ष्मक्षणभेदभिन्नैकभाववि॥॥कापरोक्षनिर्भासावभासोदयात् उपपन्ना प्रत्यक्षता प्रमाणता च। अतः प्रमाणान्तरानुपलब्धस्वगोचरप्रत्याकलनाद् उपपन्नम् उपदेशप्रामाण्यम् इति सूक्तम् अर्थे ऽनुपलब्ध इति। अत्र भाष्यम् उपदेश इति विशिष्टस्य शब्दस्योच्चारणम् इति। तत्र चोदना विधिपदपर्यायः शब्दविशेषो भाष्यकारस्याभिमतः इत्य् आह -- चोदनेति। एतद् उक्तं भवति -- विधायकशब्द उपदेश इति

atra cārthe 'nupalabdha ity ucyate. tad ayuktam. upalabdhārthaviṣayam api pramāṇaṃ bhavaty eva. anubhūtir hi pramāṇaṃ pratyutpannendriyaliṅgādijanitā ca saṃvidanubhūtiḥ. ata evonmīli(tākṣa)syaikabhāvagocarāṇāṃ dhārāvāhikasaṃvidāṃ prāmāṇyam upapannaṃ bhavati. anyathā tan na syāt. na hi tatrānavagataṃ kiñcid anubhūyate. deśakālāntarasambandho 'nubhūyata iti ced, na. ekadeśasthe 'pi bhāvāt. 2,5 kālas tu parokṣaḥ. na ca parokṣāparokṣasambandho 'parokṣo bhavati, tarumarutsaṃyogavat. ato ('vagatārtham) anadhikārtham api grahaṇaṃ iti vācyam. na caivaṃ smṛtitvāpātaḥ. smṛtir hi pūrvānubhavaprabhāvitabhāvanāvaśalabdhasiddhir nādhikam apekṣate (?grahaṇa + tva) nendriyasāpekṣam ity uktam. ata eva gṛhītam api punargṛhyamāṇaṃ dṛśyata iti laukikā vyapadiśanti, na tu smaryata iti. ato na vidmaḥ kimarthe 'nupalabdha ity anena nirasyata iti (ata āha -) sarvasyeti. ayam arthaḥ -- anupalabdhārthaviṣayam eva sarvaṃ pramāṇam. anyathā smṛtitvāpātāt. na hi grahaṇasmaraṇayor gṛhītāgṛhītagocarayor gṛhītāgṛhītagocaragato viśeṣa upalabhyate. yat tu kāraṇabhedād bheda ity uktam satyam. svarūpabhedaupayikaḥ kāraṇabhedaḥ. svarūpaṃ tu gṛhītāgṛhītaviṣayatvād eva bhinnam. anubhūtir grahaṇam iti ced, yady api so 'nubhūtiḥ anumānādiṣu smṛtitvaprasaṅgaḥ. ato 'avaśyaṃ gṛhītāgṛhītāgocaratvam eva grahaṇasmaraṇayor bhedaḥ. kim idānīṃ dhārāvāhikasaṃvido na pramāṇam. na hi kā .......ktam. atrocyate. tatrāpy uttarottarakālākalitabhāvapratyākalanād upapannam evādhikagantṛtayā prāmāṇyam. na ca vaiśeṣikādivat parokṣaṃ kālam ācakṣmahe. pratyakṣam eva hi .....vartamānakālasambandhān bhāvānupalabhāmahe. katham arūpaṃ pratyakṣam iti cet. ākāśavad bhaviṣyati. na hi rūpi pratyakṣam iti naḥ pratyakṣalakṣaṇam api tarhi saṃvid eva parokṣāparokṣanirbhāsodīyamānedaṃ pratyakṣam idam apratyakṣam iti vibhajate. tad evaṃ visphāritākṣasya vyaktānupalakṣitottarottarasūkṣmakṣaṇabhedabhinnaikabhāvavi....kāparokṣanirbhāsāvabhāsodayāt upapannā pratyakṣatā pramāṇatā ca. ataḥ pramāṇāntarānupalabdhasvagocarapratyākalanād upapannam upadeśaprāmāṇyam iti sūktam arthe 'nupalabdha iti. atra bhāṣyam upadeśa iti viśiṣṭasya śabdasyoccāraṇam iti. tatra codanā vidhipadaparyāyaḥ śabdaviśeṣo bhāṣyakārasyābhimataḥ ity āha -- codaneti. etad uktaṃ bhavati -- vidhāyakaśabda upadeśa iti

Sanskrit only: no published translation is held for this verse.

अत्र चोदयति -- वाक्यान्तर इति द्वयेन। अयम् अर्थः -- यद् इदं शब्दविशेषस्य विधेर् धर्मे प्रमाणत्वम् आश्रितम्, अनेन वाक्यान्तरम् अपि हि २,६ वर्तमानोपदेशकं धर्मप्रमितौ प्रमाणम् एव। श्रेयस् साधनं हि धर्मः। स च श्रेयसः स्वर्गादेः साधनेन यागादिना साध्यसाधनसम्बन्धः सर्वाख्यातेषु सम्भवति। स्वर्गकामो यजेतेत्य् अतो ऽपि हि यागेन स्वर्गः सिध्यतीति गम्यत एव। यथा लोके ओदनं पचतीति पाकौदनयोः साध्यसाधनसम्बन्धबुद्धिः। स्याद् एतत् -- आख्यातम् अन्तरेण साध्यसाधनसम्बन्धो न सिद्ध्येत्, तदर्थो विधिर् इति। तन् न। अनाख्यातवाक्यप्रयोगासम्भवात्। प्रयोजनाय हि वाक्यम् उच्चार्यते। निराकाङ्क्षं च वचः प्रयोजनक्षमम् आकाङ्क्षानिवर्तनं चाख्यातादृते न सम्भवति। इतरथा विधेर् अप्य् असम्भवात्। स्तुत्यापि ह्य् आख्यातम् एव खादिरादिवाक्येषु विधायकं परिकल्प्यते। अथोच्येत -- अनुष्ठितो यागादिर् धर्मः, न चानुष्ठानं (प्रव)र्तकादृते सम्भवति। न च विधिम् अन्तरेणान्यः प्रवर्तयतीति। तन् न। इच्छानिबन्धनत्वात् प्रवृत्तेः। अनिष्टेषु विधिशतेनाप्य् अप्रवृत्तेः। अतो ऽनेनेदं सिध्यतीति संविदि वोपायार्थी स तत्र प्रवर्तत इति। न चाधर्मवर्जनार्थो विधिः। प्रतिषेधाद् एव नञस् तत्सिद्धेः। रागादिप्राप्तकर्तव्यतानुवादेन नञ् एव निषेधाधिकारे निवर्तकः। एषा हि तत्र वचनव्यक्तिः यद्धन्यात् तन् नेति। अतो ऽनर्थको विधिप्रामाण्यप्रतिपादनप्रयासः। अपौरुषेयः शब्दः धर्मे प्रमाणम् इत्य् एतावद् एव वचनीयम् इति

atra codayati -- vākyāntara iti dvayena. ayam arthaḥ -- yad idaṃ śabdaviśeṣasya vidher dharme pramāṇatvam āśritam, anena vākyāntaram api hi 2,6 vartamānopadeśakaṃ dharmapramitau pramāṇam eva. śreyas sādhanaṃ hi dharmaḥ. sa ca śreyasaḥ svargādeḥ sādhanena yāgādinā sādhyasādhanasambandhaḥ sarvākhyāteṣu sambhavati. svargakāmo yajetety ato 'pi hi yāgena svargaḥ sidhyatīti gamyata eva. yathā loke odanaṃ pacatīti pākaudanayoḥ sādhyasādhanasambandhabuddhiḥ. syād etat -- ākhyātam antareṇa sādhyasādhanasambandho na siddhyet, tadartho vidhir iti. tan na. anākhyātavākyaprayogāsambhavāt. prayojanāya hi vākyam uccāryate. nirākāṅkṣaṃ ca vacaḥ prayojanakṣamam ākāṅkṣānivartanaṃ cākhyātādṛte na sambhavati. itarathā vidher apy asambhavāt. stutyāpi hy ākhyātam eva khādirādivākyeṣu vidhāyakaṃ parikalpyate. athocyeta -- anuṣṭhito yāgādir dharmaḥ, na cānuṣṭhānaṃ (prava)rtakādṛte sambhavati. na ca vidhim antareṇānyaḥ pravartayatīti. tan na. icchānibandhanatvāt pravṛtteḥ. aniṣṭeṣu vidhiśatenāpy apravṛtteḥ. ato 'nenedaṃ sidhyatīti saṃvidi vopāyārthī sa tatra pravartata iti. na cādharmavarjanārtho vidhiḥ. pratiṣedhād eva nañas tatsiddheḥ. rāgādiprāptakartavyatānuvādena nañ eva niṣedhādhikāre nivartakaḥ. eṣā hi tatra vacanavyaktiḥ yaddhanyāt tan neti. ato 'narthako vidhiprāmāṇyapratipādanaprayāsaḥ. apauruṣeyaḥ śabdaḥ dharme pramāṇam ity etāvad eva vacanīyam iti

Sanskrit only: no published translation is held for this verse.

परिहरति -- विधाव् इति। अयम् अभिप्रायः -- सत्यम् इच्छातः प्रवृत्तिः। इच्छैव तु प्रेक्षावतां पुरुषार्थसाधनविषया। न च विधिना विना पुरुषार्थसाधनत्वं यागादीनां शक्यते ऽवगन्तुम्। अत एवौदुम्बरादीनां सत्य् अपि फलपदसम्बन्धे विधिविरहात् फलार्थत्वं नेत्य् औदुम्बराधिकरणे वक्ष्यते। ननु लौकिकपाकौदनादिवत् साध्यसाधनसम्बन्धसिद्धिर् उक्ता। २,७ सत्यम् उक्ता। अयुक्ता सा। लोके प्रमाणान्तरावगतेः सिध्यत्य् अपि। न तु वेदे। प्रमाणान्तराभावात्। ननु स्वर्गकामपदसमभिव्याहारः प्रमाणं, न। तस्य श्रुत्या बाधात्। इह हि यजत इति साध्याकाङ्क्षिणी भावनावगता सती समानपदोपादानश्रुत्युपनीतयो ॥॥॥॥॥।र्धात्वर्थसम्बन्धनिराकाङ्क्षा सती न व्यवहितकर्तृविशेषणत्वोपयुक्तस्वर्गादिभाव्यसम्बन्धम् अनुभवति। सन्निकृष्टालाभे हि विप्रक्र्ष्टो ऽपि वैदिको भवति न सन्निकृष्ट, ॥॥॥॥॥च्यते। लभ्यते चेह धात्वर्थः सन्निकृष्ट इति न विप्रकृष्टफलपदसम्बन्धो युक्त इति

pariharati -- vidhāv iti. ayam abhiprāyaḥ -- satyam icchātaḥ pravṛttiḥ. icchaiva tu prekṣāvatāṃ puruṣārthasādhanaviṣayā. na ca vidhinā vinā puruṣārthasādhanatvaṃ yāgādīnāṃ śakyate 'vagantum. ata evaudumbarādīnāṃ saty api phalapadasambandhe vidhivirahāt phalārthatvaṃ nety audumbarādhikaraṇe vakṣyate. nanu laukikapākaudanādivat sādhyasādhanasambandhasiddhir uktā. 2,7 satyam uktā. ayuktā sā. loke pramāṇāntarāvagateḥ sidhyaty api. na tu vede. pramāṇāntarābhāvāt. nanu svargakāmapadasamabhivyāhāraḥ pramāṇaṃ, na. tasya śrutyā bādhāt. iha hi yajata iti sādhyākāṅkṣiṇī bhāvanāvagatā satī samānapadopādānaśrutyupanītayo ...........rdhātvarthasambandhanirākāṅkṣā satī na vyavahitakartṛviśeṣaṇatvopayuktasvargādibhāvyasambandham anubhavati. sannikṛṣṭālābhe hi viprakrṣṭo 'pi vaidiko bhavati na sannikṛṣṭa, ..........cyate. labhyate ceha dhātvarthaḥ sannikṛṣṭa iti na viprakṛṣṭaphalapadasambandho yukta iti

Sanskrit only: no published translation is held for this verse.

ननु नियोगो नियुक्तिः। स च नियोक्तृव्यापारः। न च वेदे नियोक्तास्ति अपौरुषेयत्वात्। शब्दस्य चानियोक्तृत्वान् न तद्व्यापारो नियोगः। अदूरविप्रकर्षेण तु नियोगादिपदप्रयोगः। याथात्म्यवेदनायां तु लिङ् एव पठितव्यः। सा ह्य् अस्य प्रमाणम्। किम् आत्मकस् तर्ह्य् अयम्। उक्तं कार्यात्मेति। न च द्रव्याद्यनात्मकत्वाद् अभावः, तद्वद् एव कार्यम् अपि तद्विभक्तम् एव देशकालनरावस्थान्तराविपर्ययात् स्वसंवित्संवेद्यं नास्तीति शक्यते ऽवगन्तुम्। उदीयते खल्व् अपि लिङादिश्राविणां कार्यसंवित्। न चेयम् अनालम्बना, न च स्वांशालम्बनेति विज्ञानवादे वर्णितम्। अतो निर्विषया संविदात्मानम् अलभमाना स्वविषयभूतं कार्यम् उपकल्पयति। न च प्रतिभामात्रम् इदम् इति वाच्यम्। अनियतनिमित्ता हि प्रतिपत्तिः प्रतिभा। न चेयम् अनियतनिमित्ता, शब्दनिमित्तत्वात् तदनन्तरम् उत्पत्तेः। कथम् अनन्यगोचरे कार्यात्मनि व्युत्पत्तिः। तदभावे वा शब्दात् प्रतिपत्तिः कल्प्यताम्। लिङादीनां सकलेतरशब्दविलक्षणः को ऽपि महिमा, यदविदितसम(?या।या अ)पि स्वार्थं गमयन्ति। अथवा सर्वस्याकुमारमास्थविरं च कार्यावगतिः प्रवृत्तिहेतुर् इति प्रसिद्धिः। २,१० तदन्यम् अपि लिङादिशब्दश्रवणानन्तरं चेष्टाविशिष्टम् उपलभ्याकलयति नूनम् इतः सकाशाद् अस्य कार्यसंविदासीत् कथम् अपरथा प्रवर्तत इति। नन्व् एवं क्रियाम् एव कार्यतया अज्ञासीद् इति परस्यापि तद्गोचराम् एव कार्यधियम् उन्नयति। न। वर्तमानापदेशेषु सत्य् अपि क्रियाज्ञाने प्रवृत्त्यदर्शनात्, क्रियात्मनः कार्यस्य व्यभिचारात् प्रवृत्तावहेतुत्वात्। एतद् एव फले ऽपि दर्शयितव्यम्। अतो निर्मुक्ताखिलफलादिविकल्पम् अव्यभिचरितप्रवृत्तिसम्बन्धं कार्यमात्रं लिङादिभ्यः प्रयोज्यवृद्धेनावगतम् इति व्युत्पद्यमानो जानाति। न हि कार्यावगतिर् भवति प्रवृत्तिश् च नेति सम्भवति। अतः कार्यम् एव कार्यविधिर् इत्य् आचार्याः प्रतिपेदिरे। ननु च प्रेषणादयो लिङर्थाः। न, स्वसन्ताने प्रवृत्तिहेतुत्वेन तेषाम् अनुपलब्धेः। वेदे च व्यभिचारात्। (ननु तर्)हीष्टाभ्युपायता लिङादीनाम् अर्थो भविष्यति। सर्वो हि समीहितोपायम् आकलय्य तत्र तत्र प्रवर्तत इति परम् अपि चेष्टमानम् उपलभ्य जानाति नूनम् इष्टो ॥॥॥।मव्यापारः शब्दश्रवणानन्तरं चायं चेष्टत इति शब्देनेष्टाभ्युपायता प्रतिपादिता भवति। स एव विधिः। प्रवर्तनारूपो हि सः। प्रवृत्तिहेतुं धर्मं च प्रवदन्ति ॥॥॥ । अतः प्रेषणाध्येषणाभ्यनुज्ञातिरिक्तम् अप्रवृत्तप्रवर्तनं नियोज्यार्थकर्मगोचरं लोकवेदसाधारणं चोदनोपदेशपर्यायपदवाच्यं लिङादीनाम् अर्थो विधिर् इति युक्तम्। हि ॥॥॥॥त्य जैमिनिनोक्तम् उपदेश इति। भाष्यकारेण च उपदेश इति विशिष्टस्य शब्दस्योच्चारणम् इति विवृतम्। पुरुषार्थोपायं किलानवगतम् अवगमयन् शब्दान्तरे दूरम् उत्क्र्ष्टो लिङादिशब्दो ऽविशिष्ट इत्य् उक्तम्। अतो लोकवेदतन्त्रान्तरानुगतो ऽयम् एव सिद्धान्त इति कैश् चिद् उन्नीतम्। तद् इदम् अनुपपन्नम्। तथा हि -- संविद् एव तावत् परिपन्थिनी। न हि लिङादिश्रवणसमनन्तरम् इष्टाभ्युपायो ऽयं व्यापार इति भवति मतिः। अपि तर्हि, प्रवर्तनावगतिः। ननु चेष्टाभ्युपायतैव प्रवर्तना प्रवृत्तिहेतुत्वात्। तन् न। एवं सति यस्य पर्णमयी जुहूर् भवति इत्य् अत्रापि विधित्वप्रसङ्गः। तरति मृत्युम् इत्य् अत्रापि। भवति हि तत्रापि पर्णमयता अपापश्लोकश्रवणस्य अश्वमेधो वा ब्रह्महत्यातरणस्य साधनम् इति प्रतिपत्तिः। यदि मतम् -- अस्येदं भवतीत्य् अन्वयमात्रम् अत्रावगम्यते न व्यतिरेकः, न च तम् अन्तरेण साध्यसाधनसम्बन्धो २,११ ऽवगम्यते इति। कथं तर्हि स्वर्गकामो यजेतेत्य् अत्रापि स्वर्गयागयोः साध्यसाधनसंवित्। न हि तत्रापि सति योगे स्वर्गो भवति असति नेति मतिः। यागेनेति हि तृतीया साधनभावम् अवगमयतीति चेद्, न। तृतीयाश्रवणात्। विधेर् अयं महिमा यदतृतीयान्तो ऽपि यजिः करणतया निर्दिश्यते। स चेद् अन्यो नाभ्युपगम्यते कथं स्वभावसाध्यो यजिः करणतया निर्दिश्यते। अपि च यत्र स्पष्टम् इष्टाभ्युपायत्वम् अवगम्यते यागस्य यथेष्टाभ्युपायो ऽयं यागः यागेन स्वर्गः सिध्यतीति वा, तत्रापि विधित्वप्रसङ्गः। किञ् च तद्द्वेषीति तत्कारि चायम् एवं ब्रुवाणो दृश्यते। तथा हि प्रतिभा विधिर् इति निरस्यतैतद् उक्तं - न निरालम्बनं ज्ञानं क्रिया साधनयोगिनी । समान्यस्मिन् इति। तद् इदं तवापि समानम् इति वर्णितम्। अपि च एवंवादिना साधु समर्थितं विधाव् अनाश्रिते इति। अत्र हि विध्यधीना यागादेर् इष्टाभ्युपायता न तु सैव विधिर् इति दर्शयति। तस्माद् अतिकुशलैर् उपदेशापदेशयोर् अविशेष एवोपपादित इति निर्मुक्ताखिलोपाधिविधितत्त्वम् अतीन्द्रियम् अन्यदेवेति पूर्वोक्तम् एव साधीयः। अत्र वदामः -- नैवम् अपि यागस्वर्गयोः साध्यसाधनसम्बन्धसिद्धिः। नियोगो हि तदा साध्यः। न च साध्यद्वयम् एकत्र समवैति, समत्वाद् असम्बन्धात्। ननु नियोगसिद्धिनान्तरीयकी स्वर्गसिद्धिः। अत एव साध्यविवृद्धिर् इयं न तु स्वर्गो ऽपि स्वतन्त्रतया साध्यः। निरपेक्षं च साध्यद्वयम् एकत्र विरुध्यते, नानुगुणम्। यथाह -- नियोगसिद्धौ सर्वं तदनुगुणम् इति। केन नेष्यते। तस्माद् अविरोध इति। तद् असत्। किं हि स्वर्गसिद्धिम् अन्तरेण नियोगस्य न सिध्यति। न हि नित्याधिकारेषु नियोगः साध्यान्तरम् आकाङ्क्षति। कामाधिकाराः काम्यपर्यन्ता इति चेत्, को हेतुः। कमिसाध्यत्वागवतिः। तथा हि स्वर्गकामो यजेतेति साध्यस्वर्गविशिष्टाधिकारिसाध्यो नियोगो ऽवगम्यते। स कथम् असिध्यति स्वर्गे सिध्येत्। अतः स्वर्गसिद्धिर् अवगम्यत इति नः साध्यस्वर्गविशिष्टो ऽधिकारी। २,१२ कस् तर्हि। काम्यस्वर्गविशिष्टः। अतः स्वर्गं कामयमानः पुरुषो नियोगं साधयिष्यति। अन्यदिच्छतो ऽन्यत्र क्रिया नोपपद्यत इति चेद्, न। नियोगसामर्थ्याद् उपपत्तेः। नियोगो हि प्रधानभूतः साध्यतयावगतः स्वर्गम् अपि कामयमानम् आत्मन्य् आकर्षतीति किम् अनुपपन्नम्। अपि च सिध्यन्न् अपि स्वर्गो यागात् सिध्यतीति न नः प्रमाणम्। स्वर्गयागौ हि युगपदरुणैकहायनीवदेकप्रधानकार्यान्वयिनौ नान्योन्यान्वयम् अनुभवतः। न चारुणिम्न इव द्रव्यावछेदशक्तिर् यजेर् अपि स्वर्गसाधनशक्तिर् अवधृता प्रमाणान्तरेण। ननु किम् अत्र प्रमाणान्तरेण। स्वर्गे याग एव प्रमाणम्। स हि स्वर्गकामं यागे नियुङ्क्ते। न चाकामोपाये कामी नियोक्तुं शक्यते। उक्तोत्तरम् इदम्। किं हि भगवतो नियोगस्यालौकिकस्यासदृशमहिम्नो दुः(खत)या फले ऽपि नरं प्रवर्तयति। तस्य ह्य् अनुपाये कामिनं नियुञ्जानस्य किम् इव हीयेत। यागे नियोगो नियुङ्क्ते इति वदता नूनम् इदम् अवधीरितम्। आरम्भे हि पुरुषो नियुज्यते न कर्मणीति। तस्मान् न स्वर्गयागयोः साध्यसाधनसम्बन्धसिद्धिः। यद् अपि च क्रियादिकार्ये व्यभिचाराद् अनुपाधिके व्युत्पत्तिर् इत्य् उक्तं, तदयुक्तम्। प्रतीतविषयत्वाद् व्युत्पत्तेः। न हि क्रियादिव्यभिचारात् शशविषाणं लिङाद्यर्थ इति शक्यते वक्तुम्। यद् अपि मन्यते क्रियाकार्य एव लोके व्युत्पन्नः फलसमभिव्याहाराद् वेदे ऽन्यदविनाशि कार्यं लिङाद्यर्थ इति प्रत्येष्यते। लोके तु संमुग्धेनापि व्यवहारसिद्धेर् न शब्दार्थतत्त्वनिरूपणम्। बहव एव गौणलाक्षणिकशब्दनिबन्धना लोके व्यवहारा दृश्यन्ते। वेदे तु स्वर्गकामो यजेतेति क्रियात्मनः कार्यस्य भङ्गुरत्वाद् आमुष्मिकस्वर्गादिफलसाधनाशक्तेः कालान्तरस्थायिक्रियातो भिन्नं कार्यम् उपेयते। वाक्यशेषाच् चैकत्र समुन्नीतः शब्दार्थो यववराहाद्यर्थवदन्यत्रासत्य् अपि वाक्यशेषे ऽवगम्यते। नित्याधिकारेष्व् असत्य् अपि फलपदसमभिव्याहारे तथाविधम् एव कार्यं लिङादीनाम् अर्थो भविष्यतीति। तद् इदम् अन्यद् एवाभ्यस्तम् अन्यच् चोपनिपतितम्। क्रियाकार्ये (विष्पन्न?) स्थायिकार्यं प्रतिपद्यते। न च क्रियायाः फलसाधनताशक्तेर् अशब्दार्थः सन् युक्तः कल्पयितुम्। कामं कर्मण एवाफलनिष्पत्तेः समस्ति रूपम् इति कल्पयितुम् उचितम्। न च पूर्वावगतशब्दार्थान्यथाकरणम्। न हि कर्मण्य् अनुशिष्टा द्वितीया सक्तुषु तदसम्भवाद् विपरिवर्त्य करणम् अभिधत्त इति युक्तम् अभिधातुम्। सर्वशब्देष्व् अनाश्वासप्रङ्गात्। अत एव २,१३ तत्र तत्र यथाश्रुतार्थसमन्वयानुपपत्तेः क्वचिद् गुणवादः क्वचिल्लक्षणा क्वचिद् विनियोगभङ्ग इति तन्त्रे व्यवहारः। न तु विनियोगभङ्गाद् अभिधानम् एव शब्दानाम् अन्यथा नीयते। अपि च श्रुतकर्मफलसम्बन्धानुपपत्तेर् अनवगतपूर्वम् अपूर्वं कार्यं लिङर्थम् उपयता साधु श्रुतम् उपपादितम्। किं हि लिङापराद्धं यत् तस्यालौकिकम् अर्थम् अतिक्रम्य कर्मफलसम्बन्ध उपपाद्यते। ननु नाद्यापि लिङर्थो निश्चीयते। अयम् एव हि निर्णयसमयः। अत्र च श्रुतफलपदान्तरसमभिव्याहारोपपत्तये ऽतीन्द्रियम् एव कार्यम् इति निश्चीयते। अतो न किञ्चिद् विरोत्स्यत इति। किम् इदानीं स्वर्गकामो यजेतेति श्रुतेर् अप्रतीतिर् एव, लिङर्थे संशयो वा। अप्रतीतौ क्रियात्मनः कार्यस्य फलसम्बन्धानुपपत्तिर् इत्य् एतद् एव दुर्भणम्। संशयस् तु पक्षद्वयावलम्बी। न चालौकिके क्रियातिरेकिणि कार्ये लिङादयो निरूपितप्रयोगाः। न चात्यन्तापरिदृष्टापूर्वार्थगोचरः संशयो दृष्टचरः। यवादिषु त्व् आर्यम्लेच्छप्रयोगनिबन्धनो दृष्टपूर्वार्थगोचरः संशयो युक्त एव। अत एवात्र न वाक्यशेषान् निर्णयः। सन्दिग्धे हि स वर्णितः। न च लिङर्थे संशयः। किन् तु लोके व्युत्पत्त्यनुसारेण क्रियात्मन्य् एव कार्ये निश्चयः। यद् अप्य् उच्यते कर्मफलसम्बन्धोपपत्तये ऽन्यत् कार्यम् उपलभ्यत इति। केन वा कर्मफलसम्बन्धो दर्शितः। न ह्य् अयं वैनियोगिकः। नियोग एवात्र प्रमाणम्। स चेत् तदधीनसिद्धिः दुरुत्तरम् इतरेतराश्रयम्, सिद्धो हि नियोगो विषयीभूतस्य भावार्थस्य करणताम् आह। तत्सिद्ध्या च नियोगात्मलाभ इत्य् अलम् अनेनापि। यथावार्त्तिकम् अनुसन्धास्यामः। एवं हि वार्त्तिककृता भावार्थाधिकरणे उक्तं लिङादिशब्दानां पुरुषं प्रति प्रयोजकव्यापारो ऽभिधात्मिका भावना विधिर् इति। द्वे किल भावने मीमांसकाः सङ्गिरन्ते शब्दात्मिकाम् अर्थात्मिकां च। तत्रार्थात्मिका सर्वाख्यातसाधारणी स्वर्गादिफलधर्मिका यागादिधात्वर्थकरणिका स्ववाक्यप्रकरणान्यप्रकरणानारभ्यवादस्मृतिलोकाचारप्राप्ततत्तद् इति कर्तव्यतावती तत्र तत्र सिध्यति। शब्दात्मिका तु लिङादिशब्दानां प्रयोजकानां प्रयोज्यपुरुषकर्मिकाभिधासम्बन्धज्ञानकारणिकार्थवादोदितप्राशस्त्येति कर्तव्यतावतीति विवेचनीयम्। कथं पुनरभिधा शब्दात्मिका। शब्दव्यापारो हि सः। न। व्यापारतद्वतोर् अनतिभेदाद् उपपत्तेः। द्रव्यम् २,१४ एव हि पूर्वावस्थातः प्रच्युतं पराम् अवस्थाम् अप्राप्तं पूर्वापरीभूतं व्यापारशब्दवाच्यम्। कथं लिङादीनाम् अभिधा पुरुषकर्मिका। न हि ते पुरुषम् अभिदधति भावनावचनत्वात्। सत्यम्। भावनैव तैर् अभिधीयमाना न स्वरूपमात्रेण वर्तमानापदेशवद् अभिधीयते। किन् तु कुर्याद् (इति) प्रवृत्तिविषयतया। न च शब्दशक्तयो ऽनुयोक्तुम् अर्हन्ति। तथा हि -- लिङादिश्रवणानन्तरं प्रयोज्यवृद्धं चेष्टमानम् उपलभ्य ततः प्रवृत्तिहेतुप्रत्ययः प्रयोज्यस्यावगम्यत इति तावत् सर्ववादिसिद्धम् अविवादम्। प्रवृत्तिहेतुस्वरूपे तु बहुधा विवादः। तत्र क्रियाफलादीनां व्यभिचाराद् अप्रवृत्तिहेतुत्वात्, प्रमाणान्तरागोचरे तु प्रवृत्तिहेतौ व्युत्पत्त्यसम्भवात्, कर्मफलसम्बन्धानुपपत्तेश् च सकलेतरप्रकारासम्भवाद् अविवादसिद्धम् अभिधेयप्रत्ययबलोन्नीयमानस्वरूपं लिङादीनाम् अभिधानम् एव प्रवृत्तिहेतुर् इति साम्प्रतम्। सा च प्रवर्तनेति स्थितम्। सा च प्रवर्त्यकर्मिका। प्रवर्त्यश् च पुरुष इति युक्तं पुरुषकर्मत्वम् अभिधायाः। लिङादिव्यापारो ऽप्य् अभिधेयप्रत्ययहेतुत्वाद् अभिधेत्य् उच्यते। पुरुषं च प्रवर्तयन् प्रवर्तनेति गीयते। न च सर्वाभिधासु प्रसङ्गः, शब्दशक्तिवैचित्र्याद् इत्य् उक्तम्। शक्तिर् हि कार्यदर्शनसमधिगम्या। तद् यतः प्रवृत्तिदर्शनं तद्व्यापारः प्रवर्तना, प्रवृत्तिहेतुत्वात्। न च शब्दान्तरेभ्यः प्रवृत्तिर् उपलभ्यत इति न तदभिधायास् तथात्वप्रसङ्गः। यश् चाभिधाया अनभिधाने दोषः उक्तः, सो ऽभिधानपक्षाभ्युपगमेनैव परिहृतः। यत् तु कार्योन्नेयत्वाद् अनभिधानत्वम् उक्तं तद् अप्य् अयुक्तम्। किं हि कार्यम् अनुपपद्यमानं प्रवर्तनाम् अवगमयति। न तावद् भावनावगतिः, वर्तमानापदेशेष्व् अपि प्रसङ्गात्। अतो ऽनन्यप्रमाणत्वाद् उपपन्नम् अभिधेयत्वम् अभिधायाः। यत् तु अनन्यप्रमाणके व्युत्पत्त्यसम्भव इत्य् उक्तम्। न, अर्थापत्तिप्रमाणकत्वात्। नन्व् अर्थापत्त्या प्रवर्तनापदेशसाधारणम् अभिधाया रूपम् उन्नीयते। न च तावन्मात्रं प्रवर्तना लडादिभ्यो ऽपि प्रवृत्तिसंवेदनप्रसङ्गात्। असाधारणस् तु को ऽपि विशेषो लिङ्प्रवृत्तेः प्रमाणान्तरागोचर एवेति दुष्परिहरो व्युत्पत्तिविरहः। मैवम्। प्रवृत्तिहेतुत्वेनार्थापत्तितस् तदवगमात्। तथा हि -- यत्र तावत् लिङादिभ्यः प्रवृत्तिर् उपलभ्यते, तत्र मया प्रवर्तितव्यम् इत्य् अन्तःसङ्कल्पमूलात्मा लिङ्प्रवृत्तिविशेष उन्नीयते। अप्रवर्तमाना अपि प्रवर्तस्वेति मामयमाहेति लिङ्श्राविणो वक्तारं निर्दिशन्ति। तद् अवसीयते प्रवृत्तिहेतुर् अभिहितो लिङा। स च नर्ते वापारात् सिध्यतीत्य् उक्तम् एव। न च किम् आत्मको लिङ्व्यापार २,१५ इति वाच्यम्। अन्तःसङ्कल्पमूलात्मा ह्य् असाव् इति वक्ष्यति। नासाव् उदासीनः कदाचिद् अवगम्यते। प्रवृत्तिजनन एव हि भावभेदे व्युत्पत्तिर् आसीद् इति स्वयम् अपि प्रवर्तितव्यम् इति प्रतिपद्यमान एव हि लिङर्थं प्रतिपद्यते। नोदासीनम् आख्यातान्तरवत्। नो हि फलादयः स्वरूपेणावगताः प्रवर्तयन्ति। अस्य त्वयम् एवात्मा यत् प्रवृत्तिधियं जनयति। अपर्यनुयोज्यत्वाद् वस्तुस्वरूपाणां नामाख्यातविभागवदुपपत्तेः। सो ऽयम् एवमात्मनि लिङर्थे व्युत्पन्नः स्वप्रतिपत्तिकाले न शब्दादृते तम् अर्थं बुध्यत इत्य् अनन्यप्रमाणकत्वम्। न तु प्रवर्तनास्वरूपम् एवान्यतो नावगतं, येन मतान्तरवद् व्युत्पत्तिविरहश् चोद्येत। सम्प्रति तु न जातेर् इव व्यक्तिम् अन्यतः प्रवर्तनां प्रतिपद्यामह इति शाब्दीम् अभिदध्महे। न चाभिधा नाभिधीयत इति वाच्यम्। अभिधाशब्दवदुपपत्तेः। यद् एव हि शब्दश्रवणानन्तरम् अनन्यलभ्यं बुद्धौ विपरिवर्तते तदभिधेयम्। तथा च लिङादीनाम् अभिधानम् इति किं नाभिधीयते। उक्तं हि लिङादिभ्यः प्रवृत्तिहेतुरुपलभ्यत इति। न च लिङादीनाम् अभिधात्मनो व्यापाराद् अन्यः प्रवृत्तिहेतुः शक्यते निरूपयितुम् इति। अत एव नानवस्था। न हि प्रवर्तनावत् तदभिधानम् अपि शब्दाद् अवगम्यते, यत् तद्गोचरम् अपरम् अभिधानम् उपेयते। न च लिङादिस्वरूपाभिधानप्रसक्तिः, स्वयम् एव तद्व्यापारवैलक्षण्यात्। लिङुपश्लेषे हि विशेषके विशेषणाभिधानम् आपादितम्। स्वगते तु विशेषे तदनवकाशम् एव। सर्वे शब्दव्यापाराः खल्व् अपि स्वरूपेणैव व्यतिभिद्यन्ते। अत एव विलक्षणाभिधेयप्रत्ययहेतुभावभाजः एकस्या अपि विधिविभक्तेः क्रियाकालादिवन्नाभिधाभिधानम् अनुपपन्नम्। अतो लिङादीनाम् अभिधा प्रवर्तना सो ऽयं विधिः। आह च -- अभिधां भावनाम् आहुर् अन्याम् एव लिङादयः । इति। तद् अनेनैवमात्मना विधिना सम्बद्धा भावना प्रवृत्तिविषयतयावगता फलवत्तया निश्चीयते, स्वसन्ताने फलवतः प्रवृत्तिविषयतयावगतेः। तथा चावगतानुष्ठीयत इति विधिशक्तिम् उपक्रान्ताम् अवसीदन्तीम् उत्तभ्नाति फलवत्ता, न तु सैव विधिर् इति। अत एवापुरुषार्थेषु सागरं तरेद् इत्य् एवमादिषु विध्यवगतिः। तथा तत्र न स्याद् इतरथा तत्र न स्यात् अपुरुषार्थत्वात्(?)। लिङ्व्यापारस् तु तत्राप्य् अविशिष्टः, निर्वाहिकायास् तु फलवत्तायाः प्रमाणाभावाद् न २,१६ निर्वहति। तदभावश् चानाप्तवाक्यत्वात्। वेदे त्व् अपौरुषेयत्वान् न पुरुषदोषाशङ्कापीत्य् उपपादितम्। विधौ तु तम् अतिक्रम्येति प्रपञ्चितश् च विधिर् अपि मनाग् इत्य् उपरम्यते इति

nanu niyogo niyuktiḥ. sa ca niyoktṛvyāpāraḥ. na ca vede niyoktāsti apauruṣeyatvāt. śabdasya cāniyoktṛtvān na tadvyāpāro niyogaḥ. adūraviprakarṣeṇa tu niyogādipadaprayogaḥ. yāthātmyavedanāyāṃ tu liṅ eva paṭhitavyaḥ. sā hy asya pramāṇam. kim ātmakas tarhy ayam. uktaṃ kāryātmeti. na ca dravyādyanātmakatvād abhāvaḥ, tadvad eva kāryam api tadvibhaktam eva deśakālanarāvasthāntarāviparyayāt svasaṃvitsaṃvedyaṃ nāstīti śakyate 'vagantum. udīyate khalv api liṅādiśrāviṇāṃ kāryasaṃvit. na ceyam anālambanā, na ca svāṃśālambaneti vijñānavāde varṇitam. ato nirviṣayā saṃvidātmānam alabhamānā svaviṣayabhūtaṃ kāryam upakalpayati. na ca pratibhāmātram idam iti vācyam. aniyatanimittā hi pratipattiḥ pratibhā. na ceyam aniyatanimittā, śabdanimittatvāt tadanantaram utpatteḥ. katham ananyagocare kāryātmani vyutpattiḥ. tadabhāve vā śabdāt pratipattiḥ kalpyatām. liṅādīnāṃ sakaletaraśabdavilakṣaṇaḥ ko 'pi mahimā, yadaviditasama(?yā/yā a)pi svārthaṃ gamayanti. athavā sarvasyākumāramāsthaviraṃ ca kāryāvagatiḥ pravṛttihetur iti prasiddhiḥ. 2,10 tadanyam api liṅādiśabdaśravaṇānantaraṃ ceṣṭāviśiṣṭam upalabhyākalayati nūnam itaḥ sakāśād asya kāryasaṃvidāsīt katham aparathā pravartata iti. nanv evaṃ kriyām eva kāryatayā ajñāsīd iti parasyāpi tadgocarām eva kāryadhiyam unnayati. na. vartamānāpadeśeṣu saty api kriyājñāne pravṛttyadarśanāt, kriyātmanaḥ kāryasya vyabhicārāt pravṛttāvahetutvāt. etad eva phale 'pi darśayitavyam. ato nirmuktākhilaphalādivikalpam avyabhicaritapravṛttisambandhaṃ kāryamātraṃ liṅādibhyaḥ prayojyavṛddhenāvagatam iti vyutpadyamāno jānāti. na hi kāryāvagatir bhavati pravṛttiś ca neti sambhavati. ataḥ kāryam eva kāryavidhir ity ācāryāḥ pratipedire. nanu ca preṣaṇādayo liṅarthāḥ. na, svasantāne pravṛttihetutvena teṣām anupalabdheḥ. vede ca vyabhicārāt. (nanu tar)hīṣṭābhyupāyatā liṅādīnām artho bhaviṣyati. sarvo hi samīhitopāyam ākalayya tatra tatra pravartata iti param api ceṣṭamānam upalabhya jānāti nūnam iṣṭo .......mavyāpāraḥ śabdaśravaṇānantaraṃ cāyaṃ ceṣṭata iti śabdeneṣṭābhyupāyatā pratipāditā bhavati. sa eva vidhiḥ. pravartanārūpo hi saḥ. pravṛttihetuṃ dharmaṃ ca pravadanti ...... . ataḥ preṣaṇādhyeṣaṇābhyanujñātiriktam apravṛttapravartanaṃ niyojyārthakarmagocaraṃ lokavedasādhāraṇaṃ codanopadeśaparyāyapadavācyaṃ liṅādīnām artho vidhir iti yuktam. hi ........tya jaimininoktam upadeśa iti. bhāṣyakāreṇa ca upadeśa iti viśiṣṭasya śabdasyoccāraṇam iti vivṛtam. puruṣārthopāyaṃ kilānavagatam avagamayan śabdāntare dūram utkrṣṭo liṅādiśabdo 'viśiṣṭa ity uktam. ato lokavedatantrāntarānugato 'yam eva siddhānta iti kaiś cid unnītam. tad idam anupapannam. tathā hi -- saṃvid eva tāvat paripanthinī. na hi liṅādiśravaṇasamanantaram iṣṭābhyupāyo 'yaṃ vyāpāra iti bhavati matiḥ. api tarhi, pravartanāvagatiḥ. nanu ceṣṭābhyupāyataiva pravartanā pravṛttihetutvāt. tan na. evaṃ sati yasya parṇamayī juhūr bhavati ity atrāpi vidhitvaprasaṅgaḥ. tarati mṛtyum ity atrāpi. bhavati hi tatrāpi parṇamayatā apāpaślokaśravaṇasya aśvamedho vā brahmahatyātaraṇasya sādhanam iti pratipattiḥ. yadi matam -- asyedaṃ bhavatīty anvayamātram atrāvagamyate na vyatirekaḥ, na ca tam antareṇa sādhyasādhanasambandho 2,11 'vagamyate iti. kathaṃ tarhi svargakāmo yajetety atrāpi svargayāgayoḥ sādhyasādhanasaṃvit. na hi tatrāpi sati yoge svargo bhavati asati neti matiḥ. yāgeneti hi tṛtīyā sādhanabhāvam avagamayatīti ced, na. tṛtīyāśravaṇāt. vidher ayaṃ mahimā yadatṛtīyānto 'pi yajiḥ karaṇatayā nirdiśyate. sa ced anyo nābhyupagamyate kathaṃ svabhāvasādhyo yajiḥ karaṇatayā nirdiśyate. api ca yatra spaṣṭam iṣṭābhyupāyatvam avagamyate yāgasya yatheṣṭābhyupāyo 'yaṃ yāgaḥ yāgena svargaḥ sidhyatīti vā, tatrāpi vidhitvaprasaṅgaḥ. kiñ ca taddveṣīti tatkāri cāyam evaṃ bruvāṇo dṛśyate. tathā hi pratibhā vidhir iti nirasyataitad uktaṃ - na nirālambanaṃ jñānaṃ kriyā sādhanayoginī | samānyasmin iti. tad idaṃ tavāpi samānam iti varṇitam. api ca evaṃvādinā sādhu samarthitaṃ vidhāv anāśrite iti. atra hi vidhyadhīnā yāgāder iṣṭābhyupāyatā na tu saiva vidhir iti darśayati. tasmād atikuśalair upadeśāpadeśayor aviśeṣa evopapādita iti nirmuktākhilopādhividhitattvam atīndriyam anyadeveti pūrvoktam eva sādhīyaḥ. atra vadāmaḥ -- naivam api yāgasvargayoḥ sādhyasādhanasambandhasiddhiḥ. niyogo hi tadā sādhyaḥ. na ca sādhyadvayam ekatra samavaiti, samatvād asambandhāt. nanu niyogasiddhināntarīyakī svargasiddhiḥ. ata eva sādhyavivṛddhir iyaṃ na tu svargo 'pi svatantratayā sādhyaḥ. nirapekṣaṃ ca sādhyadvayam ekatra virudhyate, nānuguṇam. yathāha -- niyogasiddhau sarvaṃ tadanuguṇam iti. kena neṣyate. tasmād avirodha iti. tad asat. kiṃ hi svargasiddhim antareṇa niyogasya na sidhyati. na hi nityādhikāreṣu niyogaḥ sādhyāntaram ākāṅkṣati. kāmādhikārāḥ kāmyaparyantā iti cet, ko hetuḥ. kamisādhyatvāgavatiḥ. tathā hi svargakāmo yajeteti sādhyasvargaviśiṣṭādhikārisādhyo niyogo 'vagamyate. sa katham asidhyati svarge sidhyet. ataḥ svargasiddhir avagamyata iti naḥ sādhyasvargaviśiṣṭo 'dhikārī. 2,12 kas tarhi. kāmyasvargaviśiṣṭaḥ. ataḥ svargaṃ kāmayamānaḥ puruṣo niyogaṃ sādhayiṣyati. anyadicchato 'nyatra kriyā nopapadyata iti ced, na. niyogasāmarthyād upapatteḥ. niyogo hi pradhānabhūtaḥ sādhyatayāvagataḥ svargam api kāmayamānam ātmany ākarṣatīti kim anupapannam. api ca sidhyann api svargo yāgāt sidhyatīti na naḥ pramāṇam. svargayāgau hi yugapadaruṇaikahāyanīvadekapradhānakāryānvayinau nānyonyānvayam anubhavataḥ. na cāruṇimna iva dravyāvachedaśaktir yajer api svargasādhanaśaktir avadhṛtā pramāṇāntareṇa. nanu kim atra pramāṇāntareṇa. svarge yāga eva pramāṇam. sa hi svargakāmaṃ yāge niyuṅkte. na cākāmopāye kāmī niyoktuṃ śakyate. uktottaram idam. kiṃ hi bhagavato niyogasyālaukikasyāsadṛśamahimno duḥ(khata)yā phale 'pi naraṃ pravartayati. tasya hy anupāye kāminaṃ niyuñjānasya kim iva hīyeta. yāge niyogo niyuṅkte iti vadatā nūnam idam avadhīritam. ārambhe hi puruṣo niyujyate na karmaṇīti. tasmān na svargayāgayoḥ sādhyasādhanasambandhasiddhiḥ. yad api ca kriyādikārye vyabhicārād anupādhike vyutpattir ity uktaṃ, tadayuktam. pratītaviṣayatvād vyutpatteḥ. na hi kriyādivyabhicārāt śaśaviṣāṇaṃ liṅādyartha iti śakyate vaktum. yad api manyate kriyākārya eva loke vyutpannaḥ phalasamabhivyāhārād vede 'nyadavināśi kāryaṃ liṅādyartha iti pratyeṣyate. loke tu saṃmugdhenāpi vyavahārasiddher na śabdārthatattvanirūpaṇam. bahava eva gauṇalākṣaṇikaśabdanibandhanā loke vyavahārā dṛśyante. vede tu svargakāmo yajeteti kriyātmanaḥ kāryasya bhaṅguratvād āmuṣmikasvargādiphalasādhanāśakteḥ kālāntarasthāyikriyāto bhinnaṃ kāryam upeyate. vākyaśeṣāc caikatra samunnītaḥ śabdārtho yavavarāhādyarthavadanyatrāsaty api vākyaśeṣe 'vagamyate. nityādhikāreṣv asaty api phalapadasamabhivyāhāre tathāvidham eva kāryaṃ liṅādīnām artho bhaviṣyatīti. tad idam anyad evābhyastam anyac copanipatitam. kriyākārye (viṣpanna?) sthāyikāryaṃ pratipadyate. na ca kriyāyāḥ phalasādhanatāśakter aśabdārthaḥ san yuktaḥ kalpayitum. kāmaṃ karmaṇa evāphalaniṣpatteḥ samasti rūpam iti kalpayitum ucitam. na ca pūrvāvagataśabdārthānyathākaraṇam. na hi karmaṇy anuśiṣṭā dvitīyā saktuṣu tadasambhavād viparivartya karaṇam abhidhatta iti yuktam abhidhātum. sarvaśabdeṣv anāśvāsapraṅgāt. ata eva 2,13 tatra tatra yathāśrutārthasamanvayānupapatteḥ kvacid guṇavādaḥ kvacillakṣaṇā kvacid viniyogabhaṅga iti tantre vyavahāraḥ. na tu viniyogabhaṅgād abhidhānam eva śabdānām anyathā nīyate. api ca śrutakarmaphalasambandhānupapatter anavagatapūrvam apūrvaṃ kāryaṃ liṅartham upayatā sādhu śrutam upapāditam. kiṃ hi liṅāparāddhaṃ yat tasyālaukikam artham atikramya karmaphalasambandha upapādyate. nanu nādyāpi liṅartho niścīyate. ayam eva hi nirṇayasamayaḥ. atra ca śrutaphalapadāntarasamabhivyāhāropapattaye 'tīndriyam eva kāryam iti niścīyate. ato na kiñcid virotsyata iti. kim idānīṃ svargakāmo yajeteti śruter apratītir eva, liṅarthe saṃśayo vā. apratītau kriyātmanaḥ kāryasya phalasambandhānupapattir ity etad eva durbhaṇam. saṃśayas tu pakṣadvayāvalambī. na cālaukike kriyātirekiṇi kārye liṅādayo nirūpitaprayogāḥ. na cātyantāparidṛṣṭāpūrvārthagocaraḥ saṃśayo dṛṣṭacaraḥ. yavādiṣu tv āryamlecchaprayoganibandhano dṛṣṭapūrvārthagocaraḥ saṃśayo yukta eva. ata evātra na vākyaśeṣān nirṇayaḥ. sandigdhe hi sa varṇitaḥ. na ca liṅarthe saṃśayaḥ. kin tu loke vyutpattyanusāreṇa kriyātmany eva kārye niścayaḥ. yad apy ucyate karmaphalasambandhopapattaye 'nyat kāryam upalabhyata iti. kena vā karmaphalasambandho darśitaḥ. na hy ayaṃ vainiyogikaḥ. niyoga evātra pramāṇam. sa cet tadadhīnasiddhiḥ duruttaram itaretarāśrayam, siddho hi niyogo viṣayībhūtasya bhāvārthasya karaṇatām āha. tatsiddhyā ca niyogātmalābha ity alam anenāpi. yathāvārttikam anusandhāsyāmaḥ. evaṃ hi vārttikakṛtā bhāvārthādhikaraṇe uktaṃ liṅādiśabdānāṃ puruṣaṃ prati prayojakavyāpāro 'bhidhātmikā bhāvanā vidhir iti. dve kila bhāvane mīmāṃsakāḥ saṅgirante śabdātmikām arthātmikāṃ ca. tatrārthātmikā sarvākhyātasādhāraṇī svargādiphaladharmikā yāgādidhātvarthakaraṇikā svavākyaprakaraṇānyaprakaraṇānārabhyavādasmṛtilokācāraprāptatattad iti kartavyatāvatī tatra tatra sidhyati. śabdātmikā tu liṅādiśabdānāṃ prayojakānāṃ prayojyapuruṣakarmikābhidhāsambandhajñānakāraṇikārthavādoditaprāśastyeti kartavyatāvatīti vivecanīyam. kathaṃ punarabhidhā śabdātmikā. śabdavyāpāro hi saḥ. na. vyāpāratadvator anatibhedād upapatteḥ. dravyam 2,14 eva hi pūrvāvasthātaḥ pracyutaṃ parām avasthām aprāptaṃ pūrvāparībhūtaṃ vyāpāraśabdavācyam. kathaṃ liṅādīnām abhidhā puruṣakarmikā. na hi te puruṣam abhidadhati bhāvanāvacanatvāt. satyam. bhāvanaiva tair abhidhīyamānā na svarūpamātreṇa vartamānāpadeśavad abhidhīyate. kin tu kuryād (iti) pravṛttiviṣayatayā. na ca śabdaśaktayo 'nuyoktum arhanti. tathā hi -- liṅādiśravaṇānantaraṃ prayojyavṛddhaṃ ceṣṭamānam upalabhya tataḥ pravṛttihetupratyayaḥ prayojyasyāvagamyata iti tāvat sarvavādisiddham avivādam. pravṛttihetusvarūpe tu bahudhā vivādaḥ. tatra kriyāphalādīnāṃ vyabhicārād apravṛttihetutvāt, pramāṇāntarāgocare tu pravṛttihetau vyutpattyasambhavāt, karmaphalasambandhānupapatteś ca sakaletaraprakārāsambhavād avivādasiddham abhidheyapratyayabalonnīyamānasvarūpaṃ liṅādīnām abhidhānam eva pravṛttihetur iti sāmpratam. sā ca pravartaneti sthitam. sā ca pravartyakarmikā. pravartyaś ca puruṣa iti yuktaṃ puruṣakarmatvam abhidhāyāḥ. liṅādivyāpāro 'py abhidheyapratyayahetutvād abhidhety ucyate. puruṣaṃ ca pravartayan pravartaneti gīyate. na ca sarvābhidhāsu prasaṅgaḥ, śabdaśaktivaicitryād ity uktam. śaktir hi kāryadarśanasamadhigamyā. tad yataḥ pravṛttidarśanaṃ tadvyāpāraḥ pravartanā, pravṛttihetutvāt. na ca śabdāntarebhyaḥ pravṛttir upalabhyata iti na tadabhidhāyās tathātvaprasaṅgaḥ. yaś cābhidhāyā anabhidhāne doṣaḥ uktaḥ, so 'bhidhānapakṣābhyupagamenaiva parihṛtaḥ. yat tu kāryonneyatvād anabhidhānatvam uktaṃ tad apy ayuktam. kiṃ hi kāryam anupapadyamānaṃ pravartanām avagamayati. na tāvad bhāvanāvagatiḥ, vartamānāpadeśeṣv api prasaṅgāt. ato 'nanyapramāṇatvād upapannam abhidheyatvam abhidhāyāḥ. yat tu ananyapramāṇake vyutpattyasambhava ity uktam. na, arthāpattipramāṇakatvāt. nanv arthāpattyā pravartanāpadeśasādhāraṇam abhidhāyā rūpam unnīyate. na ca tāvanmātraṃ pravartanā laḍādibhyo 'pi pravṛttisaṃvedanaprasaṅgāt. asādhāraṇas tu ko 'pi viśeṣo liṅpravṛtteḥ pramāṇāntarāgocara eveti duṣpariharo vyutpattivirahaḥ. maivam. pravṛttihetutvenārthāpattitas tadavagamāt. tathā hi -- yatra tāvat liṅādibhyaḥ pravṛttir upalabhyate, tatra mayā pravartitavyam ity antaḥsaṅkalpamūlātmā liṅpravṛttiviśeṣa unnīyate. apravartamānā api pravartasveti māmayamāheti liṅśrāviṇo vaktāraṃ nirdiśanti. tad avasīyate pravṛttihetur abhihito liṅā. sa ca narte vāpārāt sidhyatīty uktam eva. na ca kim ātmako liṅvyāpāra 2,15 iti vācyam. antaḥsaṅkalpamūlātmā hy asāv iti vakṣyati. nāsāv udāsīnaḥ kadācid avagamyate. pravṛttijanana eva hi bhāvabhede vyutpattir āsīd iti svayam api pravartitavyam iti pratipadyamāna eva hi liṅarthaṃ pratipadyate. nodāsīnam ākhyātāntaravat. no hi phalādayaḥ svarūpeṇāvagatāḥ pravartayanti. asya tvayam evātmā yat pravṛttidhiyaṃ janayati. aparyanuyojyatvād vastusvarūpāṇāṃ nāmākhyātavibhāgavadupapatteḥ. so 'yam evamātmani liṅarthe vyutpannaḥ svapratipattikāle na śabdādṛte tam arthaṃ budhyata ity ananyapramāṇakatvam. na tu pravartanāsvarūpam evānyato nāvagataṃ, yena matāntaravad vyutpattivirahaś codyeta. samprati tu na jāter iva vyaktim anyataḥ pravartanāṃ pratipadyāmaha iti śābdīm abhidadhmahe. na cābhidhā nābhidhīyata iti vācyam. abhidhāśabdavadupapatteḥ. yad eva hi śabdaśravaṇānantaram ananyalabhyaṃ buddhau viparivartate tadabhidheyam. tathā ca liṅādīnām abhidhānam iti kiṃ nābhidhīyate. uktaṃ hi liṅādibhyaḥ pravṛttiheturupalabhyata iti. na ca liṅādīnām abhidhātmano vyāpārād anyaḥ pravṛttihetuḥ śakyate nirūpayitum iti. ata eva nānavasthā. na hi pravartanāvat tadabhidhānam api śabdād avagamyate, yat tadgocaram aparam abhidhānam upeyate. na ca liṅādisvarūpābhidhānaprasaktiḥ, svayam eva tadvyāpāravailakṣaṇyāt. liṅupaśleṣe hi viśeṣake viśeṣaṇābhidhānam āpāditam. svagate tu viśeṣe tadanavakāśam eva. sarve śabdavyāpārāḥ khalv api svarūpeṇaiva vyatibhidyante. ata eva vilakṣaṇābhidheyapratyayahetubhāvabhājaḥ ekasyā api vidhivibhakteḥ kriyākālādivannābhidhābhidhānam anupapannam. ato liṅādīnām abhidhā pravartanā so 'yaṃ vidhiḥ. āha ca -- abhidhāṃ bhāvanām āhur anyām eva liṅādayaḥ | iti. tad anenaivamātmanā vidhinā sambaddhā bhāvanā pravṛttiviṣayatayāvagatā phalavattayā niścīyate, svasantāne phalavataḥ pravṛttiviṣayatayāvagateḥ. tathā cāvagatānuṣṭhīyata iti vidhiśaktim upakrāntām avasīdantīm uttabhnāti phalavattā, na tu saiva vidhir iti. ata evāpuruṣārtheṣu sāgaraṃ tared ity evamādiṣu vidhyavagatiḥ. tathā tatra na syād itarathā tatra na syāt apuruṣārthatvāt(?). liṅvyāpāras tu tatrāpy aviśiṣṭaḥ, nirvāhikāyās tu phalavattāyāḥ pramāṇābhāvād na 2,16 nirvahati. tadabhāvaś cānāptavākyatvāt. vede tv apauruṣeyatvān na puruṣadoṣāśaṅkāpīty upapāditam. vidhau tu tam atikramyeti prapañcitaś ca vidhir api manāg ity uparamyate iti

Sanskrit only: no published translation is held for this verse.

(अपौरुषेयत्वात्?) अनपेक्षत्वाद् इति सूत्रावयवं व्याचष्टे -- स्वप्रत्ययेति। अनाप्तवाक्ये हि दृष्टव्यभिचारित्वात् तज्जनितात् प्रत्ययात् प्रत्ययान्तरं स्वीयम् अर्थावधारणायापेक्षते। न च तत्राप्य् अनाप्तवचः प्रमाणम् अनुवादत्वात्। आप्तोक्तीनां तु प्रमाणविषयगोचराणां प्रामाण्यात् तस्यैवाप्तस्य नरस्यापेक्षा किम् अयम् अर्थो ऽनेन प्रमाणेनोपलब्धो न वेति। न चेयम् उभय्य् अप्य् अपेक्षा चोदनांसु सम्भवति, अपौरुषेयत्वस्य वेदाधिकरणे वक्ष्यमाणत्वात्। तत उपपन्नं चोदनायाः प्रामाण्यम् इति

(apauruṣeyatvāt?) anapekṣatvād iti sūtrāvayavaṃ vyācaṣṭe -- svapratyayeti. anāptavākye hi dṛṣṭavyabhicāritvāt tajjanitāt pratyayāt pratyayāntaraṃ svīyam arthāvadhāraṇāyāpekṣate. na ca tatrāpy anāptavacaḥ pramāṇam anuvādatvāt. āptoktīnāṃ tu pramāṇaviṣayagocarāṇāṃ prāmāṇyāt tasyaivāptasya narasyāpekṣā kim ayam artho 'nena pramāṇenopalabdho na veti. na ceyam ubhayy apy apekṣā codanāṃsu sambhavati, apauruṣeyatvasya vedādhikaraṇe vakṣyamāṇatvāt. tata upapannaṃ codanāyāḥ prāmāṇyam iti

Sanskrit only: no published translation is held for this verse.

अत्रानन्तरं वृत्तिकारमतारम्भभाष्यं - वृत्तिआरस् त्व् अन्यथेमं ग्रन्थं वर्णयाञ् चकार तस्य निमित्तपरीष्टिः इत्येवमादिम् इति। तत्रादिशब्दे तावद् द्वैविध्ये साध्वसाधुविवेकार्थम् आह -- आदिशब्द इति। मकारान्तो ऽयमादिशब्दः न लुङन्त इति। कारणम् आह -- लिकीति। सामान्यविवक्षायां तु नपुंसकलिङ्गता। अत्र च प्रथमम् एव ग्रन्थात्मके विशेषे ऽवगते न सामान्यविवक्षा युक्तेति। भित्त्वा तु वाक्यं सामान्यविवक्षायां क्लेशो भवतीति। अपरम् अपि वृत्तिकारमतेन परीष्टिसूत्रव्याख्यानार्थं भाष्यं न परीक्षितव्यं निमित्तम् इति। तद् अयुक्तम्। सूत्रे नञो ऽश्रुतत्वात्, अत आह -- नञ् इति। इदं हि सूत्रं विधिनिषेधशून्यम् अपरिपूर्णं नञध्याहारेण परिपूर्यते। प्रसिद्धस्यधर्मनिमित्तस्य परीक्षाविधेर् अयोग्यत्वाद् इति व्याख्याते तु नञध्याहारेण परीष्टिसूत्रे प्रत्यक्षसूत्रम् अवतारयितुं भाष्यकृतोक्तं - ननु व्यभिचारात् परीक्षितव्यं निमित्तं शुक्तिका हि रजतवत् प्रकाशते यतः इति। एवं ह्य् अत्र २,१७ परिचोदितं - न प्रसिद्धत्वं निमित्तापरीक्षायां हेतुः, प्रसिद्धतरस्य प्रत्यक्षस्य शुक्तिरजतवेदने व्यभिचाराद् इति। तद् अयुक्तं, न हि प्रत्यक्षं व्यभिचरति अपि तर्हि तदाभासम्। न चाभासव्यभिचारे प्रमाणव्यभिचारपरिचोदना युज्यते। अत आह -- सङ्कराद् इति। प्रत्यक्षतदाभासयोर् अक्षजत्वेन सादृश्यान् मोहाद् आभासव्यभिचारे ऽपि प्रत्यक्षव्यभिचारं चोदयतीति

atrānantaraṃ vṛttikāramatārambhabhāṣyaṃ - vṛttiāras tv anyathemaṃ granthaṃ varṇayāñ cakāra tasya nimittaparīṣṭiḥ ityevamādim iti. tatrādiśabde tāvad dvaividhye sādhvasādhuvivekārtham āha -- ādiśabda iti. makārānto 'yamādiśabdaḥ na luṅanta iti. kāraṇam āha -- likīti. sāmānyavivakṣāyāṃ tu napuṃsakaliṅgatā. atra ca prathamam eva granthātmake viśeṣe 'vagate na sāmānyavivakṣā yukteti. bhittvā tu vākyaṃ sāmānyavivakṣāyāṃ kleśo bhavatīti. aparam api vṛttikāramatena parīṣṭisūtravyākhyānārthaṃ bhāṣyaṃ na parīkṣitavyaṃ nimittam iti. tad ayuktam. sūtre naño 'śrutatvāt, ata āha -- nañ iti. idaṃ hi sūtraṃ vidhiniṣedhaśūnyam aparipūrṇaṃ nañadhyāhāreṇa paripūryate. prasiddhasyadharmanimittasya parīkṣāvidher ayogyatvād iti vyākhyāte tu nañadhyāhāreṇa parīṣṭisūtre pratyakṣasūtram avatārayituṃ bhāṣyakṛtoktaṃ - nanu vyabhicārāt parīkṣitavyaṃ nimittaṃ śuktikā hi rajatavat prakāśate yataḥ iti. evaṃ hy atra 2,17 paricoditaṃ - na prasiddhatvaṃ nimittāparīkṣāyāṃ hetuḥ, prasiddhatarasya pratyakṣasya śuktirajatavedane vyabhicārād iti. tad ayuktaṃ, na hi pratyakṣaṃ vyabhicarati api tarhi tadābhāsam. na cābhāsavyabhicāre pramāṇavyabhicāraparicodanā yujyate. ata āha -- saṅkarād iti. pratyakṣatadābhāsayor akṣajatvena sādṛśyān mohād ābhāsavyabhicāre 'pi pratyakṣavyabhicāraṃ codayatīti

Sanskrit only: no published translation is held for this verse.

तद् एव प्रपञ्चयति -- प्रमाणेति। वक्ष्यमाणपारमार्थिकप्रत्यक्षलक्षणाज्ञानाद् व्यभिचारात् परीक्षा कार्येति चोदयति। एतत् परिचोदनोत्तरतया प्रत्यक्षसूत्रम् उपवर्णितं नैतद् एवम्। यत् प्रत्यक्षं न तद् व्यभिचरति। यद् व्यभिचरति न तत् प्रत्यक्षम्। किं तर्हि प्रत्यक्षम्। तत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म सत्प्रत्यक्षम्। यद्विषयं ज्ञानं तेनेन्द्रियाणां पुरुषस्य सम्प्रयोगे यद् बुद्धिजन्म तत् सत्प्रत्यक्षम्। न चेदृशस्य व्यभिचारो ऽस्ति। तद् इदं वार्त्तिककारो दर्शयति -- नैतद् इति। परीष्टिसूत्रेणापरीक्षा प्रतिज्ञाता प्रत्यक्षसूत्रेणोपपाद्योपसंहृतेति

tad eva prapañcayati -- pramāṇeti. vakṣyamāṇapāramārthikapratyakṣalakṣaṇājñānād vyabhicārāt parīkṣā kāryeti codayati. etat paricodanottaratayā pratyakṣasūtram upavarṇitaṃ naitad evam. yat pratyakṣaṃ na tad vyabhicarati. yad vyabhicarati na tat pratyakṣam. kiṃ tarhi pratyakṣam. tatsamprayoge puruṣasyendriyāṇāṃ buddhijanma satpratyakṣam. yadviṣayaṃ jñānaṃ tenendriyāṇāṃ puruṣasya samprayoge yad buddhijanma tat satpratyakṣam. na cedṛśasya vyabhicāro 'sti. tad idaṃ vārttikakāro darśayati -- naitad iti. parīṣṭisūtreṇāparīkṣā pratijñātā pratyakṣasūtreṇopapādyopasaṃhṛteti

Sanskrit only: no published translation is held for this verse.

कथं पुनर् एवंलक्षणके ऽपरीक्षा सिध्यतीत्य् अत आह -- तत्रेति। तत्र हि प्रत्यक्षलक्षणे। यद् अनेवंलक्षणकं तद् अयथार्थम्। प्रत्यक्षं तु यथार्थम् एव। अयथार्थाशङ्का तु परीक्षायां हेतुर् इति युक्तम् अपरीक्ष्यत्वम् इति। किं पुनर् अयथार्थज्ञानम्। शुक्तौ रजतम् इति। सा खलु दोषवशाद् अन्याकारेणावभासत इति भवति तद्गोचरज्ञानम् अयथार्थम्। तद् इदम् अयुक्तम्। न हि शुक्ती रजतम् इति भासते। किं तर्हि इदम् इति शुक्तिरजतसाधरणात्मना पुरोवर्ति द्रव्यं गृह्यते। अनन्तरं च सदृशदर्शनोद्बोधितप्राचीनरजतानुभवप्रभावितभावनाबीजजन्मा दोषवशाल् लुप्ततदवमर्शा रजतम् इति स्मृतिर् उदेति। तद् एते द्वे एव ग्रहणस्मरणात्मके विज्ञाने। तद्गोचरयोश् च दोषवशाद् एव भेदकधर्मानवधारणम्। भेदाग्रहणाद् एव विभ्रमव्यवहारः, न पुनर् अन्यस्यान्यथाभासनात्। इदम् इह भासत इति प्रतीतिसाक्षिकम्। अतः कथं रजतरूपरूपितस्य शुक्तिर् आलम्बनम्। इदम् एव ह्य् आलम्बनस्यालम्बनत्वं यदात्माकारज्ञानजननम्। २,१८ अतो नातदाकारस्य तदालम्बनम् इति ज्ञानम् एव साकारम् इति बलाद् आपतितम्। न खलु रजतम् इति शुक्तेर् आकारः। रजतं तु नासन्निहितम् अक्षजज्ञानालम्बनम् इति युक्तम्। अतो बाह्यरहितं निरालम्बनम् एव ज्ञानम् इति बलाद् आपन्नम्। एवञ् च मुधैव निरालम्बनानुमानप्रत्याख्यानप्रयासः। अपि च दोषनिबन्धनो विभ्रमः। दोषाश् च स्वकार्ये शक्तिविघातहेतवः। अतो युक्तं तद्वशेन भेदकधर्मानवधारणं, न पुनर् अन्यस्यान्यथा भानम्। अपि च एवम् अयं विपरीतख्यातिवादी वक्तव्यः रजतधियः शुक्तिगोचरायाः किं निबन्धनम् इति। न तावद् इन्द्रियं प्राप्यकारित्वाद्, असन्निहितरजतप्राप्त्यसम्भवात्। अन्यप्राप्तौ चान्यप्रकाशने ऽतिप्रसङ्गात्। प्रमाणान्तरं त्व् असम्भवाद् अनुपन्यसनीयम्। अतो ग्रहणकारणाभावात् स्मृतिर् इयम् इति निश्चीयते। अस्ति हि स्मृतेः कारणं पूर्वानुभवप्रभावितोभयवादिसिद्धा भावना। नन्व् असति तत्परामर्शे स्मरणम् अपि नोपपन्नम्। न नोपपन्नम्। अनुभूतविषयं हि ज्ञानं स्मृतिः। न तद् इति परामर्शः। तस्माद् इदं रजतम् इति ग्रहणस्मरणयोर् उभयोर् अपि यथार्थत्वाद् यथार्थायथार्थज्ञानविभागो दुर्भणः। अत्र वदामः -- यदि द्वे अप्य् एते यथार्थे, न तर्हि भ्रान्तिः। अयथार्थज्ञानं भ्रान्तिर् इति लौकिका मन्यन्ते। स्मरामीत्य् अग्रहो भ्रान्तिर् इति चेत्। तन् न। भाष्यकारो हि स एवासमीचीनः प्रत्यय इति प्रत्ययम् असमीचीनं दर्शयति। अपि च को ऽयम् अग्रहः। ग्रहणाभाव इति चेत्। अभावो नाम न कश्चिद् आयुष्मतां यो भ्रान्तिर् इत्य् उच्यते। ननु स्मरणम् एव स्मरामीत्य् उल्लेखशून्यम् अग्रहणम् आचक्ष्महे न तत्त्वान्तरम्। एवं तर्हि रजतम् इति स्मृतिर् भ्रान्तिः। न च तद् युक्तम्। मिथ्या भ्रान्तिर् इति पर्यायौ, न स्मृतिर् मिथ्या, यथावस्थितार्थविषयत्वात्। पूर्वानुभूतदेशकालाग्रहो भ्रान्तिर् इति चेत्। न। अन्यानवभासो ऽवभासान्तरं मिथ्याकरोति, सर्वमिथ्यात्वप्रसङ्गात्। न ह्य् एकस्मिन् भासमाने सर्वं भासते। अतो यद्य् अपि रजतस्य देशकालौ न स्मर्येते, रजतं तु यथावस्थितं स्मृत्या विषयीकृतम् इति न भ्रान्तिः। अथ सापेक्षत्वात् स्मृतेर् अप्रामाण्यम्, अतो भ्रान्तिर् इति चेत्। यद्य् एवं सर्वस्मृतीनां भ्रान्तित्वापातः, अविशेषात्। न च स्मरन् भ्राम्यतीत्य् उच्यते। अथ मतं - गृह्यमाणस्मर्यमाणयोर् विवेकाग्रहो भ्रान्तिर् इति, उक्तम् अस्माभिः नाग्रहो नाम कश्चिदृते ग्रहणस्मरणाभ्याम्। तयोश् च न ग्रहणं भ्रमः, प्रमाणत्वात्। न च २,१९ स्मृतिः। व्यभिचाराद् अतिप्रसङ्गाच् च। विवेकाग्रहे च विभ्रमे सर्वसंविदां भ्रान्तित्वप्रसङ्गः। अवश्यं हि येन केनचिद् विवेको न गृह्यते। स्यान् मतं - व्यवहारविसंवादो मिथ्यात्वम् इति, तन् न। तद्धेतोर् अभावात्। यदि खल्व् इदम् इति ग्रहणं रजतम् इति देशकालानवच्छिन्नं रजतस्मरणं, को व्यवहारहेतुः। नो खलु रजतपदाद् अनधिष्ठानं रजतं स्मरन् रजतम् इति व्यवहरत्य् अत्रेदम् इति तद्विद्वान्। यो यदर्थी स तदुपादित्सया चेष्टते। अनधिष्ठानं तु रजतं जानतो न व्यवहारहेतुम् उपलभामहे। अपि च को ऽयं नियमः स्मृतरजतस् तदर्थी शुक्ताव् एव प्रवर्तत इति। यदि ह्य् अयं ताम् एव रजतं जानीयात्, ततस् तत्र प्रवर्तत इति युक्तम्। इतरथा लोष्टादाव् अपि प्रवर्तेत। न ह्य् अयं शुक्तेर् इव रजतं ततो ऽपि विविनक्ति। अवश्यं स्थूलो ऽपि विवेको जिघृ(?क्षि।क्ष)तो नानुभूयते। अथोच्येत -- ज्ञानद्वयम् अप्य् एतद् विवेकाग्रहणात् सत्यरजतसंविदो भिन्नम् इति नावभासते। सा च व्यवहारहेतुतयावगता। ततो ऽत्रापि प्रवर्तत इति। अहो दुरूहम् इदम् ऊहितम्। इदं तु ब्रूमः -- किम् इह सत्यरजतसंविदो विवेको नावभासते, तदभेदो वा भासते इति। पूर्वस्मिन् कल्पे पूर्ववत् प्रवृत्त्यभावः। उत्तरस्मिन् विपरीतख्यातिवादः। संवित्ती भिन्ने अभिन्ने भासेते वस्तुनी चेति न विशेषः। अथ सत्यरजतबोधतुल्यतां मन्यते न तत्त्वं, न तर्हि तद्वद्भावे तद्व्यवहारः। न हि गवा सदृशं गवयं जानन् गौर् अयम् इति व्यवहरति। व्यवहारविसंवादे च भ्रान्तिहेताव् अतदर्थिनो व्यवहाराभावाद् भ्रान्त्यभावः। तस्यापि शब्दप्रयोगो ऽस्तीति चेद्, न। निर्विकल्पकभ्रान्तौ तददर्शनात्। स्वतन्त्रस्मृतं च रजतम् अप्रसक्तं कथं शुक्तौ निषिध्यते नेदम् इति। प्राप्तिपूर्वको हि प्रतिषेधो भवति। स कथम् असत्यां प्राप्तावात्मानं लभते। ननु नात्र किञ्चिद् बाध्यते। किन् त्व् अनवगतो विवेको ऽवगम्यते नेदं रजतम् इति। को ऽर्थः। शुक्तेर् विविक्तं रजतम् इति। अहो व्याख्यानकौशलं तत्रभवतां यत् संविदो ऽप्य् अन्यथा व्यवस्थिता अन्यथा व्याख्यायन्ते। रजतव्यवहारो बाध्यत इति चेद्, न। तस्याप्य् अप्रसक्तेर् उक्तत्वात्। अप्रसक्तव्यवहारस्य बाधविरहप्रसङ्गात्। व्यवहारबाधो ऽपि न राजाज्ञया। अपि तर्हि, प्रसक्तताद्रूप्यनिवारणेन। अतो ऽन्यद् अन्याकारेण प्रसक्तं बाध्यत इति साम्प्रतम्। अपि च स्पष्टीकृता ताद्रूप्यप्रसक्तिर् इदं रजतम् इति। नन्व् अनालम्बनता प्राप्नोतीत्य् उक्तम्। सत्यम्। यद् अन्यथासन्तम् अन्यथा प्रतिपद्यते तन्निरालम्बनं ज्ञानम् २,२० इष्यते। किम् इहाद्भुतं बाह्यानालम्बनता हि यत्नतो नः प्रतिषेध्या, सर्वत्र देशान्तरादिगतबाह्यालम्बनताभ्युपगमात्। कथम् असन्निहितं ज्ञानम् उत्पादयतीति चेत्। किम् अयं प्रत्यक्षधर्मः सर्वज्ञानेष्व् आरोप्यते। प्रत्यक्षं हि सन्निहितवर्तमानगोचरं, न ज्ञानान्तराणि। न चेदं प्रत्यक्षम् आभासत्वात्। यद् अप्य् उक्तं - कथम् अन्यसम्प्रयुक्तम् इन्द्रियम् अन्याकारस्य ज्ञानस्य हेतुर् इति। उक्तम् अत्र भाष्ये -- दोषो मिथ्याज्ञानस्य कारणम् इति। तद्भावे हि मिथ्याज्ञानं भवति। असति तस्मिन् सम्यग्ज्ञानदर्शनात्। ननु दोषाः कार्यं विघ्नन्ति, न कार्यान्तरं जनयन्ति। न। स्वप्ने मनोदोषाद् अवर्तमानस्यापि वर्तमानवद् भानात्, कारणाधीनात्मलाभं हि कार्यं तद्दोषे दुष्यतीति नानुपपन्नम्। एष च ज्ञानस्य दोषो यद्य् अन्यगोचरस्यान्याकारत्वम्। अतः सन्निहितम् असन्निहितरजताकारेणावलम्बते दुष्टकारणजं ज्ञानम् इत्य् उभयालम्बनस्य ज्ञानालम्बनत्वम्। आत्मेन्द्रियमनोर्थसन्निकर्षो हि ज्ञानस्य हेतुः। सो ऽसत्सु दोषेषु सम्यग्ज्ञानहेतुः, सत्सु तु विपरीतज्ञानहेतुर् इति सूक्तो यथार्थायथार्थज्ञानविभाग इति। किं पुनः प्रत्यक्षस्य लक्षणं येन तद् यथार्थम् अत आह -- यदाभासम् इति। यदाकारं ज्ञानं तेनेन्द्रियाणां सम्प्रयोगे यत् पुरुषस्य बुद्धिजन्म तत् प्रत्यक्षम् इष्यते। कथं तदयथार्थं भविष्यतीति

kathaṃ punar evaṃlakṣaṇake 'parīkṣā sidhyatīty ata āha -- tatreti. tatra hi pratyakṣalakṣaṇe. yad anevaṃlakṣaṇakaṃ tad ayathārtham. pratyakṣaṃ tu yathārtham eva. ayathārthāśaṅkā tu parīkṣāyāṃ hetur iti yuktam aparīkṣyatvam iti. kiṃ punar ayathārthajñānam. śuktau rajatam iti. sā khalu doṣavaśād anyākāreṇāvabhāsata iti bhavati tadgocarajñānam ayathārtham. tad idam ayuktam. na hi śuktī rajatam iti bhāsate. kiṃ tarhi idam iti śuktirajatasādharaṇātmanā purovarti dravyaṃ gṛhyate. anantaraṃ ca sadṛśadarśanodbodhitaprācīnarajatānubhavaprabhāvitabhāvanābījajanmā doṣavaśāl luptatadavamarśā rajatam iti smṛtir udeti. tad ete dve eva grahaṇasmaraṇātmake vijñāne. tadgocarayoś ca doṣavaśād eva bhedakadharmānavadhāraṇam. bhedāgrahaṇād eva vibhramavyavahāraḥ, na punar anyasyānyathābhāsanāt. idam iha bhāsata iti pratītisākṣikam. ataḥ kathaṃ rajatarūparūpitasya śuktir ālambanam. idam eva hy ālambanasyālambanatvaṃ yadātmākārajñānajananam. 2,18 ato nātadākārasya tadālambanam iti jñānam eva sākāram iti balād āpatitam. na khalu rajatam iti śukter ākāraḥ. rajataṃ tu nāsannihitam akṣajajñānālambanam iti yuktam. ato bāhyarahitaṃ nirālambanam eva jñānam iti balād āpannam. evañ ca mudhaiva nirālambanānumānapratyākhyānaprayāsaḥ. api ca doṣanibandhano vibhramaḥ. doṣāś ca svakārye śaktivighātahetavaḥ. ato yuktaṃ tadvaśena bhedakadharmānavadhāraṇaṃ, na punar anyasyānyathā bhānam. api ca evam ayaṃ viparītakhyātivādī vaktavyaḥ rajatadhiyaḥ śuktigocarāyāḥ kiṃ nibandhanam iti. na tāvad indriyaṃ prāpyakāritvād, asannihitarajataprāptyasambhavāt. anyaprāptau cānyaprakāśane 'tiprasaṅgāt. pramāṇāntaraṃ tv asambhavād anupanyasanīyam. ato grahaṇakāraṇābhāvāt smṛtir iyam iti niścīyate. asti hi smṛteḥ kāraṇaṃ pūrvānubhavaprabhāvitobhayavādisiddhā bhāvanā. nanv asati tatparāmarśe smaraṇam api nopapannam. na nopapannam. anubhūtaviṣayaṃ hi jñānaṃ smṛtiḥ. na tad iti parāmarśaḥ. tasmād idaṃ rajatam iti grahaṇasmaraṇayor ubhayor api yathārthatvād yathārthāyathārthajñānavibhāgo durbhaṇaḥ. atra vadāmaḥ -- yadi dve apy ete yathārthe, na tarhi bhrāntiḥ. ayathārthajñānaṃ bhrāntir iti laukikā manyante. smarāmīty agraho bhrāntir iti cet. tan na. bhāṣyakāro hi sa evāsamīcīnaḥ pratyaya iti pratyayam asamīcīnaṃ darśayati. api ca ko 'yam agrahaḥ. grahaṇābhāva iti cet. abhāvo nāma na kaścid āyuṣmatāṃ yo bhrāntir ity ucyate. nanu smaraṇam eva smarāmīty ullekhaśūnyam agrahaṇam ācakṣmahe na tattvāntaram. evaṃ tarhi rajatam iti smṛtir bhrāntiḥ. na ca tad yuktam. mithyā bhrāntir iti paryāyau, na smṛtir mithyā, yathāvasthitārthaviṣayatvāt. pūrvānubhūtadeśakālāgraho bhrāntir iti cet. na. anyānavabhāso 'vabhāsāntaraṃ mithyākaroti, sarvamithyātvaprasaṅgāt. na hy ekasmin bhāsamāne sarvaṃ bhāsate. ato yady api rajatasya deśakālau na smaryete, rajataṃ tu yathāvasthitaṃ smṛtyā viṣayīkṛtam iti na bhrāntiḥ. atha sāpekṣatvāt smṛter aprāmāṇyam, ato bhrāntir iti cet. yady evaṃ sarvasmṛtīnāṃ bhrāntitvāpātaḥ, aviśeṣāt. na ca smaran bhrāmyatīty ucyate. atha mataṃ - gṛhyamāṇasmaryamāṇayor vivekāgraho bhrāntir iti, uktam asmābhiḥ nāgraho nāma kaścidṛte grahaṇasmaraṇābhyām. tayoś ca na grahaṇaṃ bhramaḥ, pramāṇatvāt. na ca 2,19 smṛtiḥ. vyabhicārād atiprasaṅgāc ca. vivekāgrahe ca vibhrame sarvasaṃvidāṃ bhrāntitvaprasaṅgaḥ. avaśyaṃ hi yena kenacid viveko na gṛhyate. syān mataṃ - vyavahāravisaṃvādo mithyātvam iti, tan na. taddhetor abhāvāt. yadi khalv idam iti grahaṇaṃ rajatam iti deśakālānavacchinnaṃ rajatasmaraṇaṃ, ko vyavahārahetuḥ. no khalu rajatapadād anadhiṣṭhānaṃ rajataṃ smaran rajatam iti vyavaharaty atredam iti tadvidvān. yo yadarthī sa tadupāditsayā ceṣṭate. anadhiṣṭhānaṃ tu rajataṃ jānato na vyavahārahetum upalabhāmahe. api ca ko 'yaṃ niyamaḥ smṛtarajatas tadarthī śuktāv eva pravartata iti. yadi hy ayaṃ tām eva rajataṃ jānīyāt, tatas tatra pravartata iti yuktam. itarathā loṣṭādāv api pravarteta. na hy ayaṃ śukter iva rajataṃ tato 'pi vivinakti. avaśyaṃ sthūlo 'pi viveko jighṛ(?kṣi/kṣa)to nānubhūyate. athocyeta -- jñānadvayam apy etad vivekāgrahaṇāt satyarajatasaṃvido bhinnam iti nāvabhāsate. sā ca vyavahārahetutayāvagatā. tato 'trāpi pravartata iti. aho durūham idam ūhitam. idaṃ tu brūmaḥ -- kim iha satyarajatasaṃvido viveko nāvabhāsate, tadabhedo vā bhāsate iti. pūrvasmin kalpe pūrvavat pravṛttyabhāvaḥ. uttarasmin viparītakhyātivādaḥ. saṃvittī bhinne abhinne bhāsete vastunī ceti na viśeṣaḥ. atha satyarajatabodhatulyatāṃ manyate na tattvaṃ, na tarhi tadvadbhāve tadvyavahāraḥ. na hi gavā sadṛśaṃ gavayaṃ jānan gaur ayam iti vyavaharati. vyavahāravisaṃvāde ca bhrāntihetāv atadarthino vyavahārābhāvād bhrāntyabhāvaḥ. tasyāpi śabdaprayogo 'stīti ced, na. nirvikalpakabhrāntau tadadarśanāt. svatantrasmṛtaṃ ca rajatam aprasaktaṃ kathaṃ śuktau niṣidhyate nedam iti. prāptipūrvako hi pratiṣedho bhavati. sa katham asatyāṃ prāptāvātmānaṃ labhate. nanu nātra kiñcid bādhyate. kin tv anavagato viveko 'vagamyate nedaṃ rajatam iti. ko 'rthaḥ. śukter viviktaṃ rajatam iti. aho vyākhyānakauśalaṃ tatrabhavatāṃ yat saṃvido 'py anyathā vyavasthitā anyathā vyākhyāyante. rajatavyavahāro bādhyata iti ced, na. tasyāpy aprasakter uktatvāt. aprasaktavyavahārasya bādhavirahaprasaṅgāt. vyavahārabādho 'pi na rājājñayā. api tarhi, prasaktatādrūpyanivāraṇena. ato 'nyad anyākāreṇa prasaktaṃ bādhyata iti sāmpratam. api ca spaṣṭīkṛtā tādrūpyaprasaktir idaṃ rajatam iti. nanv anālambanatā prāpnotīty uktam. satyam. yad anyathāsantam anyathā pratipadyate tannirālambanaṃ jñānam 2,20 iṣyate. kim ihādbhutaṃ bāhyānālambanatā hi yatnato naḥ pratiṣedhyā, sarvatra deśāntarādigatabāhyālambanatābhyupagamāt. katham asannihitaṃ jñānam utpādayatīti cet. kim ayaṃ pratyakṣadharmaḥ sarvajñāneṣv āropyate. pratyakṣaṃ hi sannihitavartamānagocaraṃ, na jñānāntarāṇi. na cedaṃ pratyakṣam ābhāsatvāt. yad apy uktaṃ - katham anyasamprayuktam indriyam anyākārasya jñānasya hetur iti. uktam atra bhāṣye -- doṣo mithyājñānasya kāraṇam iti. tadbhāve hi mithyājñānaṃ bhavati. asati tasmin samyagjñānadarśanāt. nanu doṣāḥ kāryaṃ vighnanti, na kāryāntaraṃ janayanti. na. svapne manodoṣād avartamānasyāpi vartamānavad bhānāt, kāraṇādhīnātmalābhaṃ hi kāryaṃ taddoṣe duṣyatīti nānupapannam. eṣa ca jñānasya doṣo yady anyagocarasyānyākāratvam. ataḥ sannihitam asannihitarajatākāreṇāvalambate duṣṭakāraṇajaṃ jñānam ity ubhayālambanasya jñānālambanatvam. ātmendriyamanorthasannikarṣo hi jñānasya hetuḥ. so 'satsu doṣeṣu samyagjñānahetuḥ, satsu tu viparītajñānahetur iti sūkto yathārthāyathārthajñānavibhāga iti. kiṃ punaḥ pratyakṣasya lakṣaṇaṃ yena tad yathārtham ata āha -- yadābhāsam iti. yadākāraṃ jñānaṃ tenendriyāṇāṃ samprayoge yat puruṣasya buddhijanma tat pratyakṣam iṣyate. kathaṃ tadayathārthaṃ bhaviṣyatīti

Sanskrit only: no published translation is held for this verse.

ननु लक्षणपरत्वे सूत्रस्यातिप्रसक्तिर् उक्ता। न चाप्य् एतेन सूत्रेण प्रत्यक्षं लक्ष्यत इति वदता कथम् इदानीं लक्षणपरतया सूत्रं वर्ण्यते। अत आह -- सम्पूर्णेति। यथावस्थितं सूत्रम् आभाससङ्कराद् अलक्षणम्। वृत्तिकारमते तु व्यत्यस्तं शक्नोति लक्षणं लक्षयितुम् इति, कथं पुनः सम्पूर्णम् अत आह -- तत्सतोर् इति। यथाश्रुते हि सूत्रे इन्द्रियसम्प्रयोगजत्वमात्रं प्रत्यक्षलक्षणम्। तच् चाभासे ऽप्य् अविशिष्टम् इत्य् अतिप्रसज्यते। व्यत्यस्तेन तु तदा बुद्ध्याकारपरामर्शनाद् भासमानाकारेन्द्रियसम्प्रयोगे या बुद्धिः सा प्रत्यक्षम् इत्य् उपस्कारे शुक्तिरजतज्ञाने भासमानेन्द्रियसम्प्रयोगाभावान् न प्रत्यक्षम् अतिप्रसज्यत इति। उत्कृष्टस्य सच्छब्दस्यार्थम् आह -- शोभनार्थ इति। ननु पूर्वं २,२१ वर्तमानार्थतया सम्प्रयोगविशेषणार्थः सच्छब्दो व्याख्यातः। कथम् इदानीं शोभनार्थ इत्य् उच्यते। युक्तं च सम्प्रयोगविशेषणम्। अविशिष्टे हि तस्मिन्न् अनागतादिसम्प्रयोगजं योगिप्रत्यक्षम् अनिराकृतं स्याद् इति प्राग् एवोक्तम्। तद्वृत्तेनापि व्यवहितप्रठितेन समासो दुष्प्रतिपादतरः। पुनर् अपि चेदृशं यत् तत्सम्यक्प्रत्यक्षम् इति तदपेक्षा विद्यत एवेति व्यत्यये ऽपरितुष्यन् प्रकारान्तरम् आह -- यद्वेति। द्वयोर् अपि तत्सतोर् अत्राध्याहारः। तत्र भासमानाकारपरामर्शार्थो ऽध्याहृतस् तच्छब्दः। परस् तु प्रत्यक्षरूपपरामर्शार्थः। सच्छब्दस् तु सम्प्रयोगसन्निधिपठितस् तद्विशेषार्थ एव। अध्याहृतस् तु शोभनार्थ इति विवेचनीयम् इति

nanu lakṣaṇaparatve sūtrasyātiprasaktir uktā. na cāpy etena sūtreṇa pratyakṣaṃ lakṣyata iti vadatā katham idānīṃ lakṣaṇaparatayā sūtraṃ varṇyate. ata āha -- sampūrṇeti. yathāvasthitaṃ sūtram ābhāsasaṅkarād alakṣaṇam. vṛttikāramate tu vyatyastaṃ śaknoti lakṣaṇaṃ lakṣayitum iti, kathaṃ punaḥ sampūrṇam ata āha -- tatsator iti. yathāśrute hi sūtre indriyasamprayogajatvamātraṃ pratyakṣalakṣaṇam. tac cābhāse 'py aviśiṣṭam ity atiprasajyate. vyatyastena tu tadā buddhyākāraparāmarśanād bhāsamānākārendriyasamprayoge yā buddhiḥ sā pratyakṣam ity upaskāre śuktirajatajñāne bhāsamānendriyasamprayogābhāvān na pratyakṣam atiprasajyata iti. utkṛṣṭasya sacchabdasyārtham āha -- śobhanārtha iti. nanu pūrvaṃ 2,21 vartamānārthatayā samprayogaviśeṣaṇārthaḥ sacchabdo vyākhyātaḥ. katham idānīṃ śobhanārtha ity ucyate. yuktaṃ ca samprayogaviśeṣaṇam. aviśiṣṭe hi tasminn anāgatādisamprayogajaṃ yogipratyakṣam anirākṛtaṃ syād iti prāg evoktam. tadvṛttenāpi vyavahitapraṭhitena samāso duṣpratipādataraḥ. punar api cedṛśaṃ yat tatsamyakpratyakṣam iti tadapekṣā vidyata eveti vyatyaye 'parituṣyan prakārāntaram āha -- yadveti. dvayor api tatsator atrādhyāhāraḥ. tatra bhāsamānākāraparāmarśārtho 'dhyāhṛtas tacchabdaḥ. paras tu pratyakṣarūpaparāmarśārthaḥ. sacchabdas tu samprayogasannidhipaṭhitas tadviśeṣārtha eva. adhyāhṛtas tu śobhanārtha iti vivecanīyam iti

Sanskrit only: no published translation is held for this verse.

ननु च आभासलक्षणाकथनान् न प्रत्यक्षतदाभासविवेको दर्शयितुं शक्यते, अत आह - अर्थापत्त्येति। ईदृशं प्रत्यक्षम् इत्युक्ते अर्थाद् अनीदृशम् आभासं भवतीति। अत्र भाष्यकारेण कथं तदतद्योगजत्वविवेको ऽवगम्यत इत्य् आशङ्क्योक्तं बाधकं हि यत्र ज्ञानम् उत्पद्यते नैतद् एवम् इति तदन्यसम्प्रयोगे। विपरीतस् तत्सम्प्रयोगे इति। तद् अयुक्तम्। किं हि कारणं यदुत्तरेण पूर्वं बाध्यते, पूर्वेणैव जघन्यम् उत्तरं बाध्यत इति युक्तम् अत आह -- बाधकेति। तद् धि बाधकं यदन्याबाधकम् आत्मानम् एव न लभते। तथाचोत्तरम्। अतस् तत् पूर्वं बाधत इति युक्तम्। जघन्यम् अपि पूर्वानपेक्षं बलवद् इति षष्ठे वक्ष्यते। यत्र पूर्वापेक्षम् उत्तरं, तत्र पूर्वं बलवद् इति तृतीय उक्तम् इति

nanu ca ābhāsalakṣaṇākathanān na pratyakṣatadābhāsaviveko darśayituṃ śakyate, ata āha - arthāpattyeti. īdṛśaṃ pratyakṣam ityukte arthād anīdṛśam ābhāsaṃ bhavatīti. atra bhāṣyakāreṇa kathaṃ tadatadyogajatvaviveko 'vagamyata ity āśaṅkyoktaṃ bādhakaṃ hi yatra jñānam utpadyate naitad evam iti tadanyasamprayoge. viparītas tatsamprayoge iti. tad ayuktam. kiṃ hi kāraṇaṃ yaduttareṇa pūrvaṃ bādhyate, pūrveṇaiva jaghanyam uttaraṃ bādhyata iti yuktam ata āha -- bādhaketi. tad dhi bādhakaṃ yadanyābādhakam ātmānam eva na labhate. tathācottaram. atas tat pūrvaṃ bādhata iti yuktam. jaghanyam api pūrvānapekṣaṃ balavad iti ṣaṣṭhe vakṣyate. yatra pūrvāpekṣam uttaraṃ, tatra pūrvaṃ balavad iti tṛtīya uktam iti

Sanskrit only: no published translation is held for this verse.

किं पुनरुत्तरेण मिथ्या सतः पूर्वस्य बाधः प्रमाणस्य वा। प्रमाणस्य बाधे ऽतिप्रसङ्गः। मिथ्यात्वं तु नर्ते बाधात् सिध्यति, तदधीनो बाध इति इतरेतराश्रयम् अत आह -- स चेति। न खलु पूर्वमिथ्यात्वावधारणाद् उत्तरस्य जन्म, अपि तर्हि। तन्निरपेक्षम् उत्तरं स्वकारणाद् एवोत्पन्नम्। अतो नोत्पत्ताव् अन्यापेक्षत्वम्। न च कार्यकॢप्तौ। अवबोधरूपत्वाद् अवबोधस्य। तस्य च स्वगोचरप्रकाशने ऽन्यानपेक्षणात्। अतो नान्योन्याश्रयत्वम् इति। यदि तर्हि पूर्वानपेक्षम् उत्तरम् इति तद् बाधकं, पूर्वं वा किम् उत्तरम् अपेक्षते येन बाध्यते। २,२२ तद् अपि हि निरपेक्षम् एव, अत आह -- न चेति। यद्य् अपि तदुत्तरानपेक्षं, तथाप्य् अनागतोत्तरबाधकात्मकत्वेनानवभासान् न बाधकम् इति

kiṃ punaruttareṇa mithyā sataḥ pūrvasya bādhaḥ pramāṇasya vā. pramāṇasya bādhe 'tiprasaṅgaḥ. mithyātvaṃ tu narte bādhāt sidhyati, tadadhīno bādha iti itaretarāśrayam ata āha -- sa ceti. na khalu pūrvamithyātvāvadhāraṇād uttarasya janma, api tarhi. tannirapekṣam uttaraṃ svakāraṇād evotpannam. ato notpattāv anyāpekṣatvam. na ca kāryakḷptau. avabodharūpatvād avabodhasya. tasya ca svagocaraprakāśane 'nyānapekṣaṇāt. ato nānyonyāśrayatvam iti. yadi tarhi pūrvānapekṣam uttaram iti tad bādhakaṃ, pūrvaṃ vā kim uttaram apekṣate yena bādhyate. 2,22 tad api hi nirapekṣam eva, ata āha -- na ceti. yady api taduttarānapekṣaṃ, tathāpy anāgatottarabādhakātmakatvenānavabhāsān na bādhakam iti

Sanskrit only: no published translation is held for this verse.

यत्र तर्हि नैतद् एवम् इति न बाधकोदयः, अपि तर्हि निमित्तेदाषज्ञानं, तत्रेतरेतराश्रयम् अपरिहार्यम्। निमित्तदोषेण तत्रोत्थाप्यो बाधः। स च पूर्वाप्रमाणत्वे शक्यत उत्थापयितुं, तदुत्थापनाच् च तदप्रमाणम् इति नावकल्पते, अत आह -- निमित्तेति। प्रायेण हि शङ्खादिषु पीतादिविभ्रमाः पित्तादिदोषेभ्यः समुत्पन्नाः पश्चाद् बाध्यन्ते। नेदं पीतं शुक्लो ऽयम् इति हि सम्प्रतिपत्तिः सम्भवति। अतो न तत्र निमित्तदोषबोधमात्रान् मिथ्यात्वम्। यत्र तु ज्ञाते ऽपि निमित्तदोषे तद्रूपप्रत्ययानुवृत्तेः पश्चाद् अबाधनम् एव, यथा दिङ्मूढस्य जानतो ऽपि निमित्तदोषाद् दिङ्मोहो न निवर्तते। तत्रापि नरान्तरविपर्ययाद् अन्यतः परिच्छेदान् नेतरेतराश्रयम् इति

yatra tarhi naitad evam iti na bādhakodayaḥ, api tarhi nimittedāṣajñānaṃ, tatretaretarāśrayam aparihāryam. nimittadoṣeṇa tatrotthāpyo bādhaḥ. sa ca pūrvāpramāṇatve śakyata utthāpayituṃ, tadutthāpanāc ca tadapramāṇam iti nāvakalpate, ata āha -- nimitteti. prāyeṇa hi śaṅkhādiṣu pītādivibhramāḥ pittādidoṣebhyaḥ samutpannāḥ paścād bādhyante. nedaṃ pītaṃ śuklo 'yam iti hi sampratipattiḥ sambhavati. ato na tatra nimittadoṣabodhamātrān mithyātvam. yatra tu jñāte 'pi nimittadoṣe tadrūpapratyayānuvṛtteḥ paścād abādhanam eva, yathā diṅmūḍhasya jānato 'pi nimittadoṣād diṅmoho na nivartate. tatrāpi narāntaraviparyayād anyataḥ paricchedān netaretarāśrayam iti

Sanskrit only: no published translation is held for this verse.

यत्र तर्हि न नरान्तरादिषु विपर्ययः तत्र कथं यथा जात्यादिविज्ञाने। न च तत् सत्यं, तेषां व्यतिरेकाव्यतिरेकविकल्पाक्षमत्वाद् अत आह -- सर्वेषाम् इति। यद् धि देशान्तरादिषु न विपर्येति तदबाध्यं सम्यग् एवेति। ननु तत्राप्य् अनुपपत्तेर् बाधिका धीर् उत्पाद्या, कथं सम्यक्त्वम् अत आह -- न हीति। प्रत्यक्षो ह्य् अविकलकरणस्य पिण्डात् पिण्डान्तरेषु पूर्वरूपावमर्शः। स कथं यौक्तिकेन बाधेन बाध्यते। यस्य ह्य् अव्युत्पद्यमानस्य बलवता मुखं निरुध्यते न तदात्मानं लभते। उक्तं च स्वयूथ्यैर् अपि -- न प्रत्यक्षविरुद्धकारणविषयम् अनुमानम् आत्मानं लभते अग्नाव् इव शैत्यानुमानम् इति

yatra tarhi na narāntarādiṣu viparyayaḥ tatra kathaṃ yathā jātyādivijñāne. na ca tat satyaṃ, teṣāṃ vyatirekāvyatirekavikalpākṣamatvād ata āha -- sarveṣām iti. yad dhi deśāntarādiṣu na viparyeti tadabādhyaṃ samyag eveti. nanu tatrāpy anupapatter bādhikā dhīr utpādyā, kathaṃ samyaktvam ata āha -- na hīti. pratyakṣo hy avikalakaraṇasya piṇḍāt piṇḍāntareṣu pūrvarūpāvamarśaḥ. sa kathaṃ yauktikena bādhena bādhyate. yasya hy avyutpadyamānasya balavatā mukhaṃ nirudhyate na tadātmānaṃ labhate. uktaṃ ca svayūthyair api -- na pratyakṣaviruddhakāraṇaviṣayam anumānam ātmānaṃ labhate agnāv iva śaityānumānam iti

Sanskrit only: no published translation is held for this verse.

अयम् असाव् इतरेतराश्रयस्य व्यक्तो विषय इत्य् आह -- जात्यादिष्व् इति। अत्र हि जात्यादिज्ञानमिथ्यात्वाद् बाधकबुद्ध्युदयः। तदुदये तन्मिथ्यात्वम्। न च व्यक्तोदिता शुक्तिरजतज्ञानादिष्व् इव बाधिका धीर् अस्तीति। २,२३ यदि तर्हि बाधकज्ञानम् अन्तरेण न कारणदोषमात्रान् मिथ्यात्वम् अवगम्यते, कथम् उच्यते यस्य च दुष्टं करणं यत्र च मिथ्येति प्रत्यय इति भेदेन। तदा हि मिथ्यात्वप्रत्यय एवासमीचीनतायां हेतुर् उक्तः स्यात्। तस्माद् वक्तव्यो विषयः। स उच्यते -- येन तर्हि प्राग् एकश् चन्द्रो ऽवधारितः सम्प्रत्यङ्गुलीनिपीडितलोचनो द्वौ पश्यति। तस्य प्राचीनज्ञानानुसारेण जातविचिकित्सस्याधुना च व्यक्तं कारणदोषम् अवगतवतो भवति निर्णयः। यथा पूर्वज्ञानम् अदुष्टकारणजम्। इदं च व्यक्तावगतकारणदोषप्रभवम्। कारणदोषनियतश् च कार्यदोषः। तस्माद् असमीचीनम्। तद् इह पूर्वानुभवो विचिकित्सोदयहेतुः। कारणदोषावधारणाद् एव मिथ्यात्वावधारणम्। एवं बाह्यागमानाम् अपि कारणदोषावधारणाद् एव मिथ्यात्वावधारणम्। न हि तदर्थाः साक्षाद् बाध्यन्ते। पौरुषेयत्वात् कारणदोषाशङ्कयैव मिथ्यात्वं भवतीति युक्तम् एव द्वैविध्यम्

ayam asāv itaretarāśrayasya vyakto viṣaya ity āha -- jātyādiṣv iti. atra hi jātyādijñānamithyātvād bādhakabuddhyudayaḥ. tadudaye tanmithyātvam. na ca vyaktoditā śuktirajatajñānādiṣv iva bādhikā dhīr astīti. 2,23 yadi tarhi bādhakajñānam antareṇa na kāraṇadoṣamātrān mithyātvam avagamyate, katham ucyate yasya ca duṣṭaṃ karaṇaṃ yatra ca mithyeti pratyaya iti bhedena. tadā hi mithyātvapratyaya evāsamīcīnatāyāṃ hetur uktaḥ syāt. tasmād vaktavyo viṣayaḥ. sa ucyate -- yena tarhi prāg ekaś candro 'vadhāritaḥ sampratyaṅgulīnipīḍitalocano dvau paśyati. tasya prācīnajñānānusāreṇa jātavicikitsasyādhunā ca vyaktaṃ kāraṇadoṣam avagatavato bhavati nirṇayaḥ. yathā pūrvajñānam aduṣṭakāraṇajam. idaṃ ca vyaktāvagatakāraṇadoṣaprabhavam. kāraṇadoṣaniyataś ca kāryadoṣaḥ. tasmād asamīcīnam. tad iha pūrvānubhavo vicikitsodayahetuḥ. kāraṇadoṣāvadhāraṇād eva mithyātvāvadhāraṇam. evaṃ bāhyāgamānām api kāraṇadoṣāvadhāraṇād eva mithyātvāvadhāraṇam. na hi tadarthāḥ sākṣād bādhyante. pauruṣeyatvāt kāraṇadoṣāśaṅkayaiva mithyātvaṃ bhavatīti yuktam eva dvaividhyam

Sanskrit only: no published translation is held for this verse.

ननु मा बाधि जात्यादिज्ञानम्। प्रमाणत्वं तु तस्य कथं, प्रमाणतदाभाससाधारणं हि ज्ञानत्वम्। अतो व्यभिचारदर्शनात् संशयो युक्तः। वृत्त्यादिविकल्पाश् चाप्रामाण्यम् अनापादयन्तो ऽपि तद्वत् प्रामाण्यं विघ्नन्ति। अत आह -- स्वत इति। यदि ज्ञानत्वानुबन्धिनी प्रमाणत्वाप्रमाणत्वे द्वे अपि स्यातां, स्याद् एवानिर्णयः। स्वतस् तु प्रमाणम् इत्य् उपपादितम्। अतो जात्याद्यस्तित्वबोधाद् अनपोदितो निर्णयो युक्तः। स चायं बोधो न परम् अस्माकम् एव। ये ऽपि तु जात्यादीन् अपलपन्ति, तेषाम् अप्य् अस्ति। ते ऽपि हि न तद्बोधम् अनपलपन्तो जात्यादीन् अपलपितुम् अर्हन्तीति

nanu mā bādhi jātyādijñānam. pramāṇatvaṃ tu tasya kathaṃ, pramāṇatadābhāsasādhāraṇaṃ hi jñānatvam. ato vyabhicāradarśanāt saṃśayo yuktaḥ. vṛttyādivikalpāś cāprāmāṇyam anāpādayanto 'pi tadvat prāmāṇyaṃ vighnanti. ata āha -- svata iti. yadi jñānatvānubandhinī pramāṇatvāpramāṇatve dve api syātāṃ, syād evānirṇayaḥ. svatas tu pramāṇam ity upapāditam. ato jātyādyastitvabodhād anapodito nirṇayo yuktaḥ. sa cāyaṃ bodho na param asmākam eva. ye 'pi tu jātyādīn apalapanti, teṣām apy asti. te 'pi hi na tadbodham anapalapanto jātyādīn apalapitum arhantīti

Sanskrit only: no published translation is held for this verse.