अपि च अस्तु बुद्धिशब्दभेदनिबन्धनो हेत्वादिभेदः, तयोर् एव तु कथम् अकस्माद् उद्भवः। न ह्य् अकारणिका कार्योत्पत्तिः सम्भवति। न च शून्ये जगति २,८३ तयोः कारणम् उत्प्रेक्षितुम् अपि शक्यत इत्य् आह -- निर्वस्तुक इति। यश् चायं शब्दभेदो हेत्वादिभेदहेतुतयोपवर्णितः, सो ऽपि तदभावाद् अनुपपन्न इत्य् आह -- शब्देति
api ca astu buddhiśabdabhedanibandhano hetvādibhedaḥ, tayor eva tu katham akasmād udbhavaḥ. na hy akāraṇikā kāryotpattiḥ sambhavati. na ca śūnye jagati 2,83 tayoḥ kāraṇam utprekṣitum api śakyata ity āha -- nirvastuka iti. yaś cāyaṃ śabdabhedo hetvādibhedahetutayopavarṇitaḥ, so 'pi tadabhāvād anupapanna ity āha -- śabdeti
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.