ओम् देव स्वाहा । सार्त्थवाहायस्तुम्बुरेर्मन्त्रः । ओम् जये स्वाहा । ओम् अजिते स्वाहा । ओम् पराजिते स्वाहा । एते मूलमन्त्रा सभ्रातृसहितानां चतुर्भगिनीनां लोकपूजितानां हृदयानि भवन्ति । तासाम् ओम् रूपिणी ओम् विरूपिणी विश्वात्मने । एते हृदयोद्भवा मन्त्रास्तुम्बुरेर्हृदये मन्त्रा भवन्ति । ओम् देवेशाय स्वाहा । उपहृदयानि भवन्ति । ओम् वामनि पिशाचि ओम् महाराक्षसि स्वाहा । ओम् विकृतरूपिणि स्वाहा । ओम् प्रकीर्णकेशी कृतान्तरूपिणि स्वाहा । ओम् वज्ररूपिणि कृतान्तरात्रि भयानकि स्वाहा । तुम्बुरेः सार्थवाहस्योपहृदयं भवति । ओम् चतुर्वक्त्रविभूषितमूर्ति त्रिनेत्रा लम्बोदर बहुरूपि स्वाहा । ओम् धु धु ज्वलय सर्वदिशां स्वाहा । सर्वेषां भगिनीनां भ्रातृसहितानां दिव्यस्तु मन्त्रो ऽयम् । ओम् हूं सर्वेषां शिखा । ओम् ह्रीः जः सर्वेषां शिरः । ओम् ध्यायिनि स्वाहा । सर्वेषां मन्त्रः । ओम् दृक् सर्वेषां नेत्रः । ओम् भगिनीनां भ्रातृसहितानां चन्दनकुङ्कुमानुलिप्तानां समया च रक्षितानां हिमवन्तससागरचारिणां दृढव्रतानां बुद्धधर्मसङ्घानुज्ञातानां श्रीः । ह्रीः । रीम् । व्रीः । भुजः । एष सर्वभगिनीनां (वैद्य ४०५) सर्वभ्रातृसहितानां गात्रे महामन्त्रः । सर्वकर्मिकः प्रसिद्धः सर्वकर्मसु । परमगुह्यतमः । ओम् आयाहि महादेव विश्वरूपिणे स्वाहा । ओम् तुम्बुरे सार्थवाहस्याह्वाननमन्त्रा । ओम् गच्छगच्छ महादेव विश्वात्मने स्वाहा । तम्बुरेः सार्थवाहस्य विसर्जनमन्त्रा । ओम् आयाहि देवि कुमारिके किं चिरायसिसमयमनुस्मर । मम कार्यं सम्पादय स्वाहा । जयायाह्वाननमन्त्रा । ओम् आयाहि महाभोगिनि कार्यं मे साधय समयमनुस्मर स्वाहा । ओम् महायोगान्धरि विस्तीर्णधनप्रिये स्वाहा । अजिताया आह्वाननमन्त्रा । ओम् श्मशानवासिनि रूपपरिवर्तिनि देहानुचरे स्वाहा । अपराजिताया आह्वाननमन्त्रा पुनरेव सर्वमण्डलां लौकिकलोकोत्तरामालिखेत् । सर्वकर्मेषु च योजयेत् । परकल्पविधानेनापि ईप्सितमर्थं साधयेत् । अस्मिन्नेव कल्पविसरे मूलकल्पराजपटलसमतासम्मतश्चतुःकुमारिणां कुमारसहितानामादिमाख्यायते मन्त्रो ऽयं बुद्धात्मजो यमिच्छति । सर्वकर्मिकमित्याहुः बुद्धपूत्रा महर्द्धिका । कुलाग्रा मन्त्रमुख्याश्च सर्वमन्त्रेश्वरो विभुः
om deva svāhā / sārtthavāhāyastumburermantraḥ / om jaye svāhā / om ajite svāhā / om parājite svāhā / ete mūlamantrā sabhrātṛsahitānāṃ caturbhaginīnāṃ lokapūjitānāṃ hṛdayāni bhavanti / tāsām om rūpiṇī om virūpiṇī viśvātmane / ete hṛdayodbhavā mantrāstumburerhṛdaye mantrā bhavanti / om deveśāya svāhā / upahṛdayāni bhavanti / om vāmani piśāci om mahārākṣasi svāhā / om vikṛtarūpiṇi svāhā / om prakīrṇakeśī kṛtāntarūpiṇi svāhā / om vajrarūpiṇi kṛtāntarātri bhayānaki svāhā / tumbureḥ sārthavāhasyopahṛdayaṃ bhavati / om caturvaktravibhūṣitamūrti trinetrā lambodara bahurūpi svāhā / om dhu dhu jvalaya sarvadiśāṃ svāhā / sarveṣāṃ bhaginīnāṃ bhrātṛsahitānāṃ divyastu mantro 'yam / om hūṃ sarveṣāṃ śikhā / om hrīḥ jaḥ sarveṣāṃ śiraḥ / om dhyāyini svāhā / sarveṣāṃ mantraḥ / om dṛk sarveṣāṃ netraḥ / om bhaginīnāṃ bhrātṛsahitānāṃ candanakuṅkumānuliptānāṃ samayā ca rakṣitānāṃ himavantasasāgaracāriṇāṃ dṛḍhavratānāṃ buddhadharmasaṅghānujñātānāṃ śrīḥ / hrīḥ / rīm / vrīḥ / bhujaḥ / eṣa sarvabhaginīnāṃ (Vaidya 405) sarvabhrātṛsahitānāṃ gātre mahāmantraḥ / sarvakarmikaḥ prasiddhaḥ sarvakarmasu / paramaguhyatamaḥ / om āyāhi mahādeva viśvarūpiṇe svāhā / om tumbure sārthavāhasyāhvānanamantrā / om gacchagaccha mahādeva viśvātmane svāhā / tambureḥ sārthavāhasya visarjanamantrā / om āyāhi devi kumārike kiṃ cirāyasisamayamanusmara / mama kāryaṃ sampādaya svāhā / jayāyāhvānanamantrā / om āyāhi mahābhogini kāryaṃ me sādhaya samayamanusmara svāhā / om mahāyogāndhari vistīrṇadhanapriye svāhā / ajitāyā āhvānanamantrā / om śmaśānavāsini rūpaparivartini dehānucare svāhā / aparājitāyā āhvānanamantrā punareva sarvamaṇḍalāṃ laukikalokottarāmālikhet / sarvakarmeṣu ca yojayet / parakalpavidhānenāpi īpsitamarthaṃ sādhayet / asminneva kalpavisare mūlakalparājapaṭalasamatāsammataścatuḥkumāriṇāṃ kumārasahitānāmādimākhyāyate mantro 'yaṃ buddhātmajo yamicchati / sarvakarmikamityāhuḥ buddhapūtrā maharddhikā / kulāgrā mantramukhyāśca sarvamantreśvaro vibhuḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.