* तेष्व् अनन्तादिषु मन्त्रमहेश्वरेषु मण्डल्यादिषु च मन्त्रेश्वरेष्व् अभिव्यक्तो देव इदम् इत्य् अनन्तरोपक्रान्तं ज्ञानं प्रकाशयति । * कस्मिन् विषये किम् अर्थं प्रकाशयतीत्य् आह योग्येषु सिद्धये परिपक्वाञ्जनत्वान् निरतिशयश्रेयःप्रेप्सुषु भुक्त्यर्थं मुक्त्यर्थं च वक्तीत्य् अर्थः । * अतो ऽन्येष्व् इति एतच्छास्त्रार्हेभ्यो ये ऽन्ये अपरिपक्वाञ्जनतया पशुशास्त्रानुवर्तिनस् तेषु विषयेषु यः कापिलपाञ्चरात्रादि प्राप्यो ऽर्थः सम्यग् इति तदुक्तयोग्यतानुसारेणोपपद्यते अनुगुणो भवति तं प्रकाशयति । * पशुशास्त्रप्रणेत्ःन् अधिष्ठाय तत्तच्छास्त्रप्रकाशनम् अपि पारम्पर्येण कुरुत इति यावत्
* teṣv anantādiṣu mantramaheśvareṣu maṇḍalyādiṣu ca mantreśvareṣv abhivyakto deva idam ity anantaropakrāntaṃ jñānaṃ prakāśayati / * kasmin viṣaye kim arthaṃ prakāśayatīty āha yogyeṣu siddhaye paripakvāñjanatvān niratiśayaśreyaḥprepsuṣu bhuktyarthaṃ muktyarthaṃ ca vaktīty arthaḥ / * ato 'nyeṣv iti etacchāstrārhebhyo ye 'nye aparipakvāñjanatayā paśuśāstrānuvartinas teṣu viṣayeṣu yaḥ kāpilapāñcarātrādi prāpyo 'rthaḥ samyag iti taduktayogyatānusāreṇopapadyate anuguṇo bhavati taṃ prakāśayati / * paśuśāstrapraṇetḥn adhiṣṭhāya tattacchāstraprakāśanam api pāramparyeṇa kuruta iti yāvat
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.