Library·Mrgendratantra, Vidyapada 1 - 7.23·1·1.5·1.5.15

Mrgendratantra, Vidyapada 1 - 7.23 1.5.15

* यानि किल ज्ञानानि मलशक्त्यावृतत्वाद्भोगनिष्पादनाय व्यञ्जकं कलाद्यपेक्षन्ते तानि व्यञ्जकस्य कलादेः स्वल्पप्रकाशकरणात् तथाविधव्यञ्जनभाजि ज्ञेयविषये व्याघातवन्त्यपि भवन्ति

* yāni kila jñānāni malaśaktyāvṛtatvādbhoganiṣpādanāya vyañjakaṃ kalādyapekṣante tāni vyañjakasya kalādeḥ svalpaprakāśakaraṇāt tathāvidhavyañjanabhāji jñeyaviṣaye vyāghātavantyapi bhavanti

Sanskrit only: no published translation is held for this verse.

* न चैश्वरं ज्ञानमेवंविधं पूर्वोक्तादेवावृतिशून्यत्वात् कारणात्

* na caiśvaraṃ jñānamevaṃvidhaṃ pūrvoktādevāvṛtiśūnyatvāt kāraṇāt

Sanskrit only: no published translation is held for this verse.

* तथा चोक्तं श्रीकिरणे । * अनादिमलमुक्तत्वात्सर्वज्ञोऽसौ ततः शिवः । * इति

* tathā coktaṃ śrīkiraṇe / * anādimalamuktatvātsarvajño'sau tataḥ śivaḥ / * iti

Sanskrit only: no published translation is held for this verse.

* यतश्चैवमतः

* yataścaivamataḥ

Sanskrit only: no published translation is held for this verse.