Library·Asanga: Mahayanasutralankara·11

Asanga: Mahayanasutralankara 11

एकादशो ऽधिकारः धर्मपर्येष्ट्यधिकारे आलम्बनपर्येष्टौ चत्वारः श्लोकाः । पिटकत्रयं द्वयं वा [च?]संग्रहतः कारणैर्नवभिरिष्टम् । वासनबोधनशमनप्रतिवेधैस्तद्विमोचयति

ekādaśo 'dhikāraḥ dharmaparyeṣṭyadhikāre ālambanaparyeṣṭau catvāraḥ ślokāḥ | piṭakatrayaṃ dvayaṃ vā [ca?]saṃgrahataḥ kāraṇairnavabhiriṣṭam | vāsanabodhanaśamanaprativedhaistadvimocayati

Sanskrit only: no published translation is held for this verse.

पिटकत्रयं सूत्रविनयाभिधर्माः । तदेव त्रयं हीनयानाग्र[महा?]यानभेदेन द्वयं भवति । श्रावपिटकंबोधिसत्त्वपिटकं च । तत्पुनस्त्रयं द्वयं वा [च?]केनार्थेन पिटकमित्याह । संग्रहतः सर्वज्ञेयार्थसंग्रहाद्वेदितव्यम् । केन कारणेन त्रयम् । नवभिः कारणैः, विचिकित्साप्रतिपक्षेण सूत्रम्, यो यत्रार्थे संशयितस्तस्य तन्निश्चयार्थं देशनात् । अन्तद्वयानुयोगप्रतिपक्षेण विनयः सावद्यपरिभोगप्रतिषेधतः कामसुखल्लिकानुयोगान्तस्य, अनवद्यपरिभोगानुज्ञानत आत्मक्लमथानुयोगान्तस्य । स्वयंदृष्टिपरामर्षप्रतिपक्षेणाभिधर्मो ऽविपरीतधर्मलक्षणाभिद्योतनात् । पुनः शिक्षात्रयदेशना सूत्रेण अधिशीलाधिचित्तसंपादनता विनयेन शीलवतो ऽविप्रतिसारादविप्रतिसारेण[दिक्रमेण] समाधिलाभात् । अधिप्रज्ञासंपादनाभिधर्मेणाविपरीतार्थप्रविचयात् । पुनर्धर्मार्थदेशना सूत्रेण । धर्मार्थमिप्पत्तिर्विनयेन क्लेशविनयसंयुक्तस्य तयोः प्रतिवेधात् । धर्मार्थसांकथ्यविनिश्चयकौशल्यमभिधर्मेणेति । एभिर्नवभिः कारणैः पिटकत्रयमिष्टम् । तच्च संसाराद्विमोचनार्थम् । कथं पुनस्तद्विमोचयति । वासनबोधनशमनप्रतिवेधैस्तद्विमोचयति । श्रूतेन चित्तवासनतः । चिन्तया बोधनतः । भावनया शमथेन शमनतः । विपश्यनया प्रतिवेधतः । सूत्राभिधर्मविनयाश्चतुर्विधार्था मताः समासेन । तेषां ज्ञानाद्धीमान्सर्वाकारज्ञतामेति

piṭakatrayaṃ sūtravinayābhidharmāḥ | tadeva trayaṃ hīnayānāgra[mahā?]yānabhedena dvayaṃ bhavati | śrāvapiṭakaṃbodhisattvapiṭakaṃ ca | tatpunastrayaṃ dvayaṃ vā [ca?]kenārthena piṭakamityāha | saṃgrahataḥ sarvajñeyārthasaṃgrahādveditavyam | kena kāraṇena trayam | navabhiḥ kāraṇaiḥ, vicikitsāpratipakṣeṇa sūtram, yo yatrārthe saṃśayitastasya tanniścayārthaṃ deśanāt | antadvayānuyogapratipakṣeṇa vinayaḥ sāvadyaparibhogapratiṣedhataḥ kāmasukhallikānuyogāntasya, anavadyaparibhogānujñānata ātmaklamathānuyogāntasya | svayaṃdṛṣṭiparāmarṣapratipakṣeṇābhidharmo 'viparītadharmalakṣaṇābhidyotanāt | punaḥ śikṣātrayadeśanā sūtreṇa adhiśīlādhicittasaṃpādanatā vinayena śīlavato 'vipratisārādavipratisāreṇa[dikrameṇa] samādhilābhāt | adhiprajñāsaṃpādanābhidharmeṇāviparītārthapravicayāt | punardharmārthadeśanā sūtreṇa | dharmārthamippattirvinayena kleśavinayasaṃyuktasya tayoḥ prativedhāt | dharmārthasāṃkathyaviniścayakauśalyamabhidharmeṇeti | ebhirnavabhiḥ kāraṇaiḥ piṭakatrayamiṣṭam | tacca saṃsārādvimocanārtham | kathaṃ punastadvimocayati | vāsanabodhanaśamanaprativedhaistadvimocayati | śrūtena cittavāsanataḥ | cintayā bodhanataḥ | bhāvanayā śamathena śamanataḥ | vipaśyanayā prativedhataḥ | sūtrābhidharmavinayāścaturvidhārthā matāḥ samāsena | teṣāṃ jñānāddhīmānsarvākārajñatāmeti

Sanskrit only: no published translation is held for this verse.

ते च सूत्रविनयभिधर्माः प्रत्येकं चतुर्विधार्थाः समासतस्तेषां ज्ञानाब्दोधिसत्त्वः सर्वज्ञतां प्राप्नोति । श्रावकस्त्वेकस्या अपि गाथाया अर्थमाज्ञायास्त्रवक्षयंप्राप्नोति । आश्रयतो लक्षणतो धर्मादर्थाच्च सूचनात्सूत्रम् । अभिमुखतो ऽथामीक्ष्ण्यादभिभवगतितो ऽभिधर्मश्च

te ca sūtravinayabhidharmāḥ pratyekaṃ caturvidhārthāḥ samāsatasteṣāṃ jñānābdodhisattvaḥ sarvajñatāṃ prāpnoti | śrāvakastvekasyā api gāthāyā arthamājñāyāstravakṣayaṃprāpnoti | āśrayato lakṣaṇato dharmādarthācca sūcanātsūtram | abhimukhato 'thāmīkṣṇyādabhibhavagatito 'bhidharmaśca

Sanskrit only: no published translation is held for this verse.

कथं प्रत्येकं चतुर्विधार्थः । आश्रयलक्षणधर्मार्थसूचनात्सूत्रम् । तत्राश्रयो यत्र देशे देशितं येन यस्मै च । लक्षणं संवृत्तिसत्यलक्षणं परमार्थसत्यलक्षणं च । धर्माः स्कन्धायतनधात्वाहारप्रतीत्यसमुत्पादादयः । अर्थो ऽनुसंधिः । अभिमुखत्वादभीक्ष्णत्वादभिभवनादभिगमनाच्चाभिधर्मो वेदितव्यः । निर्वाणाभिमुखो धर्मो ऽभिधर्मः सत्यबोधिपक्षविमोक्षमु[सु?]खादिदेशनात् । अभीक्ष्णं धर्मो ऽभिधर्म एकैकस्य धर्मस्य रूप्यरूपिसनिदर्शनादिप्रभेदेन बहुलनिर्देशात् । अभिभवतीत्यभिधर्मः परप्रवादाभिभवनाद्विवादाधिकरणादिभिः । अभिगम्यते सूत्रार्थ एतेनेत्यभिधर्मः । आपत्तेरूत्थानाद्व्युत्थानान्निःसृतेश्चविनयत्वम् । पुद्गलतः प्रज्ञप्तेः प्रविभागविनिश्चयाच्चैव

kathaṃ pratyekaṃ caturvidhārthaḥ | āśrayalakṣaṇadharmārthasūcanātsūtram | tatrāśrayo yatra deśe deśitaṃ yena yasmai ca | lakṣaṇaṃ saṃvṛttisatyalakṣaṇaṃ paramārthasatyalakṣaṇaṃ ca | dharmāḥ skandhāyatanadhātvāhārapratītyasamutpādādayaḥ | artho 'nusaṃdhiḥ | abhimukhatvādabhīkṣṇatvādabhibhavanādabhigamanāccābhidharmo veditavyaḥ | nirvāṇābhimukho dharmo 'bhidharmaḥ satyabodhipakṣavimokṣamu[su?]khādideśanāt | abhīkṣṇaṃ dharmo 'bhidharma ekaikasya dharmasya rūpyarūpisanidarśanādiprabhedena bahulanirdeśāt | abhibhavatītyabhidharmaḥ parapravādābhibhavanādvivādādhikaraṇādibhiḥ | abhigamyate sūtrārtha etenetyabhidharmaḥ | āpatterūtthānādvyutthānānniḥsṛteścavinayatvam | pudgalataḥ prajñapteḥ pravibhāgaviniścayāccaiva

Sanskrit only: no published translation is held for this verse.

आपत्तितः समुत्थानतो व्युत्थानतो निसारणतश्च वेदितव्यः । तत्रापत्तिः पञ्चापत्तिनिकायाः । समुत्थानमापत्तीनामज्ञानात्प्रमादात् क्लेशप्राचुर्यादनादराच्च । व्युत्थानमाशयतो न दण्डकर्मतः । निःसरणं सप्तविधम् । प्रतिदेशना, अभ्युपगमः शिक्षादत्तकादीनाम्, दण्डकर्मणः[णाम्] । समवद्योतः [समवधातः], प्रज्ञप्ते शिक्षापदे पुनः पर्यायेण अ[णानु] ज्ञानात्, प्रस्रब्धिः समग्रेण संघेन शिक्षापदस्य प्रतिप्रस्रम्भणात् । आश्रयपरिवृत्तिर्भिक्षुभिक्षुण्योः स्त्रीपुरुषव्यञ्जनपरिवर्तनादसाधारणा वे[चे]दापत्तिः । भूतप्रत्यवेक्षा धर्मोद्दानाक[का]रैः प्रत्यवेक्षावशेषः । धर्मताप्रतिलम्भश्च सत्यदर्शनेन क्षुद्रानुक्षुद्रापन्ना[त्त्य]भावे धर्म [ता]प्रतिलम्भात् । पुनश्चतुर्विधेनार्थेन विनयो वैदितव्यः । पुद्गलतो यमागम्य शिक्षा प्रज्ञप्यते । प्रज्ञप्तितो यदारोचिते पुद्गलापराधे शास्ता संनिपात्य संघ[संघं?] शिक्षां प्रज्ञापयति । प्रविभागतो यः प्रज्ञप्ते शिक्षापदे तदुद्देशस्य विभागः । विनिश्चयतश्च तत्रापत्तिः कथं भवत्यनापत्तिर्वेति निर्धारणात् । आलम्बनलाभपर्येष्टौ त्रयः श्लोकाः । आलम्बनं मतो धर्मः अध्यात्मं बाह्यकं[द्वयम्?] । [लाभो द्वयोर्द्वयार्थेन द्वयोश्चानुपलम्भतः]

āpattitaḥ samutthānato vyutthānato nisāraṇataśca veditavyaḥ | tatrāpattiḥ pañcāpattinikāyāḥ | samutthānamāpattīnāmajñānātpramādāt kleśaprācuryādanādarācca | vyutthānamāśayato na daṇḍakarmataḥ | niḥsaraṇaṃ saptavidham | pratideśanā, abhyupagamaḥ śikṣādattakādīnām, daṇḍakarmaṇaḥ[ṇām] | samavadyotaḥ [samavadhātaḥ], prajñapte śikṣāpade punaḥ paryāyeṇa a[ṇānu] jñānāt, prasrabdhiḥ samagreṇa saṃghena śikṣāpadasya pratiprasrambhaṇāt | āśrayaparivṛttirbhikṣubhikṣuṇyoḥ strīpuruṣavyañjanaparivartanādasādhāraṇā ve[ce]dāpattiḥ | bhūtapratyavekṣā dharmoddānāka[kā]raiḥ pratyavekṣāvaśeṣaḥ | dharmatāpratilambhaśca satyadarśanena kṣudrānukṣudrāpannā[ttya]bhāve dharma [tā]pratilambhāt | punaścaturvidhenārthena vinayo vaiditavyaḥ | pudgalato yamāgamya śikṣā prajñapyate | prajñaptito yadārocite pudgalāparādhe śāstā saṃnipātya saṃgha[saṃghaṃ?] śikṣāṃ prajñāpayati | pravibhāgato yaḥ prajñapte śikṣāpade taduddeśasya vibhāgaḥ | viniścayataśca tatrāpattiḥ kathaṃ bhavatyanāpattirveti nirdhāraṇāt | ālambanalābhaparyeṣṭau trayaḥ ślokāḥ | ālambanaṃ mato dharmaḥ adhyātmaṃ bāhyakaṃ[dvayam?] | [lābho dvayordvayārthena dvayoścānupalambhataḥ]

Sanskrit only: no published translation is held for this verse.

मनोजल्पैर्यथोक्तार्थप्रसन्नस्य प्रधारणात् । अर्थख्यानस्य जल्पाच्च नाम्नि स्थानाच्च चेतसः

manojalpairyathoktārthaprasannasya pradhāraṇāt | arthakhyānasya jalpācca nāmni sthānācca cetasaḥ

Sanskrit only: no published translation is held for this verse.

धर्मालम्बनलाभः स्यात्त्रिभिर्ज्ञानैः श्रुतादिभिः । त्रिविधालम्बनलाभश्च पूर्वोक्तस्तत्समाश्रितः

dharmālambanalābhaḥ syāttribhirjñānaiḥ śrutādibhiḥ | trividhālambanalābhaśca pūrvoktastatsamāśritaḥ

Sanskrit only: no published translation is held for this verse.

धर्मालम्बनलाभः पुनस्त्रिभिर्ज्ञानैर्भवति श्रुतचिन्ताभावनामयैः । तत्र समाहितेन चेतसा मनोजल्पैर्यथोक्तार्थप्रसन्नस्य तत्प्रधारणात् । श्रुतमयेन ज्ञानेन तल्लाभः, मनोजल्पैरिति संकल्पैः । प्रसन्नस्येत्यधिमुक्तस्य निश्चितस्य । प्रधारणादिति प्रविचयात् । जल्पादर्थख्यानस्य प्रधारणाच्चिन्तामयेन तल्लाभः । यदि मनोजल्पादेवायमर्थः ख्यातीति पश्यति नान्यन्मनोजल्पाद्यथोक्तं द्वयालम्बनलाभे । चित्तस्य नाम्नि स्थानात् भावनामयेन ज्ञानेन तल्लाभो वेदितव्यो द्वयानुपलम्भाद्यथोक्तं द्वयालम्बनलाभे । अत एव च स पूर्वोक्तस्त्रिविधालम्बनलाभो धर्मालम्बनलाभसंनिश्रितो वेदितव्यः । मनसिकारपर्येष्टौ पञ्च श्लोकाः । त्रिधातुकः कृत्यकरः ससंबाधाश्रयो ऽपरः । अधिमुक्तिनिवेशी च तीव्रच्छन्दकरो ऽपरः

dharmālambanalābhaḥ punastribhirjñānairbhavati śrutacintābhāvanāmayaiḥ | tatra samāhitena cetasā manojalpairyathoktārthaprasannasya tatpradhāraṇāt | śrutamayena jñānena tallābhaḥ, manojalpairiti saṃkalpaiḥ | prasannasyetyadhimuktasya niścitasya | pradhāraṇāditi pravicayāt | jalpādarthakhyānasya pradhāraṇāccintāmayena tallābhaḥ | yadi manojalpādevāyamarthaḥ khyātīti paśyati nānyanmanojalpādyathoktaṃ dvayālambanalābhe | cittasya nāmni sthānāt bhāvanāmayena jñānena tallābho veditavyo dvayānupalambhādyathoktaṃ dvayālambanalābhe | ata eva ca sa pūrvoktastrividhālambanalābho dharmālambanalābhasaṃniśrito veditavyaḥ | manasikāraparyeṣṭau pañca ślokāḥ | tridhātukaḥ kṛtyakaraḥ sasaṃbādhāśrayo 'paraḥ | adhimuktiniveśī ca tīvracchandakaro 'paraḥ

Sanskrit only: no published translation is held for this verse.

हीनपूर्णाश्रयो द्वेधा सजल्पो ऽजल्प एव च । ज्ञानेन संप्रयुक्तश्च योगोपनिषदात्मकः

hīnapūrṇāśrayo dvedhā sajalpo 'jalpa eva ca | jñānena saṃprayuktaśca yogopaniṣadātmakaḥ

Sanskrit only: no published translation is held for this verse.

संभिन्नालम्बनश्चासौ विभिन्नालम्बनः स च । पञ्चधा सप्तध चैव परिज्ञा पञ्चधास्य च

saṃbhinnālambanaścāsau vibhinnālambanaḥ sa ca | pañcadhā saptadha caiva parijñā pañcadhāsya ca

Sanskrit only: no published translation is held for this verse.

चत्वारः सप्तत्रिंशच्च आकारा भावनागताः । मार्गद्वयस्वभावो ऽसौ द्व्युनुशंसः प्रतीच्छकः

catvāraḥ saptatriṃśacca ākārā bhāvanāgatāḥ | mārgadvayasvabhāvo 'sau dvyunuśaṃsaḥ pratīcchakaḥ

Sanskrit only: no published translation is held for this verse.

प्रयोगी वशवर्ती च परीत्तो विपुलात्मकः । योगिनां हि मनस्कार एष सर्वात्मको मतः

prayogī vaśavartī ca parītto vipulātmakaḥ | yogināṃ hi manaskāra eṣa sarvātmako mataḥ

Sanskrit only: no published translation is held for this verse.

अष्टादशविधो मनस्कारः । धातुनियतः कृत्यकर आश्रयविभक्तो ऽधिमुक्तिनिवेशकश्च्छन्दजनकः समाधिसंनिश्रितो ज्ञानसंप्रयुक्तः संभिन्नालम्बनो विभिन्नालम्बनः परिज्ञानियतो भावनाकारप्रविष्टः शमथविपश्यनामार्गस्वभावो ऽनुशंसमनस्कारः प्रतीच्छकः प्रायोगिकमनस्कारो वशवर्तिमनस्कारः परीत्तमनस्कारो विपुलमनस्कारश्च । तत्र धातुनियतो यः श्रावकादिगोत्रनियतः । कृत्यकरो यः संभृतसंभारस्य । आश्रयविभक्तो यः ससंवाधगृहस्थाश्रयो ऽसंबाधप्रव्रजिताश्रयश्च । अधिमुक्तिनिवेशको यो बुद्धानुस्मृतिसहगतः । (म्स्अ बग्छि ५८) च्छन्दजनको यस्तत्संप्रत्ययसहगतः । समाधिसंनिश्रितो यः समन्तकमौलसमाधिसहगतः सवितर्कसविचार [रावितर्कविचार?] (निर्वितर्कसविचार?) मात्रावितर्काविचारसहगतश्च । ज्ञानसंप्रयुक्तो यो योगोपनिषद्योगसहगतः, स पुनर्यथाक्रमं श्रुतचिन्तामयो भावनामयश्च । संभिन्नालम्बनः पञ्चविधः सूत्रोद्दानगाथानिपातयावदुद्ग्रहीतयावद्देशितालम्बनः । विभिन्नालम्बनः सप्तविधो नामालम्बनः पदालम्बनो व्यञ्जनालम्बनः पुद्गलनैरात्म्यालम्बनो धर्म नैरात्म्यालम्बनो रूपिधर्मालम्बनो ऽरूपिधर्मालम्बनश्च । तत्र रूपिधर्मालम्बनो यः कायालम्बनः । अरूपिधर्मालम्बनो यो वेदनाचित्तधर्मालम्बनः । परिज्ञानियतो यः परिज्ञेये वस्तुनि परिज्ञेये ऽर्थे परिज्ञायां परिज्ञाफले तत्प्रवेदनायां च । तत्र परिज्ञेयं वस्तु दुःखं परिज्ञेयो ऽर्थस्तस्यैवानित्यदुःखशून्यानात्मता । परिज्ञा मार्गः । परिज्ञाफलं विमुक्तिः । तत्प्रवेदना विमुक्तिज्ञानदर्शनम् । भावनाकारप्रविष्टश्चतुराकारभावनः सप्तत्रिंशदाकारभावनश्च । तत्रचतुराकारभावनः पुद्गलनैरात्म्याकारभावनो धर्मनैरात्म्याकारभावनो दर्शनाकारभावनो ज्ञानाकारभावनश्च । तत्र सप्तत्रिंशदाकारभावनः । अशुभाकारभावनो दुःखाकारभावनो ऽनित्याकारभावनो ऽनात्माकारभावनः स्मृत्युपस्थानेषु । प्रतिलम्भाकारभावनो निसेवनाकारभावनो विनिर्धावना [निर्विर्घाटना] कारभावनः प्रतिपक्षाकारभावनः सम्यक्प्रहाणेषु । संतुष्टिप्रातिपक्षिकमनस्कारभावनो यदा च्छन्दं जनयति । विक्षेपसंशयप्रातिपक्षिकमनस्कारभावनो यदा व्यायच्छते वीर्यमारभते यथाक्रमम् । औद्धत्यप्रातिपक्षिकसमाध्याकारभावनो यदा चित्तं प्रदधाति[प्रगृह्णाति] । लयप्रातिपक्षिकसमाध्याकारभावनो यदा चित्तं प्रगृह्णाति [प्रदधाति] । एते यथाक्रमं चतुर्षु ऋद्धिपादेषु वेदितव्याः । स्थितचित्तस्य लोकोत्तरसंपत्तिसंप्रत्ययाकारभावनो यथा संप्रत्ययाकारभावन एवं व्यवसायाकारभावनो धर्मासंप्रमोषाकारभावनश्चित्तस्थित्याकारभावनः प्रविचयाकारभावन इन्द्रियेषु । एत एव पञ्च निर्लिखितविपक्षमनस्कारा बलेषु । संबोधिसंप्रख्यानाकारभावनस्तत्रैव विचयोत्साहसौमनस्यकर्मण्यताचित्तस्थितिसमताकारभावनाः सप्तसंबोध्यङ्गेषु । प्राप्तिनिश्चयाकारभावनः परिकर्मभूमिसंरक्षणाकारभावनः परसंप्राप्त्याकारभावन आर्यकान्तशीलप्रविष्टाकारभावनः संलिखितवृत्तिसमुदाचार[रा]कारभावनः पूर्वपरिभावितप्रतिलब्धमार्गाभ्यासाकारभावनो धर्मस्थितिनिमित्तासंप्रमोषाकारभावनो ऽनिमित्तस्थित्याश्रयपरिवृत्त्याकारभावनश्च मार्गाङ्गेषु । शमथविपश्यनाभावनामार्गस्वभावयोर्न कश्चिन्निर्देशः । अनुशंसमनस्कारो द्विविधो दौष्ठुल्यापकर्षणो दृष्टिनिमित्तापकर्षणश्च । प्रतीच्छको यो धर्मस्त्रोतसि बुद्धबोधिसत्त्वानामन्तिकादववादग्राहकः । प्रायोगिकमनस्कारः पञ्चविधः समाधिगोचरे । संख्योपलक्षणप्रायोगिको येन सूत्रादिषु नामपदव्यञ्जनसंख्यामुपलक्षयते । (म्स्अ बग्छि ५९) वृत्त्युपलक्षणप्रायोगिको येन द्विविधां वृत्तिमुपलक्षयते परिमाणवृत्तिं च व्यञ्जनानामपरिमाणवृत्तिं च नामपदयोः । परिकल्पोपलक्षणप्रायोगिको येन द्वयमुपादाय द्वयपरिकल्पमुपलक्षयते । नामपरिकल्पमुपादायार्थपरिकल्पमर्थपरिकल्पमुपादाय नामपरिकल्पमपरिकल्पमक्षरम् । क्रमोपलक्षणप्रायोगिको येन नामग्रहणपूर्विकामर्थग्रहणप्रवृत्तिमुपलक्षयते । प्रतिवेधप्रायोगिकश्च । स पुनरेकादशविधो वेदितव्य, आगन्तुकत्वप्रतिवेधतः, संप्रख्याननिमित्तप्रतिवेधतः, अर्थानुपलम्भप्रतिवेधतः, उपलम्भानुपलम्भप्रतिवेधतः, धर्मधातुप्रतिवेधतः पुद्गलनैरात्म्यप्रतिवेधतः, धर्म नैरात्म्यप्रतिवेधतः, हीनाशयप्रतिवेधतः, उदारमाहात्म्याशयप्रतिवेधतः यथाधिगमधर्मव्यवस्थानप्रतिवेधतः, व्यवस्थापितधर्मप्रतिवेधतश्च । वशवर्तिमनस्कारस्त्रिविधः, क्लेशावरणसुविशुद्धः क्लेशज्ञेयावरणसुविशुद्धः, गुणाभिनिर्हारसुविशुद्धश्च । धर्मतत्त्वपर्येष्टौ द्वौ श्लोकौ । तत्त्वं यत्सततं द्वयेन रहितं, भ्रान्तेश्च संनिश्रयः, शक्यं नैव च सर्वथाभिलपितुं यच्चाप्रपञ्चात्मकम् । ज्ञेयं हेयमथो विशोध्यममलं यच्च प्रकृत्या मतम् । यस्याकाशसुवर्णवारिसदृशी क्लेशाद्विशुद्धिर्मता

aṣṭādaśavidho manaskāraḥ | dhātuniyataḥ kṛtyakara āśrayavibhakto 'dhimuktiniveśakaścchandajanakaḥ samādhisaṃniśrito jñānasaṃprayuktaḥ saṃbhinnālambano vibhinnālambanaḥ parijñāniyato bhāvanākārapraviṣṭaḥ śamathavipaśyanāmārgasvabhāvo 'nuśaṃsamanaskāraḥ pratīcchakaḥ prāyogikamanaskāro vaśavartimanaskāraḥ parīttamanaskāro vipulamanaskāraśca | tatra dhātuniyato yaḥ śrāvakādigotraniyataḥ | kṛtyakaro yaḥ saṃbhṛtasaṃbhārasya | āśrayavibhakto yaḥ sasaṃvādhagṛhasthāśrayo 'saṃbādhapravrajitāśrayaśca | adhimuktiniveśako yo buddhānusmṛtisahagataḥ | (MSA Bagchi 58) cchandajanako yastatsaṃpratyayasahagataḥ | samādhisaṃniśrito yaḥ samantakamaulasamādhisahagataḥ savitarkasavicāra [rāvitarkavicāra?] (nirvitarkasavicāra?) mātrāvitarkāvicārasahagataśca | jñānasaṃprayukto yo yogopaniṣadyogasahagataḥ, sa punaryathākramaṃ śrutacintāmayo bhāvanāmayaśca | saṃbhinnālambanaḥ pañcavidhaḥ sūtroddānagāthānipātayāvadudgrahītayāvaddeśitālambanaḥ | vibhinnālambanaḥ saptavidho nāmālambanaḥ padālambano vyañjanālambanaḥ pudgalanairātmyālambano dharma nairātmyālambano rūpidharmālambano 'rūpidharmālambanaśca | tatra rūpidharmālambano yaḥ kāyālambanaḥ | arūpidharmālambano yo vedanācittadharmālambanaḥ | parijñāniyato yaḥ parijñeye vastuni parijñeye 'rthe parijñāyāṃ parijñāphale tatpravedanāyāṃ ca | tatra parijñeyaṃ vastu duḥkhaṃ parijñeyo 'rthastasyaivānityaduḥkhaśūnyānātmatā | parijñā mārgaḥ | parijñāphalaṃ vimuktiḥ | tatpravedanā vimuktijñānadarśanam | bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca | tatracaturākārabhāvanaḥ pudgalanairātmyākārabhāvano dharmanairātmyākārabhāvano darśanākārabhāvano jñānākārabhāvanaśca | tatra saptatriṃśadākārabhāvanaḥ | aśubhākārabhāvano duḥkhākārabhāvano 'nityākārabhāvano 'nātmākārabhāvanaḥ smṛtyupasthāneṣu | pratilambhākārabhāvano nisevanākārabhāvano vinirdhāvanā [nirvirghāṭanā] kārabhāvanaḥ pratipakṣākārabhāvanaḥ samyakprahāṇeṣu | saṃtuṣṭiprātipakṣikamanaskārabhāvano yadā cchandaṃ janayati | vikṣepasaṃśayaprātipakṣikamanaskārabhāvano yadā vyāyacchate vīryamārabhate yathākramam | auddhatyaprātipakṣikasamādhyākārabhāvano yadā cittaṃ pradadhāti[pragṛhṇāti] | layaprātipakṣikasamādhyākārabhāvano yadā cittaṃ pragṛhṇāti [pradadhāti] | ete yathākramaṃ caturṣu ṛddhipādeṣu veditavyāḥ | sthitacittasya lokottarasaṃpattisaṃpratyayākārabhāvano yathā saṃpratyayākārabhāvana evaṃ vyavasāyākārabhāvano dharmāsaṃpramoṣākārabhāvanaścittasthityākārabhāvanaḥ pravicayākārabhāvana indriyeṣu | eta eva pañca nirlikhitavipakṣamanaskārā baleṣu | saṃbodhisaṃprakhyānākārabhāvanastatraiva vicayotsāhasaumanasyakarmaṇyatācittasthitisamatākārabhāvanāḥ saptasaṃbodhyaṅgeṣu | prāptiniścayākārabhāvanaḥ parikarmabhūmisaṃrakṣaṇākārabhāvanaḥ parasaṃprāptyākārabhāvana āryakāntaśīlapraviṣṭākārabhāvanaḥ saṃlikhitavṛttisamudācāra[rā]kārabhāvanaḥ pūrvaparibhāvitapratilabdhamārgābhyāsākārabhāvano dharmasthitinimittāsaṃpramoṣākārabhāvano 'nimittasthityāśrayaparivṛttyākārabhāvanaśca mārgāṅgeṣu | śamathavipaśyanābhāvanāmārgasvabhāvayorna kaścinnirdeśaḥ | anuśaṃsamanaskāro dvividho dauṣṭhulyāpakarṣaṇo dṛṣṭinimittāpakarṣaṇaśca | pratīcchako yo dharmastrotasi buddhabodhisattvānāmantikādavavādagrāhakaḥ | prāyogikamanaskāraḥ pañcavidhaḥ samādhigocare | saṃkhyopalakṣaṇaprāyogiko yena sūtrādiṣu nāmapadavyañjanasaṃkhyāmupalakṣayate | (MSA Bagchi 59) vṛttyupalakṣaṇaprāyogiko yena dvividhāṃ vṛttimupalakṣayate parimāṇavṛttiṃ ca vyañjanānāmaparimāṇavṛttiṃ ca nāmapadayoḥ | parikalpopalakṣaṇaprāyogiko yena dvayamupādāya dvayaparikalpamupalakṣayate | nāmaparikalpamupādāyārthaparikalpamarthaparikalpamupādāya nāmaparikalpamaparikalpamakṣaram | kramopalakṣaṇaprāyogiko yena nāmagrahaṇapūrvikāmarthagrahaṇapravṛttimupalakṣayate | prativedhaprāyogikaśca | sa punarekādaśavidho veditavya, āgantukatvaprativedhataḥ, saṃprakhyānanimittaprativedhataḥ, arthānupalambhaprativedhataḥ, upalambhānupalambhaprativedhataḥ, dharmadhātuprativedhataḥ pudgalanairātmyaprativedhataḥ, dharma nairātmyaprativedhataḥ, hīnāśayaprativedhataḥ, udāramāhātmyāśayaprativedhataḥ yathādhigamadharmavyavasthānaprativedhataḥ, vyavasthāpitadharmaprativedhataśca | vaśavartimanaskārastrividhaḥ, kleśāvaraṇasuviśuddhaḥ kleśajñeyāvaraṇasuviśuddhaḥ, guṇābhinirhārasuviśuddhaśca | dharmatattvaparyeṣṭau dvau ślokau | tattvaṃ yatsatataṃ dvayena rahitaṃ, bhrānteśca saṃniśrayaḥ, śakyaṃ naiva ca sarvathābhilapituṃ yaccāprapañcātmakam | jñeyaṃ heyamatho viśodhyamamalaṃ yacca prakṛtyā matam | yasyākāśasuvarṇavārisadṛśī kleśādviśuddhirmatā

Sanskrit only: no published translation is held for this verse.

सततं द्वयेन रहितं तत्त्वं, परिकल्पितः स्वभावो ग्राह्यग्राहकलक्षणेनात्यन्तमसत्त्वात् । भ्रान्तेः संनिश्रयः परतन्त्रस्तेन तत्परिकल्पनात् । अनभिलाप्यमप्रपञ्चात्मकं च परिनिष्पन्नः स्वभावः । तत्र प्रथमं तत्त्वं परिज्ञेयं द्वितीयं प्रहेयं तृतीयं विशोध्यं चागन्तुकमलाद्विशुद्धं च प्रकृत्या, यस्य प्रकृत्या विशुद्धस्याकाशसुवर्णवारिसदृशी क्लेशाद्विशुद्धिः । न ह्याकाशादीनि प्रकृत्या अशुद्धानि न चागन्तुकमलापगमादेषां विशुद्धिर्नेष्यत इति । न खलु जगति तस्माद्विद्यते किंचिदन्य- ज्जगदपि तदशेषं तत्र संमूढबुद्धि । कथमयमभिरूढो लोकमोहप्रकारो । यदसदभिनिविष्टः सत्समन्ताद्विहाय

satataṃ dvayena rahitaṃ tattvaṃ, parikalpitaḥ svabhāvo grāhyagrāhakalakṣaṇenātyantamasattvāt | bhrānteḥ saṃniśrayaḥ paratantrastena tatparikalpanāt | anabhilāpyamaprapañcātmakaṃ ca pariniṣpannaḥ svabhāvaḥ | tatra prathamaṃ tattvaṃ parijñeyaṃ dvitīyaṃ praheyaṃ tṛtīyaṃ viśodhyaṃ cāgantukamalādviśuddhaṃ ca prakṛtyā, yasya prakṛtyā viśuddhasyākāśasuvarṇavārisadṛśī kleśādviśuddhiḥ | na hyākāśādīni prakṛtyā aśuddhāni na cāgantukamalāpagamādeṣāṃ viśuddhirneṣyata iti | na khalu jagati tasmādvidyate kiṃcidanya- jjagadapi tadaśeṣaṃ tatra saṃmūḍhabuddhi | kathamayamabhirūḍho lokamohaprakāro | yadasadabhiniviṣṭaḥ satsamantādvihāya

Sanskrit only: no published translation is held for this verse.

न खलु तस्मादेवंलक्षणाद्धर्मधातोः किंचिदन्यल्लोके विद्यते धर्मताया धर्मस्याभिन्नत्वात् । शेषं गतार्थम् । तत्त्वे मायोपमपर्येष्टौ पञ्चदश श्लोकाः । यथा माया तथाभूतपरिकल्पो निरुच्यते । यथा मायाकृतं तद्वत् द्वयभ्रान्तिर्निरुच्यते

na khalu tasmādevaṃlakṣaṇāddharmadhātoḥ kiṃcidanyalloke vidyate dharmatāyā dharmasyābhinnatvāt | śeṣaṃ gatārtham | tattve māyopamaparyeṣṭau pañcadaśa ślokāḥ | yathā māyā tathābhūtaparikalpo nirucyate | yathā māyākṛtaṃ tadvat dvayabhrāntirnirucyate

Sanskrit only: no published translation is held for this verse.

यथा माया यन्त्र [मन्त्र]परिगृहीतं भ्रान्तिनिमित्तं काष्ठलोष्टादिकम् तथाभूतपरिकल्पः परतन्त्रः स्वभावो [स्वभावाकारो] वेदितव्यः । यथा मायाकृतं तस्यां मायायां हस्त्यश्वसुवर्णाद्याकृतिस्तद्भावेन प्रतिभासिता, तथा तस्मिन्नभूतपरिकल्पे द्वयभ्रान्तिर्ग्राह्यग्राहकत्वेनप्रतिभासिता परिकल्पितस्वभावाकारा वेदितव्या । यथा[ऽ]तस्मिन्न तद्भावः परमार्थस्तथेष्यते । यथा तस्योपलब्धिस्तु तथा संवृतिसत्यता

yathā māyā yantra [mantra]parigṛhītaṃ bhrāntinimittaṃ kāṣṭhaloṣṭādikam tathābhūtaparikalpaḥ paratantraḥ svabhāvo [svabhāvākāro] veditavyaḥ | yathā māyākṛtaṃ tasyāṃ māyāyāṃ hastyaśvasuvarṇādyākṛtistadbhāvena pratibhāsitā, tathā tasminnabhūtaparikalpe dvayabhrāntirgrāhyagrāhakatvenapratibhāsitā parikalpitasvabhāvākārā veditavyā | yathā[']tasminna tadbhāvaḥ paramārthastatheṣyate | yathā tasyopalabdhistu tathā saṃvṛtisatyatā

Sanskrit only: no published translation is held for this verse.

यथा[ऽ]तस्मिन्न तद्भावो मायाकृते हस्तित्वाद्यभावस्तथा तस्मिन्परतन्त्रे परमार्थ इष्यते परिकल्पितस्य द्वयलक्षणस्याभावः । यथा तस्य मायाकृतस्य हस्त्यादिभावेनोपलब्धिः, तथाभूतपरिकल्पस्य संवृतिसत्यतोपलब्धिः । तदभावे यथा व्यक्तिस्तन्निमित्तस्य लभ्यते । तथाश्रयपरावृत्तावसत्कल्पस्य लभ्यते

yathā[']tasminna tadbhāvo māyākṛte hastitvādyabhāvastathā tasminparatantre paramārtha iṣyate parikalpitasya dvayalakṣaṇasyābhāvaḥ | yathā tasya māyākṛtasya hastyādibhāvenopalabdhiḥ, tathābhūtaparikalpasya saṃvṛtisatyatopalabdhiḥ | tadabhāve yathā vyaktistannimittasya labhyate | tathāśrayaparāvṛttāvasatkalpasya labhyate

Sanskrit only: no published translation is held for this verse.

यथा मायाकृतस्याभावे तस्य निमित्तस्य काष्ठादिकस्य व्यक्तिर्भूतार्थोपलभ्यते, तथाश्रयपरावृत्तौ द्वयभ्रान्त्यभावादभूतपरिकल्पस्य भूतो ऽर्थ उपलभ्यते । तन्निमित्ते यथा लोको ह्यभ्रान्तः कामतश्चरेत् । परावृत्तावपर्यस्तः कामचारी तथा पतिः[यतिः]

yathā māyākṛtasyābhāve tasya nimittasya kāṣṭhādikasya vyaktirbhūtārthopalabhyate, tathāśrayaparāvṛttau dvayabhrāntyabhāvādabhūtaparikalpasya bhūto 'rtha upalabhyate | tannimitte yathā loko hyabhrāntaḥ kāmataścaret | parāvṛttāvaparyastaḥ kāmacārī tathā patiḥ[yatiḥ]

Sanskrit only: no published translation is held for this verse.

यथा तन्निमित्ते काष्ठादावभ्रान्तो लोकः कामतश्चरति स्वतन्त्रः तथाऽश्रयपरावृत्तावपर्यस्त आर्यः कामचारि भवति स्वतन्त्रः । तदाकृतिश्च तत्रास्ति तद्भावश्च न विद्यते । तस्मादस्तित्वनास्तित्वं मायादिषु विधीयते

yathā tannimitte kāṣṭhādāvabhrānto lokaḥ kāmataścarati svatantraḥ tathā'śrayaparāvṛttāvaparyasta āryaḥ kāmacāri bhavati svatantraḥ | tadākṛtiśca tatrāsti tadbhāvaśca na vidyate | tasmādastitvanāstitvaṃ māyādiṣu vidhīyate

Sanskrit only: no published translation is held for this verse.

एष श्लोको गतार्थः । न भावस्तत्र चाभावो नाभावो भाव एव च । भावाभावाविशेषश्च मायादिषु विधीयते

eṣa śloko gatārthaḥ | na bhāvastatra cābhāvo nābhāvo bhāva eva ca | bhāvābhāvāviśeṣaśca māyādiṣu vidhīyate

Sanskrit only: no published translation is held for this verse.

तथा द्वयाभ[भास?]तात्रास्ति तद्भावश्च न विद्यते । तस्मादस्तित्वनास्तित्वं रूपादिषु विधीयते

tathā dvayābha[bhāsa?]tātrāsti tadbhāvaśca na vidyate | tasmādastitvanāstitvaṃ rūpādiṣu vidhīyate

Sanskrit only: no published translation is held for this verse.

तथात्राभूतपरिकल्पे द्वयाभासतास्ति द्वयभावश्च नास्ति । तस्मादस्तित्वनास्तित्वं रूपादिषु विधीयते ऽभूतपरिकल्पस्वभावेषु । न भावस्तत्र चाभावो नाभावो भाव एव च । भावाभावाविशेषश्च रूपादिषु विधीयते

tathātrābhūtaparikalpe dvayābhāsatāsti dvayabhāvaśca nāsti | tasmādastitvanāstitvaṃ rūpādiṣu vidhīyate 'bhūtaparikalpasvabhāveṣu | na bhāvastatra cābhāvo nābhāvo bhāva eva ca | bhāvābhāvāviśeṣaśca rūpādiṣu vidhīyate

Sanskrit only: no published translation is held for this verse.

न भावस्तत्र चाभावः । या द्वयाभासता । नाभावो भाव एव च । या द्वयतानास्तिता । भावाभावाविशेषश्च रूपादिषु विधीयते । य एव हि द्वयाभासताया भावः स एव द्वयस्याभाव इति । समारोपापवादाभ[न्त?]प्रतिषेधार्थमिष्यते । हीनयानेन यानस्य प्रतिषेधार्थमेव च

na bhāvastatra cābhāvaḥ | yā dvayābhāsatā | nābhāvo bhāva eva ca | yā dvayatānāstitā | bhāvābhāvāviśeṣaśca rūpādiṣu vidhīyate | ya eva hi dvayābhāsatāyā bhāvaḥ sa eva dvayasyābhāva iti | samāropāpavādābha[nta?]pratiṣedhārthamiṣyate | hīnayānena yānasya pratiṣedhārthameva ca

Sanskrit only: no published translation is held for this verse.

किमर्थं पुनरयं भावाभावयोरैकान्तिकत्वमविशेषश्चेष्यते । यथाक्रमम् । समारोपापवादाभ[न्तः?]प्रतिषेधार्थमिष्यते, हीनयानगमनप्रतिषेधार्थं च । अभावस्य ह्यभावत्वं विदित्वा समारोपं न करोति । भावस्य भावत्वं विदित्वापवादं न करोति । तयोश्चाविशेषं विदित्वा न भावादुद्विजते तस्मान्न हिनयानेन निर्याति । भ्रान्तेर्निमित्तं भ्रान्तिश्च रूपविज्ञप्तिरिष्यते । अरूपिणी च विज्ञप्तिरभावात्स्यान्न चेतरा

kimarthaṃ punarayaṃ bhāvābhāvayoraikāntikatvamaviśeṣaśceṣyate | yathākramam | samāropāpavādābha[ntaḥ?]pratiṣedhārthamiṣyate, hīnayānagamanapratiṣedhārthaṃ ca | abhāvasya hyabhāvatvaṃ viditvā samāropaṃ na karoti | bhāvasya bhāvatvaṃ viditvāpavādaṃ na karoti | tayoścāviśeṣaṃ viditvā na bhāvādudvijate tasmānna hinayānena niryāti | bhrānternimittaṃ bhrāntiśca rūpavijñaptiriṣyate | arūpiṇī ca vijñaptirabhāvātsyānna cetarā

Sanskrit only: no published translation is held for this verse.

रूपभ्रान्तेर्या निमित्तविज्ञप्तिः सा रूपविज्ञप्तिरिष्यते रूपाख्या । सा तु रूपभ्रान्तिररूपिणी विज्ञप्तिः । अभावाद्रूपविज्ञप्तेरितरापि न स्यादरूपिणी विज्ञप्तिः । काएरणाभावात् । मायाहस्त्याकृतिग्राहभ्रान्तेर्द्वयमुदाहृतम् । द्वयं तत्र यथा नास्ति द्वयं चैवोपलभ्यते

rūpabhrānteryā nimittavijñaptiḥ sā rūpavijñaptiriṣyate rūpākhyā | sā tu rūpabhrāntirarūpiṇī vijñaptiḥ | abhāvādrūpavijñapteritarāpi na syādarūpiṇī vijñaptiḥ | kāeraṇābhāvāt | māyāhastyākṛtigrāhabhrānterdvayamudāhṛtam | dvayaṃ tatra yathā nāsti dvayaṃ caivopalabhyate

Sanskrit only: no published translation is held for this verse.

बिम्बसंकलिकाग्राहभ्रान्तेर्द्वयमुदाहृतम् । द्वयं तत्र यथा नास्ति द्वयं चैवोपलभ्यते

bimbasaṃkalikāgrāhabhrānterdvayamudāhṛtam | dvayaṃ tatra yathā nāsti dvayaṃ caivopalabhyate

Sanskrit only: no published translation is held for this verse.

तथा भावात्तथाभावाद् भावाभाव[वा?]विशेषतः । सदसन्तो ऽथ मायाभा ये धर्मा भ्रान्तिलक्षणाः

tathā bhāvāttathābhāvād bhāvābhāva[vā?]viśeṣataḥ | sadasanto 'tha māyābhā ye dharmā bhrāntilakṣaṇāḥ

Sanskrit only: no published translation is held for this verse.

ये धर्मा भ्रान्तिलक्षणा विपक्षस्वभावास्ते सदसन्तो मायोपमाश्च । किं कारणम् । सन्तस्तथाभावादभूतपरिकल्पत्वेन । असन्तस्तथाभावात् ग्राह्यग्राहकत्वेन । तयोश्च भावाभावयोरविशिष्टत्वात् सन्तो ऽप्यसन्तो ऽपि मायापि चैवंलक्षणा स्त[त?]स्मान्मायोपमाः । तथाभावात्तथाभावात्तथाभावादलक्षणाः । मायोपमाश्च निर्दिष्टा ये धर्माः प्रातिपक्षिकाः

ye dharmā bhrāntilakṣaṇā vipakṣasvabhāvāste sadasanto māyopamāśca | kiṃ kāraṇam | santastathābhāvādabhūtaparikalpatvena | asantastathābhāvāt grāhyagrāhakatvena | tayośca bhāvābhāvayoraviśiṣṭatvāt santo 'pyasanto 'pi māyāpi caivaṃlakṣaṇā sta[ta?]smānmāyopamāḥ | tathābhāvāttathābhāvāttathābhāvādalakṣaṇāḥ | māyopamāśca nirdiṣṭā ye dharmāḥ prātipakṣikāḥ

Sanskrit only: no published translation is held for this verse.

ये ऽपि प्रातिपक्षिका धर्मा बुद्धेनोपदिष्टाः स्मृत्युपस्थानादयस्ते ऽप्यलक्षणा मायाश्च निर्दिष्टाः । किं कारणम् । तथाभावाद्यथा बालैर्गृह्यन्ते । तथाभावाद्यथा देशिताः । तथाभावाद्यथा संदर्शिता बुद्धेन गर्भावक्रमणजन्माभिनिष्क्रमणाभिसंबोध्यादयः । एवमलक्षणा अविद्यमानाश्च ख्यान्ति तस्मान्मायोपमाः । मायाराजेव चान्येन मायाराज्ञा पराजितः । ये सर्वधर्मान् पश्यन्ति निर्मारास्ते जिनात्मजाः

ye 'pi prātipakṣikā dharmā buddhenopadiṣṭāḥ smṛtyupasthānādayaste 'pyalakṣaṇā māyāśca nirdiṣṭāḥ | kiṃ kāraṇam | tathābhāvādyathā bālairgṛhyante | tathābhāvādyathā deśitāḥ | tathābhāvādyathā saṃdarśitā buddhena garbhāvakramaṇajanmābhiniṣkramaṇābhisaṃbodhyādayaḥ | evamalakṣaṇā avidyamānāśca khyānti tasmānmāyopamāḥ | māyārājeva cānyena māyārājñā parājitaḥ | ye sarvadharmān paśyanti nirmārāste jinātmajāḥ

Sanskrit only: no published translation is held for this verse.

ये प्रातिपक्षिका धर्मास्ते मायाराजस्थानीयाः संक्लेशप्रहाणे व्यवदानाधिपत्त्यात् । ये ऽपि सांक्लेशिका धर्मास्ते ऽपि राजस्थानीयाः संक्लेशनिर्वृत्तावाधिपत्यात् । अतस्तैः प्रातिपक्षिकैः संक्लेशपराजयो माया [?] राज्ञेव राज्ञः पराजयो द्रष्टव्यः । तज्ज्ञानाच्च बोधिसत्त्वा निर्मारा भवन्ति उभयपक्षे । औपम्यार्थे श्लोकः । मायास्वप्नमरीचिबिम्बसदृशाः प्रोद्भासश्रुत्कोपमा विज्ञेयोदकचन्द्रबिम्बसदृशा निर्माणतुल्याः पुनः । षट् षट् द्वौ च पुनश्च षट् द्वयमता एकैकशश्च त्रयः संस्काराः खलु तत्र तत्र कथिता बुद्धैर्विबुद्धोत्तमैः

ye prātipakṣikā dharmāste māyārājasthānīyāḥ saṃkleśaprahāṇe vyavadānādhipattyāt | ye 'pi sāṃkleśikā dharmāste 'pi rājasthānīyāḥ saṃkleśanirvṛttāvādhipatyāt | atastaiḥ prātipakṣikaiḥ saṃkleśaparājayo māyā [?] rājñeva rājñaḥ parājayo draṣṭavyaḥ | tajjñānācca bodhisattvā nirmārā bhavanti ubhayapakṣe | aupamyārthe ślokaḥ | māyāsvapnamarīcibimbasadṛśāḥ prodbhāsaśrutkopamā vijñeyodakacandrabimbasadṛśā nirmāṇatulyāḥ punaḥ | ṣaṭ ṣaṭ dvau ca punaśca ṣaṭ dvayamatā ekaikaśaśca trayaḥ saṃskārāḥ khalu tatra tatra kathitā buddhairvibuddhottamaiḥ

Sanskrit only: no published translation is held for this verse.

यत्तूक्तं भगवता मायोपमा धर्मा यावन्निर्माणोपमा इति । तत्र मायोपमा धर्माः षडाध्यात्मिकान्यायतनानि । असत्यात्मजीवादित्वे तथा प्रख्यानात् । स्वप्नोपमाः षट् बाह्यान्यायतनानि तदुपभोगस्यावस्तुकत्वात् । मरीचिकोपमौ द्वौ धर्मौ चित्तं चैतसिकाश्च भ्रान्तिकरत्वात् । प्रतिबिम्बोपमाः पुनः षडेवाध्यात्मिकान्यायतनानि पूर्वकर्मप्रतिबिम्बत्वात् । प्रतिभासोपमाः षडेव बाह्यान्यायतनान्याध्यात्मिकानामायतनानां छायाभूतत्वात् तदाधिपत्योत्पत्तितः । (म्स्अ बग्छि ६३) षट् द्वयं मताः षट् द्वयमताः । प्रतिश्रुत्कोपमा देशनाधर्माः । उदकचन्द्रबिम्बोपमाः समाधिसंनिश्रिता धर्माः समाधेरूदकस्थानीयत्वादच्छतया । निर्माणोपमाः संचिन्त्यभवोपपत्तिपरिग्रहे ऽसंक्लिष्टसर्वक्रियाप्रयोगत्वात् । ज्ञेयपर्येष्टौ श्लोकः । अभूतकल्पो न भूतो नाभूतो ऽकल्प एव च । न कल्पो नापि चाकल्पः सर्वं ज्ञेयं निरुच्यते

yattūktaṃ bhagavatā māyopamā dharmā yāvannirmāṇopamā iti | tatra māyopamā dharmāḥ ṣaḍādhyātmikānyāyatanāni | asatyātmajīvāditve tathā prakhyānāt | svapnopamāḥ ṣaṭ bāhyānyāyatanāni tadupabhogasyāvastukatvāt | marīcikopamau dvau dharmau cittaṃ caitasikāśca bhrāntikaratvāt | pratibimbopamāḥ punaḥ ṣaḍevādhyātmikānyāyatanāni pūrvakarmapratibimbatvāt | pratibhāsopamāḥ ṣaḍeva bāhyānyāyatanānyādhyātmikānāmāyatanānāṃ chāyābhūtatvāt tadādhipatyotpattitaḥ | (MSA Bagchi 63) ṣaṭ dvayaṃ matāḥ ṣaṭ dvayamatāḥ | pratiśrutkopamā deśanādharmāḥ | udakacandrabimbopamāḥ samādhisaṃniśritā dharmāḥ samādherūdakasthānīyatvādacchatayā | nirmāṇopamāḥ saṃcintyabhavopapattiparigrahe 'saṃkliṣṭasarvakriyāprayogatvāt | jñeyaparyeṣṭau ślokaḥ | abhūtakalpo na bhūto nābhūto 'kalpa eva ca | na kalpo nāpi cākalpaḥ sarvaṃ jñeyaṃ nirucyate

Sanskrit only: no published translation is held for this verse.

अभूतकल्पो यो न लोकोत्तरज्ञानानुकूलः कल्पः, न भूतो नाभूतो यस्तदनुकूलो यावन्निर्वेधभागीयः । अकल्पस्तथता लोकोत्तरं च ज्ञानम् । न कल्पो नापि चाकल्पो लोकोत्तरपृष्ठलब्धं लौकिकं ज्ञानम् । एतावच्च सर्वं ज्ञेयम् । संक्लेशव्यवदानपर्येष्टौ श्लोकद्वयम् । स्वधातुतो द्वयाभासाः साविद्याक्लेशवृत्तयः । विकल्पाः संप्रवर्तन्ते द्वयद्रव्यविवर्जिताः

abhūtakalpo yo na lokottarajñānānukūlaḥ kalpaḥ, na bhūto nābhūto yastadanukūlo yāvannirvedhabhāgīyaḥ | akalpastathatā lokottaraṃ ca jñānam | na kalpo nāpi cākalpo lokottarapṛṣṭhalabdhaṃ laukikaṃ jñānam | etāvacca sarvaṃ jñeyam | saṃkleśavyavadānaparyeṣṭau ślokadvayam | svadhātuto dvayābhāsāḥ sāvidyākleśavṛttayaḥ | vikalpāḥ saṃpravartante dvayadravyavivarjitāḥ

Sanskrit only: no published translation is held for this verse.

स्वधातुत इति भावाङ्गा [स्वबीजा?]दालयविज्ञानतः । द्वयाभासा इति ग्राह्यग्राहकाभासाः । सहाविद्यया क्लेशैश्च वृत्तिरेषां त इमे साविद्याक्लेशवृत्तयः । द्वयद्रव्यविवर्जिता इति ग्राह्यद्रव्येण ग्राहकद्रव्येण च । एवं क्लेशः पर्येषितव्यः । आलम्बनविशेषाप्तिः स्वधातुस्थानयोगतः । त एव ह्यद्वयाभासा वर्तन्ते चर्मकाण्डवत्

svadhātuta iti bhāvāṅgā [svabījā?]dālayavijñānataḥ | dvayābhāsā iti grāhyagrāhakābhāsāḥ | sahāvidyayā kleśaiśca vṛttireṣāṃ ta ime sāvidyākleśavṛttayaḥ | dvayadravyavivarjitā iti grāhyadravyeṇa grāhakadravyeṇa ca | evaṃ kleśaḥ paryeṣitavyaḥ | ālambanaviśeṣāptiḥ svadhātusthānayogataḥ | ta eva hyadvayābhāsā vartante carmakāṇḍavat

Sanskrit only: no published translation is held for this verse.

आलम्बनविशेषाप्तिरिति यो धर्मालम्बनलाभः पूर्वमुक्तः । स्वधातुस्थानयोगत इति स्वधातुर्विकल्पानां तथता तत्र स्थानं नाम्नि स्थानाच्चेतसः । योगत इत्यभ्यासात् । भावनामार्गेण त एव विकल्पा अद्वयाभासा वर्तन्ते परावृत्ताश्रयस्य । चर्मवत् काण्डवच्च । यथा हि स्वरत्वापगमात्तदेव चर्म मृदु भवति । अग्निसंतापनया तदेव काण्डं ऋजु भवति । एवं शमथविपश्यनाभावनाभ्यां चेतः प्रज्ञाविमुक्तिलाभे परावृत्ताश्रयस्य त एव विकल्पा न पुनर्द्वयाभासाः प्रवर्तन्ते । इत्येव [वं?] व्यवदानं पर्येषितव्यम् । विज्ञप्तिमात्रतापर्येष्टौ द्वौ श्लोकौ । चित्तं द्वयप्रभासं रागाद्याभासमिष्यते तद्वत् । श्रद्धाद्याभासं न तदन्यो धर्मः क्लिष्टकुशलो ऽस्ति

ālambanaviśeṣāptiriti yo dharmālambanalābhaḥ pūrvamuktaḥ | svadhātusthānayogata iti svadhāturvikalpānāṃ tathatā tatra sthānaṃ nāmni sthānāccetasaḥ | yogata ityabhyāsāt | bhāvanāmārgeṇa ta eva vikalpā advayābhāsā vartante parāvṛttāśrayasya | carmavat kāṇḍavacca | yathā hi svaratvāpagamāttadeva carma mṛdu bhavati | agnisaṃtāpanayā tadeva kāṇḍaṃ ṛju bhavati | evaṃ śamathavipaśyanābhāvanābhyāṃ cetaḥ prajñāvimuktilābhe parāvṛttāśrayasya ta eva vikalpā na punardvayābhāsāḥ pravartante | ityeva [vaṃ?] vyavadānaṃ paryeṣitavyam | vijñaptimātratāparyeṣṭau dvau ślokau | cittaṃ dvayaprabhāsaṃ rāgādyābhāsamiṣyate tadvat | śraddhādyābhāsaṃ na tadanyo dharmaḥ kliṣṭakuśalo 'sti

Sanskrit only: no published translation is held for this verse.

चित्तमात्रमेव द्वयप्रतिभासमिष्यते ग्राह्यप्रतिभासं ग्राहकप्रतिभासं च । तथा रागादिक्लेशाभासं तदेवेष्यते । श्रद्धादिकुशलधर्माभासं वा । न तु तदाभासादन्यः क्लिष्टो धर्मो ऽस्ति रागादिलक्षणः कुशलो वा श्रद्धादिलक्षणः । यथा द्वयप्रतिभासादन्यो न द्वयलक्षणः । इति चित्तं चित्राभासं चित्राकारं प्रवर्तते । तथाभासोभावाभावो न तु धर्माणां मतः

cittamātrameva dvayapratibhāsamiṣyate grāhyapratibhāsaṃ grāhakapratibhāsaṃ ca | tathā rāgādikleśābhāsaṃ tadeveṣyate | śraddhādikuśaladharmābhāsaṃ vā | na tu tadābhāsādanyaḥ kliṣṭo dharmo 'sti rāgādilakṣaṇaḥ kuśalo vā śraddhādilakṣaṇaḥ | yathā dvayapratibhāsādanyo na dvayalakṣaṇaḥ | iti cittaṃ citrābhāsaṃ citrākāraṃ pravartate | tathābhāsobhāvābhāvo na tu dharmāṇāṃ mataḥ

Sanskrit only: no published translation is held for this verse.

तत्र चित्तमेव वस्तुतच्चि[श्चि]त्राभासं प्रवर्तते । पर्यायेण रागाभासं वा द्वेषाभासं वा । तदन्यधर्माभासं वा । चित्राकारं च युगपत् श्रद्धाद्याकारम् । भासो भावाभावः क्लिष्टकुशलावस्थे चेतसि । न तु धर्माणां [क्लिष्टानां?] कुशलानां [वा?] तत्प्रतिभासव्यतिरेकेण तल्लक्षणाभावात् । लक्षणपर्येष्टौ श्लोका अष्टौ । एकनोद्देशः शेषैर्निर्देशः । लक्ष्यं च लक्षणं चैव लक्षणा च प्रभेदतः । अनुग्रहार्थं सत्त्वानां संबुद्धैः संप्रकाशिता

tatra cittameva vastutacci[ści]trābhāsaṃ pravartate | paryāyeṇa rāgābhāsaṃ vā dveṣābhāsaṃ vā | tadanyadharmābhāsaṃ vā | citrākāraṃ ca yugapat śraddhādyākāram | bhāso bhāvābhāvaḥ kliṣṭakuśalāvasthe cetasi | na tu dharmāṇāṃ [kliṣṭānāṃ?] kuśalānāṃ [vā?] tatpratibhāsavyatirekeṇa tallakṣaṇābhāvāt | lakṣaṇaparyeṣṭau ślokā aṣṭau | ekanoddeśaḥ śeṣairnirdeśaḥ | lakṣyaṃ ca lakṣaṇaṃ caiva lakṣaṇā ca prabhedataḥ | anugrahārthaṃ sattvānāṃ saṃbuddhaiḥ saṃprakāśitā

Sanskrit only: no published translation is held for this verse.

अनेनोद्देशः । सदृष्टिकं च यच्चित्तं तत्रावस्थाविकारिता । लक्ष्यमेतत्समासेन ह्यप्रमाणं प्रभेदतः

anenoddeśaḥ | sadṛṣṭikaṃ ca yaccittaṃ tatrāvasthāvikāritā | lakṣyametatsamāsena hyapramāṇaṃ prabhedataḥ

Sanskrit only: no published translation is held for this verse.

तत्र चित्तं विज्ञानं रूपं च । दृष्टिश्चैतसिका धर्माः । तत्रावस्था चित्तविप्रयुक्ता वर्माः । अविकारिता असंस्कृतमाकाशादिकं तद्विज्ञप्तेर्नित्यं तथाप्रवृत्तेः । इत्येतत् समासेन पञ्चविधं लक्ष्यं प्रभेदेनाप्रमाणम् । यथाजल्पार्थसंज्ञाया निमित्तं तस्य वासना । तस्मादप्यर्थविख्यानं परिकल्पितलक्षणं ॥ म्स ११। ॥ ३८ ॥ लक्षणं समासेन त्रिविधं परिकल्पितादिलक्षणम् । तत्र परिकल्पितलक्षणं त्रिविधं यथा जल्पार्थसंज्ञाया निमित्तं तस्य जल्पस्य वासना तस्माच्च वासनाद्यो ऽर्थः ख्याति अव्यवहारकुशलानां विनापि यथाजल्पार्थसंज्ञया । तत्र यथाभिलापमर्थसंज्ञा चैतसिकी यथाजल्पार्थसंज्ञा । तस्या यदालम्बनं तन्निमित्तमेवं [व] यच्च परिकल्प्यते यतश्च कारणाद्वासन[ना]तस्तदुभयं परिकल्पितलक्षणमत्राभिप्रेतम् । यथा नामार्थमर्थस्य नाम्नः प्रख्यानता च या । असं[सत्?] कल्पनिमित्तं हि परिकल्पितलक्षणम्

tatra cittaṃ vijñānaṃ rūpaṃ ca | dṛṣṭiścaitasikā dharmāḥ | tatrāvasthā cittaviprayuktā varmāḥ | avikāritā asaṃskṛtamākāśādikaṃ tadvijñapternityaṃ tathāpravṛtteḥ | ityetat samāsena pañcavidhaṃ lakṣyaṃ prabhedenāpramāṇam | yathājalpārthasaṃjñāyā nimittaṃ tasya vāsanā | tasmādapyarthavikhyānaṃ parikalpitalakṣaṇaṃ || Msa 11. || 38 || lakṣaṇaṃ samāsena trividhaṃ parikalpitādilakṣaṇam | tatra parikalpitalakṣaṇaṃ trividhaṃ yathā jalpārthasaṃjñāyā nimittaṃ tasya jalpasya vāsanā tasmācca vāsanādyo 'rthaḥ khyāti avyavahārakuśalānāṃ vināpi yathājalpārthasaṃjñayā | tatra yathābhilāpamarthasaṃjñā caitasikī yathājalpārthasaṃjñā | tasyā yadālambanaṃ tannimittamevaṃ [va] yacca parikalpyate yataśca kāraṇādvāsana[nā]tastadubhayaṃ parikalpitalakṣaṇamatrābhipretam | yathā nāmārthamarthasya nāmnaḥ prakhyānatā ca yā | asaṃ[sat?] kalpanimittaṃ hi parikalpitalakṣaṇam

Sanskrit only: no published translation is held for this verse.

अपरपर्यायो यथा नाम चार्थश्च यथानामार्थमर्थस्य नाम्नश्च प्रख्यानता यथा नामार्थप्रख्यानता । यदि यथा नामार्थः ख्याति यथार्थं वा नाम इत्येतदभूतपरिकल्पालम्बनं परिकल्पितलक्षणं एतावद्धि परिकल्प्यते यदुत नाम वा अर्थो वेति । त्रिविधत्रिविधाभासो ग्राह्यग्राहकलक्षणः । अभूतपरिकल्पो हि परतन्त्रस्य लक्षणम्

aparaparyāyo yathā nāma cārthaśca yathānāmārthamarthasya nāmnaśca prakhyānatā yathā nāmārthaprakhyānatā | yadi yathā nāmārthaḥ khyāti yathārthaṃ vā nāma ityetadabhūtaparikalpālambanaṃ parikalpitalakṣaṇaṃ etāvaddhi parikalpyate yaduta nāma vā artho veti | trividhatrividhābhāso grāhyagrāhakalakṣaṇaḥ | abhūtaparikalpo hi paratantrasya lakṣaṇam

Sanskrit only: no published translation is held for this verse.

त्रिविधस्त्रिविधश्चाभासो ऽस्येति त्रिविधत्रिविधाभासः । तत्र त्रिविधाभासः पदाभासो ऽर्थाभासो देहाभासश्च । पुनस्त्रिविधाभासो मनौद्ग्रहविकल्पाभासः । मनो यत् क्लिष्टं सर्वदा । उद्ग्रहः पञ्च विज्ञानकायाः । विकल्पो मनोविज्ञानम् । तत्र प्रथमत्रि[मस्त्रि-?] विधाभासो ग्राह्यलक्षणः । द्वितीयो ग्राहकलक्षणः । इत्ययमभूतपरिकल्पः परतन्त्रस्य लक्षणम् । अभावभावता या च भावाभावसमानता । अशान्तशान्ताकल्पा च परिनिष्पन्नलक्षणम्

trividhastrividhaścābhāso 'syeti trividhatrividhābhāsaḥ | tatra trividhābhāsaḥ padābhāso 'rthābhāso dehābhāsaśca | punastrividhābhāso manaudgrahavikalpābhāsaḥ | mano yat kliṣṭaṃ sarvadā | udgrahaḥ pañca vijñānakāyāḥ | vikalpo manovijñānam | tatra prathamatri[mastri-?] vidhābhāso grāhyalakṣaṇaḥ | dvitīyo grāhakalakṣaṇaḥ | ityayamabhūtaparikalpaḥ paratantrasya lakṣaṇam | abhāvabhāvatā yā ca bhāvābhāvasamānatā | aśāntaśāntākalpā ca pariniṣpannalakṣaṇam

Sanskrit only: no published translation is held for this verse.

परिनिष्पन्नलक्षणं पुनस्तथता सा ह्यभावता च, सर्वधर्माणां परिकल्पिताना [नां?] भावता च तदभावत्वेन भावात् । भावाभावसमानता च तयोर्भावाभावयोरभिन्नत्वात् । अशान्ता चागन्तुकैरुपक्लेशैः, शान्ता च प्रकृतिपरिशुद्धत्वात् । अविकल्पा च विकल्पागोचरत्वात् निष्प्रपञ्चतया । एतेन त्रिविधं लक्षणं तथतायाः परिदीपितं स्वलक्षणं क्ले[सं]शव्यवदानलक्षणमविकल्पलक्षणं च उक्तं त्रिविधं लक्षणम् । निष्प[ष्य]न्दधर्ममालम्ब्य योनिशो मनसिक्रिया । चित्तस्य धातौ स्थानं च सदसत्तार्थपश्यना

pariniṣpannalakṣaṇaṃ punastathatā sā hyabhāvatā ca, sarvadharmāṇāṃ parikalpitānā [nāṃ?] bhāvatā ca tadabhāvatvena bhāvāt | bhāvābhāvasamānatā ca tayorbhāvābhāvayorabhinnatvāt | aśāntā cāgantukairupakleśaiḥ, śāntā ca prakṛtipariśuddhatvāt | avikalpā ca vikalpāgocaratvāt niṣprapañcatayā | etena trividhaṃ lakṣaṇaṃ tathatāyāḥ paridīpitaṃ svalakṣaṇaṃ kle[saṃ]śavyavadānalakṣaṇamavikalpalakṣaṇaṃ ca uktaṃ trividhaṃ lakṣaṇam | niṣpa[ṣya]ndadharmamālambya yoniśo manasikriyā | cittasya dhātau sthānaṃ ca sadasattārthapaśyanā

Sanskrit only: no published translation is held for this verse.

लक्षणा पुनः पञ्चविधा योगभूमिः । आधार आधानमादर्श आलोक आश्रयश्च । तत्राधारो निष्प[ष्य]न्दधर्मो यो बुद्धेनाधिगमो देशितः स तस्याधिगमस्य निष्प[ष्य]न्दः । आधानं योनिशो मनस्कारः । आदर्शः चित्तस्य धातौ स्थानं समाधिर्यदेतत्पूर्वं नाम्नि स्थानमुक्तम् । आलोकः सदसत्त्वेनार्थदर्शनं लोकोत्तरा प्रज्ञा, तथा[तया] सच्च सतो यथाभूतं पश्यत्यसच्चासतः । आश्रय आश्रयपरावृत्तिः । समतागमनं तस्मिन्नार्यगोत्रं हि निर्मलम् । समं विशिष्टमन्यूनानधिकं लक्षणा मता

lakṣaṇā punaḥ pañcavidhā yogabhūmiḥ | ādhāra ādhānamādarśa āloka āśrayaśca | tatrādhāro niṣpa[ṣya]ndadharmo yo buddhenādhigamo deśitaḥ sa tasyādhigamasya niṣpa[ṣya]ndaḥ | ādhānaṃ yoniśo manaskāraḥ | ādarśaḥ cittasya dhātau sthānaṃ samādhiryadetatpūrvaṃ nāmni sthānamuktam | ālokaḥ sadasattvenārthadarśanaṃ lokottarā prajñā, tathā[tayā] sacca sato yathābhūtaṃ paśyatyasaccāsataḥ | āśraya āśrayaparāvṛttiḥ | samatāgamanaṃ tasminnāryagotraṃ hi nirmalam | samaṃ viśiṣṭamanyūnānadhikaṃ lakṣaṇā matā

Sanskrit only: no published translation is held for this verse.

समतागमनमनास्रवधातौ आर्यगोत्रे तदन्यैरार्यैः । तच्च निर्मलमार्यगोत्रं बुद्धानाम् । समं विमुक्तिसमता श्रावकप्रत्येकबुद्धैः । विशिष्टं पञ्चभिर्विशेषैः । विशुद्धिविशेषेण सवासनक्लेशविशुद्धितः । परिशुद्धिविशेषेण क्षेत्रपरिशुद्धितः । कायविशेषण धर्मकायतया । संभोगविशेषेण पर्षन्मण्डलेष्वविच्छिन्नधर्मसंभोगप्रवर्तनतः । कर्मविशेषेण च तुषितभवनवासादिनिर्माणैः सत्त्वार्थक्रियानुष्ठानतः । न च तस्योनत्वं संक्लेशपक्षनिरोधे नाधिकत्वं व्यवदानपक्षोत्पाद इत्येषा पञ्चविधा योगभूमिर्लक्षणा । तया हि तल्लक्ष्यं लक्षणं च लक्ष्यते । विमुक्तिपर्येष्टौ षट्श्लोकाः । पदार्थदेहनिर्भासपरावृत्तिरनास्रवः । धातुर्बीजपरावृत्तेः स च सर्वत्रगाश्रयः

samatāgamanamanāsravadhātau āryagotre tadanyairāryaiḥ | tacca nirmalamāryagotraṃ buddhānām | samaṃ vimuktisamatā śrāvakapratyekabuddhaiḥ | viśiṣṭaṃ pañcabhirviśeṣaiḥ | viśuddhiviśeṣeṇa savāsanakleśaviśuddhitaḥ | pariśuddhiviśeṣeṇa kṣetrapariśuddhitaḥ | kāyaviśeṣaṇa dharmakāyatayā | saṃbhogaviśeṣeṇa parṣanmaṇḍaleṣvavicchinnadharmasaṃbhogapravartanataḥ | karmaviśeṣeṇa ca tuṣitabhavanavāsādinirmāṇaiḥ sattvārthakriyānuṣṭhānataḥ | na ca tasyonatvaṃ saṃkleśapakṣanirodhe nādhikatvaṃ vyavadānapakṣotpāda ityeṣā pañcavidhā yogabhūmirlakṣaṇā | tayā hi tallakṣyaṃ lakṣaṇaṃ ca lakṣyate | vimuktiparyeṣṭau ṣaṭślokāḥ | padārthadehanirbhāsaparāvṛttiranāsravaḥ | dhāturbījaparāvṛtteḥ sa ca sarvatragāśrayaḥ

Sanskrit only: no published translation is held for this verse.

बीजपरावृत्तेरित्यालयविज्ञानपरावृत्तितः । पदार्थदेहनिर्भासानां विज्ञानानां परावृत्तिरनास्रवो धातुर्विमुक्तिः । स च सर्वत्रगाश्रयः श्रावकप्रत्येकबुद्धगतः । चतुर्धा वशितावृतेर्मनसश्चोद्ग्रहस्य च । विकल्पस्याविकल्पे हि क्षेत्रे ज्ञाने ऽथ कर्मणि

bījaparāvṛtterityālayavijñānaparāvṛttitaḥ | padārthadehanirbhāsānāṃ vijñānānāṃ parāvṛttiranāsravo dhāturvimuktiḥ | sa ca sarvatragāśrayaḥ śrāvakapratyekabuddhagataḥ | caturdhā vaśitāvṛtermanasaścodgrahasya ca | vikalpasyāvikalpe hi kṣetre jñāne 'tha karmaṇi

Sanskrit only: no published translation is held for this verse.

मनसश्चोद्ग्रहस्य च विकल्पस्य चावृत्तेः परावृत्तेरित्यर्थः । चतुर्धा वशिता भवति यथाक्रममविकल्पे क्षेत्रे ज्ञानकर्मणोश्च । अचलादित्रिभूमौ च वशिता सा चतुर्विधा । द्विधैकस्यां तदन्यस्यामेकैका वशिता मता

manasaścodgrahasya ca vikalpasya cāvṛtteḥ parāvṛtterityarthaḥ | caturdhā vaśitā bhavati yathākramamavikalpe kṣetre jñānakarmaṇośca | acalāditribhūmau ca vaśitā sā caturvidhā | dvidhaikasyāṃ tadanyasyāmekaikā vaśitā matā

Sanskrit only: no published translation is held for this verse.

सा चेयमचलादिभूमित्रये चतुर्धा वशिता वेदितव्या । एकस्यामचलायां भूमौ द्विविधा । अविकल्पे न [?] चानभिसंस्कारनिर्विकल्पत्वात् । क्षेत्रे च बुद्धक्षेत्रपरिशोधनात् । तदन्यस्यां भूमावेकै[वै]का वशिता साधुमत्यां ज्ञानवशिता प्रतिसंविद्विशेषलाभात् । धर्ममेघायां कर्मण्यभिज्ञाकर्मणामव्याघातात् । विदित्वा नैरात्म्यं द्विविधमिह धीमान्भवगतं समं तच्च ज्ञात्वा प्रविशति स तत्त्वं ग्रहणतः । ततस्तत्र स्थानान्मनस इह न ख्याति तदपि तदख्यानं मुक्तिः परम उपलम्भस्य विगमः

sā ceyamacalādibhūmitraye caturdhā vaśitā veditavyā | ekasyāmacalāyāṃ bhūmau dvividhā | avikalpe na [?] cānabhisaṃskāranirvikalpatvāt | kṣetre ca buddhakṣetrapariśodhanāt | tadanyasyāṃ bhūmāvekai[vai]kā vaśitā sādhumatyāṃ jñānavaśitā pratisaṃvidviśeṣalābhāt | dharmameghāyāṃ karmaṇyabhijñākarmaṇāmavyāghātāt | viditvā nairātmyaṃ dvividhamiha dhīmānbhavagataṃ samaṃ tacca jñātvā praviśati sa tattvaṃ grahaṇataḥ | tatastatra sthānānmanasa iha na khyāti tadapi tadakhyānaṃ muktiḥ parama upalambhasya vigamaḥ

Sanskrit only: no published translation is held for this verse.

द्विविधं नैरात्म्यं विदित्वा भवत्रयगतं बोधिसत्त्वः समं तच्च ज्ञात्वा द्विविधनैरात्म्यं परिकल्पितपुद्गलाभावात् परिकल्पितधर्माभावात्, न तु सर्व थैवाभावतः । तत्त्वं प्रविशति विज्ञप्तिमात्रतां ग्रहणतो ग्रहणमात्रमेतदिति । ततस्तत्र तत्त्वविज्ञप्तिमात्रस्थानान्मनसस्तदपि तत्त्वं न ख्याति विज्ञप्तिमात्रम् । तदख्यानं मुक्तिः परम उपलम्भस्य यो विगमः पुद्गलधर्मयोरनुपलम्भात् । आधारे संभारादाधाने सति हि नाममात्रंपश्यन् । पश्यति हि नाममात्रं तत्पश्यंस्तच्च नैव पश्यति भूयः

dvividhaṃ nairātmyaṃ viditvā bhavatrayagataṃ bodhisattvaḥ samaṃ tacca jñātvā dvividhanairātmyaṃ parikalpitapudgalābhāvāt parikalpitadharmābhāvāt, na tu sarva thaivābhāvataḥ | tattvaṃ praviśati vijñaptimātratāṃ grahaṇato grahaṇamātrametaditi | tatastatra tattvavijñaptimātrasthānānmanasastadapi tattvaṃ na khyāti vijñaptimātram | tadakhyānaṃ muktiḥ parama upalambhasya yo vigamaḥ pudgaladharmayoranupalambhāt | ādhāre saṃbhārādādhāne sati hi nāmamātraṃpaśyan | paśyati hi nāmamātraṃ tatpaśyaṃstacca naiva paśyati bhūyaḥ

Sanskrit only: no published translation is held for this verse.

अपर[रः]पर्यायः आधार इति श्रुतौ संभारादिति संभृतसंभारस्य पूर्वसंभारलाभात् । आधाने सतीति योनिशोमनस्कारे नाममात्रं पश्यन्नित्यभिलापमात्रमर्थरहितं । पश्यति हि नाममात्रमिति विज्ञप्तिमात्रं नाम अरूपिणश्चत्वारः स्कन्धा इति कृत्वा तत्पश्यंस्तदपि भूयो नैव पश्यत्यर्थाभावे तद्विज्ञप्त्यदर्शनादित्ययमनुपलम्भो विमुक्तिः । चित्तमेतत्सदौष्ठुल्यमात्मदर्शनपाशितम् । प्रवर्त्तते निवृत्तिस्तु तदध्यात्मस्थितेर्मता

apara[raḥ]paryāyaḥ ādhāra iti śrutau saṃbhārāditi saṃbhṛtasaṃbhārasya pūrvasaṃbhāralābhāt | ādhāne satīti yoniśomanaskāre nāmamātraṃ paśyannityabhilāpamātramartharahitaṃ | paśyati hi nāmamātramiti vijñaptimātraṃ nāma arūpiṇaścatvāraḥ skandhā iti kṛtvā tatpaśyaṃstadapi bhūyo naiva paśyatyarthābhāve tadvijñaptyadarśanādityayamanupalambho vimuktiḥ | cittametatsadauṣṭhulyamātmadarśanapāśitam | pravarttate nivṛttistu tadadhyātmasthitermatā

Sanskrit only: no published translation is held for this verse.

अपर[रः] प्रकारः चित्तमेतत्सदौष्ठुल्यं प्रवर्तते जन्मसु । आत्मदर्शनपाशितमिति दौष्ठुल्यकारणं दर्शयति । द्विविधेनात्मदर्शनेन पाशितम् अतः सदौष्ठुल्यमिति । निवृत्तिस्तु तदध्यात्मस्थितेरिति तस्य चित्तस्य चित्त एवावस्थानादालम्बनानुपलम्भतः । निःस्वभावतापर्येष्टौ श्लोकद्वयम् । स्वयं स्वेनात्मनाभावात्स्वभावे चानवस्थितेः । ग्राहवत्तदा[द]भावाच्च निःस्वभावत्वमिष्यते

apara[raḥ] prakāraḥ cittametatsadauṣṭhulyaṃ pravartate janmasu | ātmadarśanapāśitamiti dauṣṭhulyakāraṇaṃ darśayati | dvividhenātmadarśanena pāśitam ataḥ sadauṣṭhulyamiti | nivṛttistu tadadhyātmasthiteriti tasya cittasya citta evāvasthānādālambanānupalambhataḥ | niḥsvabhāvatāparyeṣṭau ślokadvayam | svayaṃ svenātmanābhāvātsvabhāve cānavasthiteḥ | grāhavattadā[da]bhāvācca niḥsvabhāvatvamiṣyate

Sanskrit only: no published translation is held for this verse.

अनुत्पत्तिधर्मक्षान्तिपर्येष्टावार्या । आदौ तत्त्वे ऽन्यत्वे स्वलक्षणे स्वयमथान्यथाभावे । संक्लेश ऽथ विशेषे क्षान्तिरनुत्पत्तिधर्मोक्ता

anutpattidharmakṣāntiparyeṣṭāvāryā | ādau tattve 'nyatve svalakṣaṇe svayamathānyathābhāve | saṃkleśa 'tha viśeṣe kṣāntiranutpattidharmoktā

Sanskrit only: no published translation is held for this verse.

अष्टास्वनुत्पत्तिधर्मेषु क्षान्तिरनुत्पत्तिकधर्मक्षान्तिः । आदौ संसारस्य, न हि तस्याद्युत्पत्तिरस्ति । तत्त्वे ऽन्यत्वे च पूर्वपश्चिमानां, न हि संसारे तेषामेव धर्माणामुत्पत्तिः, ये पूर्वमुत्पन्नास्तद्भावेनानुत्पत्तेः । न चान्येषाम्, अपूर्वप्रकारानुत्पत्तेः । स्वलक्षणे परिकल्पितस्य स्वभावस्य, न हि तस्य कदाचिदुत्पत्तिः । स्वयमनुत्पत्तौ परतन्त्रस्य । अन्यथाभावे परिनिष्पन्नस्य न हि तदन्यथाभावस्योत्पत्तिरस्ति । संक्लेशे प्रहीणे, न हि क्षयज्ञानलाभिनः संक्लेशस्योत्पत्तिं पुनः पश्यन्ति । विशेषे बुद्धधर्मकायानाम्, न हि तेषां विशेषोत्पत्तिरस्ति । इत्येतेष्वनुत्पत्तिधर्मेषु क्षान्तिरनुत्पत्तिधर्मोक्ता । एकयानतापर्येष्टौ सप्त श्लोकाः । धर्मे नैरात्म्यमुक्तीनां तुल्यत्वात् गोत्रभेदतः । द्व्याशयाप्तेश्च निर्माणात्पर्यन्तादेकयानता

aṣṭāsvanutpattidharmeṣu kṣāntiranutpattikadharmakṣāntiḥ | ādau saṃsārasya, na hi tasyādyutpattirasti | tattve 'nyatve ca pūrvapaścimānāṃ, na hi saṃsāre teṣāmeva dharmāṇāmutpattiḥ, ye pūrvamutpannāstadbhāvenānutpatteḥ | na cānyeṣām, apūrvaprakārānutpatteḥ | svalakṣaṇe parikalpitasya svabhāvasya, na hi tasya kadācidutpattiḥ | svayamanutpattau paratantrasya | anyathābhāve pariniṣpannasya na hi tadanyathābhāvasyotpattirasti | saṃkleśe prahīṇe, na hi kṣayajñānalābhinaḥ saṃkleśasyotpattiṃ punaḥ paśyanti | viśeṣe buddhadharmakāyānām, na hi teṣāṃ viśeṣotpattirasti | ityeteṣvanutpattidharmeṣu kṣāntiranutpattidharmoktā | ekayānatāparyeṣṭau sapta ślokāḥ | dharme nairātmyamuktīnāṃ tulyatvāt gotrabhedataḥ | dvyāśayāpteśca nirmāṇātparyantādekayānatā

Sanskrit only: no published translation is held for this verse.

किमर्थं पुनस्तेन तेनाभिप्रायेणैकयानता बुद्धैर्देशिता । आकर्षणार्थमेकेषामन्यसंघारणाय च । देशितानियतानां हि संबुद्धैरेकयानता

kimarthaṃ punastena tenābhiprāyeṇaikayānatā buddhairdeśitā | ākarṣaṇārthamekeṣāmanyasaṃghāraṇāya ca | deśitāniyatānāṃ hi saṃbuddhairekayānatā

Sanskrit only: no published translation is held for this verse.

आकर्षणार्थमेकेषामिति ये श्रावकगोत्रा अनियताः । अन्येषां च संधारणाय, ये बोधिसत्त्वगोत्रा अनियताः । श्रावको ऽनियतो द्वेधा दृष्टादृष्टार्थयानतः । दृष्टार्थो वीतरागश्चावीतरागो ऽप्यसौ मृदुः

ākarṣaṇārthamekeṣāmiti ye śrāvakagotrā aniyatāḥ | anyeṣāṃ ca saṃdhāraṇāya, ye bodhisattvagotrā aniyatāḥ | śrāvako 'niyato dvedhā dṛṣṭādṛṣṭārthayānataḥ | dṛṣṭārtho vītarāgaścāvītarāgo 'pyasau mṛduḥ

Sanskrit only: no published translation is held for this verse.

श्रावकः पुनरनियतो द्विविधो वेदितव्यः । दृष्टार्थयानश्च यो दृष्टसत्यो महायानेन निर्याति, अदृष्टार्थयानश्च यो न दृष्टसत्यो महायानेन निर्याति । दृष्टार्थः पुनर्वीतरागश्चावीतरागश्च कामेभ्यः । असौ च मृदुर्धन्धगतिको वेदितव्यः । यो दृष्टार्थो द्विविध उक्तः । तौ च लब्धार्यमार्गस्य भवेषु परिणामनात् । अचिन्त्यपरिणामिक्या उपपत्त्या समन्वितौ

śrāvakaḥ punaraniyato dvividho veditavyaḥ | dṛṣṭārthayānaśca yo dṛṣṭasatyo mahāyānena niryāti, adṛṣṭārthayānaśca yo na dṛṣṭasatyo mahāyānena niryāti | dṛṣṭārthaḥ punarvītarāgaścāvītarāgaśca kāmebhyaḥ | asau ca mṛdurdhandhagatiko veditavyaḥ | yo dṛṣṭārtho dvividha uktaḥ | tau ca labdhāryamārgasya bhaveṣu pariṇāmanāt | acintyapariṇāmikyā upapattyā samanvitau

Sanskrit only: no published translation is held for this verse.

तौ च दृष्टार्थौ लब्धस्यार्यमार्गस्य भवेषु परिणामनात् अचिन्त्यपरिणामिक्या उपपत्त्या समन्वागतौ वेदितव्यौ । अचिन्त्यो हि तस्यार्यमार्गस्य परिणाम उपपत्तौ तस्मादचिन्त्यपरिणामिकी । प्रणिधानवशादेक उपपत्तिं प्रपद्यते । एको ऽनागामितायोगान्निर्माणैः प्रतिपद्यते

tau ca dṛṣṭārthau labdhasyāryamārgasya bhaveṣu pariṇāmanāt acintyapariṇāmikyā upapattyā samanvāgatau veditavyau | acintyo hi tasyāryamārgasya pariṇāma upapattau tasmādacintyapariṇāmikī | praṇidhānavaśādeka upapattiṃ prapadyate | eko 'nāgāmitāyogānnirmāṇaiḥ pratipadyate

Sanskrit only: no published translation is held for this verse.

तयोश्चैकः प्रणिधानवशादुपपत्तिं गृह्णाति यथेष्टं यो न वीतरागः । एको ऽनागामितायोगबलेन निर्माणैः । निर्वाणाभिरतत्वाच्च तौ धन्धगतिकौ मतौ । पुनः पुनः स्वचित्तस्य समुदाचारयोगतः

tayoścaikaḥ praṇidhānavaśādupapattiṃ gṛhṇāti yatheṣṭaṃ yo na vītarāgaḥ | eko 'nāgāmitāyogabalena nirmāṇaiḥ | nirvāṇābhiratatvācca tau dhandhagatikau matau | punaḥ punaḥ svacittasya samudācārayogataḥ

Sanskrit only: no published translation is held for this verse.

तौ च निर्वाणाभिरतत्वादुभावपि धन्धगतिकौ मतौ चिरतरेणाभिसंबोधतः । स्वस्य श्रावकचित्तस्य निर्वित्सहगतस्याभीक्ष्णं समुदाचारात् । सो ऽकृतार्थो ह्यबुद्धे च जातो ध्यानार्थमुद्यतः । निर्माणार्थी तदाश्रित्य परां बोधिमवाप्नुते

tau ca nirvāṇābhiratatvādubhāvapi dhandhagatikau matau ciratareṇābhisaṃbodhataḥ | svasya śrāvakacittasya nirvitsahagatasyābhīkṣṇaṃ samudācārāt | so 'kṛtārtho hyabuddhe ca jāto dhyānārthamudyataḥ | nirmāṇārthī tadāśritya parāṃ bodhimavāpnute

Sanskrit only: no published translation is held for this verse.

यः पुनरसाववीतरागो दृष्टसत्यः सो ऽकृतार्थः शैक्षो भवन् बुद्धरहिते काले जातो ध्यानार्थमुद्यतो भवति निर्माणार्थी । तच्च निर्माणमाश्रित्य क्रमेण परां बोधिं प्राप्नोति । तमवस्थात्रयस्थं संधायोक्तं भगवता श्रीमालासूत्रे । श्रावको भूत्वा प्रत्येकबुद्धो भवति पुनश्च बुद्ध इति । अग्निदृष्टान्ते[न] च यदा च पूर्वं दृष्टसत्यावस्था[स्थो] यदा बुद्धरहिते काले स्वयं ध्यानमुत्पाद्य जन्मकायं त्यक्त्वा निर्माणकायं गृह्णाति यदा च परां बोधिं प्राप्नोतीति । विद्यास्थानपर्येष्टौ श्लोकः । विद्यास्थाने पञ्चविधे योगमकृत्वा सर्वज्ञत्वं नैति कथंचित्परमार्यः । इत्यन्येषां निग्रहणानुग्रहणाय स्वाज्ञार्थं वा तत्र करोत्येव स योगम्

yaḥ punarasāvavītarāgo dṛṣṭasatyaḥ so 'kṛtārthaḥ śaikṣo bhavan buddharahite kāle jāto dhyānārthamudyato bhavati nirmāṇārthī | tacca nirmāṇamāśritya krameṇa parāṃ bodhiṃ prāpnoti | tamavasthātrayasthaṃ saṃdhāyoktaṃ bhagavatā śrīmālāsūtre | śrāvako bhūtvā pratyekabuddho bhavati punaśca buddha iti | agnidṛṣṭānte[na] ca yadā ca pūrvaṃ dṛṣṭasatyāvasthā[stho] yadā buddharahite kāle svayaṃ dhyānamutpādya janmakāyaṃ tyaktvā nirmāṇakāyaṃ gṛhṇāti yadā ca parāṃ bodhiṃ prāpnotīti | vidyāsthānaparyeṣṭau ślokaḥ | vidyāsthāne pañcavidhe yogamakṛtvā sarvajñatvaṃ naiti kathaṃcitparamāryaḥ | ityanyeṣāṃ nigrahaṇānugrahaṇāya svājñārthaṃ vā tatra karotyeva sa yogam

Sanskrit only: no published translation is held for this verse.

पञ्चविधं विद्यास्थानम् । अध्यात्मविद्या हेतुविद्या शब्दविद्या चिकित्साविद्या शिल्पकर्मस्थानविद्या च । तद्यदर्थं बोधिसत्त्वेन पर्येषितव्यं तद्दर्शयति । सर्वज्ञत्वप्राप्त्यर्थमभेदेन सर्वम् । भेदेन पुनर्हेतुविद्यां शब्दविद्यां च पर्येषते निग्रहार्थमन्येषां तदनधिमुक्तानाम् । चिकित्साविद्यां शिल्पकर्मस्थानविद्यां चान्येषामनुग्रहार्थं तदर्थिकानाम् । अध्यात्मविद्यां स्वयमाज्ञार्थम् । धातुपुष्टिपर्येष्टौ त्रयोदश श्लोकाः । पारमितापरिपूरणार्थं ये पारमिताप्रतिसंयुक्ता एवं मनसिकारा धातुपुष्टये भवन्ति त एताभिर्गाथाभिर्देशिताः । हेतूपलब्धितुष्टिश्च निश्रयतदनुस्मृतिः । साधारणफलेच्छा च यथाबोधाधिमुच्यना

pañcavidhaṃ vidyāsthānam | adhyātmavidyā hetuvidyā śabdavidyā cikitsāvidyā śilpakarmasthānavidyā ca | tadyadarthaṃ bodhisattvena paryeṣitavyaṃ taddarśayati | sarvajñatvaprāptyarthamabhedena sarvam | bhedena punarhetuvidyāṃ śabdavidyāṃ ca paryeṣate nigrahārthamanyeṣāṃ tadanadhimuktānām | cikitsāvidyāṃ śilpakarmasthānavidyāṃ cānyeṣāmanugrahārthaṃ tadarthikānām | adhyātmavidyāṃ svayamājñārtham | dhātupuṣṭiparyeṣṭau trayodaśa ślokāḥ | pāramitāparipūraṇārthaṃ ye pāramitāpratisaṃyuktā evaṃ manasikārā dhātupuṣṭaye bhavanti ta etābhirgāthābhirdeśitāḥ | hetūpalabdhituṣṭiśca niśrayatadanusmṛtiḥ | sādhāraṇaphalecchā ca yathābodhādhimucyanā

Sanskrit only: no published translation is held for this verse.

चतुर्विधानुभावेन प्रीयणाखेदनिश्चयः । विपक्षे प्रतिपक्षे च प्रतिपत्तिश्चतुर्विधा

caturvidhānubhāvena prīyaṇākhedaniścayaḥ | vipakṣe pratipakṣe ca pratipattiścaturvidhā

Sanskrit only: no published translation is held for this verse.

अनुभावप्रीयणामनसिकारश्चतुर्विधानुभावदर्शनप्रीयणा, चतुर्विधानुभावो विपक्षप्रहाणं, संभारपरिपाकः, स्वपरानुग्रह, आयत्यां विपाकफलनिःष्यन्दफलदानता च । सत्त्वस्वबुद्धधर्मपरिपाकमारभ्याखेदनिश्चयमनसिकारः, सर्वसत्त्वविप्रतिपत्तिभिः सर्वदुःखापत्तिपातैश्चाखेदनिश्चयाभिसंस्करणात् परमबोधिप्राप्तये । विपक्षे पत्तिपक्षे च चतुर्विधप्रतिपत्तिमनसिकारः । दानादिविपक्षाणां च मात्सर्यादीनां प्रतिदेशना, प्रतिपक्षाणां च दानादीनामनुमोदना, तदधिपतेयधर्मदेशनार्थं च बुद्धाध्येषणा । तासां च बोधौ परिणामना । प्रसादः संप्रतीक्षा च दानच्छन्दः परत्र च । संनाहः प्रणिधानं च अभिनन्दमनस्क्रिया

anubhāvaprīyaṇāmanasikāraścaturvidhānubhāvadarśanaprīyaṇā, caturvidhānubhāvo vipakṣaprahāṇaṃ, saṃbhāraparipākaḥ, svaparānugraha, āyatyāṃ vipākaphalaniḥṣyandaphaladānatā ca | sattvasvabuddhadharmaparipākamārabhyākhedaniścayamanasikāraḥ, sarvasattvavipratipattibhiḥ sarvaduḥkhāpattipātaiścākhedaniścayābhisaṃskaraṇāt paramabodhiprāptaye | vipakṣe pattipakṣe ca caturvidhapratipattimanasikāraḥ | dānādivipakṣāṇāṃ ca mātsaryādīnāṃ pratideśanā, pratipakṣāṇāṃ ca dānādīnāmanumodanā, tadadhipateyadharmadeśanārthaṃ ca buddhādhyeṣaṇā | tāsāṃ ca bodhau pariṇāmanā | prasādaḥ saṃpratīkṣā ca dānacchandaḥ paratra ca | saṃnāhaḥ praṇidhānaṃ ca abhinandamanaskriyā

Sanskrit only: no published translation is held for this verse.

अधिमुक्तिबलाधानतामारभ्य पारमिताधिपतेयधर्मार्थे च प्रसादमनसिकारः । धर्मपर्येष्टिमारभ्य संप्रतीच्छनमनसिकारस्तस्यैव धर्मस्याप्रतिवहनयोगेन परिग्रहणतया । द[दे]शनामारभ्य दानच्छन्दमनसिकारो धर्मस्यार्थस्य च प्रकाशनार्थं परेषाम् । प्रतिपत्तिमारभ्य संनाहमनसिकारो दानादिपरिपूरिये संनहनात् । प्रणिधानमनसिकारस्तत्परिपूरिप्राप्तये[प्रत्यये] समवधानार्थं । अभिनन्दमनसिकारो ऽहो बत दानादिप्रतिपत्त्या सम्यक् संपादयेयमित्यभिनन्दनात् । एत एव त्रयो मनसिकारा अववादानुशासन्यां योजयितव्याः । उपायोपसंहितकर्ममनसिकारः संकल्पैः सर्वप्रकारदानादिप्रयोगमनसिकरणात् । शक्तिलाभे सदौत्सुक्यं दानादौ षड्विधेद्यनम् । परिपाके ऽथ पूजायां सेवायामनुकम्पना

adhimuktibalādhānatāmārabhya pāramitādhipateyadharmārthe ca prasādamanasikāraḥ | dharmaparyeṣṭimārabhya saṃpratīcchanamanasikārastasyaiva dharmasyāprativahanayogena parigrahaṇatayā | da[de]śanāmārabhya dānacchandamanasikāro dharmasyārthasya ca prakāśanārthaṃ pareṣām | pratipattimārabhya saṃnāhamanasikāro dānādiparipūriye saṃnahanāt | praṇidhānamanasikārastatparipūriprāptaye[pratyaye] samavadhānārthaṃ | abhinandamanasikāro 'ho bata dānādipratipattyā samyak saṃpādayeyamityabhinandanāt | eta eva trayo manasikārā avavādānuśāsanyāṃ yojayitavyāḥ | upāyopasaṃhitakarmamanasikāraḥ saṃkalpaiḥ sarvaprakāradānādiprayogamanasikaraṇāt | śaktilābhe sadautsukyaṃ dānādau ṣaḍvidhedyanam | paripāke 'tha pūjāyāṃ sevāyāmanukampanā

Sanskrit only: no published translation is held for this verse.

औत्सुक्यमनसिकारश्चतुर्विधः । शक्तिलाभे च दानादौ षड्विधे दानदाने यावत् प्रज्ञादाने । एवं शीलादिषु षड्विधेषु । पारमिताभिरेव संग्रहवस्तुप्रयोगेण सत्त्वपरिपाके । पूजायां च दानेन लाभसत्कारपूजया । शेषाभिश्च प्रतिपत्तिपूजया । अविपरीतपारमितोपदेशाप[र्थ]ञ्चकल्याणमित्रसेवायामौत्सुक्यमनसिकारो वेदितव्यः । अनुकम्पामनसिकारश्चतुर्भिरप्रमाणैर्दानाद्युपसंहारेण मैत्रायतः । मात्सर्यादिसमवधानेन सत्त्वेषु करुणायतः । दानादिसमन्वागतेषु मुदितायतः । तदसंक्लेशाधिमोक्षतश्च उपेक्षायतः अकृते कुकृते लज्जा कौकृत्यं विषये रतिः । अमित्रसंज्ञा खेदे च रचनोद्भावनामतिः

autsukyamanasikāraścaturvidhaḥ | śaktilābhe ca dānādau ṣaḍvidhe dānadāne yāvat prajñādāne | evaṃ śīlādiṣu ṣaḍvidheṣu | pāramitābhireva saṃgrahavastuprayogeṇa sattvaparipāke | pūjāyāṃ ca dānena lābhasatkārapūjayā | śeṣābhiśca pratipattipūjayā | aviparītapāramitopadeśāpa[rtha]ñcakalyāṇamitrasevāyāmautsukyamanasikāro veditavyaḥ | anukampāmanasikāraścaturbhirapramāṇairdānādyupasaṃhāreṇa maitrāyataḥ | mātsaryādisamavadhānena sattveṣu karuṇāyataḥ | dānādisamanvāgateṣu muditāyataḥ | tadasaṃkleśādhimokṣataśca upekṣāyataḥ akṛte kukṛte lajjā kaukṛtyaṃ viṣaye ratiḥ | amitrasaṃjñā khede ca racanodbhāvanāmatiḥ

Sanskrit only: no published translation is held for this verse.

हीधर्ममारभ्य लज्जामनस्कारः, अकृतेषु वा दानादिष्वपरिपूर्णमिथ्याकृतेषु वा लज्जा, लज्जायमानश्च प्रवृत्तिनिवृत्त्यर्थमनानुषङ्गिकं कौकृत्यायते । धृतिमारभ्य रतिमनस्कारो दानाद्यालम्बने ऽविक्षेपतश्चित्तस्य धारणात् । अखेदमनस्कारो दानादिप्रयोगपरिखेदे शत्रुसंज्ञाकरणात् । रचनाच्छन्दमनस्कारः पारमिताप्रतिसंयुक्तशास्ररचनाभिसंस्करणात् । लोकज्ञतामारभ्य उद्भावनामनस्कारस्तस्यैव शास्त्रस्य लोके यथाभाजनमुद्भावनाभिसंस्करणात् । दानादयः प्रतिसरणं सम्बोधौ नेश्वरादयः । दोषाणां च गुणानां च प्रतिसंवेदनाद् [?]द्वयोः

hīdharmamārabhya lajjāmanaskāraḥ, akṛteṣu vā dānādiṣvaparipūrṇamithyākṛteṣu vā lajjā, lajjāyamānaśca pravṛttinivṛttyarthamanānuṣaṅgikaṃ kaukṛtyāyate | dhṛtimārabhya ratimanaskāro dānādyālambane 'vikṣepataścittasya dhāraṇāt | akhedamanaskāro dānādiprayogaparikhede śatrusaṃjñākaraṇāt | racanācchandamanaskāraḥ pāramitāpratisaṃyuktaśāsraracanābhisaṃskaraṇāt | lokajñatāmārabhya udbhāvanāmanaskārastasyaiva śāstrasya loke yathābhājanamudbhāvanābhisaṃskaraṇāt | dānādayaḥ pratisaraṇaṃ sambodhau neśvarādayaḥ | doṣāṇāṃ ca guṇānāṃ ca pratisaṃvedanād [?]dvayoḥ

Sanskrit only: no published translation is held for this verse.

प्रतिसरणमनस्कारो बोधिप्राप्तये दानादीनां प्रतिसरणान्नेश्वरादीनाम्, प्रतिसंविन्मनस्कारो मात्सर्यदानादि विपक्षप्रतिपक्षयोर्दोषगुणप्रतिसंवेदनात् । चयानुस्मरणप्रीतिर्माहार्थ्यस्य च दर्शनम् । योगे ऽभिलाषो ऽविकल्पे तद्धृत्यां प्रत्ययागमे

pratisaraṇamanaskāro bodhiprāptaye dānādīnāṃ pratisaraṇānneśvarādīnām, pratisaṃvinmanaskāro mātsaryadānādi vipakṣapratipakṣayordoṣaguṇapratisaṃvedanāt | cayānusmaraṇaprītirmāhārthyasya ca darśanam | yoge 'bhilāṣo 'vikalpe taddhṛtyāṃ pratyayāgame

Sanskrit only: no published translation is held for this verse.

चयानुस्मरणप्रीतिमनस्कारो दानाद्युपचये पुण्यज्ञानसंभारोपचयसंदर्शनात् । माहार्थ्यसंदर्शनमनस्कारो दानादीनां बोधिपक्षे भावार्थेन महाबोधिप्राप्त्यर्थसंदर्शनात् । अभिलाषमनस्कारः स पुनश्चतुर्विधः । योगाभिलाषमनस्कारः शमथविपश्यनायोगभावनाभिलाषात् । अविकल्पाभिलाषमनस्कारः पारमितापरिपूरणार्थमुपायकौशल्याभिलाषात् । धृत्यभिलाषमनस्कारः पारमिताधिपतेयधर्मार्थधारणाभिलाषात् । प्रत्ययाभिगमाभिलाषमनस्कारः सम्यक् प्रणिधानाभिसंस्करणात् । सप्तप्रकारासद्ग्राहव्युत्थाने शक्तिदर्शनम् । आश्चर्यं चाप्यनाश्चर्यं संज्ञा चैव चतुर्विधा

cayānusmaraṇaprītimanaskāro dānādyupacaye puṇyajñānasaṃbhāropacayasaṃdarśanāt | māhārthyasaṃdarśanamanaskāro dānādīnāṃ bodhipakṣe bhāvārthena mahābodhiprāptyarthasaṃdarśanāt | abhilāṣamanaskāraḥ sa punaścaturvidhaḥ | yogābhilāṣamanaskāraḥ śamathavipaśyanāyogabhāvanābhilāṣāt | avikalpābhilāṣamanaskāraḥ pāramitāparipūraṇārthamupāyakauśalyābhilāṣāt | dhṛtyabhilāṣamanaskāraḥ pāramitādhipateyadharmārthadhāraṇābhilāṣāt | pratyayābhigamābhilāṣamanaskāraḥ samyak praṇidhānābhisaṃskaraṇāt | saptaprakārāsadgrāhavyutthāne śaktidarśanam | āścaryaṃ cāpyanāścaryaṃ saṃjñā caiva caturvidhā

Sanskrit only: no published translation is held for this verse.

सप्तप्रकारासद्ग्राहव्युत्थानशक्तिदर्शनमनस्कारः । सप्तविधो ऽसद्ग्राहः । असति सद्ग्राहः, दोषवति गुणवत्वग्राहः, गुणवत्यगुणवत्वग्राहः, सर्वसंस्कारेषु च नित्यसुखासद्ग्राहौ, सर्वधर्मेषु चात्मासद्ग्राहः, निर्वाणे चाशान्तासद्ग्राहः । यस्य प्रतिपक्षेण शून्यता [दि]समाधित्रयं धर्मोद्दानचतुष्टयं च देश्यते । आश्चर्ये चतुर्विधसंज्ञामनस्कारः । पारमितासूदारसंज्ञा, आयतत्त्वसंज्ञा, प्रतिकारनिरपेक्षसंज्ञा, विपाकनिरपेक्षसंज्ञा च । अनाश्चर्ये ऽपि चतुर्विध[संज्ञा]मनस्कारः । चतुर्विधमनाश्चर्यमौदर्य आयतत्वे च सति पारमितानां बुद्धत्वफलाभिनिर्वर्तनात् । अस्मिन्नेव च द्वये सति स्वपरसमचित्तावस्थापनात् [वस्थापना?]तद्विशिष्टेभ्यश्च (म्स्अ बग्छि ७३) शरु[शक्रा]दिभ्यः पूजादिलाभे सति प्रतिकारनिरपेक्षता ॥॥। [सर्वलोकेभ्यो विशिष्टशरीरभोग]लाभे सत्यपि विपाकनिरपेक्षता । समता सर्वसत्त्वेषु दृष्टिश्चापि महात्मिका । परगुणप्रतिकारस्रयाशास्तिर्निरन्तरः

saptaprakārāsadgrāhavyutthānaśaktidarśanamanaskāraḥ | saptavidho 'sadgrāhaḥ | asati sadgrāhaḥ, doṣavati guṇavatvagrāhaḥ, guṇavatyaguṇavatvagrāhaḥ, sarvasaṃskāreṣu ca nityasukhāsadgrāhau, sarvadharmeṣu cātmāsadgrāhaḥ, nirvāṇe cāśāntāsadgrāhaḥ | yasya pratipakṣeṇa śūnyatā [di]samādhitrayaṃ dharmoddānacatuṣṭayaṃ ca deśyate | āścarye caturvidhasaṃjñāmanaskāraḥ | pāramitāsūdārasaṃjñā, āyatattvasaṃjñā, pratikāranirapekṣasaṃjñā, vipākanirapekṣasaṃjñā ca | anāścarye 'pi caturvidha[saṃjñā]manaskāraḥ | caturvidhamanāścaryamaudarya āyatatve ca sati pāramitānāṃ buddhatvaphalābhinirvartanāt | asminneva ca dvaye sati svaparasamacittāvasthāpanāt [vasthāpanā?]tadviśiṣṭebhyaśca (MSA Bagchi 73) śaru[śakrā]dibhyaḥ pūjādilābhe sati pratikāranirapekṣatā ..... [sarvalokebhyo viśiṣṭaśarīrabhoga]lābhe satyapi vipākanirapekṣatā | samatā sarvasattveṣu dṛṣṭiścāpi mahātmikā | paraguṇapratikārasrayāśāstirnirantaraḥ

Sanskrit only: no published translation is held for this verse.

समतामनस्कारः सर्वसत्त्वेषु दानादिभिः समताप्रवृत्त्यभिसंस्करणात् । महात्मदृष्टिमनस्कारः सर्वसत्त्वोपकारतया पारमितासंदर्शनात् । प्रत्यय[प्रत्युप]काराशंसनमनस्कारो दानादिगुणप्रवृत्त्या परेभ्यः । आशास्तिमनस्कारः सत्त्वेषु त्रिस्थानाशंसनात् पारमितानां बोधिसत्त्वभूमिनिष्ठाया बुद्धभूमिनिष्ठायाः सत्त्वाव[र्थाच]रणाशंसनाच्च । निरन्तरमनस्कारो दानादिभिरबध्य[न्ध्य]कालकरणाभिसंस्करणात् । बुद्धप्रणीतानुष्ठानादर्वागस्थानचेतनात्[चेतना] । तद्धानिवृद्ध्या सत्त्वेषु अनामोदः प्रमोदना

samatāmanaskāraḥ sarvasattveṣu dānādibhiḥ samatāpravṛttyabhisaṃskaraṇāt | mahātmadṛṣṭimanaskāraḥ sarvasattvopakāratayā pāramitāsaṃdarśanāt | pratyaya[pratyupa]kārāśaṃsanamanaskāro dānādiguṇapravṛttyā parebhyaḥ | āśāstimanaskāraḥ sattveṣu tristhānāśaṃsanāt pāramitānāṃ bodhisattvabhūminiṣṭhāyā buddhabhūminiṣṭhāyāḥ sattvāva[rthāca]raṇāśaṃsanācca | nirantaramanaskāro dānādibhirabadhya[ndhya]kālakaraṇābhisaṃskaraṇāt | buddhapraṇītānuṣṭhānādarvāgasthānacetanāt[cetanā] | taddhānivṛddhyā sattveṣu anāmodaḥ pramodanā

Sanskrit only: no published translation is held for this verse.

सम्यक्प्रयोगमनस्कारो ऽविपरीतानुष्ठानादर्वागस्थानमनसिकरणात् । अनामोदमनस्कारो दानादिभिर्हीयमानेषु । प्रमोदमनस्कारो दानादिभिर्वर्धमानेषु सत्त्वेषु । प्रतिवर्णिकायां[वर्णिका]भूतायां भावनायां च नारूचिः । नाधिवासमनस्कारो व्याकृतनियते स्पृहा

samyakprayogamanaskāro 'viparītānuṣṭhānādarvāgasthānamanasikaraṇāt | anāmodamanaskāro dānādibhirhīyamāneṣu | pramodamanaskāro dānādibhirvardhamāneṣu sattveṣu | prativarṇikāyāṃ[varṇikā]bhūtāyāṃ bhāvanāyāṃ ca nārūciḥ | nādhivāsamanaskāro vyākṛtaniyate spṛhā

Sanskrit only: no published translation is held for this verse.

अरूचिमनस्कारः पारमिताप्रतिवर्णिकाभावनायाम् । रूचिमनस्कारो भूतायाम् । अनधिवासनामनस्कारो मात्सर्यादिविपक्षविनयनाभिसंस्कारणात् । स्पृहामनस्कारो द्विविधः पारमितापरिपूरिव्याकरणलाभस्पृहामनस्कारः पारमितानियतभूम्यवस्थालाभस्पृहामनस्कारश्च । आयत्यां दर्शनाद्वृत्तिचेतना समतेक्षणा । अग्रधर्मेषु वृत्त्या च अग्रत्वात्मावधारणात्[धारणा]

arūcimanaskāraḥ pāramitāprativarṇikābhāvanāyām | rūcimanaskāro bhūtāyām | anadhivāsanāmanaskāro mātsaryādivipakṣavinayanābhisaṃskāraṇāt | spṛhāmanaskāro dvividhaḥ pāramitāparipūrivyākaraṇalābhaspṛhāmanaskāraḥ pāramitāniyatabhūmyavasthālābhaspṛhāmanaskāraśca | āyatyāṃ darśanādvṛtticetanā samatekṣaṇā | agradharmeṣu vṛttyā ca agratvātmāvadhāraṇāt[dhāraṇā]

Sanskrit only: no published translation is held for this verse.

एते शुभमनस्कारा दशपारमितान्बयाः । सर्वदा बोधिसत्त्वानां धातुपुष्टौ भवन्ति हि

ete śubhamanaskārā daśapāramitānbayāḥ | sarvadā bodhisattvānāṃ dhātupuṣṭau bhavanti hi

Sanskrit only: no published translation is held for this verse.

इति निगमनश्लोको गतार्थः । धर्मपर्येष्टिभेदे द्वौ श्लोकौ । पुष्टेरध्याशयतो महती पर्येष्टिरिष्यते धीरे । सविवासा ह्यविवासा तथैव वैभुत्विकी तेषाम्

iti nigamanaśloko gatārthaḥ | dharmaparyeṣṭibhede dvau ślokau | puṣṭeradhyāśayato mahatī paryeṣṭiriṣyate dhīre | savivāsā hyavivāsā tathaiva vaibhutvikī teṣām

Sanskrit only: no published translation is held for this verse.

असकाया लघु[लब्ध]काया प्रपूर्णकाया च बोधिसत्त्वानाम् । बहुमानसूक्ष्ममाना निर्माणा चैषणाभिमता

asakāyā laghu[labdha]kāyā prapūrṇakāyā ca bodhisattvānām | bahumānasūkṣmamānā nirmāṇā caiṣaṇābhimatā

Sanskrit only: no published translation is held for this verse.

त्रयोदशविधा पर्येष्टिः । पुष्टितः श्रुताधिमुक्तिपुष्ट्या । अध्याशयतो धर्ममुखस्त्रोतसा । महती चित्त[विभु]त्वलाभिनाम् । सबिप्रबासा प्रथमा । अविप्रवासा द्वितीया । वैभुत्विकी तृतीया । अकाया श्रुतचिन्तामयी धर्मकायरहितत्वात् । सकाया भावनामयी अधिमुक्तिचर्याभूमो । लघु[लब्ध]काया सप्तसु भूमिषु । परिपूर्णकाया शेषासु । बहुमानाधिमुक्तिचर्याभूमौ । सूक्ष्ममाना सप्तसु । निर्माणा शेषासु । धर्महेतुत्वपर्येष्टौ श्लोकः । रूपारूपे धर्मो लक्षणहेतुस्तथैव चारोग्यं[ग्ये] । ऐश्वर्ये ऽभिज्ञाभिस्तदक्षयत्वे च धीराणाम्

trayodaśavidhā paryeṣṭiḥ | puṣṭitaḥ śrutādhimuktipuṣṭyā | adhyāśayato dharmamukhastrotasā | mahatī citta[vibhu]tvalābhinām | sabiprabāsā prathamā | avipravāsā dvitīyā | vaibhutvikī tṛtīyā | akāyā śrutacintāmayī dharmakāyarahitatvāt | sakāyā bhāvanāmayī adhimukticaryābhūmo | laghu[labdha]kāyā saptasu bhūmiṣu | paripūrṇakāyā śeṣāsu | bahumānādhimukticaryābhūmau | sūkṣmamānā saptasu | nirmāṇā śeṣāsu | dharmahetutvaparyeṣṭau ślokaḥ | rūpārūpe dharmo lakṣaṇahetustathaiva cārogyaṃ[gye] | aiśvarye 'bhijñābhistadakṣayatve ca dhīrāṇām

Sanskrit only: no published translation is held for this verse.

रूपे लक्षणहेतुर्धर्मः । अरूपे आरोग्यहेतुः क्लेशव्याधिप्रशमनात् । ऐश्वर्यहेतुरभिज्ञाभिस्तदक्षयत्वहेतुश्चानुपधिशेषनिर्वाणे ऽप्यनुपच्छेदात् । अत एवोक्तं ब्रह्मपरिपृच्छासूत्रे । चतुर्भिर्धर्मैः समन्वागता बोधिसत्त्वा धर्मं पर्येषन्ते । रत्नसंज्ञया दुर्लभार्थेन भैषज्यसंज्ञया क्लेशव्याधिप्रशमनार्थेन अर्थसंज्ञया अविप्रणाशार्थेन निर्वाणसंज्ञया सर्वदुःखप्रशमनार्थेन । रत्नभूतानि हि लक्षणानि शोभाकरत्वादतस्तद्धेतुत्वाद्धर्मरत्नसंज्ञा । आरोग्यहेतुत्वाद्भैषज्यसंज्ञा । अभिज्ञैश्चर्यहेतुत्वादर्थसंज्ञा । तदक्षयहेतुत्वान्निर्वाणसंज्ञाक्षयनिर्भयतार्थेन । विकल्पपर्येष्टौ श्लोकः । अभावभाबाध्यपवादकल्प एकत्वनानास्वविशेषकल्पाः । यथार्थनामाभिनिवेशकल्पाः जिनात्मजैः संपरिवर्जनीयाः

rūpe lakṣaṇaheturdharmaḥ | arūpe ārogyahetuḥ kleśavyādhipraśamanāt | aiśvaryaheturabhijñābhistadakṣayatvahetuścānupadhiśeṣanirvāṇe 'pyanupacchedāt | ata evoktaṃ brahmaparipṛcchāsūtre | caturbhirdharmaiḥ samanvāgatā bodhisattvā dharmaṃ paryeṣante | ratnasaṃjñayā durlabhārthena bhaiṣajyasaṃjñayā kleśavyādhipraśamanārthena arthasaṃjñayā avipraṇāśārthena nirvāṇasaṃjñayā sarvaduḥkhapraśamanārthena | ratnabhūtāni hi lakṣaṇāni śobhākaratvādatastaddhetutvāddharmaratnasaṃjñā | ārogyahetutvādbhaiṣajyasaṃjñā | abhijñaiścaryahetutvādarthasaṃjñā | tadakṣayahetutvānnirvāṇasaṃjñākṣayanirbhayatārthena | vikalpaparyeṣṭau ślokaḥ | abhāvabhābādhyapavādakalpa ekatvanānāsvaviśeṣakalpāḥ | yathārthanāmābhiniveśakalpāḥ jinātmajaiḥ saṃparivarjanīyāḥ

Sanskrit only: no published translation is held for this verse.

दशविधविकल्पो बोधिसत्त्वेन परिवर्जनीयः । अभावविकल्पो यस्य प्रतिपक्षेणाह । प्रज्ञापारमितायामिह बोधिसत्त्वो बोधिसत्त्व एव सन्निति । भावविकल्पो यस्य प्रतिपक्षेणाह । (म्स्अ बग्छि ७५) बोधिसत्त्वं न समनुपश्यतीत्येवमादि । अध्यारोपविकल्पो यस्य प्रतिपक्षेणाह । रूपं शारिपुत्र स्वभावेन शून्यमिति । अपवादविकल्पो यस्य प्रतिपक्षेणाह । न शून्यतयेति । एकत्वविकल्पो यस्य प्रतिपक्षेणाह । या रूपस्य शून्यता न तद्रूपमिति । नानात्वविकल्पो यस्य प्रतिपक्षेणाह । न चान्यत्र शून्यताया रूपं रूपमेव शून्यता शून्यतैव रूपमिति । स्वलक्षणविकल्पो यस्य प्रतिपक्षेणाह । नाममात्रमिदं यदिदं रूपमिति । विशेषविकल्पो यस्य प्रतिपक्षेणाह । रूपस्य हि नोत्पादो न निरोधो न संक्लेशो न व्यवदानमिति । यथानामार्थाभिनिवेशविकल्पो यस्य प्रतिपक्षेणाह । कृत्रिमं नामेत्येवमादि । यथार्थनामाभिनिवेशविकल्पश्च यस्य प्रतिपक्षेणाह । तानि बोधिसत्त्वः सर्वनामानि न समनुपश्यत्यसमनुपश्यन्नाभिनिविशते यथार्थतयेत्यभिप्रायः । इति शुभमतिरेत्य यत्नमुग्रं द्वयपर्येषितधर्मतासतत्त्वा । प्रतिशरणमतः सदा प्रजानां भवति गुणैः स समुद्रवत्प्रपूर्णः

daśavidhavikalpo bodhisattvena parivarjanīyaḥ | abhāvavikalpo yasya pratipakṣeṇāha | prajñāpāramitāyāmiha bodhisattvo bodhisattva eva sanniti | bhāvavikalpo yasya pratipakṣeṇāha | (MSA Bagchi 75) bodhisattvaṃ na samanupaśyatītyevamādi | adhyāropavikalpo yasya pratipakṣeṇāha | rūpaṃ śāriputra svabhāvena śūnyamiti | apavādavikalpo yasya pratipakṣeṇāha | na śūnyatayeti | ekatvavikalpo yasya pratipakṣeṇāha | yā rūpasya śūnyatā na tadrūpamiti | nānātvavikalpo yasya pratipakṣeṇāha | na cānyatra śūnyatāyā rūpaṃ rūpameva śūnyatā śūnyataiva rūpamiti | svalakṣaṇavikalpo yasya pratipakṣeṇāha | nāmamātramidaṃ yadidaṃ rūpamiti | viśeṣavikalpo yasya pratipakṣeṇāha | rūpasya hi notpādo na nirodho na saṃkleśo na vyavadānamiti | yathānāmārthābhiniveśavikalpo yasya pratipakṣeṇāha | kṛtrimaṃ nāmetyevamādi | yathārthanāmābhiniveśavikalpaśca yasya pratipakṣeṇāha | tāni bodhisattvaḥ sarvanāmāni na samanupaśyatyasamanupaśyannābhiniviśate yathārthatayetyabhiprāyaḥ | iti śubhamatiretya yatnamugraṃ dvayaparyeṣitadharmatāsatattvā | pratiśaraṇamataḥ sadā prajānāṃ bhavati guṇaiḥ sa samudravatprapūrṇaḥ

Sanskrit only: no published translation is held for this verse.