अष्टास्वनुत्पत्तिधर्मेषु क्षान्तिरनुत्पत्तिकधर्मक्षान्तिः । आदौ संसारस्य, न हि तस्याद्युत्पत्तिरस्ति । तत्त्वे ऽन्यत्वे च पूर्वपश्चिमानां, न हि संसारे तेषामेव धर्माणामुत्पत्तिः, ये पूर्वमुत्पन्नास्तद्भावेनानुत्पत्तेः । न चान्येषाम्, अपूर्वप्रकारानुत्पत्तेः । स्वलक्षणे परिकल्पितस्य स्वभावस्य, न हि तस्य कदाचिदुत्पत्तिः । स्वयमनुत्पत्तौ परतन्त्रस्य । अन्यथाभावे परिनिष्पन्नस्य न हि तदन्यथाभावस्योत्पत्तिरस्ति । संक्लेशे प्रहीणे, न हि क्षयज्ञानलाभिनः संक्लेशस्योत्पत्तिं पुनः पश्यन्ति । विशेषे बुद्धधर्मकायानाम्, न हि तेषां विशेषोत्पत्तिरस्ति । इत्येतेष्वनुत्पत्तिधर्मेषु क्षान्तिरनुत्पत्तिधर्मोक्ता । एकयानतापर्येष्टौ सप्त श्लोकाः । धर्मे नैरात्म्यमुक्तीनां तुल्यत्वात् गोत्रभेदतः । द्व्याशयाप्तेश्च निर्माणात्पर्यन्तादेकयानता
aṣṭāsvanutpattidharmeṣu kṣāntiranutpattikadharmakṣāntiḥ | ādau saṃsārasya, na hi tasyādyutpattirasti | tattve 'nyatve ca pūrvapaścimānāṃ, na hi saṃsāre teṣāmeva dharmāṇāmutpattiḥ, ye pūrvamutpannāstadbhāvenānutpatteḥ | na cānyeṣām, apūrvaprakārānutpatteḥ | svalakṣaṇe parikalpitasya svabhāvasya, na hi tasya kadācidutpattiḥ | svayamanutpattau paratantrasya | anyathābhāve pariniṣpannasya na hi tadanyathābhāvasyotpattirasti | saṃkleśe prahīṇe, na hi kṣayajñānalābhinaḥ saṃkleśasyotpattiṃ punaḥ paśyanti | viśeṣe buddhadharmakāyānām, na hi teṣāṃ viśeṣotpattirasti | ityeteṣvanutpattidharmeṣu kṣāntiranutpattidharmoktā | ekayānatāparyeṣṭau sapta ślokāḥ | dharme nairātmyamuktīnāṃ tulyatvāt gotrabhedataḥ | dvyāśayāpteśca nirmāṇātparyantādekayānatā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.