स्यात् सर्वत्र च ॥। यो वादी तदेतदनिर्वाच्यमायाख्यज्ञानशबलं किञ्चिद्ब्रह्म कल्पयित्वा तदेव वैदिकैरशेषपदवाच्यमित्यपि कल्पयित्वा मायतीतं शुद्धं सर्वज्ञं सर्वशक्तिपरिपूर्णमस्मदभिमतं परं ब्रह्म पदैर्लक्ष्यमिति वदन्वदति । अस्य वादिनः श्रुतपरित्यागःसर्वत्र सर्ववाक्येषु स्यात् । कथम् । वचनवृत्त्यैव प्रथमप्रतीतस्य शुद्धस्य ब्रह्मणो विना कारणेन परित्यागात् । कथं शुद्धस्य प्रतीतत्वम् । आत्मब्रह्मादिशब्दानां वेदे श्रवणात् । आत्मब्रह्मादिशब्दाश्च साक्षाद्वचनवृत्त्या पूर्णाभिधायिनो यदा यस्मात्तदा तस्मात् श्रुतपरित्याग इति । *३,१८६* न केवलं श्रुतपरित्यागः किन्तु सर्वत्रापि वाक्येष्वश्रुतकल्पनं च स्यात् । कथम् । मायाशबलस्य ब्रह्मणो वन्ध्यापुत्रोपमत्वात् । तत्कथम् । विना मानम् । मानाभावात् । तदपि कथम् । श्रुतिष्वात्मब्रह्मादिशब्दश्रवणात्तेषां च पूर्णाभिधायित्वेन मायाशबलविषयत्वात् । ननु युष्माभिरेव जन्मादिसूत्रे मायाशबलस्य लक्ष्यत्वेनाङ्गीकृतत्वात्कथं (तत्)वन्ध्यापुत्रोपममिति । मैवम् । प्रथमसूत्रे जिज्ञास्यतयोक्तस्य सर्वज्ञस्य सर्वशक्तेः परब्रह्मण एवास्माभिर्जगज्जन्मादिकारणत्वेन लक्षितत्वाङ्गीकारादित्याद्यसूत्रतात्पर्यम् । आत्मशब्दोदितस्येति द्वितीयस्य । आत्मादिशब्दः पर्णार्थो ऽपि दृश्ये श्रुतो गौणविषय इति नियमं यो ब्रवीति स तथाविधात्मशब्दोदितस्य ज्ञानं मुक्तावसाधनमेवाह । गौणात्मज्ञानस्य मोक्षसाधनत्वानुपपत्तेः । तथाचास्य श्रुतपरित्यागः स्यात् । दृश्यात्मज्ञानस्य मोक्षसाधनताया"यस्यानुवित्तःऽ; इत्यादौ श्रुतत्वादिति । न चैवमापादिते श्रुतपरित्यागाश्रुतकल्पने शक्याङ्गीकारे इत्याह यत्रेति ॥ ॥। यत्रैकमपि लोको जुगुप्सते यत्र ययोर्मध्ये एकमपि प्रसक्तम् । किमुभयमिति शेषः । *३,१९०* अथ लोकजुगुप्सितमपीदमुभयं न दूषणं ममेत्यभ्युपेयात्तत्राह नियमेनेति ॥ *३,१९१* नियमेनोभयं स्याद्धि यस्य स्वपरयोर्मते
syāt sarvatra ca ... yo vādī tadetadanirvācyamāyākhyajñānaśabalaṃ kiñcidbrahma kalpayitvā tadeva vaidikairaśeṣapadavācyamityapi kalpayitvā māyatītaṃ śuddhaṃ sarvajñaṃ sarvaśaktiparipūrṇamasmadabhimataṃ paraṃ brahma padairlakṣyamiti vadanvadati / asya vādinaḥ śrutaparityāgaḥsarvatra sarvavākyeṣu syāt / katham / vacanavṛttyaiva prathamapratītasya śuddhasya brahmaṇo vinā kāraṇena parityāgāt / kathaṃ śuddhasya pratītatvam / ātmabrahmādiśabdānāṃ vede śravaṇāt / ātmabrahmādiśabdāśca sākṣādvacanavṛttyā pūrṇābhidhāyino yadā yasmāttadā tasmāt śrutaparityāga iti / *3,186* na kevalaṃ śrutaparityāgaḥ kintu sarvatrāpi vākyeṣvaśrutakalpanaṃ ca syāt / katham / māyāśabalasya brahmaṇo vandhyāputropamatvāt / tatkatham / vinā mānam / mānābhāvāt / tadapi katham / śrutiṣvātmabrahmādiśabdaśravaṇātteṣāṃ ca pūrṇābhidhāyitvena māyāśabalaviṣayatvāt / nanu yuṣmābhireva janmādisūtre māyāśabalasya lakṣyatvenāṅgīkṛtatvātkathaṃ (tat)vandhyāputropamamiti / maivam / prathamasūtre jijñāsyatayoktasya sarvajñasya sarvaśakteḥ parabrahmaṇa evāsmābhirjagajjanmādikāraṇatvena lakṣitatvāṅgīkārādityādyasūtratātparyam / ātmaśabdoditasyeti dvitīyasya / ātmādiśabdaḥ parṇārtho 'pi dṛśye śruto gauṇaviṣaya iti niyamaṃ yo bravīti sa tathāvidhātmaśabdoditasya jñānaṃ muktāvasādhanamevāha / gauṇātmajñānasya mokṣasādhanatvānupapatteḥ / tathācāsya śrutaparityāgaḥ syāt / dṛśyātmajñānasya mokṣasādhanatāyā"yasyānuvittaḥ'; ityādau śrutatvāditi / na caivamāpādite śrutaparityāgāśrutakalpane śakyāṅgīkāre ityāha yatreti // ... yatraikamapi loko jugupsate yatra yayormadhye ekamapi prasaktam / kimubhayamiti śeṣaḥ / *3,190* atha lokajugupsitamapīdamubhayaṃ na dūṣaṇaṃ mametyabhyupeyāttatrāha niyameneti // *3,191* niyamenobhayaṃ syāddhi yasya svaparayormate
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.