आह ब्रह्म कथं तन्न ॥। ण्यर्थस्यान्तर्णीतत्वात् । भगवो भगवन् । मतुवसो रुः सम्बुद्धौ छन्दसीति वचनात् । उक्तो भृगुणा पृष्टो वरुणः"भृगुर्वै वारुणिः । वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तस्मा एतत्प्रोवाच । अन्नं प्राणं चक्षुःश्रोत्रंमनोवाचम्ऽ; इत्येवं ब्रह्मप्रश्नोत्तरत्वेनोक्तत्वादन्नादिकं ब्रह्मैव भवितुमर्हतीत्यर्थः । ननु तत्र मयटो ऽश्रवणाद्भिन्नविषयत्वमिति चेन्न । उक्तोत्तरत्वात् । किञ्च यथा सत्यन्नमयादीन्प्रत्युदाहृतश्लोकेषु मयटो ऽश्रवणाद्भिन्नविषयत्वं स्यात् । अस्त्विति चेन्न । तथा सति तदुदाहरणस्यासङ्गतिप्रसङ्गात् । यस्यान्नादेर्विकारास्तेतत्प्रशंसापरतया सङ्गतिस्त्विति चेन्न । मनोमयश्लोके तदयोगात् । तर्हि तत एवानुपपत्तेरन्नादिशब्दैरन्नमयादय एवोच्यत इति कल्प्यत इति चेत् । तर्ह्यत्रापि प्रकरणवशादन्नमयादय एवोच्यन्त इत्यङ्गीकार्यम् । उक्ते ऽर्थे हि संवादित्वेनेयमाख्यायिकोक्ता । तस्मादन्नमयादय एवात्रोच्यन्ते । ते च ब्रह्मप्रश्नोत्तरत्वेनोक्तत्वान्यथानुपपत्त्या ब्रह्मैवेति । यद्यपि"सैषा भार्गवी वारुणक्ष विद्या परमे व्योमन्प्रतिष्ठिताऽ; इति साक्षाद्ब्रह्मविद्यात्वमुच्यते । तथापि मीमांसार्थं युक्तयुपन्यासः । अथवा । अस्यापि समानयोगक्षेमत्वादिति । *३,४६८* स्यादेतत् । ब्रह्मप्रश्नोत्तरतयोक्तिमात्रेण न वरुणोक्तानामन्नादीनां ब्रह्मत्वं सिद्धयति । ब्रह्मज्ञानोपायतयापि तदुपदेशोपपत्तेः । तथा हि । द्वितीयाचन्द्रप्रश्ने ऽचन्द्ररूपापि शाखा चन्द्रतयोच्यते चन्द्रज्ञानोपायत्वात् । यथा वारुन्धतीप्रश्ने तत्समीपवर्तिनी पृथुला तारकारुन्धतीत्वेनोपदिश्यते । अरुन्धतीज्ञानद्वारत्वात् । द्वारत्वं चान्नादिशब्दोदितानां शरीरादीनां बहिर्वृत्तिनिवारणद्वारा ब्रह्मज्ञानं प्रत्युपपद्यत एवेति । मैवम् । किमनेन व्यभिचारश्चोद्यते । किंवान्यथासिद्धिः सम्भाव्यते । उत सा निश्चीयते । पक्षत्रयमसम्बद्धमित्याह द्वारमिति ॥ *३,४६९* ॥। द्वारं तदिति वादिनः । उपसत्तिं कथं विद्युर् ॥। तदन्नादिकम् । उपपत्तिं ब्रह्मज्ञानार्थोपसत्त्युत्तरकालीनं गुरूपदेशप्रकारमित्यर्थः । कथमित्याक्षेपे । न विद्युरित्यर्थः । गुरूपदेशप्रकाराज्ञानविजृम्भितेयं शङ्केति भावः । तत्कथं न विद्युरित्यत आह-उपसन्नायेति ॥ ॥। उपसन्नाय हि त्रिशः
āha brahma kathaṃ tanna ... ṇyarthasyāntarṇītatvāt / bhagavo bhagavan / matuvaso ruḥ sambuddhau chandasīti vacanāt / ukto bhṛguṇā pṛṣṭo varuṇaḥ"bhṛgurvai vāruṇiḥ / varuṇaṃ pitaramupasasāra / adhīhi bhagavo brahmeti / tasmā etatprovāca / annaṃ prāṇaṃ cakṣuḥśrotraṃmanovācam'; ityevaṃ brahmapraśnottaratvenoktatvādannādikaṃ brahmaiva bhavitumarhatītyarthaḥ / nanu tatra mayaṭo 'śravaṇādbhinnaviṣayatvamiti cenna / uktottaratvāt / kiñca yathā satyannamayādīnpratyudāhṛtaślokeṣu mayaṭo 'śravaṇādbhinnaviṣayatvaṃ syāt / astviti cenna / tathā sati tadudāharaṇasyāsaṅgatiprasaṅgāt / yasyānnādervikārāstetatpraśaṃsāparatayā saṅgatistviti cenna / manomayaśloke tadayogāt / tarhi tata evānupapatterannādiśabdairannamayādaya evocyata iti kalpyata iti cet / tarhyatrāpi prakaraṇavaśādannamayādaya evocyanta ityaṅgīkāryam / ukte 'rthe hi saṃvāditveneyamākhyāyikoktā / tasmādannamayādaya evātrocyante / te ca brahmapraśnottaratvenoktatvānyathānupapattyā brahmaiveti / yadyapi"saiṣā bhārgavī vāruṇakṣa vidyā parame vyomanpratiṣṭhitā'; iti sākṣādbrahmavidyātvamucyate / tathāpi mīmāṃsārthaṃ yuktayupanyāsaḥ / athavā / asyāpi samānayogakṣematvāditi / *3,468* syādetat / brahmapraśnottaratayoktimātreṇa na varuṇoktānāmannādīnāṃ brahmatvaṃ siddhayati / brahmajñānopāyatayāpi tadupadeśopapatteḥ / tathā hi / dvitīyācandrapraśne 'candrarūpāpi śākhā candratayocyate candrajñānopāyatvāt / yathā vārundhatīpraśne tatsamīpavartinī pṛthulā tārakārundhatītvenopadiśyate / arundhatījñānadvāratvāt / dvāratvaṃ cānnādiśabdoditānāṃ śarīrādīnāṃ bahirvṛttinivāraṇadvārā brahmajñānaṃ pratyupapadyata eveti / maivam / kimanena vyabhicāraścodyate / kiṃvānyathāsiddhiḥ sambhāvyate / uta sā niścīyate / pakṣatrayamasambaddhamityāha dvāramiti // *3,469* ... dvāraṃ taditi vādinaḥ / upasattiṃ kathaṃ vidyur ... tadannādikam / upapattiṃ brahmajñānārthopasattyuttarakālīnaṃ gurūpadeśaprakāramityarthaḥ / kathamityākṣepe / na vidyurityarthaḥ / gurūpadeśaprakārājñānavijṛmbhiteyaṃ śaṅketi bhāvaḥ / tatkathaṃ na vidyurityata āha-upasannāyeti // ... upasannāya hi triśaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.