किमाक्षेपे । ब्रह्मैव वदेदित्यर्थः । तत्र हेतुर्मायावी न हीति । आप्तत्वादित्यर्थः । विवक्षितार्थतत्त्वज्ञानं हि वरुणस्य दिक्पतेः प्रसिद्धम् । अविप्रलम्भकत्वं च पितृत्वात् । भृगोर्ब्रह्मज्ञानयोग्यत्वात् । उपसन्नायेति प्रसङ्गदोषस्य निरस्तत्वात् । वारिराडिति भूताभिमानित्वेनोक्तस्यापटुकरणत्वासम्भवात् । विवक्षायाश्चोपदेशादेव सिद्धेः । अत एव श्रुतिर्वारुणिर्ः(वरुणं)पितरमुपससादेत्याह । तदनेनाप्तेन ब्रह्मप्रश्नोत्तरत्वेनोक्तत्वमन्नादीनां ब्रह्मत्वे हेतुरित्युक्तं भवति । *३,४७१* ननु वरुणेनोक्तेष्वन्नादिष्वन्नप्राणमनांसि सन्तु ब्रह्मस्वरूपाणि । अन्नादिशब्दानामत्तृत्वाद्यर्थतयानुपपत्त्यभावात् । चक्षुःश्रोत्रवाक्शब्दं तु कथं ब्रह्म स्यात् । चक्षुरादिशब्दानां चष्टे ऽनेनेति चक्षुः । शृणोत्यनेनेति श्रोत्रम् । वदत्यनयेति वागिति करणार्थत्वात् । ब्रह्मणश्च करणत्वानुपपत्तेरिति चेन्न । कर्तर्यपि तद्व्युत्पत्तिसम्भवादित्याह चष्ट इति ॥ चष्ट इत्येव तच्चक्षुः श्रवणाच्छ्रोत्रमुच्यते । वचनादेव वाग् ब्रह्म सृष्टिस्थित्यादिकारणम्
kimākṣepe / brahmaiva vadedityarthaḥ / tatra heturmāyāvī na hīti / āptatvādityarthaḥ / vivakṣitārthatattvajñānaṃ hi varuṇasya dikpateḥ prasiddham / avipralambhakatvaṃ ca pitṛtvāt / bhṛgorbrahmajñānayogyatvāt / upasannāyeti prasaṅgadoṣasya nirastatvāt / vārirāḍiti bhūtābhimānitvenoktasyāpaṭukaraṇatvāsambhavāt / vivakṣāyāścopadeśādeva siddheḥ / ata eva śrutirvāruṇirḥ(varuṇaṃ)pitaramupasasādetyāha / tadanenāptena brahmapraśnottaratvenoktatvamannādīnāṃ brahmatve heturityuktaṃ bhavati / *3,471* nanu varuṇenokteṣvannādiṣvannaprāṇamanāṃsi santu brahmasvarūpāṇi / annādiśabdānāmattṛtvādyarthatayānupapattyabhāvāt / cakṣuḥśrotravākśabdaṃ tu kathaṃ brahma syāt / cakṣurādiśabdānāṃ caṣṭe 'neneti cakṣuḥ / śṛṇotyaneneti śrotram / vadatyanayeti vāgiti karaṇārthatvāt / brahmaṇaśca karaṇatvānupapatteriti cenna / kartaryapi tadvyutpattisambhavādityāha caṣṭa iti // caṣṭa ityeva taccakṣuḥ śravaṇācchrotramucyate / vacanādeva vāg brahma sṛṣṭisthityādikāraṇam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.