किञ्चाकाशादिवाक्ये सन्ति पारमेश्वराणि लिङ्गानीति युक्तं तत्र तदाश्रयणम् । नचात्र तथाविधं किमपि पश्यामः । प्रत्युत"गायत्री वा इदं सर्वंऽ"वाग्वै गायत्रिऽ; इत्यादयः शब्द एव प्रसिद्धा बहवः शब्दाः श्रूयन्ते । कथं च तेषां, विना बलवद्बाधकोपनिपातेन (अन्यथार्थता) अन्यार्थता कल्पयितुं युक्ता । अव्यवस्थाप्रसङ्गात् । नच छन्दसः सर्वात्मकत्वानुपपत्तिः । ब्रह्मणो ऽपि साम्यात् । *३,५६९* नन्वियमेव गायत्री वाक्यशेषे ज्योतिष्ट्वेन पठ्यते । "अथ यदतः परोदिवो ज्योदिर्दीप्यतेऽ; इत्यादिना । ज्योतिश्च पूर्वाधिकरणे ब्रह्मेति निर्णीतम् । मैवम् । पूर्वाधिकरणोदाहृतवाक्योक्तस्य ज्योतिषो ब्रह्मत्वे ऽप्यत्र तदनुपपत्तेः । तत्र हि कर्णादिविदूरत्वमुक्तम् । अत्र पुनस्तदेतद्दृष्टं च श्रुतं चेति तद्विपरीतम् । युज्यते च ज्योतिरिति पदं छन्दसि । तत्पर्यायस्य"तेजो वै ब्रह्मवर्चसं गायत्रिऽ; इति तेजःशब्दस्य तत्र दर्शनात् । अस्तु वा"अथ यदतःपरोदिवो ज्योतिःऽ; इत्युक्तं ज्योतिर्ब्रह्म । तथापि गायत्री छन्द एव । उपदेशभेदेन भिन्नप्रकरणत्वादिति । अथवात्राप्यथ यदतःपरो दिव इति वाक्योक्ते ज्योतिषि सन्देहः । किं ब्रह्मोतान्यदिति । उपक्रमे गायत्रीशब्दश्रवणादन्यदिति प्राप्तम् । ननु गायत्रीशब्दस्याकाशादिशब्दवदीश्वरपरत्वोपपत्तेः किमनेनेत्यतो नित्यत्वादित्यादिनाभ्यधिकाशङ्केयमुक्तेति । एतदाच्छादकत्वेनाधिकरणतात्पर्यमाह इति चेदिति ॥ इति चेत् तद्धरेरेव बाहुल्याच्छ्रुतिलिङ्गयोः तत्र ब्रूम इत्यध्याहार्यम् । तत् ज्योतिःप्रकरणं गायत्रीप्रकरणं च हरेरेव प्रतिपादकम् । नच गायत्रीपदविरोधः । यतः तत् हरेरेव वाचकम् । कथम् । यस्मात् तत् गायत्रीपदप्रवृत्तिनिमित्तं मुख्यतो हरेरेव । अन्यगतं च हरेरेवाधीनम् । नच ज्योतिषो ब्रह्मत्वे दृष्टत्वाद्यनुपपत्तिः । यतः तत् अधिष्ठानादिद्वारा कर्णादिविदूरस्यैव हरेरुपपद्यते । नचोपदेशभेदानुपपत्तिः । यतस्तद्दिवः परत्वं दिवि स्थितत्वं च विवक्षाभेदाद्धेरेरेव युज्यते । कुत एतत् ॥ श्रुतिलिङ्गयोर्बाहुल्यात् ॥ तथा हि"ततो ज्यायांश्च पूरुषःऽ; । "यद्वैतद्ब्रह्मऽ"य एतामेव ब्रह्मोपनिषदं वेदऽ; इति श्रुतयः । लिङ्गानि च गानत्राणकर्तृत्वं, भूतादिपादत्वम्,"एतामेव नातिशीयन्तेऽ; इति सर्वोत्तमत्वमित्यादीनि । अत एव श्रुतिलिङ्गबाहुल्यात् तत् प्रसिद्धबहुलशब्दजातमपि ॥ हरेरेवेति ॥ *३,५७२* ननूक्तमत्र नित्या गायत्री प्रवृत्तिनिमित्तं च तत्स्वभावः । तत्कथं हरेरधीनमित्यत आह तादृशत्वाच्चेति ॥ तादृशत्वाच्च तच्छक्तेर् ॥।
kiñcākāśādivākye santi pārameśvarāṇi liṅgānīti yuktaṃ tatra tadāśrayaṇam / nacātra tathāvidhaṃ kimapi paśyāmaḥ / pratyuta"gāyatrī vā idaṃ sarvaṃ'"vāgvai gāyatri'; ityādayaḥ śabda eva prasiddhā bahavaḥ śabdāḥ śrūyante / kathaṃ ca teṣāṃ, vinā balavadbādhakopanipātena (anyathārthatā) anyārthatā kalpayituṃ yuktā / avyavasthāprasaṅgāt / naca chandasaḥ sarvātmakatvānupapattiḥ / brahmaṇo 'pi sāmyāt / *3,569* nanviyameva gāyatrī vākyaśeṣe jyotiṣṭvena paṭhyate / "atha yadataḥ parodivo jyodirdīpyate'; ityādinā / jyotiśca pūrvādhikaraṇe brahmeti nirṇītam / maivam / pūrvādhikaraṇodāhṛtavākyoktasya jyotiṣo brahmatve 'pyatra tadanupapatteḥ / tatra hi karṇādividūratvamuktam / atra punastadetaddṛṣṭaṃ ca śrutaṃ ceti tadviparītam / yujyate ca jyotiriti padaṃ chandasi / tatparyāyasya"tejo vai brahmavarcasaṃ gāyatri'; iti tejaḥśabdasya tatra darśanāt / astu vā"atha yadataḥparodivo jyotiḥ'; ityuktaṃ jyotirbrahma / tathāpi gāyatrī chanda eva / upadeśabhedena bhinnaprakaraṇatvāditi / athavātrāpyatha yadataḥparo diva iti vākyokte jyotiṣi sandehaḥ / kiṃ brahmotānyaditi / upakrame gāyatrīśabdaśravaṇādanyaditi prāptam / nanu gāyatrīśabdasyākāśādiśabdavadīśvaraparatvopapatteḥ kimanenetyato nityatvādityādinābhyadhikāśaṅkeyamukteti / etadācchādakatvenādhikaraṇatātparyamāha iti cediti // iti cet taddharereva bāhulyācchrutiliṅgayoḥ tatra brūma ityadhyāhāryam / tat jyotiḥprakaraṇaṃ gāyatrīprakaraṇaṃ ca harereva pratipādakam / naca gāyatrīpadavirodhaḥ / yataḥ tat harereva vācakam / katham / yasmāt tat gāyatrīpadapravṛttinimittaṃ mukhyato harereva / anyagataṃ ca harerevādhīnam / naca jyotiṣo brahmatve dṛṣṭatvādyanupapattiḥ / yataḥ tat adhiṣṭhānādidvārā karṇādividūrasyaiva harerupapadyate / nacopadeśabhedānupapattiḥ / yatastaddivaḥ paratvaṃ divi sthitatvaṃ ca vivakṣābhedāddherereva yujyate / kuta etat // śrutiliṅgayorbāhulyāt // tathā hi"tato jyāyāṃśca pūruṣaḥ'; / "yadvaitadbrahma'"ya etāmeva brahmopaniṣadaṃ veda'; iti śrutayaḥ / liṅgāni ca gānatrāṇakartṛtvaṃ, bhūtādipādatvam,"etāmeva nātiśīyante'; iti sarvottamatvamityādīni / ata eva śrutiliṅgabāhulyāt tat prasiddhabahulaśabdajātamapi // harereveti // *3,572* nanūktamatra nityā gāyatrī pravṛttinimittaṃ ca tatsvabhāvaḥ / tatkathaṃ hareradhīnamityata āha tādṛśatvācceti // tādṛśatvācca tacchakter ...
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.