जगत्कारणत्वेन खल्वत्राजा प्रतीयते । सा ब्रह्मवादिना ब्रह्मतया समर्थनीया । तेजो ऽबन्नात्म(क)तया तु समर्थने प्रधानरूपापि कुतो नाङ्गीकरणीया । लक्षणातिव्याप्तेस्तुल्यत्वादिति । तेजो ऽबन्नान्यपि परमेश्वराधीनानि । अतो तत्रातिव्याप्तिरिति न चेत् । एवं तर्हि किं मन्त्रस्य प्रकृतिपरत्वनिराकरणेन । किन्तु प्रकृतिपरत्वमङ्गीकृत्यैव"यो योनिमधितिष्ठत्येकःऽ; इत्यादिवाक्यबलेनेश्वराधीनत्वमेवोपपादनीयम् । *४,२४७* किञ्च तेजो ऽबन्नादिषु न तावदजाशब्दो रूढः । नापि यौगिकः । तत्तेजो ऽसृजतेत्यादिश्रुतेरजननासम्भवात् । नच स्त्रीलिङ्गत्वमुपपद्यते । नाप्येकवचनम् । त्रिवृत्करणादिति चेन्न । अथ मन्येत तेजो ऽबन्नापादानं जडमनादिद्रव्यं किमप्येकमस्ति । तत्कार्यत्वादुपचारादजादिशब्दोपपत्तिरिति । तर्हि तदेवात्र प्रतिपाद्यमस्तु, शब्दानां मुख्यवृत्तिलाभात् । अस्त्विति चेत्तर्हि प्रकृतिरत्र प्रतिपाद्येति वदता पूर्वपक्षिणा किमपराद्धम् । तल्लक्षणत्वात्प्रकृतेः । नाममात्रे विवादायोगाच्च, तदिदमुक्तमजामेकामिति । *४,२४९* नन्वत्रोत्तरमुक्तं कल्पनोपदेशादिति । यथा (हि) मधुविद्यादावादित्यादीनां मध्वादित्वेन कल्पना क्रियते, एवमत्रापि तेजो ऽबन्नानामजादिकल्पनोपदेशादविरोध इति । एतदयुक्तम् । कल्पनायाः प्रयोजनाभावात् । नहीदं पामर(जन)मनोरञ्जनार्थं काव्यम् । अत एव दृष्टान्तो ऽपि निरस्तः । कश्चिज्ज्योतिरुपक्रमेत्येतदन्यथा व्याचष्टे । ज्योतिर्ब्रह्म । तदुपक्रमा तत्कारणैवेयमजा न स्वतन्त्रेति । तस्य प्रथमसूत्रं व्यर्थम् । अनेनैव चरितार्थत्वात् । किञ्च तदधीनत्वादि(त्यने)नैव प्रधानस्य ज्योतिरुपक्रमत्वं प्रतिपादितम् । प्रतिपादनीयं च साङ्खयपरीक्षायामपि । अस्याः श्रुतेः प्रधानपरत्वे(ऽपि) न दोष इत्ययुक्तं"तत्तु समन्वयात्ऽ; इत्यवधारणानुपपत्तेरिति चेत् न, तेजो ऽबन्नपरत्वे ऽपि तदनिस्तारात् । *४,३५४* अस्तु परस्यैवम् । भवतां तु कथं न दोष इत्यत आह अस्माकमिति ॥ अस्माकं परममुख्यार्थो भगवानेक एव तु । मुख्यमात्रतया रूढं सर्वमभ्युपगम्यते
jagatkāraṇatvena khalvatrājā pratīyate / sā brahmavādinā brahmatayā samarthanīyā / tejo 'bannātma(ka)tayā tu samarthane pradhānarūpāpi kuto nāṅgīkaraṇīyā / lakṣaṇātivyāptestulyatvāditi / tejo 'bannānyapi parameśvarādhīnāni / ato tatrātivyāptiriti na cet / evaṃ tarhi kiṃ mantrasya prakṛtiparatvanirākaraṇena / kintu prakṛtiparatvamaṅgīkṛtyaiva"yo yonimadhitiṣṭhatyekaḥ'; ityādivākyabaleneśvarādhīnatvamevopapādanīyam / *4,247* kiñca tejo 'bannādiṣu na tāvadajāśabdo rūḍhaḥ / nāpi yaugikaḥ / tattejo 'sṛjatetyādiśruterajananāsambhavāt / naca strīliṅgatvamupapadyate / nāpyekavacanam / trivṛtkaraṇāditi cenna / atha manyeta tejo 'bannāpādānaṃ jaḍamanādidravyaṃ kimapyekamasti / tatkāryatvādupacārādajādiśabdopapattiriti / tarhi tadevātra pratipādyamastu, śabdānāṃ mukhyavṛttilābhāt / astviti cettarhi prakṛtiratra pratipādyeti vadatā pūrvapakṣiṇā kimaparāddham / tallakṣaṇatvātprakṛteḥ / nāmamātre vivādāyogācca, tadidamuktamajāmekāmiti / *4,249* nanvatrottaramuktaṃ kalpanopadeśāditi / yathā (hi) madhuvidyādāvādityādīnāṃ madhvāditvena kalpanā kriyate, evamatrāpi tejo 'bannānāmajādikalpanopadeśādavirodha iti / etadayuktam / kalpanāyāḥ prayojanābhāvāt / nahīdaṃ pāmara(jana)manorañjanārthaṃ kāvyam / ata eva dṛṣṭānto 'pi nirastaḥ / kaścijjyotirupakrametyetadanyathā vyācaṣṭe / jyotirbrahma / tadupakramā tatkāraṇaiveyamajā na svatantreti / tasya prathamasūtraṃ vyartham / anenaiva caritārthatvāt / kiñca tadadhīnatvādi(tyane)naiva pradhānasya jyotirupakramatvaṃ pratipāditam / pratipādanīyaṃ ca sāṅkhayaparīkṣāyāmapi / asyāḥ śruteḥ pradhānaparatve('pi) na doṣa ityayuktaṃ"tattu samanvayāt'; ityavadhāraṇānupapatteriti cet na, tejo 'bannaparatve 'pi tadanistārāt / *4,354* astu parasyaivam / bhavatāṃ tu kathaṃ na doṣa ityata āha asmākamiti // asmākaṃ paramamukhyārtho bhagavāneka eva tu / mukhyamātratayā rūḍhaṃ sarvamabhyupagamyate
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.