*६,१७६* अत्र मुख्यमेवार्थमङ्गीकुर्वाणः प्रष्टव्यः । किं प्रागभिन्नस्यैव जीवस्य मुक्तौ ब्रह्मणैक्यमनेनोच्यते, उत भिन्नस्य, अथ(वा) भिन्नाभिन्नस्य । नाद्यः, अभूततद्भावार्थस्यैकीभवन्तीति च्विप्रत्ययस्यैव अनुपपत्तेः । अत एव न तृतीयः । ऐक्यस्य प्राक् सिद्धत्वात् । भेदनिवृत्त्यर्थत्वे तु गौणार्थत्वापत्तेः । द्वितीयनिराकरणेन निरस्तत्वात् (च) । द्वितीये त्विदमुपतिष्ठते, नान्यदिति । हिशब्दो हेतौ । यतो लोके अन्यत् वस्तु, अन्यत्वं वस्त्वन्तरेणाभेदमापन्नम्, क्वचित्काले, कथञ्चनोपायेन, न दृष्टम् । अतस्तद्दृष्टान्तेन जीवस्यापि कदाचन मुक्तावपि ब्रह्मभावो ब्रह्मत्वं न स्यात् । अयमत्र प्रयोगः । जीवो न कालान्तरे ऽपि ब्रह्मणैक्यमापत्स्यते । प्राक् ततो ऽत्यन्तभिन्नत्वात् । यः कदाचिद्यतो ऽत्यन्तं भिद्यते नासौ कदाचित्तदैक्यमापद्यते । यथा घटः पटेनेति । अथवा जीवब्रह्मणोः भेदः, सतोर्भेदिनोर्न निवृत्तिमान्, भेदत्वात्स्तम्भकुम्भादिभेदवदिति । आगमबाधितमेतदिति चेन्न । आगमानां मुख्यार्थतासम्भवे ऽनुमानबाधकत्वं, बाधिते चानुमाने तेषां मुख्यार्थतेति परस्पराश्रयत्वप्रसङ्गात् । सत्प्रतिपक्षत्वाच्च । तथाहि श्रुतिः । यथोदकमित्यादिका । प्रल्हादो ऽपि"परमात्मात्मनोर्योगः परमार्थ इतीष्यते(ताम्) । मिथ्यैतदन्यद्द्रव्यं हि नैति तद्द्रव्यतां यतःऽ; इति । *६,१८२* अथ मतम् । नायमस्ति युक्तिविरोधः । प्रागप्यभिन्न एव ब्रह्मणा जीव इत्यङ्गीकारात् । नच च्विप्रत्ययानुपपत्तिः । प्रतीत्यपेक्षया तदुपपत्तेः । प्राग्विभिन्नतया दृष्टो ऽयं जीवो ब्रह्मणः । अथेदानीं मुक्तावभिन्नतया दृश्यते, इत्यत एकीभवन्तीत्युच्यत इति । अत्रेदं वक्तव्यम् । किं प्राक्तनी जीवब्रह्मणोर्भेददृष्टिर्भ्रान्तिरुत प्रमेति । नाद्यः । बाधकाभावात् । श्रुतयस्त्वद्याप्यव्यवस्थितार्था न बाधकतामश्नुवते । द्वितीये त्वाह क्वचिदिति । क्वचिद् भिन्नतया दृष्टं तदभिन्नतया कथम् । दृश्येन्नो दृष्टपूर्वं हि तादृशं न च दृश्यते
*6,176* atra mukhyamevārthamaṅgīkurvāṇaḥ praṣṭavyaḥ / kiṃ prāgabhinnasyaiva jīvasya muktau brahmaṇaikyamanenocyate, uta bhinnasya, atha(vā) bhinnābhinnasya / nādyaḥ, abhūtatadbhāvārthasyaikībhavantīti cvipratyayasyaiva anupapatteḥ / ata eva na tṛtīyaḥ / aikyasya prāk siddhatvāt / bhedanivṛttyarthatve tu gauṇārthatvāpatteḥ / dvitīyanirākaraṇena nirastatvāt (ca) / dvitīye tvidamupatiṣṭhate, nānyaditi / hiśabdo hetau / yato loke anyat vastu, anyatvaṃ vastvantareṇābhedamāpannam, kvacitkāle, kathañcanopāyena, na dṛṣṭam / atastaddṛṣṭāntena jīvasyāpi kadācana muktāvapi brahmabhāvo brahmatvaṃ na syāt / ayamatra prayogaḥ / jīvo na kālāntare 'pi brahmaṇaikyamāpatsyate / prāk tato 'tyantabhinnatvāt / yaḥ kadācidyato 'tyantaṃ bhidyate nāsau kadācittadaikyamāpadyate / yathā ghaṭaḥ paṭeneti / athavā jīvabrahmaṇoḥ bhedaḥ, satorbhedinorna nivṛttimān, bhedatvātstambhakumbhādibhedavaditi / āgamabādhitametaditi cenna / āgamānāṃ mukhyārthatāsambhave 'numānabādhakatvaṃ, bādhite cānumāne teṣāṃ mukhyārthateti parasparāśrayatvaprasaṅgāt / satpratipakṣatvācca / tathāhi śrutiḥ / yathodakamityādikā / pralhādo 'pi"paramātmātmanoryogaḥ paramārtha itīṣyate(tām) / mithyaitadanyaddravyaṃ hi naiti taddravyatāṃ yataḥ'; iti / *6,182* atha matam / nāyamasti yuktivirodhaḥ / prāgapyabhinna eva brahmaṇā jīva ityaṅgīkārāt / naca cvipratyayānupapattiḥ / pratītyapekṣayā tadupapatteḥ / prāgvibhinnatayā dṛṣṭo 'yaṃ jīvo brahmaṇaḥ / athedānīṃ muktāvabhinnatayā dṛśyate, ityata ekībhavantītyucyata iti / atredaṃ vaktavyam / kiṃ prāktanī jīvabrahmaṇorbhedadṛṣṭirbhrāntiruta prameti / nādyaḥ / bādhakābhāvāt / śrutayastvadyāpyavyavasthitārthā na bādhakatāmaśnuvate / dvitīye tvāha kvaciditi / kvacid bhinnatayā dṛṣṭaṃ tadabhinnatayā katham / dṛśyenno dṛṣṭapūrvaṃ hi tādṛśaṃ na ca dṛśyate
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.