न केवलं विष्णौ किन्तु तद्भक्तेषु रमादिष्वपि, विनिश्चयात् सर्वथा, सा च क्रियमाणा तारतम्येनैव । कुत इत्यत आह एषापीति ॥ ॥। एषापि तद्भक्तिर् ॥। यतस्तद्भक्तेषु क्रियमाणैषापि भगवद्भक्तिरेवातस्तद्विषये ऽपि भक्तिः कर्तव्या । एतदुक्तं भवति । विष्णुभक्तिस्तावत्कर्तव्येत्युपपादितम् । सा च तद्भक्तभक्त्यैव साङ्गा नान्यथेति । एतदपि कुत इत्यत आह लोकेति ॥ ॥। लोकवेदानुसारतः
na kevalaṃ viṣṇau kintu tadbhakteṣu ramādiṣvapi, viniścayāt sarvathā, sā ca kriyamāṇā tāratamyenaiva / kuta ityata āha eṣāpīti // ... eṣāpi tadbhaktir ... yatastadbhakteṣu kriyamāṇaiṣāpi bhagavadbhaktirevātastadviṣaye 'pi bhaktiḥ kartavyā / etaduktaṃ bhavati / viṣṇubhaktistāvatkartavyetyupapāditam / sā ca tadbhaktabhaktyaiva sāṅgā nānyatheti / etadapi kuta ityata āha loketi // ... lokavedānusārataḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.