क्अ इ,२१०।५-१७ रो इइ,५३-५४ किम् पुनः इयम् एकश्रुतिः उदात्ता आहोस्वित् अनुदात्ता । न उदात्ता । कथम् ज्ञायते । यत् अयम् उच्चैस्तराम् वा वषट्कारः इति आह । कथम् कृत्वा ज्ञापकम् । अतन्त्रम् तरनिर्देशः । यावत् उच्चैः तावत् उच्चैस्तराम् इति । यदि तर्हि न उदात्ता अनुदात्ता । अनुदात्ता च न । कथम् ज्ञायते । यत् अयम् उदात्तस्वरितपरस्य सन्नतरः इति आह । कथम् कृत्वा ज्ञापकम् । अतन्त्रम् तरनिर्देशः । यावत् सन्नः तावत् सन्नतरः इति । सा एषा ज्ञापकाभ्याम् उदात्तानुदात्तयोः मध्यम् एकश्रुतिः अन्तरालम् ह्रियते । अपरः आह : किम् पुनः इयम् एकश्रुतिः उदात्ता उत अनुदात्ता । उदात्ता । कथम् ज्ञायते । यत् अयम् उच्चैस्तराम् वा वषट्कारः इति आह । कथम् कृत्वा ज्ञापकम् । तन्त्रम् तरनिर्देशः । उच्चैः दृष्ट्वा उच्चैस्तराम् इति एतत् भवति । यदि तर्हि उदात्ता न अनुदात्ता । अनुदात्ता च । कथम् ज्ञायते । यत् अयम् उदात्तस्वरितपरस्य सन्नतरः इति आह । कथम् कृत्वा ज्ञापकम् । तन्त्रम् तरनिर्देशः । सन्नम् दृष्ट्वा सन्नतरः इति एतत् भवति । ते एते तन्त्रे तरनिर्देशे सप्त स्वराः भवन्ति : उदात्तः , उदात्ततरः , अनुदात्तः , अनुदात्तरः , स्वरितः , स्वरिते यः उदात्तः सः अन्येन विशिष्तः , एकश्रुतिः सप्तमः ।
KA I,210.5-17 Ro II,53-54 kim punaḥ iyam ekaśrutiḥ udāttā āhosvit anudāttā . na udāttā . katham jñāyate . yat ayam uccaistarām vā vaṣaṭkāraḥ iti āha . katham kṛtvā jñāpakam . atantram taranirdeśaḥ . yāvat uccaiḥ tāvat uccaistarām iti . yadi tarhi na udāttā anudāttā . anudāttā ca na . katham jñāyate . yat ayam udāttasvaritaparasya sannataraḥ iti āha . katham kṛtvā jñāpakam . atantram taranirdeśaḥ . yāvat sannaḥ tāvat sannataraḥ iti . sā eṣā jñāpakābhyām udāttānudāttayoḥ madhyam ekaśrutiḥ antarālam hriyate . aparaḥ āha : kim punaḥ iyam ekaśrutiḥ udāttā uta anudāttā . udāttā . katham jñāyate . yat ayam uccaistarām vā vaṣaṭkāraḥ iti āha . katham kṛtvā jñāpakam . tantram taranirdeśaḥ . uccaiḥ dṛṣṭvā uccaistarām iti etat bhavati . yadi tarhi udāttā na anudāttā . anudāttā ca . katham jñāyate . yat ayam udāttasvaritaparasya sannataraḥ iti āha . katham kṛtvā jñāpakam . tantram taranirdeśaḥ . sannam dṛṣṭvā sannataraḥ iti etat bhavati . te ete tantre taranirdeśe sapta svarāḥ bhavanti : udāttaḥ , udāttataraḥ , anudāttaḥ , anudāttaraḥ , svaritaḥ , svarite yaḥ udāttaḥ saḥ anyena viśiṣtaḥ , ekaśrutiḥ saptamaḥ .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.