क्अ इ,१९१।२-१९२।१२ रो इइ,३-७ ङित्किद्वचने तयोः अभावात् अप्रसिद्धिः । ङित्किद्वचने तयोः अभावात् , ङकारककारयोः अभावात् , ङित्त्वकित्त्वयोः अप्रसिद्धिः । सता हि अभिसम्बन्धः शक्यते कर्तुम् न च अत्र ङकारककारौ इतौ पश्यामः । तत् यथा चित्रगुः देवदत्तः इति : यस्य ताः गावः सन्ति सः एव ताभ्याम् शब्दाभ्याम् शक्यते अभिसम्बन्धुम् । भाव्येते तर्हि अनेन । गाङ्कुटादिभ्यः अञ्णित् ङित् भवति इति । असंयोगात् लिट् कित् भवति इति । भवति इति चेत् आदेशप्रतिषेधः । भवति इति चेत् आदेशस्य प्रतिषेधः वक्तव्यः । ङकारककारौ इतौ आदेशौ प्राप्नुतः । कथम् पुनः इत्सञ्ज्ञः नाम आदेशः स्यात् । किम् हि वचनात् न भवति । एवम् तर्हि षष्ठीनिर्दिष्टस्य आदेशाः उच्यन्ते न च अत्र षष्ठीम् पश्यामः । गाङ्कुटादिभ्यः इति एषा पञ्चमी अञ्णित् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति । सञ्ज्ञाकरणम् तर्हि इदम् । गाङ्कुटादिभ्यः अञ्णित् ङित्सञ्ज्ञः भवति इति । असंयोगात् लिट् कित्सञ्ज्ञः भवति इति । सञ्ज्ञाकरणे क्ङिद्ग्रहणे असम्प्रत्ययः शब्दभेदात् । सञ्ज्ञाकरणे क्ङिद्ग्रहणे असम्प्रत्ययः स्यात् । किम् कारणम् । शब्दभेदात् । अन्यः हि शब्दः क्ङिति इति अन्यः किति इति ङिति इति च । तथा किद्ग्रहणेषु ङिद्ग्रहणेषु च अनयोः एव सम्प्रत्ययः स्यात् । तद्वदतिदेशः तर्हि अयम् : गाङ्कुटादिभ्यः अञ्णित् ङिद्वत् भवति इति । असंयोगात् लिट् किद्वत् भवति इति । सः तर्हि वतिनिर्देशः कर्तव्यः । न हि अन्तरेण वतिम् अतिदेशः गम्यते । अन्तरेण अपि वतिम् अतिदेशः गम्यते । तत् यथा : एषः ब्रह्मदत्तः । अब्रह्मदत्तम् ब्रह्मदत्तः इति आह । ते मन्यामहे ब्रह्मदत्तवत् अयम् भवति इति । एवम् इह अपि अङितम् ङित् इति आह । ङिद्वत् इति गम्यते । अकितम् कित् इति आह । किद्वत् इति गम्यते । तद्वदतिदेशे अकिद्विधिप्रसङ्गः । तद्वदतिदेशे अकिद्विधिः अपि प्राप्नोति । सृजिदृशोः झलि अम् अकिति : सिसृक्षति दिदृक्षते : अकिल्लक्षणः अमागमः प्राप्नोति । सिद्धम् तु प्रसज्यप्रतिषेधात् । सिद्धम् एतत् । कथम् । प्रसज्य अयम् प्रतिषेधः क्रियते : किति न इति । सर्वत्र सनन्तात् आत्मनेपदप्रतिषेधः । सर्वेषु पक्षेषु सनन्तात् आत्मनेपदम् प्राप्नोति । उच्चुकुटिषति निचुकुटिषति : ङिति इति आत्मनेपदम् प्राप्नोति । तस्य प्रतिषेधः वक्तव्यः । सिद्धम् तु पूर्वस्य कार्यातिदेशात् । सिद्धम् एतत् । कथम् । पूर्वस्य यत् कार्यम् तत् अतिदिश्यते । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । सप्तम्यर्थे अपि वतिः भवति । तत् यथा : मथुरायाम् इव मथुरावत् पाटलिपुत्रे इव पाटलिपुत्रवत् एवम् ङिति इव ङिद्वत् ।
KA I,191.2-192.12 Ro II,3-7 ṅitkidvacane tayoḥ abhāvāt aprasiddhiḥ . ṅitkidvacane tayoḥ abhāvāt , ṅakārakakārayoḥ abhāvāt , ṅittvakittvayoḥ aprasiddhiḥ . satā hi abhisambandhaḥ śakyate kartum na ca atra ṅakārakakārau itau paśyāmaḥ . tat yathā citraguḥ devadattaḥ iti : yasya tāḥ gāvaḥ santi saḥ eva tābhyām śabdābhyām śakyate abhisambandhum . bhāvyete tarhi anena . gāṅkuṭādibhyaḥ añṇit ṅit bhavati iti . asaṃyogāt liṭ kit bhavati iti . bhavati iti cet ādeśapratiṣedhaḥ . bhavati iti cet ādeśasya pratiṣedhaḥ vaktavyaḥ . ṅakārakakārau itau ādeśau prāpnutaḥ . katham punaḥ itsañjñaḥ nāma ādeśaḥ syāt . kim hi vacanāt na bhavati . evam tarhi ṣaṣṭhīnirdiṣṭasya ādeśāḥ ucyante na ca atra ṣaṣṭhīm paśyāmaḥ . gāṅkuṭādibhyaḥ iti eṣā pañcamī añṇit iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti . sañjñākaraṇam tarhi idam . gāṅkuṭādibhyaḥ añṇit ṅitsañjñaḥ bhavati iti . asaṃyogāt liṭ kitsañjñaḥ bhavati iti . sañjñākaraṇe kṅidgrahaṇe asampratyayaḥ śabdabhedāt . sañjñākaraṇe kṅidgrahaṇe asampratyayaḥ syāt . kim kāraṇam . śabdabhedāt . anyaḥ hi śabdaḥ kṅiti iti anyaḥ kiti iti ṅiti iti ca . tathā kidgrahaṇeṣu ṅidgrahaṇeṣu ca anayoḥ eva sampratyayaḥ syāt . tadvadatideśaḥ tarhi ayam : gāṅkuṭādibhyaḥ añṇit ṅidvat bhavati iti . asaṃyogāt liṭ kidvat bhavati iti . saḥ tarhi vatinirdeśaḥ kartavyaḥ . na hi antareṇa vatim atideśaḥ gamyate . antareṇa api vatim atideśaḥ gamyate . tat yathā : eṣaḥ brahmadattaḥ . abrahmadattam brahmadattaḥ iti āha . te manyāmahe brahmadattavat ayam bhavati iti . evam iha api aṅitam ṅit iti āha . ṅidvat iti gamyate . akitam kit iti āha . kidvat iti gamyate . tadvadatideśe akidvidhiprasaṅgaḥ . tadvadatideśe akidvidhiḥ api prāpnoti . sṛjidṛśoḥ jhali am akiti : sisṛkṣati didṛkṣate : akillakṣaṇaḥ amāgamaḥ prāpnoti . siddham tu prasajyapratiṣedhāt . siddham etat . katham . prasajya ayam pratiṣedhaḥ kriyate : kiti na iti . sarvatra sanantāt ātmanepadapratiṣedhaḥ . sarveṣu pakṣeṣu sanantāt ātmanepadam prāpnoti . uccukuṭiṣati nicukuṭiṣati : ṅiti iti ātmanepadam prāpnoti . tasya pratiṣedhaḥ vaktavyaḥ . siddham tu pūrvasya kāryātideśāt . siddham etat . katham . pūrvasya yat kāryam tat atidiśyate . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . saptamyarthe api vatiḥ bhavati . tat yathā : mathurāyām iva mathurāvat pāṭaliputre iva pāṭaliputravat evam ṅiti iva ṅidvat .
Sanskrit only: no published translation is held for this verse.