क्अ इ,२२२।१३-२२३।११ रो इइ,८५-८८ प्रातिपदिकग्रहणम् किमर्थम् । नपुंसकह्रस्वत्वे प्रातिपदिकग्रहणम् तिब्निवृत्त्यर्थम् । नपुंसकह्रस्वत्वे प्रातिपदिकग्रहणम् क्रियते तिब्निवृत्त्यर्थम् । तिबन्तस्य ह्रस्वत्वम् मा भूत् : काण्डे कुड्ये । रमते ब्राह्मणकुलम् । अव्ययप्रतिषेधः । अव्ययानाम् प्रतिषेधः वक्तव्यः : दोषा ब्राह्मणकुलम् दिवा ब्राह्मणकुलम् इति । सः तर्हि वक्तव्यः । न वक्तव्यः । न अत्र अव्ययम् नपुंसके वर्तते । किम् तर्हि । अधिकरणम् अत्र अव्ययम् नपुंसकस्य । इह तर्हि प्राप्नोति : काण्डीभूतम् वृषलकुलम् , कुड्यीभूतम् वृषलकुलम् इति । न वा लिङ्गाभावात् । न वा वक्तव्यम् । किम् कारणम् । लिङ्गाभावात् । अलिङ्गम् अव्ययम् । किम् पुनः अयम् अव्ययस्य एव परिहारः आहोस्वित् तिबन्तस्य अपि । तिबन्तस्य अपि इति आह । कथम् । अव्ययम् हि किम् चित् विभक्त्यर्थप्रधानम् किम् चित् क्रियाप्रधानम् । उच्चैः, नीचैः इति विभक्त्यर्थप्रधानम् , हिरुक् पृथक् इति क्रियाप्रधानम् । तिबन्तम् च अपि किम् चित् विभक्त्यर्थप्रधानम् किम् चित् क्रियाप्रधानम् । काण्डे कुड्ये* इति विभक्तर्थ्यप्रधानम् , रमते ब्राह्मणकुलम् इति क्रियाप्रधानम् । न च एतयोः अर्थयोः लिङ्गसङ्ख्याभ्याम् योगः अस्ति । अवश्यम् च एतत् एवम् विज्ञेयम् । क्रियमाणे अपि हि प्रातिपदिकग्रहणे इह प्रसज्येत : काण्डे कुड्ये । द्वे हि अत्र प्रातिपदिकसञ्ज्ञे अवयवस्य अपि समुदायस्य अपि । गृह्यते च प्रातिपदिकाप्रातिपदिकयोः एकादेशः प्रातिपदिकग्रहणेन । तस्मात् उभाभ्याम् अपि वक्तव्यम् स्यात् : ह्रस्वः नपुंसके यत् तस्य इति । किम् च नपुंसके । नपुंसकम् यस्य गुणः । कस्य च नपुंसकम् गुणः । प्रातिपदिकस्य ।
KA I,222.13-223.11 Ro II,85-88 prātipadikagrahaṇam kimartham . napuṃsakahrasvatve prātipadikagrahaṇam tibnivṛttyartham . napuṃsakahrasvatve prātipadikagrahaṇam kriyate tibnivṛttyartham . tibantasya hrasvatvam mā bhūt : kāṇḍe kuḍye . ramate brāhmaṇakulam . avyayapratiṣedhaḥ . avyayānām pratiṣedhaḥ vaktavyaḥ : doṣā brāhmaṇakulam divā brāhmaṇakulam iti . saḥ tarhi vaktavyaḥ . na vaktavyaḥ . na atra avyayam napuṃsake vartate . kim tarhi . adhikaraṇam atra avyayam napuṃsakasya . iha tarhi prāpnoti : kāṇḍībhūtam vṛṣalakulam , kuḍyībhūtam vṛṣalakulam iti . na vā liṅgābhāvāt . na vā vaktavyam . kim kāraṇam . liṅgābhāvāt . aliṅgam avyayam . kim punaḥ ayam avyayasya eva parihāraḥ āhosvit tibantasya api . tibantasya api iti āha . katham . avyayam hi kim cit vibhaktyarthapradhānam kim cit kriyāpradhānam . uccaiḥ, nīcaiḥ iti vibhaktyarthapradhānam , hiruk pṛthak iti kriyāpradhānam . tibantam ca api kim cit vibhaktyarthapradhānam kim cit kriyāpradhānam . kāṇḍe kuḍye* iti vibhaktarthyapradhānam , ramate brāhmaṇakulam iti kriyāpradhānam . na ca etayoḥ arthayoḥ liṅgasaṅkhyābhyām yogaḥ asti . avaśyam ca etat evam vijñeyam . kriyamāṇe api hi prātipadikagrahaṇe iha prasajyeta : kāṇḍe kuḍye . dve hi atra prātipadikasañjñe avayavasya api samudāyasya api . gṛhyate ca prātipadikāprātipadikayoḥ ekādeśaḥ prātipadikagrahaṇena . tasmāt ubhābhyām api vaktavyam syāt : hrasvaḥ napuṃsake yat tasya iti . kim ca napuṃsake . napuṃsakam yasya guṇaḥ . kasya ca napuṃsakam guṇaḥ . prātipadikasya .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.