क्अ इ,२२३।२२-२२५।१४ रो इइ,८९-९४ गोटाङ्ग्रहणम् कृन्निवृत्त्यर्थम् । गोटाङ्ग्रहणम् कर्तव्यम् । किम् इदम् टाङ् इति । प्रत्याहारग्रहणम् । क्व सन्निविष्टानाम् प्रत्याहारः । टापः प्रभृति आ ष्यङः ङकारात् । किम् प्रयोजनम् । कृन्निवृत्त्यर्थम् । कृत्स्त्रियाः धातुस्त्रियाः च ह्रस्वत्वम् मा भूत् इति : अतितन्त्रीः , अतिश्रीः , अतिलक्ष्मीः इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । स्त्रीग्रहणम् स्वर्यते । तत्र स्वरितेन अधिकारगतिः भवति । स्त्रियाम् इति एवम् प्रकृत्य ये विहिताः तेषाम् ग्रहणम् विज्ञास्यते । स्वरितेन अधिकारगतिः भवति इति न दोषः भवति । यदि एवम् प्रत्ययग्रहणम् इदम् भवति । तत्र प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति इह न प्राप्नोति : अतिराजकुमारिः , अतिसेनानीकुमारिः इति । अस्त्रीप्रत्ययेन इति एवम् तत् । ईयसः बहुव्रीहौ पुंवद्वचनम् । ईयसः बहुव्रीहौ पुंवद्भावः वक्तव्यः । बह्व्यः श्रेयस्यः अस्य बहुश्रेयसी विद्यमानश्रेयसी । पूर्वपदस्य च प्रतिषेधः गोसमासनिवृत्त्यर्थम् । पूर्वपदस्य च प्रतिषेधः वक्तव्यः । किम् प्रयोजनम् । गोसमासनिवृत्त्यर्थम् । गोनिवृत्त्यर्थम् समासनिवृत्त्यर्थम् च । गोनिवृत्त्यर्थम् तावत् : गोकुलम् , गोक्षीरम् , गोपालकः इति । समासनिवृत्त्यर्थम् : राजकुमारीपुत्रः , सेनानीकुमारीपुत्रः इति । किम् उच्यते समासनिवृत्त्यर्थम् इति न पुनः असमासः अपि किम् चित् पूर्वपदम् यदर्थः प्रतिषेधः स्यात् । स्त्र्यन्तस्य प्रातिपदिकस्य उपसर्जनस्य ह्रस्वः भवति इति उच्यते न च अन्तरेण समासम् स्त्र्यन्तम् प्रातिपदिकम् उपसर्जनम् अस्ति । ननु च इदम् अस्ति : खट्वापादः , मालापादः इति । एकादेशे कृते अन्तादिवद्भावात् प्राप्नोति । उभयतः आश्रये न अन्तादिवत् । गोनिवृत्त्यर्थेन तावत् न अर्थः । गोन्तस्य प्रातिपदिकस्य उपसर्जनस्य ह्रस्वः भवति इति उच्यते न च एतत् गोन्तम् । ननु च एतत् अपि व्यपदेशिवद्भावेन गोन्तम् । व्यपदेशिवद्भावः अप्रातिपदिकेन । समासनिवृत्त्यर्थेन च अपि न अर्थः । स्त्र्यन्तस्य प्रातिपदिकस्य उपसर्जनस्य ह्रस्वः भवति इति उच्यते । प्रधानम् उपसर्जनम् इति च सम्बन्धिशब्दौ एतौ । तत्र सम्बन्धात् एतत् गन्तव्यम् : यम् प्रति यत् अप्रधानम् तस्य चेत् सः अन्तः भवति इति । अवश्यम् च एतत् एवम् विज्ञेयम् । उच्यमाने अपि हि प्रतिषेधे इह प्रसज्येत : पञ्च कुमार्यः प्रियाः अस्य पञ्चकुमारीप्रियः , दशकुमारीप्रियः इति । कपि च । कपि च प्रतिषेधः वक्तव्यः : बहुकुमारीकः , बहुवृषलीकः । द्वन्द्वे च । द्वन्द्वे च प्रतिषेधः वक्तव्यः : कुक्कुटमयूर्यौ । उक्तम् वा । किम् उक्तम् । कपि तावत् उक्तम् : न कपि इति प्रतिषेधः इति । न एतत् अस्ति उक्तम् । के अणः इति या ह्रस्वप्राप्तिः तस्याः प्रतिषेधः । कुतः एतत् । अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति । अवश्यम् च एतत् एवम् विज्ञेयम् । यः हि मन्यते या च यावतीच ह्रस्वप्राप्तिः तस्याः सर्वस्याः प्रतिषेधः इति इह अपि तस्य प्रतिषेधः प्रसज्येत : प्रियम् ग्रामणि ब्राह्मणकुलम् अस्य प्रियग्रामणिकः । इदम् तर्हि उक्तम् : कपि कृते अनन्त्यत्वात् ह्रस्वत्वम् न भविष्यति । इदम् इह सम्प्रधार्यम् : कप् क्रियताम् ह्रस्वत्वम् इति । किम् अत्र कर्तव्यम् । परत्वात् कप् । अन्तरङ्गम् ह्रस्वत्वम् । अन्तरङ्गतरः कप् । ननु च अयम् कप् समासान्तः इचि उच्यते । तादर्थ्यात् ताच्छब्द्यम् भविष्यति । येषाम् पदानाम् समासः न तावत् तेषाम् अन्यत् भवति । कपम् तावत् प्रतीक्षते । द्वन्द्वे अपि उक्तम् । किम् उक्तम् । परवत् लिङ्गम् इति शब्दशब्दार्थौ इति । तत्र औपदेशिकस्य ह्रस्वत्वम् आतिदेशिकस्य श्रवणम् भविष्यति ।
KA I,223.22-225.14 Ro II,89-94 goṭāṅgrahaṇam kṛnnivṛttyartham . goṭāṅgrahaṇam kartavyam . kim idam ṭāṅ iti . pratyāhāragrahaṇam . kva sanniviṣṭānām pratyāhāraḥ . ṭāpaḥ prabhṛti ā ṣyaṅaḥ ṅakārāt . kim prayojanam . kṛnnivṛttyartham . kṛtstriyāḥ dhātustriyāḥ ca hrasvatvam mā bhūt iti : atitantrīḥ , atiśrīḥ , atilakṣmīḥ iti . tat tarhi vaktavyam . na vaktavyam . strīgrahaṇam svaryate . tatra svaritena adhikāragatiḥ bhavati . striyām iti evam prakṛtya ye vihitāḥ teṣām grahaṇam vijñāsyate . svaritena adhikāragatiḥ bhavati iti na doṣaḥ bhavati . yadi evam pratyayagrahaṇam idam bhavati . tatra pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti iha na prāpnoti : atirājakumāriḥ , atisenānīkumāriḥ iti . astrīpratyayena iti evam tat . īyasaḥ bahuvrīhau puṃvadvacanam . īyasaḥ bahuvrīhau puṃvadbhāvaḥ vaktavyaḥ . bahvyaḥ śreyasyaḥ asya bahuśreyasī vidyamānaśreyasī . pūrvapadasya ca pratiṣedhaḥ gosamāsanivṛttyartham . pūrvapadasya ca pratiṣedhaḥ vaktavyaḥ . kim prayojanam . gosamāsanivṛttyartham . gonivṛttyartham samāsanivṛttyartham ca . gonivṛttyartham tāvat : gokulam , gokṣīram , gopālakaḥ iti . samāsanivṛttyartham : rājakumārīputraḥ , senānīkumārīputraḥ iti . kim ucyate samāsanivṛttyartham iti na punaḥ asamāsaḥ api kim cit pūrvapadam yadarthaḥ pratiṣedhaḥ syāt . stryantasya prātipadikasya upasarjanasya hrasvaḥ bhavati iti ucyate na ca antareṇa samāsam stryantam prātipadikam upasarjanam asti . nanu ca idam asti : khaṭvāpādaḥ , mālāpādaḥ iti . ekādeśe kṛte antādivadbhāvāt prāpnoti . ubhayataḥ āśraye na antādivat . gonivṛttyarthena tāvat na arthaḥ . gontasya prātipadikasya upasarjanasya hrasvaḥ bhavati iti ucyate na ca etat gontam . nanu ca etat api vyapadeśivadbhāvena gontam . vyapadeśivadbhāvaḥ aprātipadikena . samāsanivṛttyarthena ca api na arthaḥ . stryantasya prātipadikasya upasarjanasya hrasvaḥ bhavati iti ucyate . pradhānam upasarjanam iti ca sambandhiśabdau etau . tatra sambandhāt etat gantavyam : yam prati yat apradhānam tasya cet saḥ antaḥ bhavati iti . avaśyam ca etat evam vijñeyam . ucyamāne api hi pratiṣedhe iha prasajyeta : pañca kumāryaḥ priyāḥ asya pañcakumārīpriyaḥ , daśakumārīpriyaḥ iti . kapi ca . kapi ca pratiṣedhaḥ vaktavyaḥ : bahukumārīkaḥ , bahuvṛṣalīkaḥ . dvandve ca . dvandve ca pratiṣedhaḥ vaktavyaḥ : kukkuṭamayūryau . uktam vā . kim uktam . kapi tāvat uktam : na kapi iti pratiṣedhaḥ iti . na etat asti uktam . ke aṇaḥ iti yā hrasvaprāptiḥ tasyāḥ pratiṣedhaḥ . kutaḥ etat . anantarasya vidhiḥ vā bhavati pratiṣedhaḥ vā iti . avaśyam ca etat evam vijñeyam . yaḥ hi manyate yā ca yāvatīca hrasvaprāptiḥ tasyāḥ sarvasyāḥ pratiṣedhaḥ iti iha api tasya pratiṣedhaḥ prasajyeta : priyam grāmaṇi brāhmaṇakulam asya priyagrāmaṇikaḥ . idam tarhi uktam : kapi kṛte anantyatvāt hrasvatvam na bhaviṣyati . idam iha sampradhāryam : kap kriyatām hrasvatvam iti . kim atra kartavyam . paratvāt kap . antaraṅgam hrasvatvam . antaraṅgataraḥ kap . nanu ca ayam kap samāsāntaḥ ici ucyate . tādarthyāt tācchabdyam bhaviṣyati . yeṣām padānām samāsaḥ na tāvat teṣām anyat bhavati . kapam tāvat pratīkṣate . dvandve api uktam . kim uktam . paravat liṅgam iti śabdaśabdārthau iti . tatra aupadeśikasya hrasvatvam ātideśikasya śravaṇam bhaviṣyati .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.