क्अ इ,२४७।२२-२४८।३ रो इइ,१६१ इदम् सर्वेषु स्त्रीग्रहणेषु विचार्यते : स्त्रीग्रहणे स्त्रीप्रत्ययग्रहणम् वा स्यात् स्त्र्यर्थग्रहणम् वा स्त्रीशब्दग्रहणम् वा इति । किम् च अतः । यदि प्रत्ययग्रहणम् वा शब्दग्रहणम् वा गार्गी च गार्ग्यायणौ च गर्गाः : केन यशब्दः न श्रूयेत । अस्त्रियाम् इति हि लुक् उच्यते । इह च गार्गी च गार्ग्यायणौ च गर्गान् पश्य : तस्मात् शसः नः पुंसि इति नत्वम् न प्राप्नोति । अथ अर्थग्रहणम् न दोषः भवति । यथा न दोषः तथा अस्तु
KA I,247.22-248.3 Ro II,161 idam sarveṣu strīgrahaṇeṣu vicāryate : strīgrahaṇe strīpratyayagrahaṇam vā syāt stryarthagrahaṇam vā strīśabdagrahaṇam vā iti . kim ca ataḥ . yadi pratyayagrahaṇam vā śabdagrahaṇam vā gārgī ca gārgyāyaṇau ca gargāḥ : kena yaśabdaḥ na śrūyeta . astriyām iti hi luk ucyate . iha ca gārgī ca gārgyāyaṇau ca gargān paśya : tasmāt śasaḥ naḥ puṃsi iti natvam na prāpnoti . atha arthagrahaṇam na doṣaḥ bhavati . yathā na doṣaḥ tathā astu
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.