क्अ इइ,८७।१५-८८।४ रो इइइ,२१२-२१३ निष्टर्क्य इति किम् निपात्यते । निष्टर्क्ये कृतेः आद्यन्तविपर्ययः छन्दसि कृताद्यर्थः । यथा कृतेः तर्कुः कसेः सिकताः हिंसेः सिंहः । अपरः आह : निष्टर्क्ये व्यत्ययम् विद्यात् निसः षत्वम् निपातनात् । ण्यत् आयादेशः इति एतौ उपचाय्ये निपातितौ । निष्टर्क्यम् चिन्वीत पशुकामः । ण्यत् एकस्मात् चतुर्भ्यः क्यप् चतुर्भ्यः यतः विधिः । ण्यत् एकस्मात् यशब्दः च द्वौ क्यपौ ण्यद्विधिः चतुः । ण्यत् एकस्मात् । निष्टर्क्यः । चतुर्भ्यः क्यप् । देवहूयः प्रणीयः उन्नीयः उच्छिष्यः । चतुर्भ्यः च यतः विधिः । मर्यः स्तर्या ध्वर्यः खन्यः । ण्यत् एकस्मात् । खान्यः । यशब्दः च । देवयज्या । द्वौ क्यपौ । आपृच्छ्यः प्रतिषीव्यः । ण्यद्विधिः चतुः । ब्रह्मवाद्यः भाव्यः स्ताव्यः उपचाय्यपृडम् । उपपूर्वात् चिनोतेः आयादेशः निपात्यते । न हि ण्यता एव सिध्यति । हिरण्ये इति वक्तव्यम् । उपचेयपृडम् एव अन्यत्र ।
KA II,87.15-88.4 Ro III,212-213 niṣṭarkya iti kim nipātyate . niṣṭarkye kṛteḥ ādyantaviparyayaḥ chandasi kṛtādyarthaḥ . yathā kṛteḥ tarkuḥ kaseḥ sikatāḥ hiṃseḥ siṃhaḥ . aparaḥ āha : niṣṭarkye vyatyayam vidyāt nisaḥ ṣatvam nipātanāt . ṇyat āyādeśaḥ iti etau upacāyye nipātitau . niṣṭarkyam cinvīta paśukāmaḥ . ṇyat ekasmāt caturbhyaḥ kyaP caturbhyaḥ yataḥ vidhiḥ . ṇyat ekasmāt yaśabdaḥ ca dvau kyapau ṇyadvidhiḥ catuḥ . ṇyat ekasmāt . niṣṭarkyaḥ . caturbhyaḥ kyap . devahūyaḥ praṇīyaḥ unnīyaḥ ucchiṣyaḥ . caturbhyaḥ ca yataḥ vidhiḥ . maryaḥ staryā dhvaryaḥ khanyaḥ . ṇyat ekasmāt . khānyaḥ . yaśabdaḥ ca . devayajyā . dvau kyapau . āpṛcchyaḥ pratiṣīvyaḥ . ṇyadvidhiḥ catuḥ . brahmavādyaḥ bhāvyaḥ stāvyaḥ upacāyyapṛḍam . upapūrvāt cinoteḥ āyādeśaḥ nipātyate . na hi ṇyatā eva sidhyati . hiraṇye iti vaktavyam . upaceyapṛḍam eva anyatra .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.