Library·Patanjali: Vyakaranamahabhasya·3·3.1

Patanjali: Vyakaranamahabhasya 3.1

क्अ इइ,१।२-३।१३ रो इइइ,३-१२ अधिकारेण इयम् प्रत्ययसञ्ज्ञा क्रियते । सा प्रकृत्युपपदोपाधीनाम् अपि प्राप्नोति । तस्याः प्रतिषेधः वक्तव्यः । प्रकृति । गुप्तिज्किभ्यः सन् । उपपद । स्तम्बकर्णयोः रमजपोः । उपाधि । हरतेः दृतिनाथयोः पशौ । एतेषाम् प्रतिषेधः वक्तव्यः । किम् च स्यात् यदि एतेषाम् अपि प्रत्ययसञ्ज्ञा स्यात् । परत्वम् आद्युदात्तत्वम् अङ्गसञ्ज्ञा इति एते विधयः प्रसज्येरन् । अतः उत्तरम् पठति । प्रत्ययाधिकारे प्रकृत्युपपदोपाधीनाम् अप्रतिषेधः । अधिकारेण अपि प्रत्ययसञ्ज्ञायाम् सत्याम् प्रकृत्युपपदोपाधीनाम् अप्रतिषेधः । अनर्थकः प्रतिषेधः अप्रतिषेधः । प्रत्ययसञ्ज्ञा कस्मात् न भवति । निमित्तस्य निमित्तिकार्यार्थत्वात् अन्यत्र अपि । निमित्तानि हि निमित्तिकार्यार्थानि भवन्ति । किम् पुनः निमित्तम् कः वा निमित्ती । प्रकृत्युपपओपाधयः निमित्तम् प्रत्ययः निमित्ती । अन्यत्र अपि च एषः न्यायः दृष्टः । क्व अन्यत्र । लोके । तत् यथा । बहुषु आसीनेषु कः चित् कम् चित् पृच्छति । कतमः देवदत्तः । कतरः यज्ञदत्तः इति । सः तस्मै आचष्टे । यः अश्वे यः पीठे इति उक्ते निमित्तस्य निमित्तिकार्यार्थत्वात् अध्यवस्यति अयम् देवदत्तः अयम् यज्ञ्दत्त इति । न इदानीम् अश्वस्य पीठस्य वा देवदत्तः इति सञ्ज्ञा भवति । किम् पुनः निमित्तम् कः वा निमित्ती । निर्ज्ञातः अर्थः निमित्तम् अनिर्ज्ञातार्थः निमित्ती । इह च प्रत्ययः अनिर्ज्ञातः प्रकृत्युपपदोपाधयः निर्ज्ञाताः । क्व । धातूपदेशे प्रातिपदिकोपदेशे च । ते निर्ज्ञाताः निमित्तत्वेन उपादीयन्ते । प्रधाने कार्यसम्प्रत्ययात् वा सिद्धम् । अथ वा प्रधाने कार्यसम्प्रत्ययः भविष्यति । किम् च प्रधानम् । प्रत्ययः । तत् यथा । बहुषु यात्सु कः चित् कम् चित् पृच्छति । कः याति इति । सः आह राजा इति । राजा इति उक्ते प्रधाने कार्यसम्प्रत्ययात् यः पृच्छति यः च आचष्टे उभयोः सम्प्रत्ययः भवति । किङ्कृतम् पुनः प्राधान्यम् । अर्थकृतम् । यथा पुनः लोके अर्थकृतम् प्राधान्यम् शब्दस्य इदानीम् किङ्कृतम् प्राधान्यम् । शब्दस्य अपूर्वोपदेशः प्राधान्यम् । यस्य अपूर्वोपदेशः सः प्रधानम् । प्रकृत्युपपदोपाधयः च उपदिष्टाः । क्व । धातूपदेशे प्रातिपदिकोपदेशे च । यदि एव निमित्तस्य निमित्तिकार्यार्थत्वात् अथ अपि प्रधाने कार्यसम्प्रत्ययात् प्रकृत्युपपदोपाधीनाम् न भवति विकारागमानाम् तु प्राप्नोति । हनः त च । त्रपुजतुनोः षुक् इति । एतेषाम् हि अपूर्वोपदेशात् प्राधान्यम् । निमित्तिनः च एते । विकारागमेषु च परविज्ञानात् । विकारागमेषु च परविज्ञानात् प्रत्ययसञ्ज्ञा न भविष्यति । प्रत्ययः परः बह्वति इति उच्यते । न च विकारागमाः परे सम्भवन्ति । किम् पुनः कारणम् समाने अपूर्वोपदेशे प्रत्ययः परः विकारागमाः न परे । षष्ठीनिर्दिष्टस्य च तद्युक्तत्वात् । षष्ठीनिर्दिष्तम् विकारागमयुक्तम् पञ्चमीनिर्द्ष्टात् च प्रत्ययः विधीयते । प्रत्ययविधानानुपपत्तिः तु । प्रत्ययविधिः तु न उपपप्द्यते । क्व । यत्र विकारागमाः विधीयन्ते । हनः त च । तर्पुजतुनोः षुक् । किम् पुनः कारणम् न सिध्यति । विकारागमयुक्तत्वात् अपञ्चमीनिर्दिष्टत्वात् च । तस्मात् तत्र पञ्चमीनिर्देशात् सिद्धम् । तस्मात् तत्र पञ्चमीनिर्देशः कर्तव्यः । न कर्तव्यः । इह तावत् हनः ते इति । धातोः इति वर्तते। इह त्रपुजतुनोः षुक् इति । प्रातिपदिकात् इति वर्तते । यदि एवम् हनः त च धातोः क्यप् भवति इति धातुमात्रात् क्यप् प्राप्नोति । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति न धातुमात्रात् क्यप् भवति इति यत् अयम् एतिस्तुशस्वृदृजुषः क्यप् इति परिगणनम् करोति । अथ वा हन्तिम् एव अत्र धातुग्रहणेन अभिसम्भन्त्स्यामः । हनः तः भवति । धातोः क्यप् भवति । कस्मात् । हन्तेः इति । अर्थाश्रयत्वात् वा । अथ वा अर्थाश्रयः प्रत्ययविधिः । यः तम् अर्थम् सम्प्रत्याययति सः प्रत्ययः । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । प्रत्ययः इति महती सञ्ज्ञा क्रियते । सञ्ज्ञा च नाम यतः न लघीयः । कुतः एतत् । लघ्वर्थम् हि सञ्ज्ञाकरणम् । तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम् अन्वर्थसञ्ज्ञा यथा विज्ञायेत । प्रत्याययिति इति प्रत्ययः । यदि प्रत्याययिति इति प्रत्ययः अविकादीनाम् प्रत्ययसञ्ज्ञा न प्राप्नोति । न हि ते किम् चित् प्रत्याययन्ति । एवम् तर्हि प्रत्याय्यते प्रत्ययः इति । एवम् अपि सनादीनाम् न प्राप्नोति । एवम् तरि उभयसाधनः अयम् कर्तृसाधनः

KA II,1.2-3.13 Ro III,3-12 adhikāreṇa iyam pratyayasañjñā kriyate . sā prakṛtyupapadopādhīnām api prāpnoti . tasyāḥ pratiṣedhaḥ vaktavyaḥ . prakṛti . guptijkibhyaḥ san . upapada . stambakarṇayoḥ ramajapoḥ . upādhi . harateḥ dṛtināthayoḥ paśau . eteṣām pratiṣedhaḥ vaktavyaḥ . kim ca syāt yadi eteṣām api pratyayasañjñā syāt . paratvam ādyudāttatvam aṅgasañjñā iti ete vidhayaḥ prasajyeran . ataḥ uttaram paṭhati . pratyayādhikāre prakṛtyupapadopādhīnām apratiṣedhaḥ . adhikāreṇa api pratyayasañjñāyām satyām prakṛtyupapadopādhīnām apratiṣedhaḥ . anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . pratyayasañjñā kasmāt na bhavati . nimittasya nimittikāryārthatvāt anyatra api . nimittāni hi nimittikāryārthāni bhavanti . kim punaḥ nimittam kaḥ vā nimittī . prakṛtyupapaopādhayaḥ nimittam pratyayaḥ nimittī . anyatra api ca eṣaḥ nyāyaḥ dṛṣṭaḥ . kva anyatra . loke . tat yathā . bahuṣu āsīneṣu kaḥ cit kam cit pṛcchati . katamaḥ devadattaḥ . kataraḥ yajñadattaḥ iti . saḥ tasmai ācaṣṭe . yaḥ aśve yaḥ pīṭhe iti ukte nimittasya nimittikāryārthatvāt adhyavasyati ayam devadattaḥ ayam yajñdatta iti . na idānīm aśvasya pīṭhasya vā devadattaḥ iti sañjñā bhavati . kim punaḥ nimittam kaḥ vā nimittī . nirjñātaḥ arthaḥ nimittam anirjñātārthaḥ nimittī . iha ca pratyayaḥ anirjñātaḥ prakṛtyupapadopādhayaḥ nirjñātāḥ . kva . dhātūpadeśe prātipadikopadeśe ca . te nirjñātāḥ nimittatvena upādīyante . pradhāne kāryasampratyayāt vā siddham . atha vā pradhāne kāryasampratyayaḥ bhaviṣyati . kim ca pradhānam . pratyayaḥ . tat yathā . bahuṣu yātsu kaḥ cit kam cit pṛcchati . kaḥ yāti iti . saḥ āha rājā iti . rājā iti ukte pradhāne kāryasampratyayāt yaḥ pṛcchati yaḥ ca ācaṣṭe ubhayoḥ sampratyayaḥ bhavati . kiṅkṛtam punaḥ prādhānyam . arthakṛtam . yathā punaḥ loke arthakṛtam prādhānyam śabdasya idānīm kiṅkṛtam prādhānyam . śabdasya apūrvopadeśaḥ prādhānyam . yasya apūrvopadeśaḥ saḥ pradhānam . prakṛtyupapadopādhayaḥ ca upadiṣṭāḥ . kva . dhātūpadeśe prātipadikopadeśe ca . yadi eva nimittasya nimittikāryārthatvāt atha api pradhāne kāryasampratyayāt prakṛtyupapadopādhīnām na bhavati vikārāgamānām tu prāpnoti . hanaḥ ta ca . trapujatunoḥ ṣuk iti . eteṣām hi apūrvopadeśāt prādhānyam . nimittinaḥ ca ete . vikārāgameṣu ca paravijñānāt . vikārāgameṣu ca paravijñānāt pratyayasañjñā na bhaviṣyati . pratyayaḥ paraḥ bahvati iti ucyate . na ca vikārāgamāḥ pare sambhavanti . kim punaḥ kāraṇam samāne apūrvopadeśe pratyayaḥ paraḥ vikārāgamāḥ na pare . ṣaṣṭhīnirdiṣṭasya ca tadyuktatvāt . ṣaṣṭhīnirdiṣtam vikārāgamayuktam pañcamīnirdṣṭāt ca pratyayaḥ vidhīyate . pratyayavidhānānupapattiḥ tu . pratyayavidhiḥ tu na upapapdyate . kva . yatra vikārāgamāḥ vidhīyante . hanaḥ ta ca . tarpujatunoḥ ṣuk . kim punaḥ kāraṇam na sidhyati . vikārāgamayuktatvāt apañcamīnirdiṣṭatvāt ca . tasmāt tatra pañcamīnirdeśāt siddham . tasmāt tatra pañcamīnirdeśaḥ kartavyaḥ . na kartavyaḥ . iha tāvat hanaḥ te iti . dhātoḥ iti vartate. iha trapujatunoḥ ṣuk iti . prātipadikāt iti vartate . yadi evam hanaḥ ta ca dhātoḥ kyap bhavati iti dhātumātrāt kyap prāpnoti . na eṣaḥ doṣaḥ . ācāryapravṛttiḥ jñāpayati na dhātumātrāt kyap bhavati iti yat ayam etistuśasvṛdṛjuṣaḥ kyap iti parigaṇanam karoti . atha vā hantim eva atra dhātugrahaṇena abhisambhantsyāmaḥ . hanaḥ taḥ bhavati . dhātoḥ kyap bhavati . kasmāt . hanteḥ iti . arthāśrayatvāt vā . atha vā arthāśrayaḥ pratyayavidhiḥ . yaḥ tam artham sampratyāyayati saḥ pratyayaḥ . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . pratyayaḥ iti mahatī sañjñā kriyate . sañjñā ca nāma yataḥ na laghīyaḥ . kutaḥ etat . laghvartham hi sañjñākaraṇam . tatra mahatyāḥ sañjñāyāḥ karaṇe etat prayojanam anvarthasañjñā yathā vijñāyeta . pratyāyayiti iti pratyayaḥ . yadi pratyāyayiti iti pratyayaḥ avikādīnām pratyayasañjñā na prāpnoti . na hi te kim cit pratyāyayanti . evam tarhi pratyāyyate pratyayaḥ iti . evam api sanādīnām na prāpnoti . evam tari ubhayasādhanaḥ ayam kartṛsādhanaḥ

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३।१५-६।२ रो इइइ,१२-१९ किमर्थम् इदम् उच्यते । परः यथा स्यात् । पूर्वः मा भूत् इति । न एतत् अस्ति प्रयोजनम् । यम् इच्छति पूर्वम् आह तम् : विभाषा सुपः बहुच् पुरस्तात् तु इति । मध्ये तर्हि मा भूत् इति । मध्ये अपि यम् इच्छति आह तम् : अव्ययसर्वनाम्नाम् अकच् प्राक् टेः इति । यः इदानीम् अन्यः प्रत्ययः शेषः सः अन्तरेण वचनम् परः एव भविष्यति इति ना अर्थः परवचनेन । एवम् अपि येषाम् एव प्रत्ययानाम् देशः नियम्यते ते एव नियतदेशाः स्युः । यः इदानीम् अनियतदेशः सः कदा चित् पूर्वः कदा चित् परः कदा चित् मध्ये स्यात् । तत् यथा मातुः वत्सः कदा चित् अग्रतः कदा चित् पृष्ठतः कदा चित् पार्श्वतः भवति । परः एव यथा स्यात् इति एवमर्थम् परवचनम् । परवचनम् अनर्थकम् पञ्चमीनिर्दिष्टत्वात् परस्य । परग्रहणम् अनर्थकम् । किम् कारणम् । पञ्चमीनिर्दिष्टत्वात् परस्य कार्यम् उच्यते । तत् यथा द्व्यन्तरुपसर्गेभ्यः अपः ईत् । विषमः उपन्यासः । सतः तत्र परस्य कार्यम् उच्यते । इह इदानीम् कस्य सतः परस्य कार्यम् भवितुम् अर्हति । इह अपि सतः एव। कथम् । परत्वम् स्वाभाविकम् । अथ वाचनिके परत्वे सति अर्थः स्यात् परग्रहणेन । वाचनिके च न अर्थः । एतत् हि तस्य परस्य कार्यम् यत् असौ परः स्यात् । अथ वा यत् अस्य परस्य सतः सञ्ज्ञा स्यात् । यत्र तर्हि पञ्चमी न अस्ति तदर्थम् अयम् योगः वक्तव्यः । क्व च पञ्चमी न अस्ति । यत्र विकारागमाः शिष्यन्ते । क्व च विकारागमाः शिष्यन्ते । हनः त च । त्रपुजतुनोः षुक् इति । विकारागमेषु च उक्तम् । किम् उक्तम् । प्रत्ययविधानानुपपत्तिः तु । तस्मात् तत्र पञ्चमीनिर्देशात् सिद्धम् इति । अत्यन्तापरदृष्टानाम् वा परभूतलोपार्थम् । अत्यन्तापरदृष्टानाम् तर्हि परभूतलोपार्थम् परग्रहणम् कर्तव्यम् । ये एते अत्यन्तापरदृष्टाः क्विबादयः लुप्यन्ते तेषाम् परभूतानाम् लोपः यथा स्यात् । अपरभूतानाम् मा भूत् । किम् पुनः अत्यन्तापरदृष्टानाम् परभूतलोपवचने प्रयोजनम् । किति णिति इति कार्याणि यथा स्युः इति । एतत् अपि न अस्ति प्रयोजनम् । आचार्यप्रवृत्तिः ज्ञापयति अत्यन्तापरदृष्टाः परभूताः लुप्यन्ते इति यत् अयम् तेषु कादीन् अनुबन्धान् आसजति । कथम् कृत्वा ज्ञापकम् । अनुबन्धासञ्जने एतत् प्रयोजनम् किति णिति इति कार्याणि यथा स्युः इति । यदि च अत्र अत्यन्तापरदृष्टाः परभूताः लुप्यन्तेततः अनुबन्धासञ्जनम् अर्थवत् भवति । प्रयोगनियमार्थम् वा । प्रयोगनियमार्थम् तर्हि परग्रहणम् कर्तव्यम् । परभूतानाम् प्रयोगः यथा स्यात् । अपरभूतानाम् मा भूत् इति । अस्ति पुनः किम् चित् अनिष्टम् यदर्थः नियमः स्यात् । अस्ति इति आह । प्रकृतेः अर्थाभिधाने प्रत्ययादर्शनात् । प्रकृतेः अर्थाभिधाने अप्रत्ययिकाः दृश्यन्ते । क्व सः देवदत्तः क्व सः यज्ञ्दत्तः बभ्रुः मण्डुः लमकः इति । बाभ्रव्यः माण्डव्यः लामकायनः इति प्रयोक्तव्ये बभ्रुः मण्डुः लमकः इति प्रयुज्यते । द्वयसजादीनाम् च केवलदृष्टत्वात् । द्वयसजादीनाम् च केवलानाम् प्रयोगः दृश्यते । किम् अस्य द्वयसम् । किम् अस्य मात्रम् । का अद्य तिथी इति । द्वयसजादयः वै वृत्तिजसदृशाः अवृत्तिजाः यथा बहुः तथा । वावचने च अनुत्पत्त्यर्थम् । वावचने च अनुत्पत्त्यर्थम् परग्रहणम् कर्तव्यम् । वा वचनेन अनुत्पत्तिः यथा स्यात् । अथ क्रियमाणे अपि वै परग्रहणे कथम् इव वावचनेन अनुत्पत्तिः लभ्या । क्रियमाणे परग्रहणे वावचनेन वा परः इति एतत् अभिसम्बध्यते । अक्रियमाणे पुनः परग्रहणे वावचनेन किम् अन्यत् शक्यम् अभिसम्बन्धुम् अन्यत् अतः सञ्ज्ञायाः । न च सञ्ज्ञायाः भावाभावौ इष्येते । वावचने च उक्तम् । किम् उक्तम् । वावचनानर्थक्यम् च तत्र नित्यत्वात् सनः इति । प्रयोगनियमार्थम् एव तर्हि परग्रहणम् कर्तव्यम् । अथ एतस्मिन् प्रयोगनियमे सति किम् अयम् प्रत्ययहियमः । प्रकृतिपरः एव प्रत्ययः प्रयोक्तव्यः अप्रकृतिपरः न इति । आहोस्वित् प्रकृतिनियमः । प्रत्ययपरा एव प्रकृतिः प्रयोक्तव्या अप्रत्यया न इति । कः च अत्र विशेषः । तत्र प्रत्ययनियमे प्र्कृतिनियमाभावः । तत्र प्रत्ययनियमे सति प्र्कृतिनियमः न प्राप्नोति । अप्रत्ययिकायाः प्रकृतेः प्रयोगः प्राप्नोति । क्व सः देवदत्तः क्व सः यज्ञ्दत्तः बभ्रुः मण्डुः लमकः इति । अस्तु तर्हि प्रकृतिनियमः । प्रकृतिनियमे प्रत्ययानियमः । प्रकृतिनियमे सति प्रत्ययस्य नियमः न प्राप्नोति । किम् अस्य द्वयसम् । किम् अस्य मात्रम् । का अद्य तिथी इति । अप्रकृतिकस्य प्रत्ययस्य प्रयोगः प्राप्नोति । सिद्धम् तु उभयनियमात् । सिद्धम् एतत् । कथम् । उभयनियमात् । उभयनियमः अयम् । प्रकृतिपरः एव प्रत्ययः प्रयोक्तव्यः प्रत्ययपरा एव च प्रकृतिः इति । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । परग्रहणसामर्थ्यात् । अन्तरेण अपि परग्रहणम् स्यात् अयम् परः । परः एव यथा स्यात् इति एवमर्थम् परग्रहणम्

KA II,3.15-6.2 Ro III,12-19 kimartham idam ucyate . paraḥ yathā syāt . pūrvaḥ mā bhūt iti . na etat asti prayojanam . yam icchati pūrvam āha tam : vibhāṣā supaḥ bahuc purastāt tu iti . madhye tarhi mā bhūt iti . madhye api yam icchati āha tam : avyayasarvanāmnām akac prāk ṭeḥ iti . yaḥ idānīm anyaḥ pratyayaḥ śeṣaḥ saḥ antareṇa vacanam paraḥ eva bhaviṣyati iti nā arthaḥ paravacanena . evam api yeṣām eva pratyayānām deśaḥ niyamyate te eva niyatadeśāḥ syuḥ . yaḥ idānīm aniyatadeśaḥ saḥ kadā cit pūrvaḥ kadā cit paraḥ kadā cit madhye syāt . tat yathā mātuḥ vatsaḥ kadā cit agrataḥ kadā cit pṛṣṭhataḥ kadā cit pārśvataḥ bhavati . paraḥ eva yathā syāt iti evamartham paravacanam . paravacanam anarthakam pañcamīnirdiṣṭatvāt parasya . paragrahaṇam anarthakam . kim kāraṇam . pañcamīnirdiṣṭatvāt parasya kāryam ucyate . tat yathā dvyantarupasargebhyaḥ apaḥ īt . viṣamaḥ upanyāsaḥ . sataḥ tatra parasya kāryam ucyate . iha idānīm kasya sataḥ parasya kāryam bhavitum arhati . iha api sataḥ eva. katham . paratvam svābhāvikam . atha vācanike paratve sati arthaḥ syāt paragrahaṇena . vācanike ca na arthaḥ . etat hi tasya parasya kāryam yat asau paraḥ syāt . atha vā yat asya parasya sataḥ sañjñā syāt . yatra tarhi pañcamī na asti tadartham ayam yogaḥ vaktavyaḥ . kva ca pañcamī na asti . yatra vikārāgamāḥ śiṣyante . kva ca vikārāgamāḥ śiṣyante . hanaḥ ta ca . trapujatunoḥ ṣuk iti . vikārāgameṣu ca uktam . kim uktam . pratyayavidhānānupapattiḥ tu . tasmāt tatra pañcamīnirdeśāt siddham iti . atyantāparadṛṣṭānām vā parabhūtalopārtham . atyantāparadṛṣṭānām tarhi parabhūtalopārtham paragrahaṇam kartavyam . ye ete atyantāparadṛṣṭāḥ kvibādayaḥ lupyante teṣām parabhūtānām lopaḥ yathā syāt . aparabhūtānām mā bhūt . kim punaḥ atyantāparadṛṣṭānām parabhūtalopavacane prayojanam . kiti ṇiti iti kāryāṇi yathā syuḥ iti . etat api na asti prayojanam . ācāryapravṛttiḥ jñāpayati atyantāparadṛṣṭāḥ parabhūtāḥ lupyante iti yat ayam teṣu kādīn anubandhān āsajati . katham kṛtvā jñāpakam . anubandhāsañjane etat prayojanam kiti ṇiti iti kāryāṇi yathā syuḥ iti . yadi ca atra atyantāparadṛṣṭāḥ parabhūtāḥ lupyantetataḥ anubandhāsañjanam arthavat bhavati . prayoganiyamārtham vā . prayoganiyamārtham tarhi paragrahaṇam kartavyam . parabhūtānām prayogaḥ yathā syāt . aparabhūtānām mā bhūt iti . asti punaḥ kim cit aniṣṭam yadarthaḥ niyamaḥ syāt . asti iti āha . prakṛteḥ arthābhidhāne pratyayādarśanāt . prakṛteḥ arthābhidhāne apratyayikāḥ dṛśyante . kva saḥ devadattaḥ kva saḥ yajñdattaḥ babhruḥ maṇḍuḥ lamakaḥ iti . bābhravyaḥ māṇḍavyaḥ lāmakāyanaḥ iti prayoktavye babhruḥ maṇḍuḥ lamakaḥ iti prayujyate . dvayasajādīnām ca kevaladṛṣṭatvāt . dvayasajādīnām ca kevalānām prayogaḥ dṛśyate . kim asya dvayasam . kim asya mātram . kā adya tithī iti . dvayasajādayaḥ vai vṛttijasadṛśāḥ avṛttijāḥ yathā bahuḥ tathā . vāvacane ca anutpattyartham . vāvacane ca anutpattyartham paragrahaṇam kartavyam . vā vacanena anutpattiḥ yathā syāt . atha kriyamāṇe api vai paragrahaṇe katham iva vāvacanena anutpattiḥ labhyā . kriyamāṇe paragrahaṇe vāvacanena vā paraḥ iti etat abhisambadhyate . akriyamāṇe punaḥ paragrahaṇe vāvacanena kim anyat śakyam abhisambandhum anyat ataḥ sañjñāyāḥ . na ca sañjñāyāḥ bhāvābhāvau iṣyete . vāvacane ca uktam . kim uktam . vāvacanānarthakyam ca tatra nityatvāt sanaḥ iti . prayoganiyamārtham eva tarhi paragrahaṇam kartavyam . atha etasmin prayoganiyame sati kim ayam pratyayahiyamaḥ . prakṛtiparaḥ eva pratyayaḥ prayoktavyaḥ aprakṛtiparaḥ na iti . āhosvit prakṛtiniyamaḥ . pratyayaparā eva prakṛtiḥ prayoktavyā apratyayā na iti . kaḥ ca atra viśeṣaḥ . tatra pratyayaniyame prkṛtiniyamābhāvaḥ . tatra pratyayaniyame sati prkṛtiniyamaḥ na prāpnoti . apratyayikāyāḥ prakṛteḥ prayogaḥ prāpnoti . kva saḥ devadattaḥ kva saḥ yajñdattaḥ babhruḥ maṇḍuḥ lamakaḥ iti . astu tarhi prakṛtiniyamaḥ . prakṛtiniyame pratyayāniyamaḥ . prakṛtiniyame sati pratyayasya niyamaḥ na prāpnoti . kim asya dvayasam . kim asya mātram . kā adya tithī iti . aprakṛtikasya pratyayasya prayogaḥ prāpnoti . siddham tu ubhayaniyamāt . siddham etat . katham . ubhayaniyamāt . ubhayaniyamaḥ ayam . prakṛtiparaḥ eva pratyayaḥ prayoktavyaḥ pratyayaparā eva ca prakṛtiḥ iti . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . paragrahaṇasāmarthyāt . antareṇa api paragrahaṇam syāt ayam paraḥ . paraḥ eva yathā syāt iti evamartham paragrahaṇam

Sanskrit only: no published translation is held for this verse.

क्अ इइ,६।४-१४ रो इइइ,२०-२१ किमर्थम् इदम् उच्यते । आद्युदात्तः यथा स्यात् । अन्तोदात्तः मा भूत् इति । न एतत् अस्ति प्रयोजनम् । यम् इच्छति अन्तोदात्तम् करोति तत्र चकारम् अनुबन्धम् आह च चितः अन्तः उदात्तः इति । मध्योदात्तः तर्हि मा भूत् इति । मद्योदात्तम् यम् इच्छति तत्र रेफम् अनुबन्धम् करोति आह च उपोत्तमम् रिति इति । अनुदात्तः तर्हि मा भूत् इति । अनुदात्तम् अपि यम् इच्छति तत्र पकारम् अनुबन्धम् करोति आह च अनुदात्तौ सुप्पितौ इति । स्वरितः तर्हि मा भूत् इति । स्वरितम् अपि यम् इच्छति करोति तत्र तकारम् अनुबन्धम् आह च तित् स्वरितम् इति । यः इदानीम् अतः अन्यः प्रत्ययः शेषः सः अन्तरेण अपि वचनम् आद्युदात्तः एव भविष्यति इति न अर्थः आद्युदात्तवचनेन । एवम् अपि येषाम् एव प्रत्ययानाम् स्वरः नियम्यते ते एव नियतस्वराः स्युः । यः इदानीम् अनियतस्वरः सः कदा चित् आद्युदात्तः कदा चित् अन्तोदात्तः कदा चित् मध्योदात्तः कदा चित् अनुदात्तः कचा चित् स्वरितः स्यात् । आद्युदात्तः एव यथा स्यात् इति एवम् अर्थम् इदम् उच्यते ।

KA II,6.4-14 Ro III,20-21 kimartham idam ucyate . ādyudāttaḥ yathā syāt . antodāttaḥ mā bhūt iti . na etat asti prayojanam . yam icchati antodāttam karoti tatra cakāram anubandham āha ca citaḥ antaḥ udāttaḥ iti . madhyodāttaḥ tarhi mā bhūt iti . madyodāttam yam icchati tatra repham anubandham karoti āha ca upottamam riti iti . anudāttaḥ tarhi mā bhūt iti . anudāttam api yam icchati tatra pakāram anubandham karoti āha ca anudāttau suppitau iti . svaritaḥ tarhi mā bhūt iti . svaritam api yam icchati karoti tatra takāram anubandham āha ca tit svaritam iti . yaḥ idānīm ataḥ anyaḥ pratyayaḥ śeṣaḥ saḥ antareṇa api vacanam ādyudāttaḥ eva bhaviṣyati iti na arthaḥ ādyudāttavacanena . evam api yeṣām eva pratyayānām svaraḥ niyamyate te eva niyatasvarāḥ syuḥ . yaḥ idānīm aniyatasvaraḥ saḥ kadā cit ādyudāttaḥ kadā cit antodāttaḥ kadā cit madhyodāttaḥ kadā cit anudāttaḥ kacā cit svaritaḥ syāt . ādyudāttaḥ eva yathā syāt iti evam artham idam ucyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,६।१५-९।१४ रो इइइ,२१-२७ अथ किमर्थम् प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वम् उच्यते अनुदात्तत्वम् च न यत्र एव अन्यः स्वरः तत्र एव अयम् उच्येत । ञ्निति आदिः नित्यम् प्रत्ययस्य च । अदुपदेशात् लसार्वधातुकम् अनुदात्तम् सुप्पितौ च इति । तत्र अयम् अपि अर्थः द्विः आद्युदात्तग्रहणम् द्विः च अनुदात्तग्रहणम् न कर्तव्यम् भवति । प्रकृतम् अनुवर्तते । अतः उत्तरम् पठति : आद्युदात्तत्वस्य प्रत्ययसञ्ज्ञासन्नियोगे प्रयोजनम् यस्य सञ्ज्ञाकरणम् तस्य आद्युदात्तार्थम् । आद्युदात्तत्वस्य प्रत्ययसञ्ज्ञासन्नियोगकरणे एतत् प्रयोजनम् यस्य सञ्ज्ञाकरणम् तस्य आद्युदात्तत्वम् यथा स्यात् । असन्नियोगे हि यस्मात् सः तदादेः आद्युदात्तत्वम् तदन्तस्य च अनुदात्तत्वम् । अक्रियमाणे हि प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति तदादेः आद्युदात्तत्वम् प्रसज्येत तदन्तस्य च अनुदात्तत्वम् । अथ क्रियमाणे अपि प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे अनुदात्तत्वे च कस्मात् एव तदादेः आद्युदात्तत्वम् न भवति तदन्तस्य च अनुदात्तत्वम् । उत्पन्नः प्रत्ययः प्रत्ययाश्रयाणाम् कार्याणाम् निमित्तम् भवति न उत्पद्यमानः । तत् यथा घटः कृतः घटाश्रयाणाम् कार्याणाम् निमित्तम् भवति न क्रियमाणः । न वा प्रकृतेः आद्युदात्तवचनम् ज्ञापकम् तदादेः अग्रहणस्य । न वा एषः दोषः । किम् कारणम् । यत् अयम् ञ्निति आदिः नित्यम् इति प्रकृतेः आद्युदात्तत्वम् शास्ति तत् ज्ञापयति आचार्यः न तदादेः आद्युदात्तत्वम् भवति इति । तदन्तस्य तर्हि अनुदात्तत्वम् प्राप्नोति । प्रकृतिस्वरस्य च विधानसामर्थ्यात् प्रत्ययस्वराभावः । यत् अयम् धातोः अन्तः प्रातिपदिकस्य अन्तः इति प्रकृतेः अन्तोदात्तत्वम् शास्ति तत् ज्ञापयति आचार्यः न तदन्तस्य अनुदात्तत्वम् भवति इति । कथम् कृत्वा ज्ञापकम् । यत्र हि अनुदात्तःप्रत्ययः प्रकृतिस्वरः तत् प्रयोजयति । आगमानुदात्तार्थम् वा । आगमानुदात्तार्थम् तर्हि प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वम् उच्यते । प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे कृते आगमाः अनुदात्ताः यथा स्युः इति । न वा आगमस्य अनुदात्तवचनात् । न वा एतत् अपि प्रयोजनम् अस्ति । किम् कारणम् । आगमस्य अनुदात्तवचनात् । आगमाः अनुदात्ताः भवन्ति इति वक्ष्यामि । के पुनः आगमाः अनुदात्तत्वम् प्रयोजयन्ति । इट् । लविता । इट् तावत् न प्रयोजयति । इदम् इह सम्प्रधार्यम् । इट् क्रियताम् आद्युदात्तत्वम् इति । किम् अत्र कर्तव्यम् । परत्वात् इडागमः । नित्यम् आद्युदात्तत्वम् । कृते अपि इटि प्राप्नोति अकृते अपि प्राप्नोति । इट् अपि नित्यः । कृते अपि आद्युदात्तत्वे प्राप्नोति अकृते अपि प्राप्नोति । अनित्यः इट् । अन्यथास्वरस्य कृते आद्युदात्तत्वे प्रप्नोति अन्यथास्वरस्य अकृते । स्वरभिन्नस्य च प्राप्नुवन् विधिः अनित्यः भवति । आद्युदात्तत्वम् अपि अनित्यम् । अन्यस्य कृते इटि प्राप्नोति अन्यस्य अकृते । शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति । उभयोः अनित्ययोः परत्वात् इडागमः । अन्तरङ्गम् तर्हि आद्युदात्तत्वम् । का अन्तरङ्गता । उत्पत्तिसन्नियोगेन आद्युदात्तत्वम् उच्यते । उत्पन्ने प्रत्यये प्रकृतिप्रत्ययौ आश्रित्य अङ्गस्य इडागमः । आद्युदात्तत्वम् अपि न अन्तरङ्गम् यावता प्रत्यये आश्रीयमाणे प्रकृतिः अपि आश्रिता भवति । अन्तरङ्गम् एव आद्युदात्तत्वम् । कथम् । इदानीम् एव हि उक्तम् न प्रत्ययस्वरविधौ तदादिविधिः भवति इति । सीयुट् तर्हि प्रयोजयति । अवचने हि सीयुडादेः आद्युदात्तत्वम् । अक्रियमाणे हि आगमानुदात्तत्वे क्रियमाणे अपि प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे सीयुडादेः लिङः आद्युदात्तत्वम् प्रसज्येत । लविषीय पविषीय । तत् तर्हि वक्तव्यम् आगमाः अनुदात्ताः भवन्ति इति । न वक्तव्यम् । आचार्यप्रवृत्तिः ज्ञापयति आगमाः अनुदात्ताः भवन्ति इति यत् अयम् यासुट् परसमैपदेषु उदात्तः ङित् च इति आह । न एतत् अस्ति ज्ञापकम् वक्ष्यति एतत् । यासुटः ङिद्वचनम् पिदर्थम् उदात्तवचनम् च इति । शक्यम् अनेन वक्तुम् : यासुट् परस्मैपदेषु भवति अपित् च लिङ् भवति इति । सः अयम् एवम् लघीयसा न्यासेन सिद्धे सति यत् गरीयांसम् यत्नम् आरभते तत् ज्ञपयति आचार्यः आगमाः अनुदात्ताः भवन्ति इति । शक्यम् इदम् लब्धुम् । यदि एव वचनात् अथ अपि ज्ञापकात् आगमाः अनुदात्ताः भवन्ति । आगमैः तु व्यवहितत्वात् आद्युदात्तत्वम् न प्राप्नोति । आगमाः अविद्यमानवत् भवन्ति इति वक्ष्यामि । यदि आगमाः अविद्यमानवत् भवन्ति इति उच्यते लविता अवादेशः न प्राप्नोति । स्वरविधौ इति वक्ष्यामि । एवम् अपि लविता उदात्तात् अनुदात्तस्य स्वरितः इति स्वरितः न प्राप्नोति । षाष्ठिके स्वरे इति वक्ष्यामि । एवम् अपि शिक्षितः निष्ठा च द्व्यच् अनात् इत् एषः स्वरः प्राप्नोति । प्रत्ययस्वरविधौ इति वक्ष्यामि । तत् तर्हि वक्तव्यम् अविद्यमानवत् भवन्ति इति । न वक्तव्यम् । आचार्यप्रवृत्तिः ज्ञापयति आगमाः अविद्यमानवत् भवन्ति इति

KA II,6.15-9.14 Ro III,21-27 atha kimartham pratyayasañjñāsanniyogena ādyudāttatvam ucyate anudāttatvam ca na yatra eva anyaḥ svaraḥ tatra eva ayam ucyeta . ñniti ādiḥ nityam pratyayasya ca . adupadeśāt lasārvadhātukam anudāttam suppitau ca iti . tatra ayam api arthaḥ dviḥ ādyudāttagrahaṇam dviḥ ca anudāttagrahaṇam na kartavyam bhavati . prakṛtam anuvartate . ataḥ uttaram paṭhati : ādyudāttatvasya pratyayasañjñāsanniyoge prayojanam yasya sañjñākaraṇam tasya ādyudāttārtham . ādyudāttatvasya pratyayasañjñāsanniyogakaraṇe etat prayojanam yasya sañjñākaraṇam tasya ādyudāttatvam yathā syāt . asanniyoge hi yasmāt saḥ tadādeḥ ādyudāttatvam tadantasya ca anudāttatvam . akriyamāṇe hi pratyayasañjñāsanniyogena ādyudāttatve pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti tadādeḥ ādyudāttatvam prasajyeta tadantasya ca anudāttatvam . atha kriyamāṇe api pratyayasañjñāsanniyogena ādyudāttatve anudāttatve ca kasmāt eva tadādeḥ ādyudāttatvam na bhavati tadantasya ca anudāttatvam . utpannaḥ pratyayaḥ pratyayāśrayāṇām kāryāṇām nimittam bhavati na utpadyamānaḥ . tat yathā ghaṭaḥ kṛtaḥ ghaṭāśrayāṇām kāryāṇām nimittam bhavati na kriyamāṇaḥ . na vā prakṛteḥ ādyudāttavacanam jñāpakam tadādeḥ agrahaṇasya . na vā eṣaḥ doṣaḥ . kim kāraṇam . yat ayam ñniti ādiḥ nityam iti prakṛteḥ ādyudāttatvam śāsti tat jñāpayati ācāryaḥ na tadādeḥ ādyudāttatvam bhavati iti . tadantasya tarhi anudāttatvam prāpnoti . prakṛtisvarasya ca vidhānasāmarthyāt pratyayasvarābhāvaḥ . yat ayam dhātoḥ antaḥ prātipadikasya antaḥ iti prakṛteḥ antodāttatvam śāsti tat jñāpayati ācāryaḥ na tadantasya anudāttatvam bhavati iti . katham kṛtvā jñāpakam . yatra hi anudāttaḥpratyayaḥ prakṛtisvaraḥ tat prayojayati . āgamānudāttārtham vā . āgamānudāttārtham tarhi pratyayasañjñāsanniyogena ādyudāttatvam ucyate . pratyayasañjñāsanniyogena ādyudāttatve kṛte āgamāḥ anudāttāḥ yathā syuḥ iti . na vā āgamasya anudāttavacanāt . na vā etat api prayojanam asti . kim kāraṇam . āgamasya anudāttavacanāt . āgamāḥ anudāttāḥ bhavanti iti vakṣyāmi . ke punaḥ āgamāḥ anudāttatvam prayojayanti . iṭ . lavitā . iṭ tāvat na prayojayati . idam iha sampradhāryam . iṭ kriyatām ādyudāttatvam iti . kim atra kartavyam . paratvāt iḍāgamaḥ . nityam ādyudāttatvam . kṛte api iṭi prāpnoti akṛte api prāpnoti . iṭ api nityaḥ . kṛte api ādyudāttatve prāpnoti akṛte api prāpnoti . anityaḥ iṭ . anyathāsvarasya kṛte ādyudāttatve prapnoti anyathāsvarasya akṛte . svarabhinnasya ca prāpnuvan vidhiḥ anityaḥ bhavati . ādyudāttatvam api anityam . anyasya kṛte iṭi prāpnoti anyasya akṛte . śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . ubhayoḥ anityayoḥ paratvāt iḍāgamaḥ . antaraṅgam tarhi ādyudāttatvam . kā antaraṅgatā . utpattisanniyogena ādyudāttatvam ucyate . utpanne pratyaye prakṛtipratyayau āśritya aṅgasya iḍāgamaḥ . ādyudāttatvam api na antaraṅgam yāvatā pratyaye āśrīyamāṇe prakṛtiḥ api āśritā bhavati . antaraṅgam eva ādyudāttatvam . katham . idānīm eva hi uktam na pratyayasvaravidhau tadādividhiḥ bhavati iti . sīyuṭ tarhi prayojayati . avacane hi sīyuḍādeḥ ādyudāttatvam . akriyamāṇe hi āgamānudāttatve kriyamāṇe api pratyayasañjñāsanniyogena ādyudāttatve sīyuḍādeḥ liṅaḥ ādyudāttatvam prasajyeta . laviṣīya paviṣīya . tat tarhi vaktavyam āgamāḥ anudāttāḥ bhavanti iti . na vaktavyam . ācāryapravṛttiḥ jñāpayati āgamāḥ anudāttāḥ bhavanti iti yat ayam yāsuṭ parasamaipadeṣu udāttaḥ ṅit ca iti āha . na etat asti jñāpakam vakṣyati etat . yāsuṭaḥ ṅidvacanam pidartham udāttavacanam ca iti . śakyam anena vaktum : yāsuṭ parasmaipadeṣu bhavati apit ca liṅ bhavati iti . saḥ ayam evam laghīyasā nyāsena siddhe sati yat garīyāṃsam yatnam ārabhate tat jñapayati ācāryaḥ āgamāḥ anudāttāḥ bhavanti iti . śakyam idam labdhum . yadi eva vacanāt atha api jñāpakāt āgamāḥ anudāttāḥ bhavanti . āgamaiḥ tu vyavahitatvāt ādyudāttatvam na prāpnoti . āgamāḥ avidyamānavat bhavanti iti vakṣyāmi . yadi āgamāḥ avidyamānavat bhavanti iti ucyate lavitā avādeśaḥ na prāpnoti . svaravidhau iti vakṣyāmi . evam api lavitā udāttāt anudāttasya svaritaḥ iti svaritaḥ na prāpnoti . ṣāṣṭhike svare iti vakṣyāmi . evam api śikṣitaḥ niṣṭhā ca dvyac anāt it eṣaḥ svaraḥ prāpnoti . pratyayasvaravidhau iti vakṣyāmi . tat tarhi vaktavyam avidyamānavat bhavanti iti . na vaktavyam . ācāryapravṛttiḥ jñāpayati āgamāḥ avidyamānavat bhavanti iti

Sanskrit only: no published translation is held for this verse.

क्अ इइ,९।१५-१०।२० रो इइइ,२७-३० प्रत्ययाद्युदात्तत्वात् धातोः अन्तः । प्रत्ययाद्युदात्तत्वात् धातोः अन्तः इति एतत् भवति विप्रतिषेधेन । प्रत्ययाद्युदात्तत्वस्य अवकाशः यत्र अनुदात्ता प्रकृतिः । समत्वम् सिमत्वम् । धातोः अन्तः इति अस्य अवकाशः यत्र अनुदात्तः प्रत्ययः । पचति पठति । इह उभयम् प्राप्नोति । गोपायति धपायति । धातोः अन्तः इति एतत् भवति विप्रतिषेधेन। पित्स्वरात् तित्स्वरः टापि । पित्स्वरात् तित्स्वरः टापि भवति विप्रतिषेधेन । पित्स्वरस्य अवकाशः । पचति पठति । तित्स्वरस्य अवकाशः । कार्यम् हार्यम् । इह उभयम् प्राप्नोति । कार्या हार्या । तित्स्वरः भवति विप्रतिषेधेन । चित्स्वरः चापि पित्स्वरात् । चित्स्वरः चापि पित्स्वरात् भवति विप्रतिषेधेन । चित्स्वरस्य अवकाशः । चलनः चोपनः । पित्स्वरस्य सः एव । इह उभयम् प्राप्नोति । आम्बष्ठ्या सौवीर्या । चित्स्वरः भवति विप्रतिषेधेन । न वा आद्युतात्तस्य प्रत्ययसञ्ज्ञासन्नियोगात् । न वा अर्थः विप्रतिषेधेन । किम् कारणम् । आद्युतात्तस्य प्रत्ययसञ्ज्ञासन्नियोगात् । प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे कृते सतिशिष्टत्वात् धातुस्वरः भविष्यति । अयम् च अपि अयुक्तः विप्रतिषेधः पित्स्वरस्य तित्स्वरस्य च । किम् कारणम् । टापि स्वरितेनैकादेशः । टापि स्वरितेन एकादेशः भवति । इदम् इह सम्प्रधार्यम् । स्वरितत्वम् क्रियताम् एकादेशः इति । किम् अत्र कर्तव्यम् । परत्वात् स्वरितत्वम् । नित्यः एकादेशः । कृते अपि स्वरितत्वे प्राप्नोति अकृते अपि प्राप्नोति । । स्वरितत्वम् अपि नित्यम् । कृते अपि एकादेशे प्राप्नोति अकृते अपि । अनित्यम् स्वरितत्वम् । अन्यस्य कृते एकादेशे प्राप्नोति अन्यस्य अकृते । शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति । एकादेशः अपि अनित्यः । अन्यथास्वरस्य कृते स्वरितत्वे प्राप्नोति अन्यथास्वरस्य अकृते । स्वरभिन्नस्य च प्राप्नुवन् विधिः अनित्यः भवति । अन्तरङ्गः तर्हि एकादेशः । का अन्तरङ्गता । वर्णौ आश्रित्य एकादेशः पदस्य स्वरितत्वम् । स्वरितत्वम् अपि अन्तरङ्गम् । कथम् । वक्ष्यति एतत् । पदग्रहणम् परिमाणार्थम् इति । उभयोः अन्तरङ्गयोः परत्वात् स्वरितत्वम् । स्वरितत्वे कृते आन्तर्यतः स्वरिदानुदात्तयोः स्वरितः भविष्यति । अयम् च अपि अयुक्तः विप्रतिषेधः पित्स्वरस्य चित्स्वरस्य च । किम् कारणम् । चापि चित्करणात् । चापि चित्करणसामर्थ्यात् अन्तोदात्तत्वम् भविष्यति ।

KA II,9.15-10.20 Ro III,27-30 pratyayādyudāttatvāt dhātoḥ antaḥ . pratyayādyudāttatvāt dhātoḥ antaḥ iti etat bhavati vipratiṣedhena . pratyayādyudāttatvasya avakāśaḥ yatra anudāttā prakṛtiḥ . samatvam simatvam . dhātoḥ antaḥ iti asya avakāśaḥ yatra anudāttaḥ pratyayaḥ . pacati paṭhati . iha ubhayam prāpnoti . gopāyati dhapāyati . dhātoḥ antaḥ iti etat bhavati vipratiṣedhena. pitsvarāt titsvaraḥ ṭāpi . pitsvarāt titsvaraḥ ṭāpi bhavati vipratiṣedhena . pitsvarasya avakāśaḥ . pacati paṭhati . titsvarasya avakāśaḥ . kāryam hāryam . iha ubhayam prāpnoti . kāryā hāryā . titsvaraḥ bhavati vipratiṣedhena . citsvaraḥ cāpi pitsvarāt . citsvaraḥ cāpi pitsvarāt bhavati vipratiṣedhena . citsvarasya avakāśaḥ . calanaḥ copanaḥ . pitsvarasya saḥ eva . iha ubhayam prāpnoti . āmbaṣṭhyā sauvīryā . citsvaraḥ bhavati vipratiṣedhena . na vā ādyutāttasya pratyayasañjñāsanniyogāt . na vā arthaḥ vipratiṣedhena . kim kāraṇam . ādyutāttasya pratyayasañjñāsanniyogāt . pratyayasañjñāsanniyogena ādyudāttatve kṛte satiśiṣṭatvāt dhātusvaraḥ bhaviṣyati . ayam ca api ayuktaḥ vipratiṣedhaḥ pitsvarasya titsvarasya ca . kim kāraṇam . ṭāpi svaritenaikādeśaḥ . ṭāpi svaritena ekādeśaḥ bhavati . idam iha sampradhāryam . svaritatvam kriyatām ekādeśaḥ iti . kim atra kartavyam . paratvāt svaritatvam . nityaḥ ekādeśaḥ . kṛte api svaritatve prāpnoti akṛte api prāpnoti . . svaritatvam api nityam . kṛte api ekādeśe prāpnoti akṛte api . anityam svaritatvam . anyasya kṛte ekādeśe prāpnoti anyasya akṛte . śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . ekādeśaḥ api anityaḥ . anyathāsvarasya kṛte svaritatve prāpnoti anyathāsvarasya akṛte . svarabhinnasya ca prāpnuvan vidhiḥ anityaḥ bhavati . antaraṅgaḥ tarhi ekādeśaḥ . kā antaraṅgatā . varṇau āśritya ekādeśaḥ padasya svaritatvam . svaritatvam api antaraṅgam . katham . vakṣyati etat . padagrahaṇam parimāṇārtham iti . ubhayoḥ antaraṅgayoḥ paratvāt svaritatvam . svaritatve kṛte āntaryataḥ svaridānudāttayoḥ svaritaḥ bhaviṣyati . ayam ca api ayuktaḥ vipratiṣedhaḥ pitsvarasya citsvarasya ca . kim kāraṇam . cāpi citkaraṇāt . cāpi citkaraṇasāmarthyāt antodāttatvam bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१०।२२-११।९ रो इइइ,३०-३१ गुपादिषु अनुबन्धकरणम् किमर्थम् । गुपादिषु अनुबन्धकरणम् आत्मनेपदार्थम् । गुपादिषु अनुबन्धाः क्रियन्ते आत्मनेपदम् यथा स्यात् । क्रियमाणेषु अपि अनुबन्धेषु आत्मनेपदम् न एव प्राप्नोति । किम् कारणम् । सना व्यवहितत्वात् । पूर्ववत् सनः इति एवम् भविष्यति । पूर्ववत् सनः इति उच्यते । न चे एतेभ्यः प्राक् सनः आत्मनेपदम् न अपि परस्मैपदम् पश्यामः । एवम् तर्हि अनुबन्धकरणसामर्थ्यात् भविष्यति । अथ वा अवयवे कृतम् लिङ्गम् समुदायस्य विशेषकम् भविष्यति । तत् यथा गोः सक्थनि कर्णे वा कृतम् लिङ्गम् गोः विशेषकम् भवति । यदि अवयवे कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति जुगुप्सयति मीमांसयति इति अत्र अपि प्राप्नोति । अवयवे कृतम् लिङ्गम् कस्य समुदायस्य विशेषकम् भवति । यम् समुदायम् यः अवयवः न व्यभिचरति । सनम् च न व्हभिचरति । णिचम् पुनः व्यभिचरति । तत् यथा तत् यथा गोः सक्थनि कर्णे वा कृतम् लिङ्गम् गोः विशेषकम् भवति न गोमण्डलस्य ।

KA II,10.22-11.9 Ro III,30-31 gupādiṣu anubandhakaraṇam kimartham . gupādiṣu anubandhakaraṇam ātmanepadārtham . gupādiṣu anubandhāḥ kriyante ātmanepadam yathā syāt . kriyamāṇeṣu api anubandheṣu ātmanepadam na eva prāpnoti . kim kāraṇam . sanā vyavahitatvāt . pūrvavat sanaḥ iti evam bhaviṣyati . pūrvavat sanaḥ iti ucyate . na ce etebhyaḥ prāk sanaḥ ātmanepadam na api parasmaipadam paśyāmaḥ . evam tarhi anubandhakaraṇasāmarthyāt bhaviṣyati . atha vā avayave kṛtam liṅgam samudāyasya viśeṣakam bhaviṣyati . tat yathā goḥ sakthani karṇe vā kṛtam liṅgam goḥ viśeṣakam bhavati . yadi avayave kṛtam liṅgam samudāyasya viśeṣakam bhavati jugupsayati mīmāṃsayati iti atra api prāpnoti . avayave kṛtam liṅgam kasya samudāyasya viśeṣakam bhavati . yam samudāyam yaḥ avayavaḥ na vyabhicarati . sanam ca na vhabhicarati . ṇicam punaḥ vyabhicarati . tat yathā tat yathā goḥ sakthani karṇe vā kṛtam liṅgam goḥ viśeṣakam bhavati na gomaṇḍalasya .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,११।११-२५ रो इइइ,३१-३२ अभ्यासदीर्घत्वे अवर्णस्य दीर्घप्रसङ्गः । अभ्यासदीर्घत्वे अवर्णस्य दीर्घत्वम् प्राप्नोति । मीमांसते । ननु चे इत्त्वे कृते दीर्घत्वम् भविष्यति । कथम् पुनः उत्पत्तिसन्नियोगेन दीर्घत्वम् उच्यमानम् इत्त्वम् प्रतीक्षते । अथ कथम् अभ्यासम् प्रतीक्षते । वचनात् अभ्यासम् प्रतीक्षते । इत्त्वम् पुनः न प्रतीक्षते । न वा अभ्यासविकारेषु अपवादस्य उत्सर्गाबाधकत्वात् । न वा एषः दोषः । किम् कारणम् । अभ्यासविकारेषु अपवादस्य उत्सर्गाबाधकत्वात् । अभ्यासविकारेषु अपवादाः उत्सर्गान् न बाधन्ते इति एवम् दीर्घत्वम् उच्यमानम् इत्त्वम् न बाधिष्यते । अथ वा मान्बधदान्शन्भ्यः ई च अभ्यासस्य इति वक्ष्यामि । एवम् अपि हलादिशेषापवादः ईकारः प्राप्नोति । ई च अचः इति वक्ष्यामि । अथ वा मान्बधदान्शन्भ्यः दीर्घः च इतः अभ्यासस्य इति वक्ष्यामि । सिध्यति । सूत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् अभ्यासदीर्घत्वे अवर्णस्य दीर्घप्रसङ्गः इति । परिहृतम् एतत् न वा अभ्यासविकारेषु अपवादस्य उत्सर्गाबाधकत्वात् इति । अथ वा न एवम् विज्ञायते दीर्घः च अभ्यासस्य इति । कथम् तर्हि । दीर्घः च आभ्यासस्य इति । किम् इदम् आभ्यासस्य इति । अभ्यासविकारः आभ्यासः तस्य इति ।

KA II,11.11-25 Ro III,31-32 abhyāsadīrghatve avarṇasya dīrghaprasaṅgaḥ . abhyāsadīrghatve avarṇasya dīrghatvam prāpnoti . mīmāṃsate . nanu ce ittve kṛte dīrghatvam bhaviṣyati . katham punaḥ utpattisanniyogena dīrghatvam ucyamānam ittvam pratīkṣate . atha katham abhyāsam pratīkṣate . vacanāt abhyāsam pratīkṣate . ittvam punaḥ na pratīkṣate . na vā abhyāsavikāreṣu apavādasya utsargābādhakatvāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . abhyāsavikāreṣu apavādasya utsargābādhakatvāt . abhyāsavikāreṣu apavādāḥ utsargān na bādhante iti evam dīrghatvam ucyamānam ittvam na bādhiṣyate . atha vā mānbadhadānśanbhyaḥ ī ca abhyāsasya iti vakṣyāmi . evam api halādiśeṣāpavādaḥ īkāraḥ prāpnoti . ī ca acaḥ iti vakṣyāmi . atha vā mānbadhadānśanbhyaḥ dīrghaḥ ca itaḥ abhyāsasya iti vakṣyāmi . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam abhyāsadīrghatve avarṇasya dīrghaprasaṅgaḥ iti . parihṛtam etat na vā abhyāsavikāreṣu apavādasya utsargābādhakatvāt iti . atha vā na evam vijñāyate dīrghaḥ ca abhyāsasya iti . katham tarhi . dīrghaḥ ca ābhyāsasya iti . kim idam ābhyāsasya iti . abhyāsavikāraḥ ābhyāsaḥ tasya iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१२-१४।७ रो इइइ,३३-३९ धातोः इति किमर्थम् । प्रकर्तुम् ऐच्छत् प्राचिकीर्षत् । सोपसर्गात् मा भूत् । कर्मग्रहणात् सन्विधौ धातुग्रहणानर्थक्यम् । कर्मग्रहणात् सन्विधौ धातुग्रहणम् अनर्थकम् । कर्मणः समानकर्तृकात् इच्छायाम् वा सम्भवति इति एव धातोः उत्पत्तिः भविष्यति । सोपर्सर्गम् वै कर्म । ततः उत्पत्तिः प्राप्नोति । सोपसर्गम् कर्म इति चेत् कर्मविशेषकत्वात् उपसर्गस्य अनुपसर्गम् कर्म । सोपसर्गम् कर्म इति चेत् कर्मविशेषकः उपसर्गः । अनुपसर्गम् हि कर्म । अवश्यम् च एतत् एवम् विज्ञेयम् अनुपसर्गम् कर्म इति । सोपसर्गस्य हि कर्मत्वे धात्वधिकारे अपि सनः अविधानम् अकर्मत्वात् । यः हि मन्यते सोपसर्गम् कर्म इति क्रियमाणे अपि तस्य धातुग्रहणे सनः अविधिः स्यात् । किम् कारणम् । अकर्मत्वात् । इदम् तर्हि प्रयोजनम् । सुबन्तात् उत्पत्तिः मा भूत् । सुबन्तात् च अप्रसङ्गः क्यजादीनाम् अपवादत्वात् । सुबन्तात् च सनः अप्रसङ्गः । किम् कारणम् । क्यजादीनाम् अपवादत्वात् । सुबन्तात् क्यजादयः विधीयन्ते । ते अपवादत्वात् बाधकाः भविष्यन्ति । अनभिधानात् वा । अथ वा अनभिधानात् सुबन्तात् उत्पत्तिः न भविष्यति । न हि सुबन्तात् उत्पद्यमानेन सना इच्छाया अभिधानम् स्यात् । अनभिधानात् ततः उत्पत्तिः न भविष्यति । इयम् तावत् अगतिका गतिः यत् उच्यते अनभिधानात् इति । यत् अपि उच्यते सुबन्तात् च अप्रसङ्गः क्यजादीनाम् अपवादत्वात् इति । भवेत् कस्मात् चित् अप्रसङ्गः स्यात् आत्मेच्छायाम् । परेच्छायाम् तु प्राप्नोति : राज्ञः पुत्रम् इच्छति इति । एवम् तर्हि इदम् इह व्यपदेश्यम् सत् आचार्यः न व्यपदिशति । किम् । समानकर्तृकात् इति उच्यते । न च सुबन्तस्य समानः कर्ता अस्ति । एवम् अपि भवेत् कस्मात् चित् अप्रसङ्गः यस्य कर्ता न अस्ति । इह तु प्राप्नोति : आसितुम् इच्छति शयितुम् इच्छति । इच्छायाम् अर्थे सन् विधीयते इच्छार्थेषु च तुमुन् । तत्र तुमुना उक्ततत्वात् तस्य अर्थस्य सन् न भविष्यति । एवम् अपि इह प्राप्नोति : आसनम् इच्छति शयनम् इच्छति इति । इह यः विशेषः उपाधिः वा उपादीयते द्योत्ये तस्मिन् तेन भवितव्यम् । यः च इह अर्थः गम्यते आसितुम् इच्छति शयितुम् इच्छति स्वयम् ताम् क्रियाम् कर्तुम् इच्छति इति न असौ इह गम्यते आसनम् इच्छति शयनम् इच्छति इति । अन्यस्य अपि आसनम् इच्छति इति एषः अपि अर्थः गम्यते । अवश्यम् च एतत् एवम् विज्ञेयम् । यः हि मन्यते अद्योत्ये तस्मिन् तेन भवितव्यम् इति क्रियमाणे अपि तस्य धातुग्रहणे इह प्रसज्येत : सङ्गतम् इच्छति देवदत्तः यज्ञदत्तेन इति । कर्मसमानकर्तृकग्रहणानर्थक्यम् च इच्छाभिधाने प्रत्ययविधानात् । कर्मसमानकर्तृकग्रहणम् च अनर्थकम् । किम् कारणम् । इच्छाभिधाने प्रत्ययविधानात् । इच्छायाम् अभिधेयायाम् सन् विधीयते । अकर्मणः हि असमानकर्तृकात् वा अनभिधानम् । इच्छायाम् अभिधेयायाम् सन् विधीयते । न च अकर्मणः असमानकर्तृकात् वा उत्पद्यमानेन सना इच्छाया अभिधानम् स्यात् । अनभिधानात् ततः उत्पत्तिः न भविष्यति । अङ्गपरिमाणार्थम् तु । अङ्गपरिमाणार्थम् तर्हि अन्यतरत् कर्तव्यम् कर्मग्रहणम् धातुग्रहणम् वा । अङ्गपरिमाणम् ज्ञास्यामि इति । किम् पुनः अत्र ज्यायः । धातुग्रहणम् एव ज्यायः । अङ्गपरिमाणम् च एव विज्ञातम् भवति । अपि च धातोः विहितः प्रत्ययः शेषः आर्धधातुकसञ्ज्ञः भवति इति सनः आर्धधातुकसञ्ज्ञा सिद्धा भवति । यत् च अपि एतत् उक्तम् कर्मग्रहणात् सन्विधौ धातुग्रहणानर्थक्यम् सोपसर्गम् कर्म इति चेत् कर्मविशेषकत्वात् उपसर्गस्य अनुपसर्गम् कर्म सोपसर्गस्य हि कर्मत्वे धात्वधिकारे अपि सनः अविधानम् अकर्मत्वात् इति स्वपक्षः अनेन वर्णितः । युक्तम् इह द्रष्टव्यम् किम् न्याय्यम् कर्म इति । एतत् च अत्र युक्तम् यत् सोपसर्गम् कर्म स्यात् । ननु च उक्तम् सोपसर्गस्य हि कर्मत्वे धात्वधिकारे अपि सनः अविधानम् अकर्मत्वात् इति । न एषः दोषः । कर्मणः इति न एषा धातुसमानाधिकरणा पञ्चमी । कर्मणः धातोः इति । किम् तर्हि । अवयवयोगा एषा षष्ठी । कर्मणः यः धातुः अवयवः । यदि अवयवयोगा एषा षष्ठीकेवलात् उत्पत्तिः न प्राप्नोति । चिकीर्षति जिहीर्षति इति । एषः अपि व्यपदेशिवद्भावेन कर्मणः धातुः अवयः भवति । कामम् तर्हि अनेन एव हेतुना क्यच् अपि कर्तव्यः । महान्तम् पुत्रम् इच्छति । कर्मणः यत् सुबन्तम् अवययः इति । न कर्तव्यः । असामर्थ्यात् न भविष्यति । कथम् असामर्थ्यम् । सापेक्षम् असमर्थम् भवति इति । वावचनानर्थक्यम् च तत्र नित्यत्वात् सनः । वावचनम् च अनर्थकम् । किम् कारणम् । तत्र नित्यत्वात् सनः । इह

KA II,12-14.7 Ro III,33-39 dhātoḥ iti kimartham . prakartum aicchat prācikīrṣat . sopasargāt mā bhūt . karmagrahaṇāt sanvidhau dhātugrahaṇānarthakyam . karmagrahaṇāt sanvidhau dhātugrahaṇam anarthakam . karmaṇaḥ samānakartṛkāt icchāyām vā sambhavati iti eva dhātoḥ utpattiḥ bhaviṣyati . soparsargam vai karma . tataḥ utpattiḥ prāpnoti . sopasargam karma iti cet karmaviśeṣakatvāt upasargasya anupasargam karma . sopasargam karma iti cet karmaviśeṣakaḥ upasargaḥ . anupasargam hi karma . avaśyam ca etat evam vijñeyam anupasargam karma iti . sopasargasya hi karmatve dhātvadhikāre api sanaḥ avidhānam akarmatvāt . yaḥ hi manyate sopasargam karma iti kriyamāṇe api tasya dhātugrahaṇe sanaḥ avidhiḥ syāt . kim kāraṇam . akarmatvāt . idam tarhi prayojanam . subantāt utpattiḥ mā bhūt . subantāt ca aprasaṅgaḥ kyajādīnām apavādatvāt . subantāt ca sanaḥ aprasaṅgaḥ . kim kāraṇam . kyajādīnām apavādatvāt . subantāt kyajādayaḥ vidhīyante . te apavādatvāt bādhakāḥ bhaviṣyanti . anabhidhānāt vā . atha vā anabhidhānāt subantāt utpattiḥ na bhaviṣyati . na hi subantāt utpadyamānena sanā icchāyā abhidhānam syāt . anabhidhānāt tataḥ utpattiḥ na bhaviṣyati . iyam tāvat agatikā gatiḥ yat ucyate anabhidhānāt iti . yat api ucyate subantāt ca aprasaṅgaḥ kyajādīnām apavādatvāt iti . bhavet kasmāt cit aprasaṅgaḥ syāt ātmecchāyām . parecchāyām tu prāpnoti : rājñaḥ putram icchati iti . evam tarhi idam iha vyapadeśyam sat ācāryaḥ na vyapadiśati . kim . samānakartṛkāt iti ucyate . na ca subantasya samānaḥ kartā asti . evam api bhavet kasmāt cit aprasaṅgaḥ yasya kartā na asti . iha tu prāpnoti : āsitum icchati śayitum icchati . icchāyām arthe san vidhīyate icchārtheṣu ca tumun . tatra tumunā uktatatvāt tasya arthasya san na bhaviṣyati . evam api iha prāpnoti : āsanam icchati śayanam icchati iti . iha yaḥ viśeṣaḥ upādhiḥ vā upādīyate dyotye tasmin tena bhavitavyam . yaḥ ca iha arthaḥ gamyate āsitum icchati śayitum icchati svayam tām kriyām kartum icchati iti na asau iha gamyate āsanam icchati śayanam icchati iti . anyasya api āsanam icchati iti eṣaḥ api arthaḥ gamyate . avaśyam ca etat evam vijñeyam . yaḥ hi manyate adyotye tasmin tena bhavitavyam iti kriyamāṇe api tasya dhātugrahaṇe iha prasajyeta : saṅgatam icchati devadattaḥ yajñadattena iti . karmasamānakartṛkagrahaṇānarthakyam ca icchābhidhāne pratyayavidhānāt . karmasamānakartṛkagrahaṇam ca anarthakam . kim kāraṇam . icchābhidhāne pratyayavidhānāt . icchāyām abhidheyāyām san vidhīyate . akarmaṇaḥ hi asamānakartṛkāt vā anabhidhānam . icchāyām abhidheyāyām san vidhīyate . na ca akarmaṇaḥ asamānakartṛkāt vā utpadyamānena sanā icchāyā abhidhānam syāt . anabhidhānāt tataḥ utpattiḥ na bhaviṣyati . aṅgaparimāṇārtham tu . aṅgaparimāṇārtham tarhi anyatarat kartavyam karmagrahaṇam dhātugrahaṇam vā . aṅgaparimāṇam jñāsyāmi iti . kim punaḥ atra jyāyaḥ . dhātugrahaṇam eva jyāyaḥ . aṅgaparimāṇam ca eva vijñātam bhavati . api ca dhātoḥ vihitaḥ pratyayaḥ śeṣaḥ ārdhadhātukasañjñaḥ bhavati iti sanaḥ ārdhadhātukasañjñā siddhā bhavati . yat ca api etat uktam karmagrahaṇāt sanvidhau dhātugrahaṇānarthakyam sopasargam karma iti cet karmaviśeṣakatvāt upasargasya anupasargam karma sopasargasya hi karmatve dhātvadhikāre api sanaḥ avidhānam akarmatvāt iti svapakṣaḥ anena varṇitaḥ . yuktam iha draṣṭavyam kim nyāyyam karma iti . etat ca atra yuktam yat sopasargam karma syāt . nanu ca uktam sopasargasya hi karmatve dhātvadhikāre api sanaḥ avidhānam akarmatvāt iti . na eṣaḥ doṣaḥ . karmaṇaḥ iti na eṣā dhātusamānādhikaraṇā pañcamī . karmaṇaḥ dhātoḥ iti . kim tarhi . avayavayogā eṣā ṣaṣṭhī . karmaṇaḥ yaḥ dhātuḥ avayavaḥ . yadi avayavayogā eṣā ṣaṣṭhīkevalāt utpattiḥ na prāpnoti . cikīrṣati jihīrṣati iti . eṣaḥ api vyapadeśivadbhāvena karmaṇaḥ dhātuḥ avayaḥ bhavati . kāmam tarhi anena eva hetunā kyac api kartavyaḥ . mahāntam putram icchati . karmaṇaḥ yat subantam avayayaḥ iti . na kartavyaḥ . asāmarthyāt na bhaviṣyati . katham asāmarthyam . sāpekṣam asamartham bhavati iti . vāvacanānarthakyam ca tatra nityatvāt sanaḥ . vāvacanam ca anarthakam . kim kāraṇam . tatra nityatvāt sanaḥ . iha

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१४।८-१५।४ रो इइइ,३९-४२ तुमुनन्तात् वा तस्य च लुग्वचनम् । तुमुनन्तात् वा सन् वक्तव्यः तस्य च तुमुनः लुक् वक्तव्यः । कर्तुम् इच्छति चिकीर्षति । लिङुत्तमात् वा । लिङुत्तमात् वा सन् वक्तव्यः तस्य च लिङः लुक् वक्तव्यः । कुर्याम् इति इच्छति चिकीर्षति । आशङ्कायाम् अचेतनेषु उपसङ्ख्यानम् । आशङ्कायाम् अचेतनेषु उपसङ्ख्यानम् कर्तव्यम् । अश्मा लुलुठिषते । कूलम् पिपतिषति इति । किम् पुनः कारणम् न सिध्यति । एवम् मन्यते । चेतनावतः एतत् भवति इच्छा इति । कूलम् च अचेतनम् । अचेतनग्रहणेन न अर्थः । आशङ्कायाम् इति एव । इदम् अपि सिद्धम् भवति । श्वा मुमूर्षति । न वा तुल्यकारणत्वात् इच्छयाः हि प्रवृत्तितः उपलब्धिः । न वा कर्तव्यम् । किम् कारणम् । तुल्यकारणत्वात् । तुल्यम् हि कारणम् चेतनावति देवदत्ते कूले च अचेतने । किम् कारणम् । इच्छयाः हि प्रवृत्तितः उपलब्धिः । इच्छयाः हि प्रवृत्तितः उपलब्धिः भवति । यः अपि असु कटम् चिकीर्षुः भवति न असौ आघोषयति । कटम् करिष्यामि इति । किम् तर्हि । सन्नद्धम् रज्जुकीलक्पूलपाणिम् दृष्ट्वा ततः इच्छा गम्यते । कूलस्य अपि पिपतिषतः लोष्टाः शीर्यन्ते भिदा जायन्ते देशात् देशान्तरम् उपसङ्क्रामति । श्वानः खलु अपि मुमूर्षवः एकान्तशीलाः शूनाक्षाः च भवन्ति । उपमानात् वा सिद्धम् । उपमानात् वा सिद्धम् एतत् । कथम् । लुलुठिषते इव लुलुठिषते । पिपतिषति इव पिपतिषति । न तिङन्तेन उपमानम् अस्ति । एवम् तर्हि इच्छा इव इच्छा । सर्वस्य वा चेतनावत्त्वात् । अथ वा सर्वम् चेतनावत् । एवम् हि आह । कंसकाः सर्पन्ति । शिरीषः अधः स्वपिति । सुवर्चला आदित्यम् अनु पर्येति । आस्कन्द कपिलक इति उक्ते तृणम् आस्कन्दति । अयस्कान्तम् अयः सङ्क्रामति । ऋषिः पठति श्र्णोत ग्रावाणः ।

KA II,14.8-15.4 Ro III,39-42 tumunantāt vā tasya ca lugvacanam . tumunantāt vā san vaktavyaḥ tasya ca tumunaḥ luk vaktavyaḥ . kartum icchati cikīrṣati . liṅuttamāt vā . liṅuttamāt vā san vaktavyaḥ tasya ca liṅaḥ luk vaktavyaḥ . kuryām iti icchati cikīrṣati . āśaṅkāyām acetaneṣu upasaṅkhyānam . āśaṅkāyām acetaneṣu upasaṅkhyānam kartavyam . aśmā luluṭhiṣate . kūlam pipatiṣati iti . kim punaḥ kāraṇam na sidhyati . evam manyate . cetanāvataḥ etat bhavati icchā iti . kūlam ca acetanam . acetanagrahaṇena na arthaḥ . āśaṅkāyām iti eva . idam api siddham bhavati . śvā mumūrṣati . na vā tulyakāraṇatvāt icchayāḥ hi pravṛttitaḥ upalabdhiḥ . na vā kartavyam . kim kāraṇam . tulyakāraṇatvāt . tulyam hi kāraṇam cetanāvati devadatte kūle ca acetane . kim kāraṇam . icchayāḥ hi pravṛttitaḥ upalabdhiḥ . icchayāḥ hi pravṛttitaḥ upalabdhiḥ bhavati . yaḥ api asu kaṭam cikīrṣuḥ bhavati na asau āghoṣayati . kaṭam kariṣyāmi iti . kim tarhi . sannaddham rajjukīlakpūlapāṇim dṛṣṭvā tataḥ icchā gamyate . kūlasya api pipatiṣataḥ loṣṭāḥ śīryante bhidā jāyante deśāt deśāntaram upasaṅkrāmati . śvānaḥ khalu api mumūrṣavaḥ ekāntaśīlāḥ śūnākṣāḥ ca bhavanti . upamānāt vā siddham . upamānāt vā siddham etat . katham . luluṭhiṣate iva luluṭhiṣate . pipatiṣati iva pipatiṣati . na tiṅantena upamānam asti . evam tarhi icchā iva icchā . sarvasya vā cetanāvattvāt . atha vā sarvam cetanāvat . evam hi āha . kaṃsakāḥ sarpanti . śirīṣaḥ adhaḥ svapiti . suvarcalā ādityam anu paryeti . āskanda kapilaka iti ukte tṛṇam āskandati . ayaskāntam ayaḥ saṅkrāmati . ṛṣiḥ paṭhati śrṇota grāvāṇaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१५। ५-२३ रो इइइ,४२-४५ इमे इषवः बहवः पठ्यन्ते । तत्र न ज्ञायते कस्य अयम् अर्थे सन् विधीयते इति । इषेः छत्वभाविनः । यदि एवम् कर्तुम् अन्विच्छति कर्तुम् अन्वेषणा अत्र अपि प्राप्नोति । एवम् तर्हि यस्य स्त्रियाम् इच्छा इति एतत् रूपम् निपात्यते । कस्य च एतत् निपात्यते । कान्तिकर्मणः । अथ इह ग्रामम् गन्तुम् इच्छति इति कस्य किम् कर्म । इषेः उभे कर्मणी । यदि एवम् ग्रामम् गन्तुम् इच्छति ग्रामाय गन्तुम् इच्छति इति गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ न प्राप्नुतः । एवम् तर्हि गमेः ग्रामः कर्म इषेः गमिः कर्म । एवम् अपि इष्यते ग्रामः गन्तुम् इति परसाधने उत्पद्यमानेन लेन ग्रामस्य अभिधानम् न प्राप्नोति । एवम् तर्हि गमेः ग्रामः कर्म इषेः उभे कर्मणी । अथ सनन्तात् सना भवितव्यम् : चिकीर्षितुम् इच्छति जिहीर्षितुम् इच्छति इति । न भवितव्यम् । किम् कारणम् । अर्थगत्यर्थः शब्दप्रयोगः । अर्थम् सम्प्रत्याययिष्यामि इति शब्दः प्रयुज्यते । तत्र एकेन उक्तत्वात् तस्य अर्थस्य अपरस्य प्रयोगेण न भवितव्यम् । किम् कारणम् । उक्तार्थानाम् अप्रयोगः । न तर्हि इदानीम् इदम् भवति : एषितुम् इच्छति एषिषिषति इति । अस्ति अत्र विशेषः । एकस्य अत्र इषेः इषिः साधनम् वर्तमानकालः च प्रत्ययः । अपरस्य बाह्यम् साधनम् सर्वकालः च प्रत्ययः । इह अपि तर्हि एकस्य इषेः करोतिविषिष्टः इषिः साधनम् वर्तमानकालः च प्रत्ययः । अपरस्य बाह्यम् साधनम् सर्वकालः च प्रत्ययः । येन एव खलु अपि हेतुना एतत् वाक्यम् भवति चिकीर्षितुम् इच्छति जिहीर्षितुम् इच्छति इति तेन एव हेतुना वृत्तिः अपि प्राप्नोति । तस्मात् सनन्तात् सनः प्रतिषेधः वक्तव्यः । तम् च अपि ब्रुवता इषिसनः इति वक्तव्यम् । भवति हि जुगुप्सिषते मीमांसिषते इति । शैषिकात् मतुबर्थीयात् शैषिकः मतुबर्थिकः सरूपः प्रत्ययः न इष्टः । सनन्तात् न सन् इष्यते ।

KA II,15. 5-23 Ro III,42-45 ime iṣavaḥ bahavaḥ paṭhyante . tatra na jñāyate kasya ayam arthe san vidhīyate iti . iṣeḥ chatvabhāvinaḥ . yadi evam kartum anvicchati kartum anveṣaṇā atra api prāpnoti . evam tarhi yasya striyām icchā iti etat rūpam nipātyate . kasya ca etat nipātyate . kāntikarmaṇaḥ . atha iha grāmam gantum icchati iti kasya kim karma . iṣeḥ ubhe karmaṇī . yadi evam grāmam gantum icchati grāmāya gantum icchati iti gatyarthakarmaṇi dvitīyācaturthyau na prāpnutaḥ . evam tarhi gameḥ grāmaḥ karma iṣeḥ gamiḥ karma . evam api iṣyate grāmaḥ gantum iti parasādhane utpadyamānena lena grāmasya abhidhānam na prāpnoti . evam tarhi gameḥ grāmaḥ karma iṣeḥ ubhe karmaṇī . atha sanantāt sanā bhavitavyam : cikīrṣitum icchati jihīrṣitum icchati iti . na bhavitavyam . kim kāraṇam . arthagatyarthaḥ śabdaprayogaḥ . artham sampratyāyayiṣyāmi iti śabdaḥ prayujyate . tatra ekena uktatvāt tasya arthasya aparasya prayogeṇa na bhavitavyam . kim kāraṇam . uktārthānām aprayogaḥ . na tarhi idānīm idam bhavati : eṣitum icchati eṣiṣiṣati iti . asti atra viśeṣaḥ . ekasya atra iṣeḥ iṣiḥ sādhanam vartamānakālaḥ ca pratyayaḥ . aparasya bāhyam sādhanam sarvakālaḥ ca pratyayaḥ . iha api tarhi ekasya iṣeḥ karotiviṣiṣṭaḥ iṣiḥ sādhanam vartamānakālaḥ ca pratyayaḥ . aparasya bāhyam sādhanam sarvakālaḥ ca pratyayaḥ . yena eva khalu api hetunā etat vākyam bhavati cikīrṣitum icchati jihīrṣitum icchati iti tena eva hetunā vṛttiḥ api prāpnoti . tasmāt sanantāt sanaḥ pratiṣedhaḥ vaktavyaḥ . tam ca api bruvatā iṣisanaḥ iti vaktavyam . bhavati hi jugupsiṣate mīmāṃsiṣate iti . śaiṣikāt matubarthīyāt śaiṣikaḥ matubarthikaḥ sarūpaḥ pratyayaḥ na iṣṭaḥ . sanantāt na san iṣyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१६।२-१७।१२ रो इइइ,४५-४८ किमर्थः चकारः । स्वरार्थः । चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् । न एतत् अस्ति प्रयोजनम् । एकाच् अयम् । तत्र न अर्थः स्वरार्थेन चकारेण अनुबन्धेन । प्रत्ययस्वरेण एव सिद्धम् । विशेषणार्थः तर्हि । क्व विशेषणार्थेन अर्थः । अस्य च्वौ क्यचि च इति । क्ये च इति उच्यमाने अपि काकः श्येनायते अत्र अपि प्रसय्जेत । न एतत् अस्ति । तदनुबन्धकग्रहणे अतदनुबन्धकस्य ग्रहणम् न इति एवम् एतस्य न भविष्यति । सामान्यग्रहणाविघातार्थः तर्हि । क्व च सामान्यग्रहणाविघातार्थेन अर्थः । नः क्ये इति । अथ आत्मन्ग्रहणम् किमर्थम् । आत्मेच्छायाम् यथा स्यात् । परेच्छायाम् मा भूत् इति । राज्ञः पुत्रम् इच्छति इति । क्रियमाणे अपि आत्मग्रहणे परेच्छायाम् प्राप्नोति । किम् कारणम् । आत्मनः इति इयम् कर्तरि षष्ठी । इच्छा इति अकारः भावे । सः यदि एव आत्मनः इच्छा अथ अपि परस्य आत्मेच्छा एव असौ भवति । न आत्मग्रहणेन इच्छा अभिसम्बध्यते । किम् तर्हि । सुबन्तम् अभिसम्बध्यते । आत्मनः यत् सुबन्तम् इति । यदि आत्मग्रहणम् क्रियते छन्दसि परेच्छायाम् न प्राप्नोति । म त्वा वृकाः अघायवः विदन् । तस्मात् न अर्थः आत्मग्रहणेन । इह कस्मात् न भवति : राज्ञः पुत्रम् इच्छति इति । असामर्थ्यात् । कथम् असामर्थ्यम् । सापेक्षम् असमर्थम् भवति इति । छन्दसि अपि तर्हि न प्राप्नोति । म त्वा वृकाः अघायवः विदन् । अस्ति अत्र विशेषः । अन्तरेण अपि अत्र तृतीयस्य पदस्य प्रयोगम् परेच्छा गम्यते । कथम् पुनः अन्तरेण अपि अत्र तृतीयस्य पदस्य प्रयोगम् परेच्छा गम्यते । ते च एव वृकाः एवमात्मकः हिंस्राः । कः च आत्मनः अघम् एषितुम् अर्हति । अतः अन्तरेण अपि अत्र तृतीयस्य पदस्य प्रयोगम् परेच्छा गम्यते । यथा एव तर्हि छन्दसि अघशब्दात् परेच्छायाम् ख्यच् भवति एवम् भाषायाम् अपि प्राप्नोति । अघम् इच्छति इति । तस्मात् आत्मग्रहणम् कर्तव्यम् । छन्दसि कथम् । आचार्यप्रवृत्तिः ज्ञापयति भवति छन्दसि अघशब्दात् परेच्छायाम् क्यच् इति यत् अयम् अश्वाघस्यात् इति क्यचि प्रत्कृते ईत्वबाधनार्थम् आकारम् शास्ति । अथ सुब्ग्रहणम् किमर्थम् । सुबन्तात् उत्पत्तिः यथ स्यात् । प्रातिपदिकात् मा भूत् इति । न एतत् अस्ति प्रयोजनम् । न अस्ति अत्र विशेषः सुबन्तात् उत्पत्तौ सत्याम् प्रातिपदिकात् वा अयम् अस्ति विशेषः । सुबन्तात् उत्पत्तौ सत्याम् पदसञ्ज्ञा सिद्धा भवति । प्रातिपदिकात् उत्पत्तौ सत्याम् पदसञ्ज्ञा न प्राप्नोति । ननु च प्रातिपदिकात् उत्पत्तौ सत्याम् पदसञ्ज्ञा सिद्धा । कथम् । आरभ्यते नः क्ये इति । तत् च अवश्यम् कर्तव्यम् सुबन्तात् उत्पत्तौ सत्याम् नियमार्थम् । तत् एव प्रातिपदिकात् उत्पत्तौ सत्याम् विध्यर्थम् भविष्यति । इदम् तर्हि प्रयोजनम् । सुबन्तात् उत्पत्तिः यथ स्यात् । धातोः मा भूत् इति । एतत् अपि न अस्ति प्रयोजनम् । धातोः सन् विधीयते । सः बाधकः भविष्यति । अनवकाशाः हि विधयः बाधकाः भवन्ति सावकाशः च सन् । कः अवकाशः । परेच्छा । न परेच्छायाम् सना भवितव्यम् । किम् कारणम् । समानकर्तृकात् इति उच्यते । यावत् च इह आत्मग्रहणम् तावत् तत्र समानकर्तृकग्रहणम् । इदम् तर्हि प्रयोजनम् । सुबन्तात् उत्पत्तिः यथ स्यात् । वाक्यात् मात् भूत् इति । महान्तम् पुत्रम् इच्छति इति । न वा भवति महापुत्रीयति इति । भवति यदा एतत् वाक्यम् भवति । महान् पुत्रः महापुत्रः । महापुत्रम् इच्छति महापुत्रीयति इति । यदा तु एतत् वाक्यम् भवति महान्तम् पुत्रम् इच्छति इति तदा न भवितव्यम् तदा च प्राप्नोति । तदा मा भूत् इति ।

KA II,16.2-17.12 Ro III,45-48 kimarthaḥ cakāraḥ . svarārthaḥ . citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt . na etat asti prayojanam . ekāc ayam . tatra na arthaḥ svarārthena cakāreṇa anubandhena . pratyayasvareṇa eva siddham . viśeṣaṇārthaḥ tarhi . kva viśeṣaṇārthena arthaḥ . asya cvau kyaci ca iti . kye ca iti ucyamāne api kākaḥ śyenāyate atra api prasayjeta . na etat asti . tadanubandhakagrahaṇe atadanubandhakasya grahaṇam na iti evam etasya na bhaviṣyati . sāmānyagrahaṇāvighātārthaḥ tarhi . kva ca sāmānyagrahaṇāvighātārthena arthaḥ . naḥ kye iti . atha ātmangrahaṇam kimartham . ātmecchāyām yathā syāt . parecchāyām mā bhūt iti . rājñaḥ putram icchati iti . kriyamāṇe api ātmagrahaṇe parecchāyām prāpnoti . kim kāraṇam . ātmanaḥ iti iyam kartari ṣaṣṭhī . icchā iti akāraḥ bhāve . saḥ yadi eva ātmanaḥ icchā atha api parasya ātmecchā eva asau bhavati . na ātmagrahaṇena icchā abhisambadhyate . kim tarhi . subantam abhisambadhyate . ātmanaḥ yat subantam iti . yadi ātmagrahaṇam kriyate chandasi parecchāyām na prāpnoti . ma tvā vṛkāḥ aghāyavaḥ vidan . tasmāt na arthaḥ ātmagrahaṇena . iha kasmāt na bhavati : rājñaḥ putram icchati iti . asāmarthyāt . katham asāmarthyam . sāpekṣam asamartham bhavati iti . chandasi api tarhi na prāpnoti . ma tvā vṛkāḥ aghāyavaḥ vidan . asti atra viśeṣaḥ . antareṇa api atra tṛtīyasya padasya prayogam parecchā gamyate . katham punaḥ antareṇa api atra tṛtīyasya padasya prayogam parecchā gamyate . te ca eva vṛkāḥ evamātmakaḥ hiṃsrāḥ . kaḥ ca ātmanaḥ agham eṣitum arhati . ataḥ antareṇa api atra tṛtīyasya padasya prayogam parecchā gamyate . yathā eva tarhi chandasi aghaśabdāt parecchāyām khyac bhavati evam bhāṣāyām api prāpnoti . agham icchati iti . tasmāt ātmagrahaṇam kartavyam . chandasi katham . ācāryapravṛttiḥ jñāpayati bhavati chandasi aghaśabdāt parecchāyām kyac iti yat ayam aśvāghasyāt iti kyaci pratkṛte ītvabādhanārtham ākāram śāsti . atha subgrahaṇam kimartham . subantāt utpattiḥ yatha syāt . prātipadikāt mā bhūt iti . na etat asti prayojanam . na asti atra viśeṣaḥ subantāt utpattau satyām prātipadikāt vā ayam asti viśeṣaḥ . subantāt utpattau satyām padasañjñā siddhā bhavati . prātipadikāt utpattau satyām padasañjñā na prāpnoti . nanu ca prātipadikāt utpattau satyām padasañjñā siddhā . katham . ārabhyate naḥ kye iti . tat ca avaśyam kartavyam subantāt utpattau satyām niyamārtham . tat eva prātipadikāt utpattau satyām vidhyartham bhaviṣyati . idam tarhi prayojanam . subantāt utpattiḥ yatha syāt . dhātoḥ mā bhūt iti . etat api na asti prayojanam . dhātoḥ san vidhīyate . saḥ bādhakaḥ bhaviṣyati . anavakāśāḥ hi vidhayaḥ bādhakāḥ bhavanti sāvakāśaḥ ca san . kaḥ avakāśaḥ . parecchā . na parecchāyām sanā bhavitavyam . kim kāraṇam . samānakartṛkāt iti ucyate . yāvat ca iha ātmagrahaṇam tāvat tatra samānakartṛkagrahaṇam . idam tarhi prayojanam . subantāt utpattiḥ yatha syāt . vākyāt māt bhūt iti . mahāntam putram icchati iti . na vā bhavati mahāputrīyati iti . bhavati yadā etat vākyam bhavati . mahān putraḥ mahāputraḥ . mahāputram icchati mahāputrīyati iti . yadā tu etat vākyam bhavati mahāntam putram icchati iti tadā na bhavitavyam tadā ca prāpnoti . tadā mā bhūt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१७।१२-१८।१५ रो इइइ,४८-५० अथ क्रियमाणे अपि सुब्ग्रहणे कस्मात् एव अत्र न भवति । सुबन्तम् हि एतत् वाक्यम् । न एतत् सुबन्तम् । कथम् । प्रत्ययग्रहणे यस्मात् तदादेः ग्रहणम् भवति इति । अथ यत् अत्र सुबन्तम् तस्मात् उत्पत्तिः कस्मात् न भवति । समानाधिकरणानाम् सर्वत्र अवृत्तिः अयोगात् एकेन । समानाधिकरणानाम् सर्वत्र एव वृत्तिः न भवति । क्व सर्वत्र । समासविधौ प्रत्ययविधौ । समासविधौ तावत् । ऋद्धस्य राज्ञः पुरुषः । महत् कष्टम् श्रितः इति । प्रत्ययविधौ । ऋद्धस्य उपगोः अपत्यम् । महान्तम् पुत्रम् इच्छति । इति । किम् पुनः कारणम् समानाधिकरणानाम् सर्वत्र वृत्तिः न भवति । अयोगात् एकेन । न हि एकेन पदेन योगः भवति । इह तावत् ऋद्धस्य राज्ञः पुरुषः इति षष्ठ्यन्तेन सुबन्तेन सामर्थ्ये सति समासः विधीयते । यत् च अत्र षष्थ्यन्तम् न तस्य सुबन्तेन सामर्थ्यम् । यस्य च सामर्थ्यम् न तत् षष्ठ्यन्तम् । वाक्यम् तत् । ऋद्धस्य उपगोः अपत्यम् इति च । षष्ठीसमर्थात् अपत्येन योगे प्रत्ययः विधीयते । यत् च अत्र षष्ट्ःईसमर्थम् न तस्य अपतत्येन योगः यस्य च अप्तत्येन योगः न तत् षष्ठ्यन्तम् । वाक्यम् तत् । समानाधिकरणानाम् इति उच्यते । अथ व्यधिकरणानाम् कथम् । राज्ञः पुत्रम् इच्छति इति । एवम् तर्हि इदम् पठितव्यम् । सविशेषणानाम् सर्वत्र अवृत्तिः अयोगात् एकेन । द्वितीयानुपपत्तिः तु । द्वितीया तु न उपपद्यते । महान्तम् पुत्रम् इच्छति इति । किम् कारणम् । न पुत्रः इषिकर्म । यदि पुत्रः न इषिकर्म न च अवश्यम् द्वितीया एव । किम् तर्हि । सर्वाः द्वितीयादयः विभक्तयः । महता पुत्रेण कृतम् । महते पुत्राय देहि । महः पुत्रात् आनय । महतः पुत्रस्य स्वम् । महति पुत्रे निधेहि । तस्मात् न एवम् शक्यम् वक्तुम् न पुत्रः इषिकर्म इति । पुत्र एव इषिकर्म । तत्सामानाधिकरण्यात् द्वितीयादयः भविष्यन्ति । वृत्तिः तर्हि कस्मात् न भवति । सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते इति वक्तव्यम् । यदि सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते इति उच्यते मुण्डयति माणवकम् इति अत्र वृत्तिः न प्राप्नोति । अमुण्डादीनाम् इति वक्तव्यम् । तत् तर्हि वक्तव्यम् सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते अमुण्डादीनाम् इति । न वक्तव्यम् । वृत्तिः कस्मात् न भवति महान्तम् पुत्रम् इच्छति इति । अगमकत्वात् । इह समानार्थेन वाक्येन भवितव्यम् प्रत्ययान्तेन च । यः च इह अर्थः वाक्येन गम्यते महान्तम् पुत्रम् इच्छति इति न असौ जातु चित् प्रत्ययान्तेन गम्यते महान्तम् पुत्रीयति इति । एतस्मात् हेतोः ब्रूमः अगमकत्वात् इति । न ब्रूमः अपशब्दः स्यात् इति । यत्र च गमकत्वम् भवति तत्र वृत्तिः । तत् यथा मुण्डयति माणवकम् इति ।

KA II,17.12-18.15 Ro III,48-50 atha kriyamāṇe api subgrahaṇe kasmāt eva atra na bhavati . subantam hi etat vākyam . na etat subantam . katham . pratyayagrahaṇe yasmāt tadādeḥ grahaṇam bhavati iti . atha yat atra subantam tasmāt utpattiḥ kasmāt na bhavati . samānādhikaraṇānām sarvatra avṛttiḥ ayogāt ekena . samānādhikaraṇānām sarvatra eva vṛttiḥ na bhavati . kva sarvatra . samāsavidhau pratyayavidhau . samāsavidhau tāvat . ṛddhasya rājñaḥ puruṣaḥ . mahat kaṣṭam śritaḥ iti . pratyayavidhau . ṛddhasya upagoḥ apatyam . mahāntam putram icchati . iti . kim punaḥ kāraṇam samānādhikaraṇānām sarvatra vṛttiḥ na bhavati . ayogāt ekena . na hi ekena padena yogaḥ bhavati . iha tāvat ṛddhasya rājñaḥ puruṣaḥ iti ṣaṣṭhyantena subantena sāmarthye sati samāsaḥ vidhīyate . yat ca atra ṣaṣthyantam na tasya subantena sāmarthyam . yasya ca sāmarthyam na tat ṣaṣṭhyantam . vākyam tat . ṛddhasya upagoḥ apatyam iti ca . ṣaṣṭhīsamarthāt apatyena yoge pratyayaḥ vidhīyate . yat ca atra ṣaṣṭḥīsamartham na tasya apatatyena yogaḥ yasya ca aptatyena yogaḥ na tat ṣaṣṭhyantam . vākyam tat . samānādhikaraṇānām iti ucyate . atha vyadhikaraṇānām katham . rājñaḥ putram icchati iti . evam tarhi idam paṭhitavyam . saviśeṣaṇānām sarvatra avṛttiḥ ayogāt ekena . dvitīyānupapattiḥ tu . dvitīyā tu na upapadyate . mahāntam putram icchati iti . kim kāraṇam . na putraḥ iṣikarma . yadi putraḥ na iṣikarma na ca avaśyam dvitīyā eva . kim tarhi . sarvāḥ dvitīyādayaḥ vibhaktayaḥ . mahatā putreṇa kṛtam . mahate putrāya dehi . mahaḥ putrāt ānaya . mahataḥ putrasya svam . mahati putre nidhehi . tasmāt na evam śakyam vaktum na putraḥ iṣikarma iti . putra eva iṣikarma . tatsāmānādhikaraṇyāt dvitīyādayaḥ bhaviṣyanti . vṛttiḥ tarhi kasmāt na bhavati . saviśeṣaṇānām vṛttiḥ na vṛttasya vā viśeṣaṇam na prayujyate iti vaktavyam . yadi saviśeṣaṇānām vṛttiḥ na vṛttasya vā viśeṣaṇam na prayujyate iti ucyate muṇḍayati māṇavakam iti atra vṛttiḥ na prāpnoti . amuṇḍādīnām iti vaktavyam . tat tarhi vaktavyam saviśeṣaṇānām vṛttiḥ na vṛttasya vā viśeṣaṇam na prayujyate amuṇḍādīnām iti . na vaktavyam . vṛttiḥ kasmāt na bhavati mahāntam putram icchati iti . agamakatvāt . iha samānārthena vākyena bhavitavyam pratyayāntena ca . yaḥ ca iha arthaḥ vākyena gamyate mahāntam putram icchati iti na asau jātu cit pratyayāntena gamyate mahāntam putrīyati iti . etasmāt hetoḥ brūmaḥ agamakatvāt iti . na brūmaḥ apaśabdaḥ syāt iti . yatra ca gamakatvam bhavati tatra vṛttiḥ . tat yathā muṇḍayati māṇavakam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१८।१६-१९।१७ रो इइइ,५०-५५ अथ अस्य क्यजन्तस्य कानि साधनानि भवन्ति । भावः कर्ता च । अथ कर्म । न अस्ति कर्म । ननु च अयम् इषिः सकर्मकः यस्य अयम् अर्थे क्यच् विधीयते । अभिहितम् तत् कर्म अन्तर्भूतम् धात्वर्थः सम्पन्नः । न च इदानीम् अन्यत् कर्म अस्ति येन सकर्मकः स्यात् । कथम् तर्हि अयम् सकर्मकः भवति अपुत्रम् पुत्रम् इव आचरति पुत्रीयति माणवकम् इति । अस्ति अत्र विशेषः । द्वे हि अत्र कर्मणी उपमानकर्म उपमेयकर्म च । उपमानकर्म अन्तर्भूतम् । उपमेयेन कर्मणा सकर्मकः भवति । तत् यथा । अपि काकः श्येनायते इति अत्र द्वौ कर्तारौ उपमानकर्ता च उपमेयकर्ता च। उपमानकर्ता अन्तर्भूतः । उपेमेयकर्त्रा सक्र्तृकः भवति । अयम् तर्हि कथम् सकर्मकः भवति । मुण्डयति माणवकम् इति । अत्र अपि द्वे कर्मणी सामान्यकर्म विशेषकर्म च । सामान्यकर्म अन्तर्भूतम् । विशेषकर्मणा सकर्मकः भवति । ननु च वृत्त्या एव अत्र न भवितव्यम् । किम् कारणम् । असामर्थ्यात् । कथम् असामर्थ्यम् । सापेक्षम् असमर्थम् भवति इति । न एषः दोषः । न अत्र उभौ करोतियुक्तौ मुण्डः माणवकः च । न हि माणवकः क्रियते । यदा च उभौ करोतियुक्तौ भवतः न भवति तदा वृत्तिः । तत् यथा बलीवर्दम् करोति मुण्डम् च एनम् करोति इति । कामम् तर्हि अनेन एव हेतुना क्यच् अपि कर्तव्यः माणवकम् मुण्डम् इच्छति इति । न उभौ इषियुक्तौ इति । न कर्तव्यः । उभौ अत्र इषियुक्तौ मुण्डः माणवकः च । कथम् । न हि असौ मौण्ड्यमात्रेण सन्तोषम् करोति । माणवकस्थम् असौ मौण्ड्यम् इच्छति । इह अपि तर्हि न प्राप्नोति मुण्डयति माणवकम् इति । अत्र अपि हि उभौ करोतियुक्त मुण्डः माणवकः च । न हि असौ मौण्ड्यमात्रेण सन्तोषम् करोति । माणवकस्थम् असु मौण्ड्यम् निर्वर्तयति । एवम् तर्हि मुण्डादयः गुअणवचनाः । गुणवचनाः च सापेक्षाः । वचनात् सापेक्षाणाम् अपि वृत्तिः भविष्यति । अथ वा धातवः एव मुण्डादयः । न न एव हि अर्थाः आदिश्यन्ते क्रियावचनता च गम्यते । अथ वा न इदम् उभयम् युगपत् भवति वाक्यम् च प्रत्ययः च । यदा वाक्यम् न तदा प्रत्ययः । यदा प्रत्ययः सामान्येन तदा वृत्तिः । तत्र अव्श्यम् विशेषार्थिना विशेषः अनुप्रयोक्तव्यः । मुण्डयति । कम् । माणवकम् इति । मुण्डविशिष्टेन वा करोतिन तम् आप्तुम् इच्छति । अथ वा उक्तम् एतत् । न अत्र व्यापारः अनुगन्तव्यः इति । गमक्त्वात् इह वृत्तिः भविष्यति । मुण्डयति माणवकम् इति । अथ इह क्यचा भवितव्यम् । इष्टः पुत्रः । इष्यते पुत्रः इति । के चित् तावत् आहुः न भवितव्यम् इत् । किम् कारणम् । स्वशब्देन उक्तत्वात् इति । अपरे आहुः : भवितव्यम् इति । किम् कारणम् । धात्वर्थे अयम् क्यच् विधीयते । सः च धात्वर्थः केन चित् एव शब्देन निर्देष्टव्यः इति । इहभवन्तः तु आहुः न भवितव्यम् इति । किम् कारणम् । इह समानार्थेन वाक्येन भवितव्यम् प्रत्ययान्तेन च । यः च इह अर्थः वाक्येन गम्यते इष्टः पुत्रः इष्यते पुत्रः इति न असौ जातु चित् प्रत्ययान्तेन गम्यते ।

KA II,18.16-19.17 Ro III,50-55 atha asya kyajantasya kāni sādhanāni bhavanti . bhāvaḥ kartā ca . atha karma . na asti karma . nanu ca ayam iṣiḥ sakarmakaḥ yasya ayam arthe kyac vidhīyate . abhihitam tat karma antarbhūtam dhātvarthaḥ sampannaḥ . na ca idānīm anyat karma asti yena sakarmakaḥ syāt . katham tarhi ayam sakarmakaḥ bhavati aputram putram iva ācarati putrīyati māṇavakam iti . asti atra viśeṣaḥ . dve hi atra karmaṇī upamānakarma upameyakarma ca . upamānakarma antarbhūtam . upameyena karmaṇā sakarmakaḥ bhavati . tat yathā . api kākaḥ śyenāyate iti atra dvau kartārau upamānakartā ca upameyakartā ca. upamānakartā antarbhūtaḥ . upemeyakartrā sakrtṛkaḥ bhavati . ayam tarhi katham sakarmakaḥ bhavati . muṇḍayati māṇavakam iti . atra api dve karmaṇī sāmānyakarma viśeṣakarma ca . sāmānyakarma antarbhūtam . viśeṣakarmaṇā sakarmakaḥ bhavati . nanu ca vṛttyā eva atra na bhavitavyam . kim kāraṇam . asāmarthyāt . katham asāmarthyam . sāpekṣam asamartham bhavati iti . na eṣaḥ doṣaḥ . na atra ubhau karotiyuktau muṇḍaḥ māṇavakaḥ ca . na hi māṇavakaḥ kriyate . yadā ca ubhau karotiyuktau bhavataḥ na bhavati tadā vṛttiḥ . tat yathā balīvardam karoti muṇḍam ca enam karoti iti . kāmam tarhi anena eva hetunā kyac api kartavyaḥ māṇavakam muṇḍam icchati iti . na ubhau iṣiyuktau iti . na kartavyaḥ . ubhau atra iṣiyuktau muṇḍaḥ māṇavakaḥ ca . katham . na hi asau mauṇḍyamātreṇa santoṣam karoti . māṇavakastham asau mauṇḍyam icchati . iha api tarhi na prāpnoti muṇḍayati māṇavakam iti . atra api hi ubhau karotiyukta muṇḍaḥ māṇavakaḥ ca . na hi asau mauṇḍyamātreṇa santoṣam karoti . māṇavakastham asu mauṇḍyam nirvartayati . evam tarhi muṇḍādayaḥ guaṇavacanāḥ . guṇavacanāḥ ca sāpekṣāḥ . vacanāt sāpekṣāṇām api vṛttiḥ bhaviṣyati . atha vā dhātavaḥ eva muṇḍādayaḥ . na na eva hi arthāḥ ādiśyante kriyāvacanatā ca gamyate . atha vā na idam ubhayam yugapat bhavati vākyam ca pratyayaḥ ca . yadā vākyam na tadā pratyayaḥ . yadā pratyayaḥ sāmānyena tadā vṛttiḥ . tatra avśyam viśeṣārthinā viśeṣaḥ anuprayoktavyaḥ . muṇḍayati . kam . māṇavakam iti . muṇḍaviśiṣṭena vā karotina tam āptum icchati . atha vā uktam etat . na atra vyāpāraḥ anugantavyaḥ iti . gamaktvāt iha vṛttiḥ bhaviṣyati . muṇḍayati māṇavakam iti . atha iha kyacā bhavitavyam . iṣṭaḥ putraḥ . iṣyate putraḥ iti . ke cit tāvat āhuḥ na bhavitavyam it . kim kāraṇam . svaśabdena uktatvāt iti . apare āhuḥ : bhavitavyam iti . kim kāraṇam . dhātvarthe ayam kyac vidhīyate . saḥ ca dhātvarthaḥ kena cit eva śabdena nirdeṣṭavyaḥ iti . ihabhavantaḥ tu āhuḥ na bhavitavyam iti . kim kāraṇam . iha samānārthena vākyena bhavitavyam pratyayāntena ca . yaḥ ca iha arthaḥ vākyena gamyate iṣṭaḥ putraḥ iṣyate putraḥ iti na asau jātu cit pratyayāntena gamyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१९।१८-२३ रो इइइ,५५-५६ क्यचि मान्ताव्ययप्रतिषेधः । क्यचि मान्ताव्ययानाम् प्रतिषेधः वक्तव्यः । इह मात् भूत् । इदम् इच्छति । किम् इच्छति । उच्चैः इच्छति । नीचैः इच्छति । गोसमानाक्षरनान्तात् इति एके । गाम् इच्छति गव्यति । समानाक्षरात् । दधीयति मधति कर्त्रीयति हर्त्रीयति । नान्तात् । राजीयति तक्षीयति ।

KA II,19.18-23 Ro III,55-56 kyaci māntāvyayapratiṣedhaḥ . kyaci māntāvyayānām pratiṣedhaḥ vaktavyaḥ . iha māt bhūt . idam icchati . kim icchati . uccaiḥ icchati . nīcaiḥ icchati . gosamānākṣaranāntāt iti eke . gām icchati gavyati . samānākṣarāt . dadhīyati madhati kartrīyati hartrīyati . nāntāt . rājīyati takṣīyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१९।२५-२०।१५ रो इइइ,५६-५७ किमर्थः चकारः । स्वरार्थः । चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् । न एतत् अस्ति प्रयोजनम् । धातुस्वरेण अपि एतत् सिद्धम् । ककारस्य तर्हि इत्सञ्ज्ञापरित्राणार्थः आदितः चकारः कर्तव्यः । अतः उत्तरम् पठति । काम्यचः चित्करणानर्थक्यम् कस्य इदर्थाभावात् । काम्यचः चित्करणम् अनर्थकम् । ककारस्य तर्हि इत्सञ्ज्ञा कस्मात् न भवति । इदर्थाभावात् । इत्कार्याभावात् अत्र इत्सञ्ज्ञा न भविष्यति । ननु च लोपः एव इत्कार्यम् । अकार्यम् लोपः । इह हि शब्दस्य कार्यार्थः वा भवति उपदेशः श्रवणार्थः वा । कर्यम् च इह न अस्ति । कार्ये असति यदि श्रवणम् अपि न स्यात् उपदेशः अनर्थकः स्यात् । इदम् तर्हि इत्कार्यम् । अग्निचित्कम्यति । किति इति गुणप्रतिषेधः यथा स्यात् । न एतत् अस्ति प्रयोजनम् । सार्वधातुकार्धधातुकयोः अङ्गस्य गुणः उच्यते । धातोः च विहितः प्रत्ययः शेषः आर्धधातुकसञ्ज्ञाम् लभते । न च अयम् धातोः विधीयते । इदम् तर्हि । उपयट्काम्यति । किति इति सम्प्रसारणम् यथा स्यात् ॥ एतत् अपि न अस्ति प्रयोजनम् । यजादिभिः अत्र कितम् विशेषयिष्यामः । यजादीनाम् यः कित् इति । कः च यजादीनाम् कित् । यजादिभ्यः यः विहितः इति । अथ अपि कथम् चित् इत्कार्यम् स्यात् । एवम् अपि न दोषः । क्रियते न्यासे एव द्विचकारकः निर्देशः । सुपः आत्मनः क्यच् च्काम्यत् च इति । अथ वा छान्दसम् एतत् । दृष्टानुविधिः छन्दसि भवति । न च अत्र सम्प्रसारणम् दृश्यते ।

KA II,19.25-20.15 Ro III,56-57 kimarthaḥ cakāraḥ . svarārthaḥ . citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt . na etat asti prayojanam . dhātusvareṇa api etat siddham . kakārasya tarhi itsañjñāparitrāṇārthaḥ āditaḥ cakāraḥ kartavyaḥ . ataḥ uttaram paṭhati . kāmyacaḥ citkaraṇānarthakyam kasya idarthābhāvāt . kāmyacaḥ citkaraṇam anarthakam . kakārasya tarhi itsañjñā kasmāt na bhavati . idarthābhāvāt . itkāryābhāvāt atra itsañjñā na bhaviṣyati . nanu ca lopaḥ eva itkāryam . akāryam lopaḥ . iha hi śabdasya kāryārthaḥ vā bhavati upadeśaḥ śravaṇārthaḥ vā . karyam ca iha na asti . kārye asati yadi śravaṇam api na syāt upadeśaḥ anarthakaḥ syāt . idam tarhi itkāryam . agnicitkamyati . kiti iti guṇapratiṣedhaḥ yathā syāt . na etat asti prayojanam . sārvadhātukārdhadhātukayoḥ aṅgasya guṇaḥ ucyate . dhātoḥ ca vihitaḥ pratyayaḥ śeṣaḥ ārdhadhātukasañjñām labhate . na ca ayam dhātoḥ vidhīyate . idam tarhi . upayaṭkāmyati . kiti iti samprasāraṇam yathā syāt .. etat api na asti prayojanam . yajādibhiḥ atra kitam viśeṣayiṣyāmaḥ . yajādīnām yaḥ kit iti . kaḥ ca yajādīnām kit . yajādibhyaḥ yaḥ vihitaḥ iti . atha api katham cit itkāryam syāt . evam api na doṣaḥ . kriyate nyāse eva dvicakārakaḥ nirdeśaḥ . supaḥ ātmanaḥ kyac ckāmyat ca iti . atha vā chāndasam etat . dṛṣṭānuvidhiḥ chandasi bhavati . na ca atra samprasāraṇam dṛśyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२०।१७-१९ रो इइइ।५७ अधिकरणात् च । अधिकरणात् च इति वक्तव्यम् । प्रासादयति कुट्याम् कुटीयति प्रासादे इति अत्र अपि यथा स्यात् ।

KA II,20.17-19 Ro III.57 adhikaraṇāt ca . adhikaraṇāt ca iti vaktavyam . prāsādayati kuṭyām kuṭīyati prāsāde iti atra api yathā syāt .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२०।२१-७ रो इइइ,५८ सलोपसन्नियोगेन अयम् क्यङ् विधीयते । तेन यत्र एव सलोपः तत्र एव स्यात् । पयायते । इह न स्यात् । अपि काकः श्येनायते । न एषः दोषः । प्रधान्शिष्टः क्यङ् । अन्वाचयशिष्टः सलोपः । यत्र च सकारम् पश्यसि इति । तत् यथ । कः चित् उक्तः ग्रामे भिक्षाम् चर देवदत्तम् च आनय इति । सः ग्रामे भिक्षाम् चरति । यदि देवदत्तम् पश्यति तम् अपि आनयति । सलोपः वा । सलोपः वा इति वक्तव्यम् । पयायते पयस्यते । ओजोप्सरसोः नित्यम् । ओजोप्सरसोः नित्यम् सलोपः वक्तव्यः । ओजायमानम् यः अहिम् जघान । अप्सरायते । अप्रः आह सलोपः अप्सरसः एव । पयस्यते इति एव भवितव्यम् इति । कथम् ओजायमानम् यः अहिम् जघन इति । छान्दसः प्रयोगः । छन्दसि च दृष्टानुविधिः विधीयते ।

KA II,20.21-7 Ro III,58 salopasanniyogena ayam kyaṅ vidhīyate . tena yatra eva salopaḥ tatra eva syāt . payāyate . iha na syāt . api kākaḥ śyenāyate . na eṣaḥ doṣaḥ . pradhānśiṣṭaḥ kyaṅ . anvācayaśiṣṭaḥ salopaḥ . yatra ca sakāram paśyasi iti . tat yatha . kaḥ cit uktaḥ grāme bhikṣām cara devadattam ca ānaya iti . saḥ grāme bhikṣām carati . yadi devadattam paśyati tam api ānayati . salopaḥ vā . salopaḥ vā iti vaktavyam . payāyate payasyate . ojopsarasoḥ nityam . ojopsarasoḥ nityam salopaḥ vaktavyaḥ . ojāyamānam yaḥ ahim jaghāna . apsarāyate . apraḥ āha salopaḥ apsarasaḥ eva . payasyate iti eva bhavitavyam iti . katham ojāyamānam yaḥ ahim jaghana iti . chāndasaḥ prayogaḥ . chandasi ca dṛṣṭānuvidhiḥ vidhīyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२१।८-१८ रो इइइ,५८-५९ आचारे गल्भक्लीबहोडेभ्यः क्विप् वा । आचारे गल्भक्लीबहोडेभ्यः क्विप् वा वक्तव्यः । अवगल्भते अवगल्भायते । क्लीब । विक्लीबते विक्लीबायते । क्लीब । होड । विहोडते विहोडायते । किम् प्रयोजनम् । क्रियावचनता यथा स्यात् । न एतत् अस्ति प्रयोजनम् । धातवः एव गल्भादयः । न च एव हि अर्थाः आदिश्यन्ते क्रियावचनता च गम्यते । इदम् तर्हि प्रयोजनम् । अवगल्भा विक्लीबा विहोडा । अ प्रत्ययात् इति अकारः यथा स्यात् । मा भूत् एवम् । गुरोः च हलः इति एवम् भविष्यति । इदम् तर्हि । अवगल्भाम् चक्रे । विक्लीबाम् चक्रे । विहोडाम् चक्रे । कास्प्रत्ययात् आम् अमन्त्रे इति आम् यथा स्यात् । अपरः आह : सर्वप्रातिपदिकेभ्यः आचारे क्विप् वक्तव्यः अश्वति गर्दभति इति एवमर्थम् । न तर्हि इदानीम् गल्भाद्यनुक्रमणम् कर्तव्यम् । कर्तव्यम् च । किम् प्रयोजनम् । आत्मनेपदार्थम् अनुबन्धान् आसङ्क्ष्यामि इति । गल्भ क्लीब होड ।

KA II,21.8-18 Ro III,58-59 ācāre galbhaklībahoḍebhyaḥ kvip vā . ācāre galbhaklībahoḍebhyaḥ kvip vā vaktavyaḥ . avagalbhate avagalbhāyate . klība . viklībate viklībāyate . klība . hoḍa . vihoḍate vihoḍāyate . kim prayojanam . kriyāvacanatā yathā syāt . na etat asti prayojanam . dhātavaḥ eva galbhādayaḥ . na ca eva hi arthāḥ ādiśyante kriyāvacanatā ca gamyate . idam tarhi prayojanam . avagalbhā viklībā vihoḍā . a pratyayāt iti akāraḥ yathā syāt . mā bhūt evam . guroḥ ca halaḥ iti evam bhaviṣyati . idam tarhi . avagalbhām cakre . viklībām cakre . vihoḍām cakre . kāspratyayāt ām amantre iti ām yathā syāt . aparaḥ āha : sarvaprātipadikebhyaḥ ācāre kvip vaktavyaḥ aśvati gardabhati iti evamartham . na tarhi idānīm galbhādyanukramaṇam kartavyam . kartavyam ca . kim prayojanam . ātmanepadārtham anubandhān āsaṅkṣyāmi iti . galbha klība hoḍa .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२१।२०-२२ रो इइइ,६० हलः लोपसन्नियोगेन अयम् क्यङ् विधीयते । तेन यत्र एव हलः लोपः तत्र एव प्रसज्येत । न एषः दोषः । प्रधानशिष्टः क्यङ् । अन्वाचयशिष्टः हलः लोपः । यत्र च हलम् पश्यसि इति ।

KA II,21.20-22 Ro III,60 halaḥ lopasanniyogena ayam kyaṅ vidhīyate . tena yatra eva halaḥ lopaḥ tatra eva prasajyeta . na eṣaḥ doṣaḥ . pradhānaśiṣṭaḥ kyaṅ . anvācayaśiṣṭaḥ halaḥ lopaḥ . yatra ca halam paśyasi iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२१।२३-२२।१७ रो इइइ,६०-६१ भृशादिषु अभूततद्भावग्रहणम् । भृशादिषु अभूततद्भावग्रहणम् कर्तव्यम् । इह मा भूत् । क्व दिवा भृशाः भवन्ति इति । च्विप्रतिषेधानर्थक्यम् च भवत्यर्थे क्यङ्वचनात् । च्विप्रतिषेधः च अनर्थकः । किम् कारणम् । भवत्यर्थे क्यङ्वचनात् । भवत्यर्थे हि क्यङ् विधीयते । भवतियोगे च्विविधानम् । भवतिना योगे च्विः विधीयते । तत्र च्विना उक्तत्वात् तस्य अर्थस्य क्यङ् न भविष्यति । डाजन्तात् अपि तर्हि न प्राप्नोति । पटपटायते । डाच् अपि हि भवतिना योगे विधीयते । भवत्यर्थे क्यष् । डाचि वचनप्रामाण्यात् । डाचि वचनप्रामाण्यात् भविष्यति । किम् वचनप्रामाण्यम् । लोहितादिडाज्भ्यः क्यष् इति । इह किम् चित् अक्रियमाणम् चोद्यते किम् चित् क्रियमाणम् प्रत्याख्यायते । सः सूत्रभेदः कृतः भवति । यथान्यासम् एव अस्तु । ननु च उक्तम् इह कस्मात् न भवति क्व दिवा भृशाः भवन्ति इति । नञिवयुक्तम् अन्यसदृशाधिकरणे तथा हि अर्थगतिः । नञ्युक्तम् इवयुक्तम् व यत् किम् चित् इह दृश्यते तत्र अन्यस्मिन् तत्सदृशे कार्यम् विज्ञायते । तथा हि अर्थः गम्यते । अब्राह्मणम् आनय इति उक्ते ब्राह्मणसदृशः आनीयते । न असौ लोष्टम् आनीय कृती भवति । एवम् इह अपि अच्वेः इति च्विप्रतिषेधात् अन्यस्मिन् अच्व्यन्ते च्विसदृशे कार्यम् विज्ञास्यते । किम् च अतः अन्यत् अद्व्यन्तम् च्विसदृसम् । अभूततद्भावः ।

KA II,21.23-22.17 Ro III,60-61 bhṛśādiṣu abhūtatadbhāvagrahaṇam . bhṛśādiṣu abhūtatadbhāvagrahaṇam kartavyam . iha mā bhūt . kva divā bhṛśāḥ bhavanti iti . cvipratiṣedhānarthakyam ca bhavatyarthe kyaṅvacanāt . cvipratiṣedhaḥ ca anarthakaḥ . kim kāraṇam . bhavatyarthe kyaṅvacanāt . bhavatyarthe hi kyaṅ vidhīyate . bhavatiyoge cvividhānam . bhavatinā yoge cviḥ vidhīyate . tatra cvinā uktatvāt tasya arthasya kyaṅ na bhaviṣyati . ḍājantāt api tarhi na prāpnoti . paṭapaṭāyate . ḍāc api hi bhavatinā yoge vidhīyate . bhavatyarthe kyaṣ . ḍāci vacanaprāmāṇyāt . ḍāci vacanaprāmāṇyāt bhaviṣyati . kim vacanaprāmāṇyam . lohitādiḍājbhyaḥ kyaṣ iti . iha kim cit akriyamāṇam codyate kim cit kriyamāṇam pratyākhyāyate . saḥ sūtrabhedaḥ kṛtaḥ bhavati . yathānyāsam eva astu . nanu ca uktam iha kasmāt na bhavati kva divā bhṛśāḥ bhavanti iti . nañivayuktam anyasadṛśādhikaraṇe tathā hi arthagatiḥ . nañyuktam ivayuktam va yat kim cit iha dṛśyate tatra anyasmin tatsadṛśe kāryam vijñāyate . tathā hi arthaḥ gamyate . abrāhmaṇam ānaya iti ukte brāhmaṇasadṛśaḥ ānīyate . na asau loṣṭam ānīya kṛtī bhavati . evam iha api acveḥ iti cvipratiṣedhāt anyasmin acvyante cvisadṛśe kāryam vijñāsyate . kim ca ataḥ anyat advyantam cvisadṛsam . abhūtatadbhāvaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२२।१८-२३।२० रो इइइ,६१-६४ इह काः चित् प्रकृतयः सोपसर्गाः पठ्यन्ते : अभिमनस् , सुमनस् , उन्मनस् , दुर्मनस् । तत्र विचार्यते : भृशादिषु उपसर्गः प्रत्ययार्थविशेषणम् वा स्यात् : अभिभवतौ सुभवतौ उद्भवतौ दुर्भवतौ इति । प्रकृत्यर्थविशेषणम् वा । अभिमनस्शब्दात् सुमनस्शब्दात् उन्मनस्शब्दात् दुर्मनस्शब्दात् इति । युक्तम् पुनः इदम् विचारयतुम् । ननु तेन असन्दिग्धेन प्रकृत्यर्थविशेषणम् भवितव्यम् यावता प्राक् प्रकृतेः पठ्यन्ते । यदि हि प्रत्ययार्थविशेषणम् स्यात् प्राक् भवतेः पठ्येरन् । न इमे शक्याः प्राक् भवतेः पठितुम् । एवम् विशिष्टे हि प्रत्ययाऋथे भृशादिमात्रात् उत्पत्तिः प्रसज्येत । तस्मात् न एवम् शक्यम् कर्तुम् । न चेत् एवम् जायते विचारणा । कः च अत्र विशेषः । भृशादिषु उपसर्गः प्रत्ययार्थविशेषणम् इति चेत् स्वरे दोषः । भृशादिषु उपसर्गः प्रत्ययार्थविशेषणम् इति चेत् स्वरे दोषः भवति । अभिमनायते । तिङ् अतिङः इति निघातः प्रसज्यते । अस्तु तर्हि प्रकृत्यर्थविशेषणम् । सोपसर्गात् इति चेत् अटि दोषः । सोपसर्गात् इति चेत् अटि दोषः भवति । स्वमनयत इति । अत्यल्पम् इदम् उच्यते : अटि दोषः भवति इति । अड्ल्यव्द्विर्वचनेषु इति वक्तव्यम् । अटि : उदाहृतम् । ल्यपि : सुमनाय्य । द्विर्वचने : अभिमिमनायिषते । न एषः दोषः । अवश्यम् सङ्ग्रामयतेः सोपसर्गात् उत्पत्तिः वक्तव्या असङ्ग्रामयत शूरः इति एवमर्थम् । तत् नियमार्थम् भविष्यति । सङ्ग्रामयतेः एव सोपसर्गात् न अन्यस्मात् सोपसर्गात् इति । यदि नियमः क्रियते स्वरः न सिध्यति । एवम् तर्हि भृशादिषु उपसर्गस्य पराङ्गवद्भावम् वक्ष्यामि । यदि पराङ्गवद्भावः उच्यते अड्ल्यव्द्विर्वचनानि न सिध्यन्ति । स्वरविधौ इति वक्ष्यामि । एवम् च कृत्वा अस्तु प्रत्ययार्थविशेषणम् । ननु च उक्तम् भृशादिषु उपसर्गः प्रत्ययार्थविशेषणम् इति चेत् स्वरे दोषः इति । स्वरे पराङ्गवद्भावेन परिहृतम् । अयम् तर्हि प्रत्ययार्थविशेषणे सति दोषः । क्यङा उक्तत्वात् तस्य अर्थस्य उपसर्गस्य प्रयोगः न प्राप्नोति । किम् कारणम् । उक्तार्थानाम् अप्रयोगः इति । तत् यथा । अपि काकः श्येनायते इति क्यङा उक्तत्वात् आचारार्थस्य आङः प्रयोगः न भवति । अस्ति अत्र विशेषः । एकेन अत्र विशिष्टे प्रत्ययार्थे प्रत्ययः उत्पद्यते इह पुनः अनेकेन । तत्र मनायते इति उक्ते सन्देहः स्यात् अभिभवतौ सुभवतौ दुर्भवतौ इति । तत्र असन्देहार्थम् उपसर्गः प्रयुज्यते । यत्र तर्हि एकेन । उत्पुच्छयते । अत्र अपि अनेकेन । पुच्छात् उदसने पुच्छात् व्यसने पुच्छात् पर्यसने इति ।

KA II,22.18-23.20 Ro III,61-64 iha kāḥ cit prakṛtayaḥ sopasargāḥ paṭhyante : abhimanas , sumanas , unmanas , durmanas . tatra vicāryate : bhṛśādiṣu upasargaḥ pratyayārthaviśeṣaṇam vā syāt : abhibhavatau subhavatau udbhavatau durbhavatau iti . prakṛtyarthaviśeṣaṇam vā . abhimanasśabdāt sumanasśabdāt unmanasśabdāt durmanasśabdāt iti . yuktam punaḥ idam vicārayatum . nanu tena asandigdhena prakṛtyarthaviśeṣaṇam bhavitavyam yāvatā prāk prakṛteḥ paṭhyante . yadi hi pratyayārthaviśeṣaṇam syāt prāk bhavateḥ paṭhyeran . na ime śakyāḥ prāk bhavateḥ paṭhitum . evam viśiṣṭe hi pratyayāṛthe bhṛśādimātrāt utpattiḥ prasajyeta . tasmāt na evam śakyam kartum . na cet evam jāyate vicāraṇā . kaḥ ca atra viśeṣaḥ . bhṛśādiṣu upasargaḥ pratyayārthaviśeṣaṇam iti cet svare doṣaḥ . bhṛśādiṣu upasargaḥ pratyayārthaviśeṣaṇam iti cet svare doṣaḥ bhavati . abhimanāyate . tiṅ atiṅaḥ iti nighātaḥ prasajyate . astu tarhi prakṛtyarthaviśeṣaṇam . sopasargāt iti cet aṭi doṣaḥ . sopasargāt iti cet aṭi doṣaḥ bhavati . svamanayata iti . atyalpam idam ucyate : aṭi doṣaḥ bhavati iti . aḍlyavdvirvacaneṣu iti vaktavyam . aṭi : udāhṛtam . lyapi : sumanāyya . dvirvacane : abhimimanāyiṣate . na eṣaḥ doṣaḥ . avaśyam saṅgrāmayateḥ sopasargāt utpattiḥ vaktavyā asaṅgrāmayata śūraḥ iti evamartham . tat niyamārtham bhaviṣyati . saṅgrāmayateḥ eva sopasargāt na anyasmāt sopasargāt iti . yadi niyamaḥ kriyate svaraḥ na sidhyati . evam tarhi bhṛśādiṣu upasargasya parāṅgavadbhāvam vakṣyāmi . yadi parāṅgavadbhāvaḥ ucyate aḍlyavdvirvacanāni na sidhyanti . svaravidhau iti vakṣyāmi . evam ca kṛtvā astu pratyayārthaviśeṣaṇam . nanu ca uktam bhṛśādiṣu upasargaḥ pratyayārthaviśeṣaṇam iti cet svare doṣaḥ iti . svare parāṅgavadbhāvena parihṛtam . ayam tarhi pratyayārthaviśeṣaṇe sati doṣaḥ . kyaṅā uktatvāt tasya arthasya upasargasya prayogaḥ na prāpnoti . kim kāraṇam . uktārthānām aprayogaḥ iti . tat yathā . api kākaḥ śyenāyate iti kyaṅā uktatvāt ācārārthasya āṅaḥ prayogaḥ na bhavati . asti atra viśeṣaḥ . ekena atra viśiṣṭe pratyayārthe pratyayaḥ utpadyate iha punaḥ anekena . tatra manāyate iti ukte sandehaḥ syāt abhibhavatau subhavatau durbhavatau iti . tatra asandehārtham upasargaḥ prayujyate . yatra tarhi ekena . utpucchayate . atra api anekena . pucchāt udasane pucchāt vyasane pucchāt paryasane iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२३।२२-२४।१९ रो इइइ,६४-६६ किमर्थः ककारः । क्ङिति इति गुणप्रतिषेधः यथा स्यात् । न एतत् अस्ति प्रयोजनम् । सार्वधातुकार्धधातुकयोः अङ्गस्य गुणः उच्यते । धातोः च विहितः प्रत्ययः शेषः आर्धधातुकसञ्ज्ञाम् लभते । न च अयम् धातोः विधीयते । लोहितादीनि प्रातिपदिकानि । सामान्यग्रहणार्थः तर्हि । क्व सामान्यग्रहणेन अर्थः । नः क्ये इति । न अयम् नान्तात् विधीयते । इह तर्हि । यस्य हलः क्यस्य विभाषा इति । न अयम् हलन्तात् विधीयते । इह तर्हि । आपत्ययस्य च तद्धिते अनाति क्यच्व्योः च इति । न अयम् आपत्यात् विधीयते । इह तर्हि । क्यात् छन्दसि इति । यात् छन्दसि इति एतावत् वक्तव्यम् चरण्यूः तुरण्युः भुरण्युः इति एवमर्थम् । इदम् तर्हि प्रयोजनम् । यत् तत् अकृत्यकारे इति दीर्घत्वम् तत्र क्ङिद्ग्रहणम् अनुवर्तते । तत् इह अपि यथा स्यात् । लोहितायते । किम् पुनः कारणम् तत्र क्ङिद्ग्रहणम् अनुवर्तते । इह मा भूत् । उरुया धृष्णुया इति । यदि क्ङिद्ग्रहणम् अनुवर्तते इत्र्यम् इति पितुः रीङ्भावः न प्राप्नोति । रीङ्भावे क्ङिद्ग्रहणम् निवर्तिष्यते । यदि निवर्तते कथम् असूया वसूया च यमामहे । असूयतेः असूया वसूयतेः वसूया । अथ वा छान्दसम् एतत् । दृष्टानुविधिः च छन्दसि भवति इति । यदि छान्दसत्वम् हेतुः न अर्थः क्ङिद्ग्रहणेन अनुवर्तमानेन । कस्मात् न भवति उरुया धृष्णुया इति । छान्दसत्वात् । अथ वा अस्तु अत्र दीर्घत्वम् । छान्दसम् ह्रस्वत्वम् भविष्यति । तत् यथा उपगायन्तु माम् पत्नयः गर्भिणयः युवतयः इति । अथ किमर्थः षकारः । विशेषणार्थः । क्व विशेषणार्थेन अर्थः । वा क्यषः इति । वा यात् इति हि उच्यमाने अतः अपि प्रसज्येत । न एतत् असि प्रयोजनम् । परस्मैपदम् इति उच्यते । न च अतः परस्मैपदम् न अपि आत्मनेपदम् पश्यामः । सामान्यग्रहणाविघातार्थः तर्हि भविष्यति । क्व सामान्यग्रहणाविघातार्थेन अर्थः । क्यात् छन्दसि इति । यात् छन्दसि इति एवम् वक्तव्यम् चरण्यूः तुरण्युः भुरण्युः इति एवमर्थम् ।

KA II,23.22-24.19 Ro III,64-66 kimarthaḥ kakāraḥ . kṅiti iti guṇapratiṣedhaḥ yathā syāt . na etat asti prayojanam . sārvadhātukārdhadhātukayoḥ aṅgasya guṇaḥ ucyate . dhātoḥ ca vihitaḥ pratyayaḥ śeṣaḥ ārdhadhātukasañjñām labhate . na ca ayam dhātoḥ vidhīyate . lohitādīni prātipadikāni . sāmānyagrahaṇārthaḥ tarhi . kva sāmānyagrahaṇena arthaḥ . naḥ kye iti . na ayam nāntāt vidhīyate . iha tarhi . yasya halaḥ kyasya vibhāṣā iti . na ayam halantāt vidhīyate . iha tarhi . āpatyayasya ca taddhite anāti kyacvyoḥ ca iti . na ayam āpatyāt vidhīyate . iha tarhi . kyāt chandasi iti . yāt chandasi iti etāvat vaktavyam caraṇyūḥ turaṇyuḥ bhuraṇyuḥ iti evamartham . idam tarhi prayojanam . yat tat akṛtyakāre iti dīrghatvam tatra kṅidgrahaṇam anuvartate . tat iha api yathā syāt . lohitāyate . kim punaḥ kāraṇam tatra kṅidgrahaṇam anuvartate . iha mā bhūt . uruyā dhṛṣṇuyā iti . yadi kṅidgrahaṇam anuvartate itryam iti pituḥ rīṅbhāvaḥ na prāpnoti . rīṅbhāve kṅidgrahaṇam nivartiṣyate . yadi nivartate katham asūyā vasūyā ca yamāmahe . asūyateḥ asūyā vasūyateḥ vasūyā . atha vā chāndasam etat . dṛṣṭānuvidhiḥ ca chandasi bhavati iti . yadi chāndasatvam hetuḥ na arthaḥ kṅidgrahaṇena anuvartamānena . kasmāt na bhavati uruyā dhṛṣṇuyā iti . chāndasatvāt . atha vā astu atra dīrghatvam . chāndasam hrasvatvam bhaviṣyati . tat yathā upagāyantu mām patnayaḥ garbhiṇayaḥ yuvatayaḥ iti . atha kimarthaḥ ṣakāraḥ . viśeṣaṇārthaḥ . kva viśeṣaṇārthena arthaḥ . vā kyaṣaḥ iti . vā yāt iti hi ucyamāne ataḥ api prasajyeta . na etat asi prayojanam . parasmaipadam iti ucyate . na ca ataḥ parasmaipadam na api ātmanepadam paśyāmaḥ . sāmānyagrahaṇāvighātārthaḥ tarhi bhaviṣyati . kva sāmānyagrahaṇāvighātārthena arthaḥ . kyāt chandasi iti . yāt chandasi iti evam vaktavyam caraṇyūḥ turaṇyuḥ bhuraṇyuḥ iti evamartham .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२४।२०-२५ रो इइइ,६६ लोहितडाज्भ्यः क्यष्वचनम् । लोहितडाज्भ्यः क्यष् वक्तव्यः । लोहितायति लोहितायते पटपटायति पटपटायते । अथ अन्यानि लोहितादीनि । भृशादिषु इतराणि । भृशादिषु इतराणि पठितव्यानि । किम् प्रयोजनम् । ङितः इति आत्मनेपदम् यथा स्यात् इति ।

KA II,24.20-25 Ro III,66 lohitaḍājbhyaḥ kyaṣvacanam . lohitaḍājbhyaḥ kyaṣ vaktavyaḥ . lohitāyati lohitāyate paṭapaṭāyati paṭapaṭāyate . atha anyāni lohitādīni . bhṛśādiṣu itarāṇi . bhṛśādiṣu itarāṇi paṭhitavyāni . kim prayojanam . ṅitaḥ iti ātmanepadam yathā syāt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२१५।२-११ रो इइइ,६७-६८ कष्टाय इति किम् निपात्यते । कष्टशब्दात् चतुर्थीसमर्थात् क्रमणे अनार्जवे क्य्ङ् निपात्यते । कष्टाय कर्मणे क्रामति कष्टायते । अत्यल्पम् इदम् उच्यते : कष्टाय इति । सत्त्रकक्षकष्टगहनेभ्यः कण्वचिकीर्षायाम् । सत्त्रकक्षकष्टगहनेभ्यः कण्वचिकीर्षायाम् इति वक्तव्यम् । सत्त्रायते । सत्त्र। ककष। कक्षायते । कष्ट । कष्टायते । कष्ट । गहन । गहनायते । अपरः आह:। सत्त्रादिभ्यः चतुर्थ्यन्तेभ्यः क्रमणे अनार्जवे क्यङ् वक्तव्यः । एतानि एव उदाहरणानि । सत्त्रादिभ्यः इति किमर्थम् । कुटिलाय क्रामति अनुवाकाय । चतुर्थ्यन्तेभ्यः इति किमर्थम् । अजः कष्टम् क्रामति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । न एतत् प्रत्ययान्तनिपातनम् । किम् तर्हि । तादर्थ्ये एषा चतुर्थी । कष्टाय यत् प्रातिपदिकम् । कष्टार्थे यत् प्रातिपदिकम् इति ।

KA II,215.2-11 Ro III,67-68 kaṣṭāya iti kim nipātyate . kaṣṭaśabdāt caturthīsamarthāt kramaṇe anārjave kyṅ nipātyate . kaṣṭāya karmaṇe krāmati kaṣṭāyate . atyalpam idam ucyate : kaṣṭāya iti . sattrakakṣakaṣṭagahanebhyaḥ kaṇvacikīrṣāyām . sattrakakṣakaṣṭagahanebhyaḥ kaṇvacikīrṣāyām iti vaktavyam . sattrāyate . sattra. kakaṣa. kakṣāyate . kaṣṭa . kaṣṭāyate . kaṣṭa . gahana . gahanāyate . aparaḥ āha:. sattrādibhyaḥ caturthyantebhyaḥ kramaṇe anārjave kyaṅ vaktavyaḥ . etāni eva udāharaṇāni . sattrādibhyaḥ iti kimartham . kuṭilāya krāmati anuvākāya . caturthyantebhyaḥ iti kimartham . ajaḥ kaṣṭam krāmati . tat tarhi vaktavyam . na vaktavyam . na etat pratyayāntanipātanam . kim tarhi . tādarthye eṣā caturthī . kaṣṭāya yat prātipadikam . kaṣṭārthe yat prātipadikam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२५।१३-२० रो इइइ,६८ रोमन्थे इति उच्यते । कः रोमन्थः नाम । उद्गीर्णस्य वा अवगीर्णस्य वा मन्थः रोमन्थः इति । यदि एवम् हनुचलने इति वक्तव्यम् । इह मा भूत् । कीटः रोमथम् वर्तयति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । कस्मात् न भवति । कीटः रोमथम् वर्तयति इति । अनभिधानात् । तपसः परस्मैपदम् च । तपसः परस्मैपदम् च इति वक्तव्यम् । तपः चरति तपस्यति । कथम् तपस्यते लोकजिगीषुः अग्नेः । छान्दसत्वात् भविष्यति ।

KA II,25.13-20 Ro III,68 romanthe iti ucyate . kaḥ romanthaḥ nāma . udgīrṇasya vā avagīrṇasya vā manthaḥ romanthaḥ iti . yadi evam hanucalane iti vaktavyam . iha mā bhūt . kīṭaḥ romatham vartayati . tat tarhi vaktavyam . na vaktavyam . kasmāt na bhavati . kīṭaḥ romatham vartayati iti . anabhidhānāt . tapasaḥ parasmaipadam ca . tapasaḥ parasmaipadam ca iti vaktavyam . tapaḥ carati tapasyati . katham tapasyate lokajigīṣuḥ agneḥ . chāndasatvāt bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२५।२२ रो इइइ,६९ फेनात् च इति वक्तव्यम् । फेनायते ।

KA II,25.22 Ro III,69 phenāt ca iti vaktavyam . phenāyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२६।२-८ रो इइइ,६९ अटाट्ताशीकाकोटापोटासोटाप्रुष्टाप्लुष्टाग्रहणम् कर्तव्यम् । अटा । अटायते । अट्टा । अट्टायते । शीका । शीकायते । कोटा । कोटायते । पोटा । पोटायते । सोटा । सोटायते । प्रुष्टा । प्रुष्टयते । प्लुष्टा । प्लुष्टायते । सुदिनदुर्दिनाभ्याम् च । सुदिनदुर्दिनाभ्याम् च इति वक्तव्यम् । सुदिनायते । दुर्दिनायते । नीहारात् च । नीहारात् च इति वक्तव्यम् । नीहारायते ।

KA II,26.2-8 Ro III,69 aṭāṭtāśīkākoṭāpoṭāsoṭāpruṣṭāpluṣṭāgrahaṇam kartavyam . aṭā . aṭāyate . aṭṭā . aṭṭāyate . śīkā . śīkāyate . koṭā . koṭāyate . poṭā . poṭāyate . soṭā . soṭāyate . pruṣṭā . pruṣṭayate . pluṣṭā . pluṣṭāyate . sudinadurdinābhyām ca . sudinadurdinābhyām ca iti vaktavyam . sudināyate . durdināyate . nīhārāt ca . nīhārāt ca iti vaktavyam . nīhārāyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२६।१०-१४ रो इइइ,६९ कर्तृवेदनायाम् इति किमर्थम् । इह मा भूत् । सुखम् वेदयते प्रसाधकः देवदत्तस्य । कर्तृवेदनायाम् इति उच्यमाने अपि अत्र प्राप्नोति । किम् कारणम् । कर्तुः इति इयम् कर्तरि षष्ठी । वेदनायाम् इति च अनः भावे । सः यदि एव आत्मनः वेदयते अथ अपि परस्य कर्तृवेदना एव असौ भवति । न कर्तृग्रहणेन वेदना अभिसम्बध्यते । किम् तर्हि । सुखादीनि अभिसम्बध्यन्ते । कर्तुः यानि सुखादीनि ।

KA II,26.10-14 Ro III,69 kartṛvedanāyām iti kimartham . iha mā bhūt . sukham vedayate prasādhakaḥ devadattasya . kartṛvedanāyām iti ucyamāne api atra prāpnoti . kim kāraṇam . kartuḥ iti iyam kartari ṣaṣṭhī . vedanāyām iti ca anaḥ bhāve . saḥ yadi eva ātmanaḥ vedayate atha api parasya kartṛvedanā eva asau bhavati . na kartṛgrahaṇena vedanā abhisambadhyate . kim tarhi . sukhādīni abhisambadhyante . kartuḥ yāni sukhādīni .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१६-२३ रो इइइ,७० नमसः क्यचि द्वितीयानुपपत्तिः । नमसः क्यचि द्वितीया न उपपद्यते । नमस्यति देवान् । किम् कारणम् । नमःशब्देन योगे चतुर्थी विधीयते । सा प्राप्नोति । प्रकृत्यन्तरत्वात् सिद्धम् । नमःशब्देन योगे चतुर्थी विधीयते नमस्यतिशब्दः च अयम् । ननु च नमस्यतिशब्दे नमःशब्दः अस्ति । तेन योगे प्राप्नोति । न एषः दोषः । अर्थवतः नमःसाब्दस्य ग्रहणम् । न च नमस्यतिशब्दे नमःशब्दः अर्थवान् । अथ वा उपपदविभक्तेः कारकविभक्तिः बलीयसी इति द्वितीया भविष्यति ।

KA II,16-23 Ro III,70 namasaḥ kyaci dvitīyānupapattiḥ . namasaḥ kyaci dvitīyā na upapadyate . namasyati devān . kim kāraṇam . namaḥśabdena yoge caturthī vidhīyate . sā prāpnoti . prakṛtyantaratvāt siddham . namaḥśabdena yoge caturthī vidhīyate namasyatiśabdaḥ ca ayam . nanu ca namasyatiśabde namaḥśabdaḥ asti . tena yoge prāpnoti . na eṣaḥ doṣaḥ . arthavataḥ namaḥsābdasya grahaṇam . na ca namasyatiśabde namaḥśabdaḥ arthavān . atha vā upapadavibhakteḥ kārakavibhaktiḥ balīyasī iti dvitīyā bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२७।१-२२ रो इइइ,७०-७२ क्यजादिषु प्रत्ययार्थनिर्देशः । क्यजादिषु प्रत्ययार्थनिर्देशः कर्तव्यः । नमसः पूजायाम् । वरिवसः परिचर्यायाम् । चित्रङः आश्चर्ये । भाण्डात् समाचयने । चीवरात् अर्जने परिधाने वा । पुच्छात् उदसने व्य्ससने च इति । किम् प्रयोजनम् । क्रियावचनता यथा स्यात् । न एतत् अस्ति प्रयोजनम् । आचार्यप्रवृत्तिः ज्ञापयति क्रियावचनाः क्यजादयः इति यत् अयम् सनाद्यन्ताः धातवः इति धातुसञ्ज्ञाम् शास्ति । धातुसञ्ज्ञावचने एतत् प्रयोजनम् : धातोः इति तव्यदादीनाम् उत्पत्तिः यथा स्यात् । यदि च अत्र क्रियावचनता न स्यात् धातुसञ्ज्ञावचनम् अनर्थकम् स्यात् । सत्याम् अपि धातुसञ्ज्ञायाम् तव्यदादयः न स्युः । किम् कारणम् । साधने ताव्यादयः विधीयन्ते साधनम् च क्रियायाः । क्रियाभावात् साधनाभावः । साधनाभावात् सत्याम् अपि धातुसञ्ज्ञायाम् तव्यदादयः न स्युः । पश्यति तु आचार्यः क्रियावचनाः क्यजादयः इति ततः सनाद्यन्ताः धातवः इति धातुसञ्ज्ञाम् शास्ति । ननु च इदम् प्रयोजनम् स्यात् । परसाधने उत्पत्तिम् वक्ष्यामि इति । न परसाधने उत्पत्त्या भवितव्यम् । किम् कारणम् । साधनम् इति सम्बन्धिशब्दः अयम् । सम्बन्धिशब्दाः च पुनः एवमात्मकाः यत् उत सम्बन्धिनम् आक्षिपन्ति । तत् यथा । मातरि वर्तितत्व्यम् , पितरि शुश्रूषितव्यम् इति । न च उच्यते स्वस्याम् मातरि स्वस्मिन् वा पितरि इति , सम्बन्धात् च एतत् गम्यते या यस्य माता यः च यस्य पिता इति । एवम् इह अपि सम्बन्धात् एतत् गन्तव्यम् यस्य धातोः यत् साधनम् इति । अथ वा धातवः एव क्यजादयः । न च एव हि अर्थाः आदिश्यन्ते । क्रियावचनता च गम्यते । कः खलु अपि पचादीनाम् क्रियावचनत्वे यत्नम् करोति । येन एव खलु अपि हेतुना पचादयः क्रियावचनाः तेन एव क्यजादयः अपि । एवमर्थम् आचार्यः चित्रयति । क्व चित् अर्थान् आदिशति क्व चित् न । एवम् अपि अर्थादेशनम् कर्तव्यम् । कथम् इमे अबुधाः बुध्येरन् इति । अथ वा शक्यम् आदेशनम् अकर्तुम् । कथम् । करणे इति वर्तते । करणम् च करोतेः करोतिः च क्रियासामान्ये वर्तते ।

KA II,27.1-22 Ro III,70-72 kyajādiṣu pratyayārthanirdeśaḥ . kyajādiṣu pratyayārthanirdeśaḥ kartavyaḥ . namasaḥ pūjāyām . varivasaḥ paricaryāyām . citraṅaḥ āścarye . bhāṇḍāt samācayane . cīvarāt arjane paridhāne vā . pucchāt udasane vysasane ca iti . kim prayojanam . kriyāvacanatā yathā syāt . na etat asti prayojanam . ācāryapravṛttiḥ jñāpayati kriyāvacanāḥ kyajādayaḥ iti yat ayam sanādyantāḥ dhātavaḥ iti dhātusañjñām śāsti . dhātusañjñāvacane etat prayojanam : dhātoḥ iti tavyadādīnām utpattiḥ yathā syāt . yadi ca atra kriyāvacanatā na syāt dhātusañjñāvacanam anarthakam syāt . satyām api dhātusañjñāyām tavyadādayaḥ na syuḥ . kim kāraṇam . sādhane tāvyādayaḥ vidhīyante sādhanam ca kriyāyāḥ . kriyābhāvāt sādhanābhāvaḥ . sādhanābhāvāt satyām api dhātusañjñāyām tavyadādayaḥ na syuḥ . paśyati tu ācāryaḥ kriyāvacanāḥ kyajādayaḥ iti tataḥ sanādyantāḥ dhātavaḥ iti dhātusañjñām śāsti . nanu ca idam prayojanam syāt . parasādhane utpattim vakṣyāmi iti . na parasādhane utpattyā bhavitavyam . kim kāraṇam . sādhanam iti sambandhiśabdaḥ ayam . sambandhiśabdāḥ ca punaḥ evamātmakāḥ yat uta sambandhinam ākṣipanti . tat yathā . mātari vartitatvyam , pitari śuśrūṣitavyam iti . na ca ucyate svasyām mātari svasmin vā pitari iti , sambandhāt ca etat gamyate yā yasya mātā yaḥ ca yasya pitā iti . evam iha api sambandhāt etat gantavyam yasya dhātoḥ yat sādhanam iti . atha vā dhātavaḥ eva kyajādayaḥ . na ca eva hi arthāḥ ādiśyante . kriyāvacanatā ca gamyate . kaḥ khalu api pacādīnām kriyāvacanatve yatnam karoti . yena eva khalu api hetunā pacādayaḥ kriyāvacanāḥ tena eva kyajādayaḥ api . evamartham ācāryaḥ citrayati . kva cit arthān ādiśati kva cit na . evam api arthādeśanam kartavyam . katham ime abudhāḥ budhyeran iti . atha vā śakyam ādeśanam akartum . katham . karaṇe iti vartate . karaṇam ca karoteḥ karotiḥ ca kriyāsāmānye vartate .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२७।२५-२८।११ रो इइइ,७२-७४ इमौ हलिकली स्तः इकारान्तौ । अस्ति हलशब्दः कलशब्दः च अकारान्तः । कयोः इदम् ग्रहणम् । यौ इकारान्तौ तयोः अत्वम् निपात्यते । किम् प्रयोजनम् । हलिकल्योः अत्वनिपातनम् सन्वद्भावप्रतिषेधार्थम् । हलिकल्योः अत्वनिपातनम् क्रियते सन्वद्भावः मा भूत् इति । अजहलत् अचकलत् । न एतत् अस्ति प्रयोजनम् । इकारलोपे कृते अग्लोपिनाम् न इति प्रतिषेधः भविष्यति । वृद्धौ कृतायाम् लोपः । तत् न अग्लोपि अङ्गम् भवति । इदम् इह सम्प्रधार्यम् । वृद्धिः क्रियताम् अग्लोपः इति । किम् अत्र कर्तव्यम् । परत्वात् वृद्धिः । नित्यः लोपः । कृतायाम् अपि वृद्धौ प्राप्नोति अकृतायाम् अपि प्राप्नोति । अनित्यः लोपः । अन्यस्य कृतायाम् वृद्धौ प्राप्नोति अन्यस्य अकृतायाम् । शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति । वृद्धिः अपि अनित्या । अन्यस्य कृते लोपे प्राप्नोति अन्यस्य अकृते । शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति । उभयोः अनित्ययोः परत्वात् वृद्धिः । वृद्धौ कृतायाम् लोपः । तत् न अग्लोपि अङ्गम् भवति । अत्वे पुनः सति वृद्धिः क्रियताम् लोपः इति यदि अपि परत्वात् वृद्धिः वृद्धौ कृतायाम् अपि अक् एव लुप्यते । तस्मात् सुष्ठु उच्यते हलिकल्योः अत्वनिपातनम् सन्वद्भावप्रतिषेधार्थम् ।

KA II,27.25-28.11 Ro III,72-74 imau halikalī staḥ ikārāntau . asti halaśabdaḥ kalaśabdaḥ ca akārāntaḥ . kayoḥ idam grahaṇam . yau ikārāntau tayoḥ atvam nipātyate . kim prayojanam . halikalyoḥ atvanipātanam sanvadbhāvapratiṣedhārtham . halikalyoḥ atvanipātanam kriyate sanvadbhāvaḥ mā bhūt iti . ajahalat acakalat . na etat asti prayojanam . ikāralope kṛte aglopinām na iti pratiṣedhaḥ bhaviṣyati . vṛddhau kṛtāyām lopaḥ . tat na aglopi aṅgam bhavati . idam iha sampradhāryam . vṛddhiḥ kriyatām aglopaḥ iti . kim atra kartavyam . paratvāt vṛddhiḥ . nityaḥ lopaḥ . kṛtāyām api vṛddhau prāpnoti akṛtāyām api prāpnoti . anityaḥ lopaḥ . anyasya kṛtāyām vṛddhau prāpnoti anyasya akṛtāyām . śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . vṛddhiḥ api anityā . anyasya kṛte lope prāpnoti anyasya akṛte . śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . ubhayoḥ anityayoḥ paratvāt vṛddhiḥ . vṛddhau kṛtāyām lopaḥ . tat na aglopi aṅgam bhavati . atve punaḥ sati vṛddhiḥ kriyatām lopaḥ iti yadi api paratvāt vṛddhiḥ vṛddhau kṛtāyām api ak eva lupyate . tasmāt suṣṭhu ucyate halikalyoḥ atvanipātanam sanvadbhāvapratiṣedhārtham .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२८।१३-१८ रो इइइ।७४-७५ समभिहारः इति कः अयम् शब्दः । समभिपूर्वात् हरतेः भावसाधनः घञ् । समभिहरणम् समभिहारः । तत् यथ पुष्पाभिहारः फलाभिहारः इति । विषमः उपन्यासः । बह्व्यः हि ताः सुमनसः । तत्र युक्तः समभिहारः । इह पुनः एका क्रिया । यदि अपि एका सामान्यक्रिया अवयवक्रियाः तु बह्व्यः अधिश्रयणोदकासेचनतण्डुलावपनैध्कोपकर्षण्क्रियाः । ताः कः चित् कार्त्स्न्येन करोति कः चित् अकार्त्स्न्येन । यः कार्त्स्न्येन करोति सः उच्यते पापच्यते इति । पुनः पुनः वा पचति पापच्यते इति ।

KA II,28.13-18 Ro III.74-75 samabhihāraḥ iti kaḥ ayam śabdaḥ . samabhipūrvāt harateḥ bhāvasādhanaḥ ghañ . samabhiharaṇam samabhihāraḥ . tat yatha puṣpābhihāraḥ phalābhihāraḥ iti . viṣamaḥ upanyāsaḥ . bahvyaḥ hi tāḥ sumanasaḥ . tatra yuktaḥ samabhihāraḥ . iha punaḥ ekā kriyā . yadi api ekā sāmānyakriyā avayavakriyāḥ tu bahvyaḥ adhiśrayaṇodakāsecanataṇḍulāvapanaidhkopakarṣaṇkriyāḥ . tāḥ kaḥ cit kārtsnyena karoti kaḥ cit akārtsnyena . yaḥ kārtsnyena karoti saḥ ucyate pāpacyate iti . punaḥ punaḥ vā pacati pāpacyate iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२८।१९-२९।१२ रो इइइ,७५-७६ अथ धातुग्रहणम् किमर्थम् । इह मा भूत् प्राटति भृशम् इति । अतः उत्तरम् पठति । यङ्विधौ धातुग्रहणे उक्तम् । किम् उक्तम् । तत्र तावत् उक्तम् कर्मग्रहणात् सन्विधौ धातुग्रहणानर्थक्यम् । सोपसर्गम् कर्म इति चेत् कर्मविशेषकत्वात् उपसर्गस्य अनुपसर्गम् कर्म । सोपसर्गस्य हि कर्मत्वे धात्वधिकारे अपि सनः अविधानम् अकर्मत्वात् इति । एवम् इह अपि क्रियासमभिहारग्रहणात् यङ्विधौ धातुग्रहणानर्थक्यम् । सोपसर्गः क्रियासमभिहारः इति चेत् क्रियासमभिहारविशेषकत्वात् उपसर्गस्य अनुपसर्गः क्रियासमभिहारः । सोपसर्गस्य हि क्रियासमहिभारत्वे धात्वधिकारे अपि यङः अविधानम् अक्रियासमभिहारत्वात् इति । अथ एकाज्झलादिग्रहणम् किमर्थम् । इह मा भूत् : जागर्ति भृशम् । ईक्षते भृशम् । एकाज्झलादिग्रहणे च । एकाज्झलादिग्रहणे च उक्तम् । किम् उक्तम् । तत्र तावत् उक्तम् कर्मसमानकर्तृकग्रहणानर्थक्यम् च इच्छाभिधाने प्रत्ययविधानात् । अकर्मणः हि असमानकर्तृकात् वा अनभिधानम् इति । इह अपि एकाज्झलादिग्रहणानर्थक्यम् क्रियासमभिहारे यङ्वचनात् अनेकाचः अहलादेः हि अनभिधानम् इति । तत् च अवश्यम् अनभिदानम् आश्रयितव्यम् । क्रियमाणे अपि हि एकाज्झलादिग्रहणे यत्र एकाचः हलादेः च उत्पद्यमानेन यङा अर्थस्य अभिधानम् न भवति न भवति तत्र उत्पत्तिः । तत् यथा । भृशम् शोभते । भृशम् रोचते । यत्र च अनेकाचः अहलादेः वो उत्पद्यमानेन यङा अर्थस्य अभिधानम् भवति भवति तत्र उत्पत्तिः । तत् यथा । अटाट्यते अरार्यते अशाश्यते सोसूच्यते सोसूत्र्यते मोमूत्र्यते ।

KA II,28.19-29.12 Ro III,75-76 atha dhātugrahaṇam kimartham . iha mā bhūt prāṭati bhṛśam iti . ataḥ uttaram paṭhati . yaṅvidhau dhātugrahaṇe uktam . kim uktam . tatra tāvat uktam karmagrahaṇāt sanvidhau dhātugrahaṇānarthakyam . sopasargam karma iti cet karmaviśeṣakatvāt upasargasya anupasargam karma . sopasargasya hi karmatve dhātvadhikāre api sanaḥ avidhānam akarmatvāt iti . evam iha api kriyāsamabhihāragrahaṇāt yaṅvidhau dhātugrahaṇānarthakyam . sopasargaḥ kriyāsamabhihāraḥ iti cet kriyāsamabhihāraviśeṣakatvāt upasargasya anupasargaḥ kriyāsamabhihāraḥ . sopasargasya hi kriyāsamahibhāratve dhātvadhikāre api yaṅaḥ avidhānam akriyāsamabhihāratvāt iti . atha ekājjhalādigrahaṇam kimartham . iha mā bhūt : jāgarti bhṛśam . īkṣate bhṛśam . ekājjhalādigrahaṇe ca . ekājjhalādigrahaṇe ca uktam . kim uktam . tatra tāvat uktam karmasamānakartṛkagrahaṇānarthakyam ca icchābhidhāne pratyayavidhānāt . akarmaṇaḥ hi asamānakartṛkāt vā anabhidhānam iti . iha api ekājjhalādigrahaṇānarthakyam kriyāsamabhihāre yaṅvacanāt anekācaḥ ahalādeḥ hi anabhidhānam iti . tat ca avaśyam anabhidānam āśrayitavyam . kriyamāṇe api hi ekājjhalādigrahaṇe yatra ekācaḥ halādeḥ ca utpadyamānena yaṅā arthasya abhidhānam na bhavati na bhavati tatra utpattiḥ . tat yathā . bhṛśam śobhate . bhṛśam rocate . yatra ca anekācaḥ ahalādeḥ vo utpadyamānena yaṅā arthasya abhidhānam bhavati bhavati tatra utpattiḥ . tat yathā . aṭāṭyate arāryate aśāśyate sosūcyate sosūtryate momūtryate .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२९।१३-२१ रो इइइ,७६-७७ ऊर्णोतेः च उपसङ्ख्यानम् । ऊर्णोतेः च उपसङ्ख्यानम् कर्तव्यम् । प्रोर्णोनूयते । अत्यल्पम् इदम् उच्यते : ऊर्णोतेः इति । सूचिसूत्रिमूत्र्यट्यर्त्यश्यूर्णुग्रहणम् यङ्विधौ अनेकाजहलाद्यर्थम् । सूचिसूत्रिमूत्र्यट्यर्त्यश्यूर्णोतीनाम् ग्रहणम् कर्तव्यम् । किम् प्रयोजनम् । यङ्विधौ अनेकाजहलाद्यर्थम् । सोसूच्यते सोसूत्र्यते मोमूत्र्यते अटाट्यते अरार्यते अशाश्यते प्रोर्णोनूयते । वाच्यः ऊर्णोर्णुवद्भावः यङ्प्रसिद्धिः प्रयोजनम् । आमः च प्रतिषेधार्थम् एकाचः च इडुपग्रहात् ।

KA II,29.13-21 Ro III,76-77 ūrṇoteḥ ca upasaṅkhyānam . ūrṇoteḥ ca upasaṅkhyānam kartavyam . prorṇonūyate . atyalpam idam ucyate : ūrṇoteḥ iti . sūcisūtrimūtryaṭyartyaśyūrṇugrahaṇam yaṅvidhau anekājahalādyartham . sūcisūtrimūtryaṭyartyaśyūrṇotīnām grahaṇam kartavyam . kim prayojanam . yaṅvidhau anekājahalādyartham . sosūcyate sosūtryate momūtryate aṭāṭyate arāryate aśāśyate prorṇonūyate . vācyaḥ ūrṇorṇuvadbhāvaḥ yaṅprasiddhiḥ prayojanam . āmaḥ ca pratiṣedhārtham ekācaḥ ca iḍupagrahāt .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२९।२२-३०।८ रो इइइ,७७-७८ क्रियासमभिहारे यङः विप्रतिषेधेन लोड्विधानम् । क्रियासमभिहारे लोट् भवति यङः विप्रतिषेधेन । क्रियासमभिहारे यङ् भवति इति अस्य अवकाशः धातुः यः एकाच् हलादिः क्रियासमभिहारे वर्तते अधातुसम्बन्धः : लोलूयते । लोटः अवकाशः धातुः यः अनेकाच् अहलादिः क्रियासमभिहारे वर्तते धातुसम्बन्धः : सः भवान् जागृहि जागृहि इति एव अयम् जागर्ति । सः भवान् ईहस्व ईहस्व इति एव अयम् ईहते । धातुः यः एकाच् हलादिः क्रियासमभिहारे वर्तते धातुसम्बन्धः च तस्मात् उभयम् प्राप्नोति : सः भवान् लुनीहि लुनीहि इति एव अयम् लुनाति । लोट् भवति विप्रतिषेधेन । न तर्हि इदानीम् इदम् भवति : सः भवान् लोलूयस्व लोलूयस्व इति एव अयम् लोलूयते । भवति च । न वा नानार्थत्वात् । कर्तृकर्मणोः हि लविधानम् क्रियाविशेषे स्वार्थे यङ् । न वा अर्थः विप्रतिषेधेन । किम् कारणम् । नानार्थत्वात् । का नानार्थता । कर्तृकर्मणोः हि लविधानम् । कर्तृकर्मणोः हि लोट् विधीयते । क्रियाविशेषे स्वार्थे यङ् । तत्र अन्तरङ्गत्वात् यङा भवितव्यम् । न तर्हि इदम् इदानीम् भवति । सः भवान् लुनीहि लुनीहि इति एव अयम् लुनाति । भवति च । विभाषा यङ् । यदा न यङ् तदा लोट् ।

KA II,29.22-30.8 Ro III,77-78 kriyāsamabhihāre yaṅaḥ vipratiṣedhena loḍvidhānam . kriyāsamabhihāre loṭ bhavati yaṅaḥ vipratiṣedhena . kriyāsamabhihāre yaṅ bhavati iti asya avakāśaḥ dhātuḥ yaḥ ekāc halādiḥ kriyāsamabhihāre vartate adhātusambandhaḥ : lolūyate . loṭaḥ avakāśaḥ dhātuḥ yaḥ anekāc ahalādiḥ kriyāsamabhihāre vartate dhātusambandhaḥ : saḥ bhavān jāgṛhi jāgṛhi iti eva ayam jāgarti . saḥ bhavān īhasva īhasva iti eva ayam īhate . dhātuḥ yaḥ ekāc halādiḥ kriyāsamabhihāre vartate dhātusambandhaḥ ca tasmāt ubhayam prāpnoti : saḥ bhavān lunīhi lunīhi iti eva ayam lunāti . loṭ bhavati vipratiṣedhena . na tarhi idānīm idam bhavati : saḥ bhavān lolūyasva lolūyasva iti eva ayam lolūyate . bhavati ca . na vā nānārthatvāt . kartṛkarmaṇoḥ hi lavidhānam kriyāviśeṣe svārthe yaṅ . na vā arthaḥ vipratiṣedhena . kim kāraṇam . nānārthatvāt . kā nānārthatā . kartṛkarmaṇoḥ hi lavidhānam . kartṛkarmaṇoḥ hi loṭ vidhīyate . kriyāviśeṣe svārthe yaṅ . tatra antaraṅgatvāt yaṅā bhavitavyam . na tarhi idam idānīm bhavati . saḥ bhavān lunīhi lunīhi iti eva ayam lunāti . bhavati ca . vibhāṣā yaṅ . yadā na yaṅ tadā loṭ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३०।९-१४ रो इइइ,७८-७९ उत्तरयोः विग्रहेण विशेषासम्प्रत्ययात् नित्यग्रहणानर्थक्यम् । उत्तरयोः योगयोः विग्रहेण विशेषासम्प्रत्ययात् नित्यग्रहणानर्थक्यम् । न हि कुटिलम् क्रामति इति चङ्क्रम्यते इति गम्यते । अथे एतेभ्यः क्रियासमभिहारे यङा भवितव्यम् । क्रियासमभिहारे च न एतेभ्यः । क्रियासमभिहारे च न एतेभ्यः यङा भवितव्यम् । भृशम् जपति ब्राह्मणः । भृशम् समिदः दहति इति एव।

KA II,30.9-14 Ro III,78-79 uttarayoḥ vigraheṇa viśeṣāsampratyayāt nityagrahaṇānarthakyam . uttarayoḥ yogayoḥ vigraheṇa viśeṣāsampratyayāt nityagrahaṇānarthakyam . na hi kuṭilam krāmati iti caṅkramyate iti gamyate . athe etebhyaḥ kriyāsamabhihāre yaṅā bhavitavyam . kriyāsamabhihāre ca na etebhyaḥ . kriyāsamabhihāre ca na etebhyaḥ yaṅā bhavitavyam . bhṛśam japati brāhmaṇaḥ . bhṛśam samidaḥ dahati iti eva.

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३०।१७-३१।५ रो इइइ,७९-८० सत्याप इति किम् निपात्यते । सत्यस्य कृञि आपुक् च । सत्यस्य कृञि आपुक् च निपात्यते णिच् च । सत्यम् करोति सत्यापयति । अत्यल्पम् इदम् उच्यते । णिविदौ अर्थवेदसत्यानाम् अपुक् च । णिविदौ अर्थवेदसत्यानाम् अपुक् च इति वक्तव्यम् । अर्थापयति वेदापयति सत्यापयति । यदि आपुक् क्रियते टिलोपः प्राप्नोति । एवम् तर्हि पुक् करिष्यते । एवम् अपि टिलोपः प्राप्नोति । एवम् तर्हि आक् करिष्यते । एवम् अपि टिलोपः प्राप्नोति । एवम् तर्हि अक् करिष्यते । एवम् अपि अनाकारान्तत्वात् पुक् न प्राप्नोति । एवम् तर्हि अपुट् करिष्यते । अथ वा पुनः अस्तु आपुक् एव । ननु च उक्तम् । टिलोपः प्राप्नोति इति । आपुग्वचनसामर्थ्यात् न भविष्यति । अथ वा पुनः अस्तु पुक् एव । ननु च उक्तम् एवम् अपि टिलोपः प्राप्नोति इति । पुग्वचनसामर्थ्यात् न भविष्यति । अथ वा पुनः अस्तु आक् एव । ननु च उक्तम् एवम् अपि टिलोपः प्राप्नोति इति । आग्वचनसामर्थ्यात् न भविष्यति ।

KA II,30.17-31.5 Ro III,79-80 satyāpa iti kim nipātyate . satyasya kṛñi āpuk ca . satyasya kṛñi āpuk ca nipātyate ṇic ca . satyam karoti satyāpayati . atyalpam idam ucyate . ṇividau arthavedasatyānām apuk ca . ṇividau arthavedasatyānām apuk ca iti vaktavyam . arthāpayati vedāpayati satyāpayati . yadi āpuk kriyate ṭilopaḥ prāpnoti . evam tarhi puk kariṣyate . evam api ṭilopaḥ prāpnoti . evam tarhi āk kariṣyate . evam api ṭilopaḥ prāpnoti . evam tarhi ak kariṣyate . evam api anākārāntatvāt puk na prāpnoti . evam tarhi apuṭ kariṣyate . atha vā punaḥ astu āpuk eva . nanu ca uktam . ṭilopaḥ prāpnoti iti . āpugvacanasāmarthyāt na bhaviṣyati . atha vā punaḥ astu puk eva . nanu ca uktam evam api ṭilopaḥ prāpnoti iti . pugvacanasāmarthyāt na bhaviṣyati . atha vā punaḥ astu āk eva . nanu ca uktam evam api ṭilopaḥ prāpnoti iti . āgvacanasāmarthyāt na bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३१।७-३२।२६ रो इइइ,८०-८६ कथम् इदम् विज्ञायते । हेतुमति अभिधेये णिच् भवति इति । आहोस्वित् हेतुमति यः धातुः वर्तते इति । युक्तम् पुनः इदम् विचारयितुम् । ननु अनेन असन्दिग्धेन प्रत्ययार्थविशेषणेन भवितव्यम् यावता हेतुमति इति उच्यते । यदि हि प्रकृतर्थविशेषणम् स्यात् हेतुमतः इति एवम् ब्रूयात् । न एतत् अस्ति । भवन्ति इह हि विषयसप्तम्यः अपि । तत् यथा । प्रमाणे यत् प्रातिपदिकम् वर्तते स्त्रियाम् यत् प्रातिपदिकम् वर्तते इति । एवम् इह अपि हेतुमति अभिधेये णिच् भवति हेतुमति यः धातुः वर्तते इति जायते विचारणा । अत उत्तरम् पठति । हेतुमति इति कारकोपादानम् प्रत्ययार्थपरिग्रहार्थम् यथा तनूकरणे तक्षः । हेतुमति इति कारकम् उपादीयते । किम् प्रयोजनम् । प्रत्ययार्थपरिग्रहार्थम् । एवम् सति प्रत्ययार्थः सुपरिगृहीतः भवति । यथा तनूकरणे तक्षः इति तनूकरणम् उपादीयते । यदि तर्हि तद्वत् प्रकृत्यर्थविशेषणम् भवति । प्रकृत्यर्थविशेषणम् हि तत् तत्र विज्ञायते । तनूकरणक्रियायाम् तक्षः इति । अस्तु प्रकृत्यर्थविशेषणम् । कः दोषः । इह हि उक्तः करोति प्रेषितः करोति इति णिच् प्राप्नोति । प्रत्ययार्थविशेषणे पुनः सति न एषः दोषः । स्वशब्देन उक्तत्वात् न भविष्यति । प्रकृत्यर्थविशेषणे अपि सति न एषः दोषः । यत्र न अन्तरेण शब्दम् अर्थस्य गतिः भवति तत्र शब्दः प्रयुज्यते । यत्र हि अन्तरेण अपि शब्दम् अर्थस्य गतिः भवति न तत्र शब्दः प्रयुज्यते । इह तर्हि पाचयति ओदनम् देवदत्तः यज्ञदत्तेन इति उभयोः कर्त्रोः लेन अभिधानम् प्राप्नोति । प्रत्ययार्थविशेषणे पुनः सति न दोषः । प्रधानकर्तरि लादयः भवन्ति इति प्रधानकर्ता लेन अभिधीयते । यः च अप्रधानम् सिद्ध तत्र कर्तरि इति एव तृतीया । इह च गमितः ग्रामम् देवदत्तः यज्ञदत्तनेअ इति अव्यतिरिक्तः गत्यर्थः इति कृत्वा गत्यर्थानाम् कर्तरि इति कर्तरि क्तः प्राप्नोति । इह च व्यतिभेदयन्ते व्यतिच्छेदयन्ते इति अव्यतिरिक्तः हिंसार्थः इति कृत्वा न गतिहिंसार्थेभ्यः इति प्रतिषेधः प्राप्नोति । अस्तु तर्हि प्रत्ययार्थविशेषणम् । यदि प्रत्ययार्थविशेषणम् पाचयति ओदनम् देवदत्तः यज्ञदत्तेन इति प्रयोज्ये कर्तरि कर्मसञ्ज्ञा प्राप्नोति । भवति हि तस्य तस्मिन् ईप्सा । इह च ग्रामम् गमयति ग्रामाय गमयति इति व्यतिरिक्तः गत्यर्थः इति कृत्वा गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ न प्राप्नुतः । इह च एधोदकस्य उपस्कारयति इति व्यतिरिक्तः करोत्यर्थः इति कृत्वा कृञः प्रतियत्ने इति षष्ठी न प्राप्नोति । इह च भेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठानाम् इति प्रयोज्ये कर्तरि षष्ठी न प्राप्नोति । इह च अभिषावयति परिषावयति इति व्यतिरिक्तः सुनोत्यर्थः इति कृत्वा उपसर्गात् सुनोत्यादीनाम् इति षत्वम् न प्राप्नोति । न एषः दोषः । यत् तावत् उच्यते पाचयति ओदनम् देवदत्तः यज्ञदत्तेन इति प्रयोज्ये कर्तरि कर्मसञ्ज्ञा प्राप्नोति इति । गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणि इति एतत् नियमार्थम् भविष्यति । एतेषाम् एव अण्यन्तानाम् यः कर्ता सः णौ कर्मसञ्ज्ञः भवति न अन्येषाम् इति । यत् अपि उच्यते इह च ग्रामम् गमयति ग्रामाय गमयति इति व्यतिरिक्तः गत्यर्थः इति कृत्वा गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ न प्राप्नुतः इति । न असौ एवम् प्रेष्यते गच्छ ग्रामम् इति । कथम् तर्हि । साधनविशिष्टाम् असौ क्रियाम् प्रेष्यते । ग्रामम् गच्छ । ग्रामाय गच्छ इति । यत् अपि उच्यते इह च एधोदकस्य उपस्कारयति इति व्यतिरिक्तः करोत्यर्थः इति कृत्वा कृञः प्रतियत्ने इति षष्ठी न प्राप्नोति इति । न असौ एवम् प्रेष्यते उपस्कुरुष्व एधोदकस्य इति । कथम् तर्हि । साधनविशिष्टाम् असौ क्रियाम् प्रेष्यते । एधोदकस्य उपस्कुरुष्व इति । यत् अपि उच्यते इह च भेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठानाम् इति प्रयोज्ये कर्तरि षष्ठी न प्राप्नोति इति । उक्तम् तत्र कृद्ग्रहणस्य प्रयोजनम् कर्तृभूतपूर्वमात्रे अपि षष्ठी यथा स्यात् इति । यत् अपि उच्यते इह च अभिषावयति परिषावयति

KA II,31.7-32.26 Ro III,80-86 katham idam vijñāyate . hetumati abhidheye ṇic bhavati iti . āhosvit hetumati yaḥ dhātuḥ vartate iti . yuktam punaḥ idam vicārayitum . nanu anena asandigdhena pratyayārthaviśeṣaṇena bhavitavyam yāvatā hetumati iti ucyate . yadi hi prakṛtarthaviśeṣaṇam syāt hetumataḥ iti evam brūyāt . na etat asti . bhavanti iha hi viṣayasaptamyaḥ api . tat yathā . pramāṇe yat prātipadikam vartate striyām yat prātipadikam vartate iti . evam iha api hetumati abhidheye ṇic bhavati hetumati yaḥ dhātuḥ vartate iti jāyate vicāraṇā . ata uttaram paṭhati . hetumati iti kārakopādānam pratyayārthaparigrahārtham yathā tanūkaraṇe takṣaḥ . hetumati iti kārakam upādīyate . kim prayojanam . pratyayārthaparigrahārtham . evam sati pratyayārthaḥ suparigṛhītaḥ bhavati . yathā tanūkaraṇe takṣaḥ iti tanūkaraṇam upādīyate . yadi tarhi tadvat prakṛtyarthaviśeṣaṇam bhavati . prakṛtyarthaviśeṣaṇam hi tat tatra vijñāyate . tanūkaraṇakriyāyām takṣaḥ iti . astu prakṛtyarthaviśeṣaṇam . kaḥ doṣaḥ . iha hi uktaḥ karoti preṣitaḥ karoti iti ṇic prāpnoti . pratyayārthaviśeṣaṇe punaḥ sati na eṣaḥ doṣaḥ . svaśabdena uktatvāt na bhaviṣyati . prakṛtyarthaviśeṣaṇe api sati na eṣaḥ doṣaḥ . yatra na antareṇa śabdam arthasya gatiḥ bhavati tatra śabdaḥ prayujyate . yatra hi antareṇa api śabdam arthasya gatiḥ bhavati na tatra śabdaḥ prayujyate . iha tarhi pācayati odanam devadattaḥ yajñadattena iti ubhayoḥ kartroḥ lena abhidhānam prāpnoti . pratyayārthaviśeṣaṇe punaḥ sati na doṣaḥ . pradhānakartari lādayaḥ bhavanti iti pradhānakartā lena abhidhīyate . yaḥ ca apradhānam siddha tatra kartari iti eva tṛtīyā . iha ca gamitaḥ grāmam devadattaḥ yajñadattanea iti avyatiriktaḥ gatyarthaḥ iti kṛtvā gatyarthānām kartari iti kartari ktaḥ prāpnoti . iha ca vyatibhedayante vyaticchedayante iti avyatiriktaḥ hiṃsārthaḥ iti kṛtvā na gatihiṃsārthebhyaḥ iti pratiṣedhaḥ prāpnoti . astu tarhi pratyayārthaviśeṣaṇam . yadi pratyayārthaviśeṣaṇam pācayati odanam devadattaḥ yajñadattena iti prayojye kartari karmasañjñā prāpnoti . bhavati hi tasya tasmin īpsā . iha ca grāmam gamayati grāmāya gamayati iti vyatiriktaḥ gatyarthaḥ iti kṛtvā gatyarthakarmaṇi dvitīyācaturthyau na prāpnutaḥ . iha ca edhodakasya upaskārayati iti vyatiriktaḥ karotyarthaḥ iti kṛtvā kṛñaḥ pratiyatne iti ṣaṣṭhī na prāpnoti . iha ca bhedikā devadattasya yajñadattasya kāṣṭhānām iti prayojye kartari ṣaṣṭhī na prāpnoti . iha ca abhiṣāvayati pariṣāvayati iti vyatiriktaḥ sunotyarthaḥ iti kṛtvā upasargāt sunotyādīnām iti ṣatvam na prāpnoti . na eṣaḥ doṣaḥ . yat tāvat ucyate pācayati odanam devadattaḥ yajñadattena iti prayojye kartari karmasañjñā prāpnoti iti . gatibuddhipratyavasānārthaśabdakarmākarmakāṇām aṇi iti etat niyamārtham bhaviṣyati . eteṣām eva aṇyantānām yaḥ kartā saḥ ṇau karmasañjñaḥ bhavati na anyeṣām iti . yat api ucyate iha ca grāmam gamayati grāmāya gamayati iti vyatiriktaḥ gatyarthaḥ iti kṛtvā gatyarthakarmaṇi dvitīyācaturthyau na prāpnutaḥ iti . na asau evam preṣyate gaccha grāmam iti . katham tarhi . sādhanaviśiṣṭām asau kriyām preṣyate . grāmam gaccha . grāmāya gaccha iti . yat api ucyate iha ca edhodakasya upaskārayati iti vyatiriktaḥ karotyarthaḥ iti kṛtvā kṛñaḥ pratiyatne iti ṣaṣṭhī na prāpnoti iti . na asau evam preṣyate upaskuruṣva edhodakasya iti . katham tarhi . sādhanaviśiṣṭām asau kriyām preṣyate . edhodakasya upaskuruṣva iti . yat api ucyate iha ca bhedikā devadattasya yajñadattasya kāṣṭhānām iti prayojye kartari ṣaṣṭhī na prāpnoti iti . uktam tatra kṛdgrahaṇasya prayojanam kartṛbhūtapūrvamātre api ṣaṣṭhī yathā syāt iti . yat api ucyate iha ca abhiṣāvayati pariṣāvayati

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३३।१-८ रो इइइ,८७-८८ हेतुनिर्देशः च निमित्तमात्रम् बिक्षादिषु दर्शनात् । हेतुनिर्देशः च निमित्तमात्रम् द्रष्टव्यम् । यावत् ब्रूयात् निमित्तम् कारणम् इति ताव्त् हेतुः इति । किम् प्रयोजनम् । बिक्षादिषु दर्शनात् । भिक्षादिषु हि णिच् दृश्यते । भिक्षाः वासयन्ति ।कारिषः अग्निः अध्यापयति इति । किम् पुनः कारणम् पारिभाषिके हेतौ न सिध्यति । एवम् मन्यते । चेतनावतः एतत् भवति प्रेषणम् अध्येषणम् च इति । भिक्षाः च अचेतनाः । न एषः दोषः । न अवश्यम् सः एव वासम् प्रयोजयति यः आह उष्यताम् इति । तूष्णीम् आसीनः यः तत्समर्थानि आचरति सः अपि वासम् प्रयोजयति । भिक्षाः च अपि प्रचुराः व्यञ्जनवत्यः लभ्यमानाः वासम् प्रयोजयन्ति । तथा कारीषः अग्निः निर्वाते एकान्ते सुप्रज्वलितः अध्ययनम् प्रयोजयति ।

KA II,33.1-8 Ro III,87-88 hetunirdeśaḥ ca nimittamātram bikṣādiṣu darśanāt . hetunirdeśaḥ ca nimittamātram draṣṭavyam . yāvat brūyāt nimittam kāraṇam iti tāvt hetuḥ iti . kim prayojanam . bikṣādiṣu darśanāt . bhikṣādiṣu hi ṇic dṛśyate . bhikṣāḥ vāsayanti .kāriṣaḥ agniḥ adhyāpayati iti . kim punaḥ kāraṇam pāribhāṣike hetau na sidhyati . evam manyate . cetanāvataḥ etat bhavati preṣaṇam adhyeṣaṇam ca iti . bhikṣāḥ ca acetanāḥ . na eṣaḥ doṣaḥ . na avaśyam saḥ eva vāsam prayojayati yaḥ āha uṣyatām iti . tūṣṇīm āsīnaḥ yaḥ tatsamarthāni ācarati saḥ api vāsam prayojayati . bhikṣāḥ ca api pracurāḥ vyañjanavatyaḥ labhyamānāḥ vāsam prayojayanti . tathā kārīṣaḥ agniḥ nirvāte ekānte suprajvalitaḥ adhyayanam prayojayati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३३।९-२० रो इइइ,८८-८९ इह कः चित् कम् चित् आह । पृच्छतु मा भवान् । अनुयुङ्क्ताम् मा भवान् इति । अत्र णिच् कस्मात् न भवति । अकर्तृत्वात् । न हि असौ सम्प्रति पृच्छति । तूष्णीम् आस्ते । किम् च भोः वर्तमानकालायाः एव क्रियायाः कर्त्रा भवितव्यम् न भूतभविष्यत्कालायाः । भूतभविष्यत्कालायाः अपि भवितव्यम् । अभिसम्बन्धः तत्र क्रियते । इमाम् क्रियाम् अकार्षीत् । इमाम् क्रियाम् करिष्यति इति । इह पुनः न कः चित् अभिसम्बन्धः क्रियते न च असौ सम्प्रति पृच्छति । तूष्णीम् आस्ते । यदि तर्हि कर्ता न अस्ति कथम् तर्हि कर्तृप्रत्ययेन लोटा अभिधीयते । अथम् कथम् अस्मिन् अपृच्छति अयम् प्रच्छिः वर्तते । अभिसम्बन्धः तत्र क्रियते । इमाम् क्रियाम् कुरु इति । कर्त्रा अपि तर्हि अभिसम्बन्धः क्रियते । कथम् । कर्ता च अस्याः क्रियायाः भव इति । एवम् न च कर्ता कर्तृप्रत्ययेन च लोटा अभिधीयते । अथ अपि कथम् चित् कर्ता स्यात् । एवम् अपि न दोषः । लोटा उक्तत्वात् प्रेषणस्य णिच् न भविष्यति । विधीयन्ते हि एतेषु अर्थेषु प्रैषादिषु लोडादयः । यत्र च द्वितीयः प्रयोज्यः अर्थः भवति भवति तत्र णिच् । तत् यथा आसय शायय इति ।

KA II,33.9-20 Ro III,88-89 iha kaḥ cit kam cit āha . pṛcchatu mā bhavān . anuyuṅktām mā bhavān iti . atra ṇic kasmāt na bhavati . akartṛtvāt . na hi asau samprati pṛcchati . tūṣṇīm āste . kim ca bhoḥ vartamānakālāyāḥ eva kriyāyāḥ kartrā bhavitavyam na bhūtabhaviṣyatkālāyāḥ . bhūtabhaviṣyatkālāyāḥ api bhavitavyam . abhisambandhaḥ tatra kriyate . imām kriyām akārṣīt . imām kriyām kariṣyati iti . iha punaḥ na kaḥ cit abhisambandhaḥ kriyate na ca asau samprati pṛcchati . tūṣṇīm āste . yadi tarhi kartā na asti katham tarhi kartṛpratyayena loṭā abhidhīyate . atham katham asmin apṛcchati ayam pracchiḥ vartate . abhisambandhaḥ tatra kriyate . imām kriyām kuru iti . kartrā api tarhi abhisambandhaḥ kriyate . katham . kartā ca asyāḥ kriyāyāḥ bhava iti . evam na ca kartā kartṛpratyayena ca loṭā abhidhīyate . atha api katham cit kartā syāt . evam api na doṣaḥ . loṭā uktatvāt preṣaṇasya ṇic na bhaviṣyati . vidhīyante hi eteṣu artheṣu praiṣādiṣu loḍādayaḥ . yatra ca dvitīyaḥ prayojyaḥ arthaḥ bhavati bhavati tatra ṇic . tat yathā āsaya śāyaya iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३३।२१-३४।७ रो इइइ,८९-९० कृष्यादिषु च अनुत्पत्तिः । कृष्यादिषु च अनुत्पत्तिः वक्तव्या । एकान्ते तूष्णीम् आसीनः उच्यते पञ्चभिः हलैः कृषति इति । तत्र भवितव्यम् । पञ्चभिः हलैः कर्षयति इति । कृष्यादिषु च अनुत्पत्तिः नानाक्रियाणाम् कृष्यर्थत्वात् । कृष्यादिषु च अनुत्पत्तिः सिद्धा । कुतः । नानाक्रियाणाम् कृष्यर्थत्वात् । नानाक्रियाः कृषेः अर्थाः । न अवश्यम् कृषिः विलेखने एव वर्तते । किम् तर्हि। प्रतिविधाने अपि वर्तते । यत् असौ भक्तबीजबलीवर्दैः प्रतिविधानम् करोति सः कृष्यर्थः । आतः च प्रतिविधाने वर्तते । यदहः एव असौ न प्रतिविधत्ते तदहः तत् कर्म न प्रवर्तते । यज्यादिषु च अविपर्यासः । यज्यादिषु च अविपर्यासः वक्तव्यः । पुष्यमित्रः यजते । याजकाः याजयन्ति इति । तत्र भवितव्यम् । पुष्यमित्रः याजयते । याजकाः यजन्ति इति । यज्यादिषु च अविपर्यासः नानाक्रियाणाम् यज्यर्थत्वात् । यज्यादिषु च अविपर्यासः सिद्धः । कुतः । नानाक्रियाणाम् यज्यर्थत्वात् । नानाक्रियाः यजेः अर्थाः । न अवश्यम् यजिः हविष्प्रक्षेपणे एव वर्तते । किम् तर्हि । त्यागे अपि वर्तते । अहो यजते इति उच्यते यः सुष्ठु त्यागम् करोति । तम् च पुष्यमित्रः करोति । याजकाः प्रयोजयन्ति ।

KA II,33.21-34.7 Ro III,89-90 kṛṣyādiṣu ca anutpattiḥ . kṛṣyādiṣu ca anutpattiḥ vaktavyā . ekānte tūṣṇīm āsīnaḥ ucyate pañcabhiḥ halaiḥ kṛṣati iti . tatra bhavitavyam . pañcabhiḥ halaiḥ karṣayati iti . kṛṣyādiṣu ca anutpattiḥ nānākriyāṇām kṛṣyarthatvāt . kṛṣyādiṣu ca anutpattiḥ siddhā . kutaḥ . nānākriyāṇām kṛṣyarthatvāt . nānākriyāḥ kṛṣeḥ arthāḥ . na avaśyam kṛṣiḥ vilekhane eva vartate . kim tarhi. pratividhāne api vartate . yat asau bhaktabījabalīvardaiḥ pratividhānam karoti saḥ kṛṣyarthaḥ . ātaḥ ca pratividhāne vartate . yadahaḥ eva asau na pratividhatte tadahaḥ tat karma na pravartate . yajyādiṣu ca aviparyāsaḥ . yajyādiṣu ca aviparyāsaḥ vaktavyaḥ . puṣyamitraḥ yajate . yājakāḥ yājayanti iti . tatra bhavitavyam . puṣyamitraḥ yājayate . yājakāḥ yajanti iti . yajyādiṣu ca aviparyāsaḥ nānākriyāṇām yajyarthatvāt . yajyādiṣu ca aviparyāsaḥ siddhaḥ . kutaḥ . nānākriyāṇām yajyarthatvāt . nānākriyāḥ yajeḥ arthāḥ . na avaśyam yajiḥ haviṣprakṣepaṇe eva vartate . kim tarhi . tyāge api vartate . aho yajate iti ucyate yaḥ suṣṭhu tyāgam karoti . tam ca puṣyamitraḥ karoti . yājakāḥ prayojayanti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३४।८-१३ रो इइइ,९१-९२ तत् करोति इति उपसङ्ख्यानम् सूत्रयत्याद्यर्थम् । तत् करोति इति उपसङ्ख्यानम् कर्तव्यम् । किम् प्रयोजनम् । सूत्रयत्याद्यर्थम् । सूत्रम् करोति । सूत्रयति । इह व्याकरणस्य सूत्रम् करोति । व्याकरणम् सूत्रयति इति । वाक्ये षष्ठी उत्पन्ने च प्रत्यये द्वितीया । केन एतत् एवम् भवति । यः असौ सूत्रव्याकरणयोः अभिसम्बन्धः सः उत्पन्ने प्रत्यये निवर्तते । अस्ति च करोतेः व्याकरणेन सामर्थ्यम् इति कृत्वा द्वितीया भविष्यति ।

KA II,34.8-13 Ro III,91-92 tat karoti iti upasaṅkhyānam sūtrayatyādyartham . tat karoti iti upasaṅkhyānam kartavyam . kim prayojanam . sūtrayatyādyartham . sūtram karoti . sūtrayati . iha vyākaraṇasya sūtram karoti . vyākaraṇam sūtrayati iti . vākye ṣaṣṭhī utpanne ca pratyaye dvitīyā . kena etat evam bhavati . yaḥ asau sūtravyākaraṇayoḥ abhisambandhaḥ saḥ utpanne pratyaye nivartate . asti ca karoteḥ vyākaraṇena sāmarthyam iti kṛtvā dvitīyā bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३४।१४-३६।२१ रो इइइ,९२-९७ आख्यानात् कृतः तत् आचष्टे इति कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् । आख्यानात् कृदन्तात् तत् आचष्टे इति एतस्मिन् अर्थे कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् भवति इति वक्तव्यम् । कंसवधम् आचष्टे कंसम् घातयति । बलिबन्धम् आचष्टे बलिम् बन्धयति । आख्यानात् च प्रतिषेधः । आख्यानशब्दात् च प्रतिषेधः वक्तव्यः । आख्यानम् आचष्टे । किम् पुनः यानि एतानि सञ्ज्ञाभूतानि आख्यानानि ततः उत्पत्त्या भवितव्यम् आहोस्वित् क्रियान्वाख्यानमात्रात् । किम् च अतः । यदि सञ्ज्ञाभूतेभ्यः इह न प्राप्नोति । राजागमनम् आचष्टे ऋअजानम् आगमयति । अथ क्रियान्वाख्यानमात्रात् न दोषः भवति । यथा न दोषः तथा अस्तु । दृश्यर्थानाम् च प्रवृत्तौ । दृश्यर्थानाम् च प्रवृत्तौ कृदन्तात् णिच् वक्तयः तत् आचष्टे इति एतस्मिन् अर्थे कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् भवति इति । मृगरमणम् आचष्टे मृगान् रमयति इति । दृश्यर्थानाम् इति किमर्थम् । यदा हि ग्रामे मृगरमणम् आचष्टे मृगरमणम् आचष्टे इति एव तदा भवति इति । आङ्लोपः च कालात्यन्तसंयोगे मर्यादायाम् । कालात्यन्तसंयोगे मर्यादयाम् कृदन्तात् णिच् वक्तयः तत् आचष्टे इति एतस्मिन् अर्थे आङ्लोपः च कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् भवति इति । आरात्रिम्विवासम् आचष्टे रात्रिम् विवासयति इति । चित्रीकरणे प्रापि । चित्रीकरणे प्राप्यर्थे कृदन्तात् णिच् वक्तयः कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् भवति इति । उज्जयिन्याः प्रस्थितः माहिष्मत्याम् सुर्योद्गमनम् सम्भावयते सूर्यम् उद्गमयति । नक्षत्रयोगे ज्ञि । नक्षत्रयोगे जानात्यर्थे कृदन्तात् णिच् वक्तयः कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् भवति इति । पुष्ययोगम् जानाति पुष्येण योजयति । मघाभिः योजयति । तत् तर्हि बहु वक्तव्यम् । न वा सामान्यकृतत्वात् हेतुतः हि अविशिष्टम् । न वा वक्तव्यम् । किम् कारणम् । सामान्यकृतत्वात् । सामान्येन एव अत्र णिच् भविष्यति । हेतुमति इति । किम् कारणम् । हेतुतः हि अविशिष्टम् । हेतुतः हि अविशिष्टम् भवति । तुल्या हि हेतुता देवदत्ते च आदित्ये च । न सिध्यति । स्वतन्त्रप्रयोजकः हेतुसञ्ज्ञः भवति इति उच्यते । न च असौ आदित्यम् प्रयोजयति । स्वतन्त्रप्रयोजकत्वात् अप्रयोजकः इति चेत् मुक्तसंशयेन तुल्यम् । यम् भवान् स्वत्रन्त्रप्रयोजकम् मुक्तसंशयम् न्याय्यम् मन्यते पाचयति ओदनम् देवदत्तः यज्ञदत्तेन इति तेन एतत् तुल्यम् । कथम् । प्रवृत्तिः हि उभयत्र अनपेक्ष्य । प्रवृत्तिः हि उभयत्र अनपेक्ष्य एव किम् चित् भवति देवदत्ते च आदित्ये च । न इह कः चित् परः अनुग्रहीतव्यः इति प्रवर्तते । सर्वे इमे स्वभूत्यर्थम् प्रवर्तन्ते । ये तावत् एते गुरुशुश्रूषवः ते अपि स्वभूत्यर्थम् एव प्रवर्तन्ते पारलौकिकम् च नः भविष्यति इह च नः प्रीतः गुरुः अध्यापयिष्यति इति । तथा यत् एतत् दासकर्मकरम् नाम एते अपि स्वभूत्यर्थम् एव प्रवर्तन्तेभक्तम् चेलम् च लप्स्यामहे परिभाषाः च न नः भविष्यन्ति इति । तथा ये एते शिल्पिनः नामे ते अपि स्वभूत्यर्थम् एव प्रवर्तन्ते वेतनम् च लप्स्यामहे मित्राणि च नः भविष्यन्ति इति । एवम् एतेषु सर्वेषु स्वभूत्यर्थम् प्रवर्तमानेषु कुर्वतः प्रयोजकः इति चेत् तुल्यम् । यदि कः चित् कुर्वतः प्रयोजकः नाम भवति तेन एतत् तुल्यम् । यदि तर्हि सर्वे इमे स्वभूत्यर्थम् प्रवर्तन्तेकः प्रयोज्यार्थः । यत् अभिप्रायेषु सज्जन्ते । ईदृशौ वध्रौ कुरु । ईदृशौ पटुकौ कुरु । आदित्यः च अस्य अभिप्राये सज्जते । एषः तस्य अभिप्रायः । उज्जयिन्याः प्रस्थितः माहिष्मत्याम् सुर्योद्गमनम् सम्भावयेय इति । तम् च अस्य अभिप्रायम् आदित्यः निर्वर्तयति । भवेत् इह वर्तमानकालता युक्ता । उज्जयिन्याः प्रस्थितः माहिष्मत्याम् सुर्योद्गमनम् सम्भावयते सूर्यम् उद्गमयति इति । तत्रस्थस्य हि तस्य आदित्यः उदेति । इह तु कथम् वर्तमानकालताम् कंसम् घातयति बलिम् बन्धयति इति चिरहते कंसे चिरबद्धे च बलौ । अत्र अपि युक्ता । कथम् । ये तावत् एते शोभिकाः नाम एते प्रत्यक्षम् कंसम् घातयन्ति प्रत्यक्षम् च बलिम् बन्धयन्ति इति । चित्रेषु कथम् । चित्रेषु अपि उद्गूर्णाः निपतिताः च प्रहाराः दृश्यन्ते कंसकर्षण्यः च । ग्रन्थिकेषु कथम् यत्र शब्दगडुमात्रम् लक्ष्यते । ते अपि हि तेषाम् उत्पत्तिप्रभृति आ विनाशात् ऋद्धीः व्याचक्षाणाः सतः बुद्धिविषयान्

KA II,34.14-36.21 Ro III,92-97 ākhyānāt kṛtaḥ tat ācaṣṭe iti kṛlluk prakṛtipratyāpattiḥ prakṛtivat ca kārakam . ākhyānāt kṛdantāt tat ācaṣṭe iti etasmin arthe kṛlluk prakṛtipratyāpattiḥ prakṛtivat ca kārakam bhavati iti vaktavyam . kaṃsavadham ācaṣṭe kaṃsam ghātayati . balibandham ācaṣṭe balim bandhayati . ākhyānāt ca pratiṣedhaḥ . ākhyānaśabdāt ca pratiṣedhaḥ vaktavyaḥ . ākhyānam ācaṣṭe . kim punaḥ yāni etāni sañjñābhūtāni ākhyānāni tataḥ utpattyā bhavitavyam āhosvit kriyānvākhyānamātrāt . kim ca ataḥ . yadi sañjñābhūtebhyaḥ iha na prāpnoti . rājāgamanam ācaṣṭe ṛajānam āgamayati . atha kriyānvākhyānamātrāt na doṣaḥ bhavati . yathā na doṣaḥ tathā astu . dṛśyarthānām ca pravṛttau . dṛśyarthānām ca pravṛttau kṛdantāt ṇic vaktayaḥ tat ācaṣṭe iti etasmin arthe kṛlluk prakṛtipratyāpattiḥ prakṛtivat ca kārakam bhavati iti . mṛgaramaṇam ācaṣṭe mṛgān ramayati iti . dṛśyarthānām iti kimartham . yadā hi grāme mṛgaramaṇam ācaṣṭe mṛgaramaṇam ācaṣṭe iti eva tadā bhavati iti . āṅlopaḥ ca kālātyantasaṃyoge maryādāyām . kālātyantasaṃyoge maryādayām kṛdantāt ṇic vaktayaḥ tat ācaṣṭe iti etasmin arthe āṅlopaḥ ca kṛlluk prakṛtipratyāpattiḥ prakṛtivat ca kārakam bhavati iti . ārātrimvivāsam ācaṣṭe rātrim vivāsayati iti . citrīkaraṇe prāpi . citrīkaraṇe prāpyarthe kṛdantāt ṇic vaktayaḥ kṛlluk prakṛtipratyāpattiḥ prakṛtivat ca kārakam bhavati iti . ujjayinyāḥ prasthitaḥ māhiṣmatyām suryodgamanam sambhāvayate sūryam udgamayati . nakṣatrayoge jñi . nakṣatrayoge jānātyarthe kṛdantāt ṇic vaktayaḥ kṛlluk prakṛtipratyāpattiḥ prakṛtivat ca kārakam bhavati iti . puṣyayogam jānāti puṣyeṇa yojayati . maghābhiḥ yojayati . tat tarhi bahu vaktavyam . na vā sāmānyakṛtatvāt hetutaḥ hi aviśiṣṭam . na vā vaktavyam . kim kāraṇam . sāmānyakṛtatvāt . sāmānyena eva atra ṇic bhaviṣyati . hetumati iti . kim kāraṇam . hetutaḥ hi aviśiṣṭam . hetutaḥ hi aviśiṣṭam bhavati . tulyā hi hetutā devadatte ca āditye ca . na sidhyati . svatantraprayojakaḥ hetusañjñaḥ bhavati iti ucyate . na ca asau ādityam prayojayati . svatantraprayojakatvāt aprayojakaḥ iti cet muktasaṃśayena tulyam . yam bhavān svatrantraprayojakam muktasaṃśayam nyāyyam manyate pācayati odanam devadattaḥ yajñadattena iti tena etat tulyam . katham . pravṛttiḥ hi ubhayatra anapekṣya . pravṛttiḥ hi ubhayatra anapekṣya eva kim cit bhavati devadatte ca āditye ca . na iha kaḥ cit paraḥ anugrahītavyaḥ iti pravartate . sarve ime svabhūtyartham pravartante . ye tāvat ete guruśuśrūṣavaḥ te api svabhūtyartham eva pravartante pāralaukikam ca naḥ bhaviṣyati iha ca naḥ prītaḥ guruḥ adhyāpayiṣyati iti . tathā yat etat dāsakarmakaram nāma ete api svabhūtyartham eva pravartantebhaktam celam ca lapsyāmahe paribhāṣāḥ ca na naḥ bhaviṣyanti iti . tathā ye ete śilpinaḥ nāme te api svabhūtyartham eva pravartante vetanam ca lapsyāmahe mitrāṇi ca naḥ bhaviṣyanti iti . evam eteṣu sarveṣu svabhūtyartham pravartamāneṣu kurvataḥ prayojakaḥ iti cet tulyam . yadi kaḥ cit kurvataḥ prayojakaḥ nāma bhavati tena etat tulyam . yadi tarhi sarve ime svabhūtyartham pravartantekaḥ prayojyārthaḥ . yat abhiprāyeṣu sajjante . īdṛśau vadhrau kuru . īdṛśau paṭukau kuru . ādityaḥ ca asya abhiprāye sajjate . eṣaḥ tasya abhiprāyaḥ . ujjayinyāḥ prasthitaḥ māhiṣmatyām suryodgamanam sambhāvayeya iti . tam ca asya abhiprāyam ādityaḥ nirvartayati . bhavet iha vartamānakālatā yuktā . ujjayinyāḥ prasthitaḥ māhiṣmatyām suryodgamanam sambhāvayate sūryam udgamayati iti . tatrasthasya hi tasya ādityaḥ udeti . iha tu katham vartamānakālatām kaṃsam ghātayati balim bandhayati iti cirahate kaṃse cirabaddhe ca balau . atra api yuktā . katham . ye tāvat ete śobhikāḥ nāma ete pratyakṣam kaṃsam ghātayanti pratyakṣam ca balim bandhayanti iti . citreṣu katham . citreṣu api udgūrṇāḥ nipatitāḥ ca prahārāḥ dṛśyante kaṃsakarṣaṇyaḥ ca . granthikeṣu katham yatra śabdagaḍumātram lakṣyate . te api hi teṣām utpattiprabhṛti ā vināśāt ṛddhīḥ vyācakṣāṇāḥ sataḥ buddhiviṣayān

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३७।२-३८।११ रो इइइ,९७-१०१ किमर्थः ककारः । क्ङिति इति गुणप्रतिषेधः यथा स्यात् । न एतत् अस्ति प्रयोजनम् । सार्वधातुकार्धधातुकयोः अङ्गस्य गुणः उच्यते । धातोः च विहितः प्रत्ययः शेषः आर्धधातुकसञ्ज्ञाम् लभते । न च अयम् धातोः विधीयते । कण्ड्वादीनि हि प्रातिपदिकानि । कण्ड्वादिभ्यः वावचनम् । कण्ड्वादिभ्यः वा इति वक्तव्यम् । अवचने हि नित्यप्रत्ययत्वम् । अक्रियमाणे हि वावचने नित्यः प्रत्ययविधिः प्रसज्येत । तत्र कः दोषः । तत्र धातुविधितुक्प्रतिषेधः । तत्र धातुविधेः तुकः च प्रतिषेधः वक्तव्यः स्यात् । कण्ड्वौ कण्ड्वः । अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ इति उवङदेशः प्रसज्येत । इह च कण्ड्वा कण्ड्वे न ऊङ्धात्वोः इति प्रतिषेधः प्रसज्येत । तुक् च प्रतिषेध्यः । वल्गुः मन्तुः इति । ह्रस्वस्य पिति कृति तुक् प्राप्नोति । ह्रस्वयलोपौ च वक्तव्यौ । ह्रस्वयलोपौ च वक्तव्यौ स्याताम् । वल्गुः मन्तुः इति । किमर्थम् इदम् न ह्रस्वः एव अयम् । अन्तरङ्गत्वात् अकृद्यकारे इति दीर्घत्वम् प्राप्नोति । यलोपः । यलोपः च वक्तव्यः । कण्डूः वल्गुः मन्तुः इति । किमर्थम् इदम् न वलि इति एव सिद्धम् । वलि इति उच्यते । न च अत्र वलिम् पश्यामः । ननु चल् क्विप् वलादिः । क्विब्लोपे कृते वलाद्यभावात् न प्राप्नोति । इदम् इह सम्प्रधार्यम् । क्विब्लोपः क्रियताम् वलि लोपः इति । किम् अत्र कर्तव्यम् । परत्वात् क्विब्लोपः । नित्यः खलु अपि क्विब्लोपः । कृते अपि यलोपे प्राप्नोति अकृते अपि प्राप्नोति । नित्यत्वात् परत्वात् च क्विलोपे कृते वलाद्यभावात् न प्राप्नोति । एवम् तर्हि प्रत्ययलक्षणेन भविष्यति । वर्णाश्रये न अस्ति प्रत्ययलक्षणम् । अथ क्रियमाणे अपि वावचने यदा यगन्तात् क्विप् तदा एते दोषाः कस्मात् न भवन्ति । न एतेभ्यः तदा क्विप् द्रक्ष्यते । किम् कारणम् । अन्येभ्यः अपि दृश्यते इति उच्यते । न च एतेभ्यः तदा क्विप् दृश्यते । यथा एव तर्हि क्रियमाणे वावचने अन्येभ्यः अपि दृश्यते इति एवम् अत्र क्विप् न भवति एवम् अक्रियमाणे अपि न भविष्यति । अवश्यम् एतेभ्यः तदा क्विप् एषितव्यः । किम् प्रयोजनम् । एतानि रूपाणि यथा स्युः इति । तत् तर्हि वावचनम् कर्तव्यम् । न कर्तव्यम् । उभयम् कण्ड्वादीनि धातवः च प्रातिपदिकानि च । आतः च उभयम् । कण्डूयति इति क्रियाम् कुर्वाणे प्रयुज्यते अस्ति मे कण्डूः इति वेदनामात्रस्य सान्निध्ये । अपरः आह : धातुप्रकरणात् धातुः कस्य आसञ्जनात् अपि । आह च अयम् इमम् दीर्घम् । मन्ये धातुः विभाषितः ।

KA II,37.2-38.11 Ro III,97-101 kimarthaḥ kakāraḥ . kṅiti iti guṇapratiṣedhaḥ yathā syāt . na etat asti prayojanam . sārvadhātukārdhadhātukayoḥ aṅgasya guṇaḥ ucyate . dhātoḥ ca vihitaḥ pratyayaḥ śeṣaḥ ārdhadhātukasañjñām labhate . na ca ayam dhātoḥ vidhīyate . kaṇḍvādīni hi prātipadikāni . kaṇḍvādibhyaḥ vāvacanam . kaṇḍvādibhyaḥ vā iti vaktavyam . avacane hi nityapratyayatvam . akriyamāṇe hi vāvacane nityaḥ pratyayavidhiḥ prasajyeta . tatra kaḥ doṣaḥ . tatra dhātuvidhitukpratiṣedhaḥ . tatra dhātuvidheḥ tukaḥ ca pratiṣedhaḥ vaktavyaḥ syāt . kaṇḍvau kaṇḍvaḥ . aci śnudhātubhruvām yvoḥ iyaṅuvaṅau iti uvaṅadeśaḥ prasajyeta . iha ca kaṇḍvā kaṇḍve na ūṅdhātvoḥ iti pratiṣedhaḥ prasajyeta . tuk ca pratiṣedhyaḥ . valguḥ mantuḥ iti . hrasvasya piti kṛti tuk prāpnoti . hrasvayalopau ca vaktavyau . hrasvayalopau ca vaktavyau syātām . valguḥ mantuḥ iti . kimartham idam na hrasvaḥ eva ayam . antaraṅgatvāt akṛdyakāre iti dīrghatvam prāpnoti . yalopaḥ . yalopaḥ ca vaktavyaḥ . kaṇḍūḥ valguḥ mantuḥ iti . kimartham idam na vali iti eva siddham . vali iti ucyate . na ca atra valim paśyāmaḥ . nanu cal kvip valādiḥ . kviblope kṛte valādyabhāvāt na prāpnoti . idam iha sampradhāryam . kviblopaḥ kriyatām vali lopaḥ iti . kim atra kartavyam . paratvāt kviblopaḥ . nityaḥ khalu api kviblopaḥ . kṛte api yalope prāpnoti akṛte api prāpnoti . nityatvāt paratvāt ca kvilope kṛte valādyabhāvāt na prāpnoti . evam tarhi pratyayalakṣaṇena bhaviṣyati . varṇāśraye na asti pratyayalakṣaṇam . atha kriyamāṇe api vāvacane yadā yagantāt kvip tadā ete doṣāḥ kasmāt na bhavanti . na etebhyaḥ tadā kvip drakṣyate . kim kāraṇam . anyebhyaḥ api dṛśyate iti ucyate . na ca etebhyaḥ tadā kvip dṛśyate . yathā eva tarhi kriyamāṇe vāvacane anyebhyaḥ api dṛśyate iti evam atra kvip na bhavati evam akriyamāṇe api na bhaviṣyati . avaśyam etebhyaḥ tadā kvip eṣitavyaḥ . kim prayojanam . etāni rūpāṇi yathā syuḥ iti . tat tarhi vāvacanam kartavyam . na kartavyam . ubhayam kaṇḍvādīni dhātavaḥ ca prātipadikāni ca . ātaḥ ca ubhayam . kaṇḍūyati iti kriyām kurvāṇe prayujyate asti me kaṇḍūḥ iti vedanāmātrasya sānnidhye . aparaḥ āha : dhātuprakaraṇāt dhātuḥ kasya āsañjanāt api . āha ca ayam imam dīrgham . manye dhātuḥ vibhāṣitaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३८।१३-४०।२ रो इइइ,१०१-१०४ किमर्थः अयम् णकारः । वृद्ध्यर्थः । ञ्णिति इति वृद्धिः यथा स्यात् । क्रियमाणे अपि वै णकारे वृद्धिः न प्राप्नोति । किम् कारणम् । क्ङिति च इति प्रतिषेधात् । णित्करणसामर्थ्यात् भविष्यति । अतः उत्तरम् पठति । णिङि णित्करणस्य सावकाशत्वात् वृद्धिप्रतिषेधप्रसङ्गः । णिङि णित्करणम् सावकाशम् । कः अवकाशः । सामान्यग्रहणार्थः णकारः । क्व सामान्यग्रहणार्थेन अर्थः । णेः अनिटि इति । णिङि णित्करणस्य सावकाशत्वात् वृद्धिप्रतिषेधः प्राप्नोति । ङित्करणम् अपि तर्हि सावकाशम् । कः अवकाशः । सामान्यग्रहणाविघातार्थः ङकारः । क्व सामान्यग्रहणाविघातार्थेन अर्थः । अत्र एव । शक्यः अत्र सामान्यग्रहणाविघातार्थः अन्यः अनुबन्धः आसङ्क्तुम् । तत्र ङकारानुरोधात् वृद्धिप्रतिषेधः प्राप्नोति । अवशयम् अत्र आत्मनेपदार्थः ङकारः अनुबन्धः आसङ्क्तव्यः ङितः इति आत्मनेपदम् यथा स्यात् । एवम् उभयोः सावकशयोः प्रतिषेधबलीयस्त्वात् प्रतिषेधः प्राप्नोति । एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न कमेः वृद्धिप्रतिषेधः भवति इति यत् अयम् न कम्यमिचमाम् इति मित्सञ्ज्ञाया प्रतिषेधम् शास्ति । मित्प्रतिषेधस्य च अर्थवत्त्वात् । मित्प्रतिषेधस्य च अर्थवत्त्वात् प्रतिषेधः प्राप्नोति । अर्थवान् मित्प्रतिषेधः । कः अर्थः । णिङन्तस्य णिचि या वृद्धिः तस्याः ह्रस्वत्वम् मा भूत् इति । ननु एतस्याः अपि क्ङिति च इति प्रतिषेधेन भवितव्यम् । न भवितव्यम् । उक्तम् एतत् क्ङिति प्रतिषेधे तन्निमित्तग्रहणम् इति । एवम् तर्हि न णिङन्तस्य णिचि या वृद्धिः तस्याः ह्रस्वत्वम् प्राप्नोति । किम् कारणम् । णिङा व्यवहितत्वात् । लोपे कृते न अस्ति व्यवधानम् । स्थानिवद्भावात् व्यवधानम् एव । णिङि एव तर्हि मा भूत् इति । णिङि च न प्राप्नोति । किम् कारणम् । असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति । न एव वा पुनः णिङन्तस्य णिचि वृद्धिः प्राप्नोति । किम् कारणम् । णिङा व्यवहितत्वात् । लोपे कृते न अस्ति व्यवधानम् । स्थानिवद्भावात् व्यवधानम् एव । इदम् तर्हि प्रयोजनम् । यत् तत् चिण्णमुलोः दीर्घः अन्यतरस्याम् इति दीर्घत्वम् तत् कमेः णिङि मा भूत् इति । किम् पुनः कारणम् तत्र दीर्घः अन्यतरस्याम् इति उच्यते । न ह्रस्वः अन्यतरस्याम् इति एव उच्येत । यथाप्राप्तम् च अपि कमेः ह्रस्वत्वम् एव । तत्र अयम् अपि अर्थः । ह्रस्वग्रहणम् न कर्तव्यम् भवति । प्रकृतम् अनुवर्तते । क्व प्रकृतम् । मिताम् ह्रस्वः इति । का रूपसिद्धिः : अशमि अशामि शमम् शमम् शामम् शामम् । वृद्ध्या सिद्धम् । न सिध्यति । न सिध्यति । न उदात्तोपदेशस्य मान्तस्य अनाचमेः इति वृद्धिप्रतिषेधः प्राप्नोति । चिण्कृतोः सः प्रतिषेधः न णिचि । इदम् तर्हि । अजनि अजानि जनम् जनम् जानम् जानम् । जनिवध्योः च इति वृद्धिप्रतिषेधः प्राप्नोति । सः अपि चिण्कृतोः एव । णिज्व्यवहितेषु तर्हि यङ्लोपे च उपसङ्ख्यानम् कर्तव्यम् स्यात् । शमयन्तम् प्रयोजितवान् अशमि अशामि शमम् शमम् शामम् शामम् । शंशमयतेः अशंसमि अशंशामि शंशमम् शंशमम् शंशामम् शंशामम् । किम् पुनः कारणम् न सिध्यति । चिण्णमुल्परे णौ मिताम् अङ्गानाम् ह्रस्वः भवति इति उच्यते । यः च अत्र णिः चिण्णमुल्परः न तस्मिन् मित् अङ्गम् यस्मिन् च मित् अङ्गम् न असौ णिः णमुल्परः । णिलोपे कृते चिण्णमुल्परः । स्थानिवद्भावात् न चिण्णमुल्परः । अथ दीर्घः अन्यतरस्याम् इति उच्यमाने यावता स्थानिवद्भावः कथम् एव एतत् सिध्यति । एतत् इदानीम् दीर्घग्रहणस्य प्रयोजनम् । दीर्घविधिम् प्रति अजादेशः न स्थानिवत् इति स्थानिवद्भावप्रतिषेधः सिद्धः भवति । यदा खलु अपि आयादयः आर्धधातुके वा भवन्ति तदा णिचि णिङ् न भवति । तदर्थम् च मित्प्रतिषेधः स्यात् । तस्मात् प्रतिषेधः प्राप्नोति । उक्तम् वा । किम् उक्तम् । तद्धितकाम्योः इक्प्रकरणात् इति ।

KA II,38.13-40.2 Ro III,101-104 kimarthaḥ ayam ṇakāraḥ . vṛddhyarthaḥ . ñṇiti iti vṛddhiḥ yathā syāt . kriyamāṇe api vai ṇakāre vṛddhiḥ na prāpnoti . kim kāraṇam . kṅiti ca iti pratiṣedhāt . ṇitkaraṇasāmarthyāt bhaviṣyati . ataḥ uttaram paṭhati . ṇiṅi ṇitkaraṇasya sāvakāśatvāt vṛddhipratiṣedhaprasaṅgaḥ . ṇiṅi ṇitkaraṇam sāvakāśam . kaḥ avakāśaḥ . sāmānyagrahaṇārthaḥ ṇakāraḥ . kva sāmānyagrahaṇārthena arthaḥ . ṇeḥ aniṭi iti . ṇiṅi ṇitkaraṇasya sāvakāśatvāt vṛddhipratiṣedhaḥ prāpnoti . ṅitkaraṇam api tarhi sāvakāśam . kaḥ avakāśaḥ . sāmānyagrahaṇāvighātārthaḥ ṅakāraḥ . kva sāmānyagrahaṇāvighātārthena arthaḥ . atra eva . śakyaḥ atra sāmānyagrahaṇāvighātārthaḥ anyaḥ anubandhaḥ āsaṅktum . tatra ṅakārānurodhāt vṛddhipratiṣedhaḥ prāpnoti . avaśayam atra ātmanepadārthaḥ ṅakāraḥ anubandhaḥ āsaṅktavyaḥ ṅitaḥ iti ātmanepadam yathā syāt . evam ubhayoḥ sāvakaśayoḥ pratiṣedhabalīyastvāt pratiṣedhaḥ prāpnoti . evam tarhi ācāryapravṛttiḥ jñāpayati na kameḥ vṛddhipratiṣedhaḥ bhavati iti yat ayam na kamyamicamām iti mitsañjñāyā pratiṣedham śāsti . mitpratiṣedhasya ca arthavattvāt . mitpratiṣedhasya ca arthavattvāt pratiṣedhaḥ prāpnoti . arthavān mitpratiṣedhaḥ . kaḥ arthaḥ . ṇiṅantasya ṇici yā vṛddhiḥ tasyāḥ hrasvatvam mā bhūt iti . nanu etasyāḥ api kṅiti ca iti pratiṣedhena bhavitavyam . na bhavitavyam . uktam etat kṅiti pratiṣedhe tannimittagrahaṇam iti . evam tarhi na ṇiṅantasya ṇici yā vṛddhiḥ tasyāḥ hrasvatvam prāpnoti . kim kāraṇam . ṇiṅā vyavahitatvāt . lope kṛte na asti vyavadhānam . sthānivadbhāvāt vyavadhānam eva . ṇiṅi eva tarhi mā bhūt iti . ṇiṅi ca na prāpnoti . kim kāraṇam . asiddham bahiraṅgalakṣaṇam antaraṅgalakṣaṇe iti . na eva vā punaḥ ṇiṅantasya ṇici vṛddhiḥ prāpnoti . kim kāraṇam . ṇiṅā vyavahitatvāt . lope kṛte na asti vyavadhānam . sthānivadbhāvāt vyavadhānam eva . idam tarhi prayojanam . yat tat ciṇṇamuloḥ dīrghaḥ anyatarasyām iti dīrghatvam tat kameḥ ṇiṅi mā bhūt iti . kim punaḥ kāraṇam tatra dīrghaḥ anyatarasyām iti ucyate . na hrasvaḥ anyatarasyām iti eva ucyeta . yathāprāptam ca api kameḥ hrasvatvam eva . tatra ayam api arthaḥ . hrasvagrahaṇam na kartavyam bhavati . prakṛtam anuvartate . kva prakṛtam . mitām hrasvaḥ iti . kā rūpasiddhiḥ : aśami aśāmi śamam śamam śāmam śāmam . vṛddhyā siddham . na sidhyati . na sidhyati . na udāttopadeśasya māntasya anācameḥ iti vṛddhipratiṣedhaḥ prāpnoti . ciṇkṛtoḥ saḥ pratiṣedhaḥ na ṇici . idam tarhi . ajani ajāni janam janam jānam jānam . janivadhyoḥ ca iti vṛddhipratiṣedhaḥ prāpnoti . saḥ api ciṇkṛtoḥ eva . ṇijvyavahiteṣu tarhi yaṅlope ca upasaṅkhyānam kartavyam syāt . śamayantam prayojitavān aśami aśāmi śamam śamam śāmam śāmam . śaṃśamayateḥ aśaṃsami aśaṃśāmi śaṃśamam śaṃśamam śaṃśāmam śaṃśāmam . kim punaḥ kāraṇam na sidhyati . ciṇṇamulpare ṇau mitām aṅgānām hrasvaḥ bhavati iti ucyate . yaḥ ca atra ṇiḥ ciṇṇamulparaḥ na tasmin mit aṅgam yasmin ca mit aṅgam na asau ṇiḥ ṇamulparaḥ . ṇilope kṛte ciṇṇamulparaḥ . sthānivadbhāvāt na ciṇṇamulparaḥ . atha dīrghaḥ anyatarasyām iti ucyamāne yāvatā sthānivadbhāvaḥ katham eva etat sidhyati . etat idānīm dīrghagrahaṇasya prayojanam . dīrghavidhim prati ajādeśaḥ na sthānivat iti sthānivadbhāvapratiṣedhaḥ siddhaḥ bhavati . yadā khalu api āyādayaḥ ārdhadhātuke vā bhavanti tadā ṇici ṇiṅ na bhavati . tadartham ca mitpratiṣedhaḥ syāt . tasmāt pratiṣedhaḥ prāpnoti . uktam vā . kim uktam . taddhitakāmyoḥ ikprakaraṇāt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,४०।४-४१।१९ रो इइइ,१०४-१०७ कथम् इदम् विज्ञायते । आयादिभ्यः यत् आर्धधातुकम् तस्मिन् अवस्थिते वा आयादीनाम् निवृत्तिः भवति । आहोस्वित् आयादिप्रकृतेः यत् आर्धधातुकम् तस्मिन् अवस्थिते वा आयादीनाम् उत्पत्तिः भवति इति । किम् गतम् एतत् इयता सूत्रेणा आहोस्वित् अन्यतरस्मिन् पक्षे भूयः सूत्रम् कर्तव्यम् । गतम् इति आह । कथम् । यदा तावत् आयादिभ्यः यत् आर्धधातुकम् तस्मिन् अवस्थिते वा आयादीनाम् निवृत्तिः भवति इति तदा अविशेषेण सर्वम् आयादिप्रकरणम् अनुक्रम्य आयादयः आर्धधातुके वा इति उच्यते । यदा अपि आयादिप्रकृतेः यत् आर्धधातुकम् तस्मिन् अवस्थिते वा आयादीनाम् उत्पत्तिः भवति इति तदा एकम् वाक्यम् तत् च इदम् च । गुपूधूपविच्छिपणिपनिभ्यः आयः आर्धधातुके वा । ऋतेः ईयङ् आर्धधातुके वा । कमेः णिङ् आर्धधातुके वा इति । कः च अत्र विशेषः । आयादिभ्यः यत् आर्धधातुकम् आयादिप्रकृतेः यत् आर्धधातुकम् इति च उभयथा अनिष्टप्रसङ्गः । आयादिभ्यः यत् आर्धधातुकम् आयादिप्रकृतेः यत् आर्धधातुकम् इति च उभयथा अनिष्टम् प्राप्नोति । यदि विज्ञायते आयादिभ्यः यत् आर्धधातुकम् तस्मिन् अवस्थिते वा आयादीनाम् निवृत्तिः भवति इति गुप्तिः जुगोप इति च इष्टम् न सिध्यति इदम् च अनिष्टम् प्राप्नोति । गोपाम् चकार गोपा इति च । इदम् तावत् इष्टम् सिद्धम् भवति । गोपायाम् चकार गोपाय इति । अथ विज्ञायते आयादिप्रकृतेः यत् आर्धधातुकम् तस्मिन् अवस्थिते वा आयादीनाम् उत्पत्तिः भवति इति गुप्तिः जुगोप इति च इष्टम् सिद्धम् भवति । इदम् च अनिष्टम् न प्राप्नोति । गोपायाम् चकार गोपाय इति । इदम् तु इष्टम् न सिध्यति । गोपयाम् चकार गोपाय इति । इदम् तावत् इष्टम् सिध्यति । गोपयाम् चकार इति । कथम् । अस्तु अत्र आयादिप्रकृतेः यत् आर्धधातुकम् लिट् । तस्मिन् अवस्थिते वा आयादयः । आम् मध्ये पतिष्यति यथा विकरणाः तद्वत् । इदम् तर्हि इष्टम् न सिध्यति गोपाया इति । सिद्धम् तु सार्वधातुके नित्यवचनात् अनाश्रित्य वाविधानम् । सिद्धम् एतत् । कथम्। अविशेषेण आयादीनाम् वाविधानम् उक्त्वा सार्वधातुके नित्यम् इति वक्ष्यामि । स्यादिबलीयस्त्वम् तु विप्रतिषेधेन तुल्यनिमित्तत्वात् । स्यादिभिः तु आयादीनाम् बाधनम् प्राप्नोति विप्रतिषेधेन । किम् कारणम् । तुल्यनिमित्तत्वात् । तुल्यम् निमित्तम् स्यादीनाम् आयादीनाम् च । स्यादीनाम् अवकाशः करिष्यति हरिष्यति । आयादीनाम् अवकाशः गोपायति धूपायति । इह उभयम् प्राप्नोति । गोपायिष्यति धूपायिष्यति इति । परत्वात् स्यादयः प्राप्नुवन्ति । न वा आयादिविधानस्य अनवकाशत्वात् । न वा एषः दोषः । किम् कारणम् । आयादिविधानस्य अनवकाशत्वात् । अनवकाशाः आयादयः उच्यन्ते च । ते वचनात् भविष्यन्ति । ननु च इदानीम् एव अवकाशः प्रकॢप्तः गोपायति धूपायति इति । अत्र अपि शप् स्यादिः भवति । यदि अपि अत्र अपि भवति न तु अत्र अस्ति विशेषः सति वा शपि असति वा । अन्यत् इदानीम् एतत् उच्यते न अस्ति विशेषः इति । यत् तु तत् उक्तम् आयादीनाम् स्यादिभिः अव्याप्तः अवकाशः इत् स न अस्ति अवकाशः । अवश्यम् खलु अपि अत्र शप् स्यादिः एषितव्यः । किम् कारणम् । गोपायन्ती धूपायन्ती इति : शप्श्यनोः नित्यम् इति नुम् यथा स्यात् इति । यदि तर्हि अनवकाशाः आयादयः आयादिभिः स्यादीनाम् बाधनम् प्राप्नोति । यथा पुनः अयम् सूत्रेभेदेन परिहारः यदि पुनः शपि नित्यम् इति उच्येत । सिध्यति । सूत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् आयादिभ्यः यत् आर्धधातुकम् आयादिप्रकृतेः यत् आर्धधातुकम् इति च उभयथा अनिष्टप्रसङ्गः इति । न एषः दोषः । आर्धधातुके इति न एषा परसप्तमी । का तर्हि । विषयसप्तमी । आर्धधातुकविषये इति । तत्र आर्धधातुकविषये आयादिप्रकृतेः आयादिषु कृतेषु यः यतः प्रत्ययः प्राप्नोति सः ततः भविष्यति ।

KA II,40.4-41.19 Ro III,104-107 katham idam vijñāyate . āyādibhyaḥ yat ārdhadhātukam tasmin avasthite vā āyādīnām nivṛttiḥ bhavati . āhosvit āyādiprakṛteḥ yat ārdhadhātukam tasmin avasthite vā āyādīnām utpattiḥ bhavati iti . kim gatam etat iyatā sūtreṇā āhosvit anyatarasmin pakṣe bhūyaḥ sūtram kartavyam . gatam iti āha . katham . yadā tāvat āyādibhyaḥ yat ārdhadhātukam tasmin avasthite vā āyādīnām nivṛttiḥ bhavati iti tadā aviśeṣeṇa sarvam āyādiprakaraṇam anukramya āyādayaḥ ārdhadhātuke vā iti ucyate . yadā api āyādiprakṛteḥ yat ārdhadhātukam tasmin avasthite vā āyādīnām utpattiḥ bhavati iti tadā ekam vākyam tat ca idam ca . gupūdhūpavicchipaṇipanibhyaḥ āyaḥ ārdhadhātuke vā . ṛteḥ īyaṅ ārdhadhātuke vā . kameḥ ṇiṅ ārdhadhātuke vā iti . kaḥ ca atra viśeṣaḥ . āyādibhyaḥ yat ārdhadhātukam āyādiprakṛteḥ yat ārdhadhātukam iti ca ubhayathā aniṣṭaprasaṅgaḥ . āyādibhyaḥ yat ārdhadhātukam āyādiprakṛteḥ yat ārdhadhātukam iti ca ubhayathā aniṣṭam prāpnoti . yadi vijñāyate āyādibhyaḥ yat ārdhadhātukam tasmin avasthite vā āyādīnām nivṛttiḥ bhavati iti guptiḥ jugopa iti ca iṣṭam na sidhyati idam ca aniṣṭam prāpnoti . gopām cakāra gopā iti ca . idam tāvat iṣṭam siddham bhavati . gopāyām cakāra gopāya iti . atha vijñāyate āyādiprakṛteḥ yat ārdhadhātukam tasmin avasthite vā āyādīnām utpattiḥ bhavati iti guptiḥ jugopa iti ca iṣṭam siddham bhavati . idam ca aniṣṭam na prāpnoti . gopāyām cakāra gopāya iti . idam tu iṣṭam na sidhyati . gopayām cakāra gopāya iti . idam tāvat iṣṭam sidhyati . gopayām cakāra iti . katham . astu atra āyādiprakṛteḥ yat ārdhadhātukam liṭ . tasmin avasthite vā āyādayaḥ . ām madhye patiṣyati yathā vikaraṇāḥ tadvat . idam tarhi iṣṭam na sidhyati gopāyā iti . siddham tu sārvadhātuke nityavacanāt anāśritya vāvidhānam . siddham etat . katham. aviśeṣeṇa āyādīnām vāvidhānam uktvā sārvadhātuke nityam iti vakṣyāmi . syādibalīyastvam tu vipratiṣedhena tulyanimittatvāt . syādibhiḥ tu āyādīnām bādhanam prāpnoti vipratiṣedhena . kim kāraṇam . tulyanimittatvāt . tulyam nimittam syādīnām āyādīnām ca . syādīnām avakāśaḥ kariṣyati hariṣyati . āyādīnām avakāśaḥ gopāyati dhūpāyati . iha ubhayam prāpnoti . gopāyiṣyati dhūpāyiṣyati iti . paratvāt syādayaḥ prāpnuvanti . na vā āyādividhānasya anavakāśatvāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . āyādividhānasya anavakāśatvāt . anavakāśāḥ āyādayaḥ ucyante ca . te vacanāt bhaviṣyanti . nanu ca idānīm eva avakāśaḥ prakḷptaḥ gopāyati dhūpāyati iti . atra api śap syādiḥ bhavati . yadi api atra api bhavati na tu atra asti viśeṣaḥ sati vā śapi asati vā . anyat idānīm etat ucyate na asti viśeṣaḥ iti . yat tu tat uktam āyādīnām syādibhiḥ avyāptaḥ avakāśaḥ it sa na asti avakāśaḥ . avaśyam khalu api atra śap syādiḥ eṣitavyaḥ . kim kāraṇam . gopāyantī dhūpāyantī iti : śapśyanoḥ nityam iti num yathā syāt iti . yadi tarhi anavakāśāḥ āyādayaḥ āyādibhiḥ syādīnām bādhanam prāpnoti . yathā punaḥ ayam sūtrebhedena parihāraḥ yadi punaḥ śapi nityam iti ucyeta . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam āyādibhyaḥ yat ārdhadhātukam āyādiprakṛteḥ yat ārdhadhātukam iti ca ubhayathā aniṣṭaprasaṅgaḥ iti . na eṣaḥ doṣaḥ . ārdhadhātuke iti na eṣā parasaptamī . kā tarhi . viṣayasaptamī . ārdhadhātukaviṣaye iti . tatra ārdhadhātukaviṣaye āyādiprakṛteḥ āyādiṣu kṛteṣu yaḥ yataḥ pratyayaḥ prāpnoti saḥ tataḥ bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,४१।२१-४२।१२ रो इइइ,१०७-१०९ अन्तग्रहणम् किमर्थम् न सनादयः धातवः इति एव उच्येत । केन इदानीम् तदन्तानाम् भविष्यति । तदन्तविधिना । अतः उत्तरम् पठति । सनादिषु अन्तग्रहणे उक्तम् । किम् उक्तम् । पदसञ्ज्ञायाम् अन्तग्रहणम् अन्यत्र सञ्ज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधार्थम् इति । इदम् च अपि प्रत्ययग्रहणम् । अयम् च अपि सञ्ज्ञाविधिः । किमर्थम् पुनः इदम् उच्यते न भूवादयः धातवः इति एव सिद्धम् । न सिध्यति । पाठेन धातुसञ्ज्ञा क्रियते न च इमे तत्र पठ्यन्ते । कथम् तर्हि अन्येषाम् अपठ्यमानानाम् धातुसञ्ज्ञा भवति : अस्तेः भूः । ब्रुवः वचिः । चक्षिङः ख्याञ् इति । यदि अपि एते तत्र न पठ्यन्ते प्रकृतयः तु एषाम् तत्र पठ्यन्ते । तत्र स्थानिवद्भावात् सिद्धम् । इमे अपि तर्हि यदि अपि तत्र न पठ्यन्ते येषाम् तु अर्थाः आदिश्यन्ते ते तत्र पठ्यन्ते । तत्र स्थानिवद्भावात् सिद्धम् । न सिध्यति । आदेशः स्थानिवत् भवति इति उच्यते । न च इमे आदेशाः । इमे अपि आदेशाः । कथम् । आदिश्यते यः सः आदेशः । इमे च अपि आदिश्यन्ते । एवम् अपि षष्ठीनिर्दिष्टस्य आदेशाः स्थानिवत् भवन्ति इति उच्यते । न चे इमे षष्ठीनिर्दिष्टस्य आदेशाः । षष्ठीग्रहणम् निवर्तिष्यते । यदि निवर्तते अपवादे उत्सर्गकृतम् प्राप्नोति । कर्मणि अण् आतः अनुपसर्गे कः इति के अपि अण्कृतम् प्राप्नोति । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति न अपवादे उत्सर्गकृतम् भवति इति यत् अयम् श्यनादीन् कान् चित् शितः करोति । श्नम् श्ना श्नुः इति।

KA II,41.21-42.12 Ro III,107-109 antagrahaṇam kimartham na sanādayaḥ dhātavaḥ iti eva ucyeta . kena idānīm tadantānām bhaviṣyati . tadantavidhinā . ataḥ uttaram paṭhati . sanādiṣu antagrahaṇe uktam . kim uktam . padasañjñāyām antagrahaṇam anyatra sañjñāvidhau pratyayagrahaṇe tadantavidhipratiṣedhārtham iti . idam ca api pratyayagrahaṇam . ayam ca api sañjñāvidhiḥ . kimartham punaḥ idam ucyate na bhūvādayaḥ dhātavaḥ iti eva siddham . na sidhyati . pāṭhena dhātusañjñā kriyate na ca ime tatra paṭhyante . katham tarhi anyeṣām apaṭhyamānānām dhātusañjñā bhavati : asteḥ bhūḥ . bruvaḥ vaciḥ . cakṣiṅaḥ khyāñ iti . yadi api ete tatra na paṭhyante prakṛtayaḥ tu eṣām tatra paṭhyante . tatra sthānivadbhāvāt siddham . ime api tarhi yadi api tatra na paṭhyante yeṣām tu arthāḥ ādiśyante te tatra paṭhyante . tatra sthānivadbhāvāt siddham . na sidhyati . ādeśaḥ sthānivat bhavati iti ucyate . na ca ime ādeśāḥ . ime api ādeśāḥ . katham . ādiśyate yaḥ saḥ ādeśaḥ . ime ca api ādiśyante . evam api ṣaṣṭhīnirdiṣṭasya ādeśāḥ sthānivat bhavanti iti ucyate . na ce ime ṣaṣṭhīnirdiṣṭasya ādeśāḥ . ṣaṣṭhīgrahaṇam nivartiṣyate . yadi nivartate apavāde utsargakṛtam prāpnoti . karmaṇi aṇ ātaḥ anupasarge kaḥ iti ke api aṇkṛtam prāpnoti . na eṣaḥ doṣaḥ . ācāryapravṛttiḥ jñāpayati na apavāde utsargakṛtam bhavati iti yat ayam śyanādīn kān cit śitaḥ karoti . śnam śnā śnuḥ iti.

Sanskrit only: no published translation is held for this verse.

क्अ इइ,४२।१४-४३।९ रो इइइ,१०९-१११ इमे विकरणाः पठ्यन्ते । तत्र न ज्ञायते कः उत्सर्गः कः अपवादः इति । तत्र वक्त्यम् : अयम् उत्सर्गः अयम् अपवादः इति । इमे ब्रूमः । यक् उत्सर्गः । अपवादः शब्दादिः स्यादयः च । यदि एवम् अपवादविप्रतिषेधात् शबादिबाधनम् । अपवाद्विप्रतिषेधात् शबादिभिः स्यादीनाम् बाधनम् प्राप्नोति । शबादीनाम् अवकाशः पचति यजति । स्यादीनाम् अवकाशः पक्ष्यते यक्ष्यते । इह उभयम् प्राप्नोति । पक्ष्यति यक्ष्यति । परत्वात् शबादयः प्राप्नुवन्ति । अपवादः नाम अनेकलक्षणप्रसङ्गः । अपवादः नाम भवति यत्र अनेकलक्षणप्रसङ्गः । तत्र भावकर्मणोः यक् विधीयते कर्तरि शप् । कः प्रसङ्गः यत् भावकर्मणोः यकम् कर्तरि शबादयः बाधेरन् । एवम् तर्हि यक्शपौ उत्सर्गौ । अपवादाः श्यनादय स्यादयः च । अपवादविप्रतिषेधात् श्यनादिबाधनम् । अपवाद्विप्रतिषेधात् श्यनादिभिः स्यादीनाम् बाधनम् प्राप्नोति । श्यनादीनाम् अवकाशः दीव्यति सीव्यति । स्यादीनाम् अवकाशः पक्ष्यति यक्ष्यति । इह उभयम् प्राप्नोति । देविष्यति सेविष्यति । परत्वात् श्यनादयः प्राप्नुवन्ति । न एषः दोषः । शबादेशाः श्यनादयः करिष्यन्ते । शप् च स्यादिभिः बाध्यते । तत्र दिवादिभ्यः स्यादिविषये शप् एव न अस्ति कुतः श्यनादयः । तत् तर्हि शपः ग्रहणम् कर्तव्यम् । न कर्तव्यम् । प्रकृतम् अनुवर्तते । क्व प्रकृतम् । कर्तरि शप् इति । तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः । दिवादिभ्यः इति एषा पञ्चमी शप् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति । प्रत्ययविधिः अयम् । न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति । न अयम् प्रत्ययविधिः । विहितः प्रत्ययः । प्रकृतः च अनुवर्तते । अथ वा अनुवृत्तिः करिष्यते । सार्वधातुके यक् स्यतासी लृलुटोः च्लि लुङि च्लेः सिच् भवति । कर्तरि शप् स्यतासी लृलुटोः च्लि लुङि च्लेः सिच् भवति । दिवादिभ्यः श्यन् स्यतासी लृलुटोः च्लि लुङि च्लेः सिच् भवति । अथ वा अन्तरङ्गाः स्यादयः । का अन्तरङ्गता । लावस्थायाम् एव स्यादयः । सार्वधातुके श्यनादयः ।

KA II,42.14-43.9 Ro III,109-111 ime vikaraṇāḥ paṭhyante . tatra na jñāyate kaḥ utsargaḥ kaḥ apavādaḥ iti . tatra vaktyam : ayam utsargaḥ ayam apavādaḥ iti . ime brūmaḥ . yak utsargaḥ . apavādaḥ śabdādiḥ syādayaḥ ca . yadi evam apavādavipratiṣedhāt śabādibādhanam . apavādvipratiṣedhāt śabādibhiḥ syādīnām bādhanam prāpnoti . śabādīnām avakāśaḥ pacati yajati . syādīnām avakāśaḥ pakṣyate yakṣyate . iha ubhayam prāpnoti . pakṣyati yakṣyati . paratvāt śabādayaḥ prāpnuvanti . apavādaḥ nāma anekalakṣaṇaprasaṅgaḥ . apavādaḥ nāma bhavati yatra anekalakṣaṇaprasaṅgaḥ . tatra bhāvakarmaṇoḥ yak vidhīyate kartari śap . kaḥ prasaṅgaḥ yat bhāvakarmaṇoḥ yakam kartari śabādayaḥ bādheran . evam tarhi yakśapau utsargau . apavādāḥ śyanādaya syādayaḥ ca . apavādavipratiṣedhāt śyanādibādhanam . apavādvipratiṣedhāt śyanādibhiḥ syādīnām bādhanam prāpnoti . śyanādīnām avakāśaḥ dīvyati sīvyati . syādīnām avakāśaḥ pakṣyati yakṣyati . iha ubhayam prāpnoti . deviṣyati seviṣyati . paratvāt śyanādayaḥ prāpnuvanti . na eṣaḥ doṣaḥ . śabādeśāḥ śyanādayaḥ kariṣyante . śap ca syādibhiḥ bādhyate . tatra divādibhyaḥ syādiviṣaye śap eva na asti kutaḥ śyanādayaḥ . tat tarhi śapaḥ grahaṇam kartavyam . na kartavyam . prakṛtam anuvartate . kva prakṛtam . kartari śap iti . tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . divādibhyaḥ iti eṣā pañcamī śap iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti . pratyayavidhiḥ ayam . na ca pratyayavidhau pañcamyaḥ prakalpikāḥ bhavanti . na ayam pratyayavidhiḥ . vihitaḥ pratyayaḥ . prakṛtaḥ ca anuvartate . atha vā anuvṛttiḥ kariṣyate . sārvadhātuke yak syatāsī lṛluṭoḥ cli luṅi cleḥ sic bhavati . kartari śap syatāsī lṛluṭoḥ cli luṅi cleḥ sic bhavati . divādibhyaḥ śyan syatāsī lṛluṭoḥ cli luṅi cleḥ sic bhavati . atha vā antaraṅgāḥ syādayaḥ . kā antaraṅgatā . lāvasthāyām eva syādayaḥ . sārvadhātuke śyanādayaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,४३।११९-४४।९ रो इइइ,१११-११२ सिप् उत्सर्गः छन्दसि । सिप् उत्सर्गः छन्दसि कर्तव्यः । सनाद्यन्ते नेषत्वाद्यर्थः । सनाद्यन्ते च कर्तव्यः । किम् प्रजोजनम् । नेषत्वाद्यर्थः । इन्द्रः नः तेन नेषतु । गा वः नेष्टात् । प्रकृत्यन्तरत्वात् सिद्धम् । प्रकृत्यन्तरत्वात् सिद्धम् एतत् । प्र्कृत्यन्तरम् नेषतिः । नेषतु नेष्टात् इति दर्शनात् । नेषतु नेष्टात् इति दृश्यते ।

KA II,43.119-44.9 Ro III,111-112 siP utsargaḥ chandasi . sip utsargaḥ chandasi kartavyaḥ . sanādyante neṣatvādyarthaḥ . sanādyante ca kartavyaḥ . kim prajojanam . neṣatvādyarthaḥ . indraḥ naḥ tena neṣatu . gā vaḥ neṣṭāt . prakṛtyantaratvāt siddham . prakṛtyantaratvāt siddham etat . prkṛtyantaram neṣatiḥ . neṣatu neṣṭāt iti darśanāt . neṣatu neṣṭāt iti dṛśyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,४३।२०-४४।९ रो इइइ,११२-११४ अथ किमर्थः पकारः । स्वरार्थः । अनुदात्तौ सुप्पितौ इति एषः स्वरः यथा स्यात् । पित्करणानर्थक्यम् च अनच्कत्वात् । पित्करणम् च अनर्थकम् । किम् कारणम् । अनच्कत्वात् । अनच्कः अयम् । तत्र न अर्थः स्वरार्थेन पकारेण अनुबन्धेन । इटि कृते साच्कः भविष्यति । इटः अनुदात्तार्थम् इति चेत् आगमानुदात्तत्वात् सिद्धम् । आगमानुदात्तत्वेन इटः अनुदात्तत्वम् भविष्यति । एवम् तर्हि सप् अयम् कर्तव्यः । किम् प्रयोजनम् । यत् एव यासिषीष्ठाः । एकाज्लक्षणः इट्प्रतिषेधः मा भूत् इति । क्व अयम् अकारः श्रूयते । न क्व चित् श्रूयते । लोपः अस्य भविष्यति अतः लोपः आर्धधातुके इति । यदि न क्व चित् श्रूयते न अर्थः स्वरार्थेन पकारेण अनुबन्धेन । एवम् अपि कर्तव्यः एव । किम् प्रयोजनम् । अनुदात्तस्य लोपः यथा स्यात् । उदात्तस्य मा भूत् इति । किम् च स्यात् । उदात्तनिवृत्तिस्वरः प्रसज्येत । सिप् बहुलम् छन्दसि णित् । सिप् बहुलम् छन्दसि णित् वक्तव्यः । सविता धर्मम् दाविषत् । प्र णः आयूंषि तारिषत् ।

KA II,43.20-44.9 Ro III,112-114 atha kimarthaḥ pakāraḥ . svarārthaḥ . anudāttau suppitau iti eṣaḥ svaraḥ yathā syāt . pitkaraṇānarthakyam ca anackatvāt . pitkaraṇam ca anarthakam . kim kāraṇam . anackatvāt . anackaḥ ayam . tatra na arthaḥ svarārthena pakāreṇa anubandhena . iṭi kṛte sāckaḥ bhaviṣyati . iṭaḥ anudāttārtham iti cet āgamānudāttatvāt siddham . āgamānudāttatvena iṭaḥ anudāttatvam bhaviṣyati . evam tarhi sap ayam kartavyaḥ . kim prayojanam . yat eva yāsiṣīṣṭhāḥ . ekājlakṣaṇaḥ iṭpratiṣedhaḥ mā bhūt iti . kva ayam akāraḥ śrūyate . na kva cit śrūyate . lopaḥ asya bhaviṣyati ataḥ lopaḥ ārdhadhātuke iti . yadi na kva cit śrūyate na arthaḥ svarārthena pakāreṇa anubandhena . evam api kartavyaḥ eva . kim prayojanam . anudāttasya lopaḥ yathā syāt . udāttasya mā bhūt iti . kim ca syāt . udāttanivṛttisvaraḥ prasajyeta . siP bahulam chandasi ṇit . sip bahulam chandasi ṇit vaktavyaḥ . savitā dharmam dāviṣat . pra ṇaḥ āyūṃṣi tāriṣat .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,४४।११-१८ रो इइइ,११४-११५ कास्ग्रहणे चकासः उपसङ्ख्यानम् । कास्ग्रहणे चकासः उपसङ्ख्यानम् कर्तव्यम् । चकासाम् चकार । न कर्तव्यम् । चकास्प्रतययात् इति वक्ष्यामि । चकास्ग्रहणे कासः उपसङ्ख्यानम् कर्तव्यम् । कासाम् चक्रे । सूत्रम् च भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् कास्ग्रहणे चकासः उपसङ्ख्यानम् इति । न एषः दोषः । चकास्शब्दे कास्शब्दः अस्ति । तत्र कास्प्रत्ययात् इति एव सिद्धम् । न सिध्यति । किम् कारणम् । अर्थवतः कास्शब्दस्य ग्रहणम् । न च चकास्शब्दे कास्शब्दः अर्थवान् । एवम् तर्हि कासि अनेकाचः इति वक्तव्यम् । किम् प्रयोजनम् । चुलुम्पाद्यर्थम् । चुलुम्पाम् चकार दरिद्राम् चकार ।

KA II,44.11-18 Ro III,114-115 kāsgrahaṇe cakāsaḥ upasaṅkhyānam . kāsgrahaṇe cakāsaḥ upasaṅkhyānam kartavyam . cakāsām cakāra . na kartavyam . cakāspratayayāt iti vakṣyāmi . cakāsgrahaṇe kāsaḥ upasaṅkhyānam kartavyam . kāsām cakre . sūtram ca bhidyate . yathānyāsam eva astu . nanu ca uktam kāsgrahaṇe cakāsaḥ upasaṅkhyānam iti . na eṣaḥ doṣaḥ . cakāsśabde kāsśabdaḥ asti . tatra kāspratyayāt iti eva siddham . na sidhyati . kim kāraṇam . arthavataḥ kāsśabdasya grahaṇam . na ca cakāsśabde kāsśabdaḥ arthavān . evam tarhi kāsi anekācaḥ iti vaktavyam . kim prayojanam . culumpādyartham . culumpām cakāra daridrām cakāra .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,४४।२०-४६।९ रो इइइ,११५-११९ गुरुमतः आम्विधाने लिण्निमित्तात् प्रतिषेधः । गुरुमतः आम्विधाने लिण्निमित्तात् प्रतिषेधः वक्तव्यः । इयेष उवोष । गुणे कृते इजादेः च गुरुमतः अनृच्छः इति आम् प्राप्नोति । गुरुमद्वचनम् इदानीम् किमर्थम् स्यात् । गुरुमद्वचनम् किमर्थम् इति चेत् णलि उत्तमे यजादिप्रतिषेधाऋथम् । गुरुमद्वचनम् किमर्थम् इति चेत् णलि उत्तमे यजादीनाम् मा भूत् इति । इयज अहम् उवप अहम् । उपदेशवचनात् सिद्धम् । उपदेशे गुरुमतः इति वक्तव्यम् । यदि उपदेशग्रहणम् क्रियते उच्छेः आम् वक्तव्यः । व्युच्छाम् चकार इति । ऋच्छिप्रतिषेधः ज्ञापकः उच्छेः आम्भावस्य । यत् अयम् अनृच्छः इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः तुग्निमित्ता यस्य गुरुमत्ता भवति तस्मात् आम् इति । स तर्हि ज्ञापकार्थः ऋच्छिप्रतिषेधः वक्तव्यः । ननु च अवश्यम् प्राप्त्यर्थः अपि वक्तव्यः । न अर्थः प्राप्त्यर्थेन । ऋच्छत्यॄताम् इति ऋच्छेः लिटि गुणवचनम् ज्ञापकम् न ऋच्छेः लिटि आम् भवति इति । न एतत् अस्ति ज्ञापकम् । अर्त्यर्थम् एतत् स्यात् । कथम् पुनः ऋच्छेः लिटि गुणः उच्यमानः अर्त्यर्थः शक्यः विज्ञातुम् । सामर्थ्यात् । ऋच्छिः लिटि न अस्ति इति कृत्वा प्रकृत्यर्थम् विज्ञायते । तत् यथा । तिष्ठतेः इत् जिघ्रतेः वा इति चङि तिष्ठतिजिघ्रती न स्तः इति कृत्वा प्रकृत्यर्थम् विज्ञायते । किम् पुनः अर्तेः गुणवचने प्रयोजनम् । आरतुः आरुः एतत् रूपम् यथा स्यात् । किम् पुनः कारणम् न सिध्यति । द्विर्वचने कृते सवर्णदीर्घत्वे च यदि तावत् धातुग्रहणेन ग्रहणम् ॠकारान्तानाम् लिटि गुणः भवति इति गुणे कृते रपरते अरतुः अरुः इति एतत् रूपम् प्रसज्येत । अथ अभ्यासग्रहणेन ग्रहणम् उः अत्त्वम् रपरत्वम् हलादिशेषः अतः आदेः इति दीर्घत्वम् आतः लोपः इटि च इति आकारलोपः अतुः उः इति वचनम् एव श्रूयेत । गुण पुनः सति गुणे कृते रपरत्वे च द्विर्वचनम् अतः आदेः इति दीर्घत्वम् । ततः सिद्धम् भवति यथा आटतुः आटुः इति । किम् पुनः सवर्णदीर्घत्वम् तावत् भवति न पुनः उः अत्त्वम् । परत्वात् उः अत्त्वेन भवितव्यम् । अन्तरङ्गत्वात् । अन्तरङ्गम् सवर्णदीर्घत्वम् । बहिरङ्गम् उः अत्त्वम् । का अन्तरङ्गता । वर्णौ आश्रित्य सवर्णदीर्घत्वम् । अङ्गस्य उः अत्त्वम् । उः अत्त्वम् अपि अन्तरङ्गम् । कथम् । वक्ष्यति एतत् । प्राक् अभ्यासविकारेभ्यः अङ्गाधिकारः इति । उभयोः अन्तरङ्गयोः परत्वात् उः अत्त्वम् । उः अत्त्वे कृते रपरत्वम् हलादिशेषः अतः आदेः इति दीर्घत्वम् परस्य रूपस्य यणादेशः । सिद्धम् भवति आरतुः आरुः इति । अथ अपि कथम् चित् अर्तेः लिटि गुणेन अर्थः स्यात् । एवम् अपि न दोषः । ऋच्छत्यॄताम् इति ऋकारः अपि निर्दिश्यते । कथम् । अयम् । ऋच्छति ऋ ऋताम् ऋच्छत्यॄताम् इति । इह अपि तर्हि प्राप्नोति । चक्रतुः चक्रुः इति । संयोगादिग्रहणम् नियमार्थम् भविष्यति । संयोगादेः एव अकेवलस्य न अन्यस्य अकेवलस्य इति । तत् एतत् अन्तरेण अर्तेः लिटि गुणवचनम् रूपम् सिद्धम् अन्तरेण च ऋच्छिग्रहणम् अर्तेः लिटि गुणः सिद्धः । सः एषः अनन्यार्थः ऋच्छिप्रतिषेधः वक्तव्यः उच्छेः वा आम् वक्तव्यः । उभयम् न वक्तव्यम् । उपदेशग्रहणम् न करिष्यते । कस्मात् न भवति इयेष उवोष । उक्तम् वा ।किम् उक्तम् । सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति ।

KA II,44.20-46.9 Ro III,115-119 gurumataḥ āmvidhāne liṇnimittāt pratiṣedhaḥ . gurumataḥ āmvidhāne liṇnimittāt pratiṣedhaḥ vaktavyaḥ . iyeṣa uvoṣa . guṇe kṛte ijādeḥ ca gurumataḥ anṛcchaḥ iti ām prāpnoti . gurumadvacanam idānīm kimartham syāt . gurumadvacanam kimartham iti cet ṇali uttame yajādipratiṣedhāṛtham . gurumadvacanam kimartham iti cet ṇali uttame yajādīnām mā bhūt iti . iyaja aham uvapa aham . upadeśavacanāt siddham . upadeśe gurumataḥ iti vaktavyam . yadi upadeśagrahaṇam kriyate uccheḥ ām vaktavyaḥ . vyucchām cakāra iti . ṛcchipratiṣedhaḥ jñāpakaḥ uccheḥ āmbhāvasya . yat ayam anṛcchaḥ iti pratiṣedham śāsti tat jñāpayati ācāryaḥ tugnimittā yasya gurumattā bhavati tasmāt ām iti . sa tarhi jñāpakārthaḥ ṛcchipratiṣedhaḥ vaktavyaḥ . nanu ca avaśyam prāptyarthaḥ api vaktavyaḥ . na arthaḥ prāptyarthena . ṛcchatyṝtām iti ṛccheḥ liṭi guṇavacanam jñāpakam na ṛccheḥ liṭi ām bhavati iti . na etat asti jñāpakam . artyartham etat syāt . katham punaḥ ṛccheḥ liṭi guṇaḥ ucyamānaḥ artyarthaḥ śakyaḥ vijñātum . sāmarthyāt . ṛcchiḥ liṭi na asti iti kṛtvā prakṛtyartham vijñāyate . tat yathā . tiṣṭhateḥ it jighrateḥ vā iti caṅi tiṣṭhatijighratī na staḥ iti kṛtvā prakṛtyartham vijñāyate . kim punaḥ arteḥ guṇavacane prayojanam . āratuḥ āruḥ etat rūpam yathā syāt . kim punaḥ kāraṇam na sidhyati . dvirvacane kṛte savarṇadīrghatve ca yadi tāvat dhātugrahaṇena grahaṇam ṝkārāntānām liṭi guṇaḥ bhavati iti guṇe kṛte raparate aratuḥ aruḥ iti etat rūpam prasajyeta . atha abhyāsagrahaṇena grahaṇam uḥ attvam raparatvam halādiśeṣaḥ ataḥ ādeḥ iti dīrghatvam ātaḥ lopaḥ iṭi ca iti ākāralopaḥ atuḥ uḥ iti vacanam eva śrūyeta . guṇa punaḥ sati guṇe kṛte raparatve ca dvirvacanam ataḥ ādeḥ iti dīrghatvam . tataḥ siddham bhavati yathā āṭatuḥ āṭuḥ iti . kim punaḥ savarṇadīrghatvam tāvat bhavati na punaḥ uḥ attvam . paratvāt uḥ attvena bhavitavyam . antaraṅgatvāt . antaraṅgam savarṇadīrghatvam . bahiraṅgam uḥ attvam . kā antaraṅgatā . varṇau āśritya savarṇadīrghatvam . aṅgasya uḥ attvam . uḥ attvam api antaraṅgam . katham . vakṣyati etat . prāk abhyāsavikārebhyaḥ aṅgādhikāraḥ iti . ubhayoḥ antaraṅgayoḥ paratvāt uḥ attvam . uḥ attve kṛte raparatvam halādiśeṣaḥ ataḥ ādeḥ iti dīrghatvam parasya rūpasya yaṇādeśaḥ . siddham bhavati āratuḥ āruḥ iti . atha api katham cit arteḥ liṭi guṇena arthaḥ syāt . evam api na doṣaḥ . ṛcchatyṝtām iti ṛkāraḥ api nirdiśyate . katham . ayam . ṛcchati ṛ ṛtām ṛcchatyṝtām iti . iha api tarhi prāpnoti . cakratuḥ cakruḥ iti . saṃyogādigrahaṇam niyamārtham bhaviṣyati . saṃyogādeḥ eva akevalasya na anyasya akevalasya iti . tat etat antareṇa arteḥ liṭi guṇavacanam rūpam siddham antareṇa ca ṛcchigrahaṇam arteḥ liṭi guṇaḥ siddhaḥ . saḥ eṣaḥ ananyārthaḥ ṛcchipratiṣedhaḥ vaktavyaḥ uccheḥ vā ām vaktavyaḥ . ubhayam na vaktavyam . upadeśagrahaṇam na kariṣyate . kasmāt na bhavati iyeṣa uvoṣa . uktam vā .kim uktam . sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,४६।१०-१५ रो इइइ,११९-१२० ऊर्णोतेः च उपसङ्ख्यानम् । ऊर्णोतेः च उपसङ्ख्यानम् कर्तव्यम् । प्रोर्णुनाव । न वक्तव्यम् । वाच्यः ऊर्णोः णुवद्भावः । यङ्प्रसिद्धिः प्रयोजनम् । आमः च प्रतिषेधार्थम् । एकाचः च इडुपग्रहात् । अथ वा उकारः अपि अत्र निर्दिश्यते । कथम् । अविभक्तिकः निर्देशः । अनृच्छ उ अनृच्छो दयायासः च इति ।

KA II,46.10-15 Ro III,119-120 ūrṇoteḥ ca upasaṅkhyānam . ūrṇoteḥ ca upasaṅkhyānam kartavyam . prorṇunāva . na vaktavyam . vācyaḥ ūrṇoḥ ṇuvadbhāvaḥ . yaṅprasiddhiḥ prayojanam . āmaḥ ca pratiṣedhārtham . ekācaḥ ca iḍupagrahāt . atha vā ukāraḥ api atra nirdiśyate . katham . avibhaktikaḥ nirdeśaḥ . anṛccha u anṛccho dayāyāsaḥ ca iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,४६।१७-२१ रो इइइ,१२० विदेः आम् कित् । विदेः आम् कित् वक्तव्यः । विदाम् चकार । न वक्तव्यः । विदिः अकारान्तः । यदि अकारान्तः वेत्ति इति गुणः न सिध्यति । लिट्सन्नियोगेन । एवम् अपि विवेद इति न सिध्यति । एवम् तर्हि आम्सन्नियोगेन । भारद्वाजीयाः पठन्ति । विदेः आम् कित् निपातनात् वा अगुणत्वम् इति ।

KA II,46.17-21 Ro III,120 videḥ ām kit . videḥ ām kit vaktavyaḥ . vidām cakāra . na vaktavyaḥ . vidiḥ akārāntaḥ . yadi akārāntaḥ vetti iti guṇaḥ na sidhyati . liṭsanniyogena . evam api viveda iti na sidhyati . evam tarhi āmsanniyogena . bhāradvājīyāḥ paṭhanti . videḥ ām kit nipātanāt vā aguṇatvam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,४६।२३-४७।२ रो इइइ,१२०-१२१ श्लुवदतिदेशे किम् प्रयोजनम् । श्लुवदतिदेशे प्रयोजनम् द्वित्वेत्त्वे । बिभराम् चकार ।

KA II,46.23-47.2 Ro III,120-121 śluvadatideśe kim prayojanam . śluvadatideśe prayojanam dvitvettve . bibharām cakāra .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,४७।४-४८।२३ रो इइइ,१२१-१२४ किमर्थम् इदम् उच्यते । अनुप्रयोगः यथा स्यात् । न एतत् अस्ति प्रयोजनम् । आमन्तम् अव्यक्तपदार्थकम् । तेन अपरिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति । अतः उत्तरम् पठति । कृञः अनुप्रयोगवचनम् अस्तिभूप्रतिषेधार्थम् । कृञः अनुप्रयोगवचनम् क्रियते अस्तिभूप्रतिषेधार्थम् । अस्तिभुवोः अनुप्रयोगः मा भूत् इति । आत्मनेपदविध्यर्थम् च । आत्मनेपदविध्यर्थम् च कृञः अनुप्रयोगवचनम् क्रियते । आत्मनेपदम् यथा स्यात् । उच्यमाने अपि एतस्मिन् अवश्यम् आत्मनेपदार्थः यत्नः कर्तव्यः । अस्तिभूप्रतिषेधार्थेन च अपि न अर्थः । इष्टः सर्वानुप्रयोगः । सर्वेषाम् एव कृभ्वस्तीनाम् अनुप्रयोगः इष्यते । किम् इष्यते एव आहोस्वित् प्राप्नोति अपि । इष्यते च प्राप्नोति च । कथम् । कृञ् इति न एतत् धातुग्रहणम् । किम् तर्हि । प्रत्याहारग्रहणम् । क्व सन्निविष्टानाम् प्रत्याहारः । कृभ्वस्तियोगे इति अतः प्रभृति आ कृञः ञकारात् । सर्वानुप्रयोगः इति चेत् अशिष्यम् अर्थाभावात् । सर्वानुप्रयोगः इति चेत् अशिष्यम् कृञः अनुप्रयोगवचनम् । किम् कारणम् । अर्थाभावात् । आमन्तम् अव्यक्तपदार्थकम् । तेन अपरिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति । इदम् तर्हि प्रयोजनम् । कृभ्वस्तीनाम् एव अनुप्रयोगः यथा स्यात् पचादीनाम् मा भूत् इति । एतत् अपि न अस्ति प्रयोजनम् । अर्थाभावात् च अन्यस्य । अर्थाभावात् च अन्यस्य सिद्धम् । कृभ्वस्तयः क्रियासामान्यवाचिनः । क्रियाविशेषवाचिनः पचादयः । न च सामान्यवाचिनोः एव विशेषवाचिनोः एव व प्रयोगः भवति । तत्र विशेषवाचिनः उत्पत्तिः । सामान्यवाचिनः अनुप्रयोक्ष्यन्ते । लिट्परार्थम् वा । लिट्परार्थम् तर्हि कृञः अनुप्रयोगवचनम् क्रियते । लिट्परस्य एव अनुप्रयोगः यथा स्यात् । अन्यपरस्य मा भूत् इति । किम्परस्य पुनः प्राप्नोति । लट्परस्य । न लट्परस्य अनुप्रयोगेण भूतकालः विशेषितः स्यात् । निष्ठापरस्य तर्हि । ननिष्ठापरस्य अनुप्रयोगेण पुरुषोपग्रहौ विशेइषितौ स्याताम् । लुङ्परस्य तर्हि । न लुङ्परस्य अनुप्रयोगेण अनद्यतनः भूतकालः विशेषितः स्यात् । लङ्परस्य तर्हि । न लङ्परस्य अनुप्रयोगेण अनद्यतनः परोक्षः कालः विशेषितः स्यात् । अयम् तर्हि भूते परोक्षे अनद्यतने लङ् विधीयते । हशश्वतोः लङ् च इति । तत्परस्य मा भूत् इति । अतत् अपि न अस्ति प्रयोजनम् । एकस्याः आकृतेः चरितः प्रयोगः द्वितीयस्याः तृतीयस्याः च न भवति । तत् यथा गोषु स्वामि अश्वेषु च इति । न च भवति गोषु च अश्वानाम् च स्वामी इति । अर्थसमाप्तेः वा अनुप्रयोगः न स्यात् । अर्थसमाप्तेः तर्हि अनुप्रयोगः न स्यात् । आमन्तेन परिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः न स्यात् । एतत् अपि न अस्ति प्रयोजनम् । इदानीम् एव उक्तम् आमन्तम् अव्यक्तपदार्थकम् । तेन अपरिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति इति । विपर्यासनिवृत्त्यर्थम् वा । विपर्यासनिवृत्त्यर्थम् तर्हि कृञः अनुप्रयोगवचनम् क्रियते । ईहाम् चक्रे । चक्रे ईहाम् इति मा भूत् । व्यवहित्निवृत्त्यर्थम् च । व्यवहित्निवृत्त्यर्थम् च कृञः अनुप्रयोगवचनम् क्रियते । अन्व् एव च अनुप्रयोगः यथा स्यात् । ईहाम् चक्रे । व्यवहितस्य मा भूत् । ईहाम् देवदत्तः चक्रे इति ।

KA II,47.4-48.23 Ro III,121-124 kimartham idam ucyate . anuprayogaḥ yathā syāt . na etat asti prayojanam . āmantam avyaktapadārthakam . tena aparisamāptaḥ arthaḥ iti kṛtvā anuprayogaḥ bhaviṣyati . ataḥ uttaram paṭhati . kṛñaḥ anuprayogavacanam astibhūpratiṣedhārtham . kṛñaḥ anuprayogavacanam kriyate astibhūpratiṣedhārtham . astibhuvoḥ anuprayogaḥ mā bhūt iti . ātmanepadavidhyartham ca . ātmanepadavidhyartham ca kṛñaḥ anuprayogavacanam kriyate . ātmanepadam yathā syāt . ucyamāne api etasmin avaśyam ātmanepadārthaḥ yatnaḥ kartavyaḥ . astibhūpratiṣedhārthena ca api na arthaḥ . iṣṭaḥ sarvānuprayogaḥ . sarveṣām eva kṛbhvastīnām anuprayogaḥ iṣyate . kim iṣyate eva āhosvit prāpnoti api . iṣyate ca prāpnoti ca . katham . kṛñ iti na etat dhātugrahaṇam . kim tarhi . pratyāhāragrahaṇam . kva sanniviṣṭānām pratyāhāraḥ . kṛbhvastiyoge iti ataḥ prabhṛti ā kṛñaḥ ñakārāt . sarvānuprayogaḥ iti cet aśiṣyam arthābhāvāt . sarvānuprayogaḥ iti cet aśiṣyam kṛñaḥ anuprayogavacanam . kim kāraṇam . arthābhāvāt . āmantam avyaktapadārthakam . tena aparisamāptaḥ arthaḥ iti kṛtvā anuprayogaḥ bhaviṣyati . idam tarhi prayojanam . kṛbhvastīnām eva anuprayogaḥ yathā syāt pacādīnām mā bhūt iti . etat api na asti prayojanam . arthābhāvāt ca anyasya . arthābhāvāt ca anyasya siddham . kṛbhvastayaḥ kriyāsāmānyavācinaḥ . kriyāviśeṣavācinaḥ pacādayaḥ . na ca sāmānyavācinoḥ eva viśeṣavācinoḥ eva va prayogaḥ bhavati . tatra viśeṣavācinaḥ utpattiḥ . sāmānyavācinaḥ anuprayokṣyante . liṭparārtham vā . liṭparārtham tarhi kṛñaḥ anuprayogavacanam kriyate . liṭparasya eva anuprayogaḥ yathā syāt . anyaparasya mā bhūt iti . kimparasya punaḥ prāpnoti . laṭparasya . na laṭparasya anuprayogeṇa bhūtakālaḥ viśeṣitaḥ syāt . niṣṭhāparasya tarhi . naniṣṭhāparasya anuprayogeṇa puruṣopagrahau viśeiṣitau syātām . luṅparasya tarhi . na luṅparasya anuprayogeṇa anadyatanaḥ bhūtakālaḥ viśeṣitaḥ syāt . laṅparasya tarhi . na laṅparasya anuprayogeṇa anadyatanaḥ parokṣaḥ kālaḥ viśeṣitaḥ syāt . ayam tarhi bhūte parokṣe anadyatane laṅ vidhīyate . haśaśvatoḥ laṅ ca iti . tatparasya mā bhūt iti . atat api na asti prayojanam . ekasyāḥ ākṛteḥ caritaḥ prayogaḥ dvitīyasyāḥ tṛtīyasyāḥ ca na bhavati . tat yathā goṣu svāmi aśveṣu ca iti . na ca bhavati goṣu ca aśvānām ca svāmī iti . arthasamāpteḥ vā anuprayogaḥ na syāt . arthasamāpteḥ tarhi anuprayogaḥ na syāt . āmantena parisamāptaḥ arthaḥ iti kṛtvā anuprayogaḥ na syāt . etat api na asti prayojanam . idānīm eva uktam āmantam avyaktapadārthakam . tena aparisamāptaḥ arthaḥ iti kṛtvā anuprayogaḥ bhaviṣyati iti . viparyāsanivṛttyartham vā . viparyāsanivṛttyartham tarhi kṛñaḥ anuprayogavacanam kriyate . īhām cakre . cakre īhām iti mā bhūt . vyavahitnivṛttyartham ca . vyavahitnivṛttyartham ca kṛñaḥ anuprayogavacanam kriyate . anv eva ca anuprayogaḥ yathā syāt . īhām cakre . vyavahitasya mā bhūt . īhām devadattaḥ cakre iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,४९।२-५०।२८ रो इइइ,१२५-१३० क्व अयम् च्लिः श्रूयते । न क्व चित् श्रूयते । सिजादयः आदेशाः उच्यन्ते । यद् न क्व चित् श्रूयते किमर्थः तर्हि च्लुः उत्सर्गः क्रियते । न सिच् उत्सर्गः एव कर्तव्यः । तस्य क्सादयः अपवादाः भविष्यन्ति । अत उत्तरम् पठति । च्ल्युत्सर्गः सामान्यग्रहणार्थः । च्लिः उत्सर्गः क्रियते सामान्यग्रहणार्थः । क्व सामान्यग्रहणार्थेन अर्थः । मन्त्र घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यः लेः इति । तत्र अवरतः त्रयाणाम् ग्रहणम् कर्तव्यम् स्यात् । चङङोः सिचः च । क्सविधाने च अनिड्वचने च्लिसम्प्रत्ययार्थः । क्सविधाने च अनिड्वचने च्लिसम्प्रत्ययार्थः च्लिः उत्सर्गः क्रियते । च्लेः अनिटः क्सः सिद्धः भवति । घसॢभावे च । घसॢभावे च च्लव् एव कृते लृदितः इति अङ् सिद्धः भवति । अथ चित्करणम् किमर्थम् । च्लेः चित्करणम् विशेषणाऋथम् । च्लेः चित्करणम् क्रियते विशेषणार्थम् । क्व विशेषणार्थेन अर्थः । च्लेः सिच् इति । लेः सिच् इति उच्यमाने लिङ्लिटोः अपि प्रसज्येत । न एतत् अस्ति प्रयोजनम् । लुङि इति उच्यते । न च लुङि लिङ्लिटौ भवतः । अथ इदित्करणम् किमर्थम् । इदित्करणम् सामान्यग्रहणार्थम् । इदित्करणम् क्रियते च सामान्यग्रहणार्थम् । क्व सामान्यग्रहणार्थेन अर्थः । मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यः लेः इति आमः इति च । इकारे च इदानीम् सामान्यग्रहणार्थे क्रियमाणे अवश्यम् सामान्यग्रहणाविघातार्थः चकारः कर्तव्यः । क्व सामान्यग्रहणाविघातार्थेन अर्थः चकारेण । अत्र एव । यत् तावत् उच्यते च्ल्युत्सर्गः सामान्यग्रहणार्थः इति । क्रियमाणे अपि वै च्ल्युत्सर्गे तानि एव त्रीणि ग्रहणानि भवन्ति । च्लु लुङि च्लेः सिच् लेः इति । यत् एतत् लेः इति तत् परार्थम् भविष्यति । कथम् । यत् एतत् गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु इति अत्र सिचः ग्रहणम् एतत् लेः इति वक्ष्यामि । यदि लेः इति उच्यते धेटः चातुःशब्द्यम् प्राप्नोति । अदधत् अधात् अधासीत् । अदधात् इति अपि प्राप्नोति । न चङः लुकि द्विर्वचनेन भवितव्यम् । किम् कारणम् । चङि इति उच्यते । न च अत्र चङम् पश्यामः । प्रत्ययलक्षणेन । न लुमता तस्मिन् इति प्रत्ययलक्षणप्रतिषेधः । बहुवचने तर्हि चातुःशब्द्यम् प्राप्नोति । अदधन् अधुः अधासिषुः । अधान् इति अपि प्राप्नोति । न एषः दोषः । आतः इति जुस्भावः भविष्यति । न सिध्यति । सिज्ग्रहणम् तत्र अनुवर्तते । सिज्ग्रहणम् निवर्तिष्यते । यदि निवर्तते अभूवन् इति प्रत्ययलक्षणेन जुस्भावः प्राप्नोति । एवम् तर्हि लुक् सिजपवादः विज्ञास्यते । यदि लुक् सिजपवादः विज्ञायते मा हि दाताम् मा हि धाताम् इति अत्र आदिः सिचः अन्यतरस्याम् इति एषः स्वरः न प्राप्नोति । तस्मात् न एतत् शक्यम् वक्तुम् लुक् सिजपवादः इति । न चेत् उच्यते अभूवन् इति प्रत्ययलक्षणेन जुस्भावः प्राप्नोति । तस्मात् आतः इति अत्र सिज्ग्रहणम् अनुवर्त्यम् । तस्मिन् च अनुवर्तमाने धेटः चातुःशब्द्यम् प्राप्नोति । तस्मात् गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु इति अत्र सिचः ग्रहणम् कर्तव्यम् । तस्मिन् च क्रियमाणे तानि एव त्रीणि ग्रहणानि भवन्ति च्लि लुङि च्लेः सिच् लेः इति । यत् अपि उच्यते क्सविधाने च अनिड्वचने च्लिसम्प्रत्ययार्थः इति । धातुम् एव अत्र अनिट्वेन विशेषयिष्यामः । धातोः अनिटः इति । कथम् पुनः धातुः नाम अनिट् स्यात् । धातुः एव अनिट् । कथम् । अनिमित्तम् वा इटः अनिटः न वा तस्मात् इट् अस्ति सः अयम् अनिट् इति । अथ धातौ विशेष्यमाणे क्व यः अनिट् इति विशेषयिष्यसि । किम् च अतः । यदि विज्ञायते निष्ठायाम्

KA II,49.2-50.28 Ro III,125-130 kva ayam cliḥ śrūyate . na kva cit śrūyate . sijādayaḥ ādeśāḥ ucyante . yad na kva cit śrūyate kimarthaḥ tarhi cluḥ utsargaḥ kriyate . na sic utsargaḥ eva kartavyaḥ . tasya ksādayaḥ apavādāḥ bhaviṣyanti . ata uttaram paṭhati . clyutsargaḥ sāmānyagrahaṇārthaḥ . cliḥ utsargaḥ kriyate sāmānyagrahaṇārthaḥ . kva sāmānyagrahaṇārthena arthaḥ . mantra ghasahvaraṇaśavṛdahādvṛckṛgamijanibhyaḥ leḥ iti . tatra avarataḥ trayāṇām grahaṇam kartavyam syāt . caṅaṅoḥ sicaḥ ca . ksavidhāne ca aniḍvacane clisampratyayārthaḥ . ksavidhāne ca aniḍvacane clisampratyayārthaḥ cliḥ utsargaḥ kriyate . cleḥ aniṭaḥ ksaḥ siddhaḥ bhavati . ghasḷbhāve ca . ghasḷbhāve ca clav eva kṛte lṛditaḥ iti aṅ siddhaḥ bhavati . atha citkaraṇam kimartham . cleḥ citkaraṇam viśeṣaṇāṛtham . cleḥ citkaraṇam kriyate viśeṣaṇārtham . kva viśeṣaṇārthena arthaḥ . cleḥ sic iti . leḥ sic iti ucyamāne liṅliṭoḥ api prasajyeta . na etat asti prayojanam . luṅi iti ucyate . na ca luṅi liṅliṭau bhavataḥ . atha iditkaraṇam kimartham . iditkaraṇam sāmānyagrahaṇārtham . iditkaraṇam kriyate ca sāmānyagrahaṇārtham . kva sāmānyagrahaṇārthena arthaḥ . mantre ghasahvaraṇaśavṛdahādvṛckṛgamijanibhyaḥ leḥ iti āmaḥ iti ca . ikāre ca idānīm sāmānyagrahaṇārthe kriyamāṇe avaśyam sāmānyagrahaṇāvighātārthaḥ cakāraḥ kartavyaḥ . kva sāmānyagrahaṇāvighātārthena arthaḥ cakāreṇa . atra eva . yat tāvat ucyate clyutsargaḥ sāmānyagrahaṇārthaḥ iti . kriyamāṇe api vai clyutsarge tāni eva trīṇi grahaṇāni bhavanti . clu luṅi cleḥ sic leḥ iti . yat etat leḥ iti tat parārtham bhaviṣyati . katham . yat etat gātisthāghupābhūbhyaḥ sicaḥ parasmaipadeṣu iti atra sicaḥ grahaṇam etat leḥ iti vakṣyāmi . yadi leḥ iti ucyate dheṭaḥ cātuḥśabdyam prāpnoti . adadhat adhāt adhāsīt . adadhāt iti api prāpnoti . na caṅaḥ luki dvirvacanena bhavitavyam . kim kāraṇam . caṅi iti ucyate . na ca atra caṅam paśyāmaḥ . pratyayalakṣaṇena . na lumatā tasmin iti pratyayalakṣaṇapratiṣedhaḥ . bahuvacane tarhi cātuḥśabdyam prāpnoti . adadhan adhuḥ adhāsiṣuḥ . adhān iti api prāpnoti . na eṣaḥ doṣaḥ . ātaḥ iti jusbhāvaḥ bhaviṣyati . na sidhyati . sijgrahaṇam tatra anuvartate . sijgrahaṇam nivartiṣyate . yadi nivartate abhūvan iti pratyayalakṣaṇena jusbhāvaḥ prāpnoti . evam tarhi luk sijapavādaḥ vijñāsyate . yadi luk sijapavādaḥ vijñāyate mā hi dātām mā hi dhātām iti atra ādiḥ sicaḥ anyatarasyām iti eṣaḥ svaraḥ na prāpnoti . tasmāt na etat śakyam vaktum luk sijapavādaḥ iti . na cet ucyate abhūvan iti pratyayalakṣaṇena jusbhāvaḥ prāpnoti . tasmāt ātaḥ iti atra sijgrahaṇam anuvartyam . tasmin ca anuvartamāne dheṭaḥ cātuḥśabdyam prāpnoti . tasmāt gātisthāghupābhūbhyaḥ sicaḥ parasmaipadeṣu iti atra sicaḥ grahaṇam kartavyam . tasmin ca kriyamāṇe tāni eva trīṇi grahaṇāni bhavanti cli luṅi cleḥ sic leḥ iti . yat api ucyate ksavidhāne ca aniḍvacane clisampratyayārthaḥ iti . dhātum eva atra aniṭvena viśeṣayiṣyāmaḥ . dhātoḥ aniṭaḥ iti . katham punaḥ dhātuḥ nāma aniṭ syāt . dhātuḥ eva aniṭ . katham . animittam vā iṭaḥ aniṭaḥ na vā tasmāt iṭ asti saḥ ayam aniṭ iti . atha dhātau viśeṣyamāṇe kva yaḥ aniṭ iti viśeṣayiṣyasi . kim ca ataḥ . yadi vijñāyate niṣṭhāyām

Sanskrit only: no published translation is held for this verse.

क्अ इइ,५१।२-५२।८ रो इइइ,१३०-१३२ किमर्थः चकारः । विशेषणार्थः । क्व विशेषणार्थेन अर्थः । सिचि वृद्धिः परस्मैपदेषु इति । सौ वृद्धिः इति उच्यमाने अग्निः वायुः इति अत्र अपि प्रसज्येत । न एतत् अस्ति प्रयोजनम् । परस्मैपदेषु इति उच्यते । न च अत्र परस्मैपदम् पश्यामः । स्वरार्थः तर्हि । चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् । एतत् अपि न अस्ति प्रयोजनम् । अनच्कः अयम् । तत्र न अर्थः स्वरार्थेन चकारेण अनुबन्धेन । इटि कृते साच्कः भविष्यति । तत्र प्रत्ययाद्युदात्तत्वेन इटः उदात्तत्वम् भविष्यति । न सिध्यति । आगमाः अनुदात्ताः भवन्ति इति अनुदात्तत्वम् प्राप्नोति । अतः उत्तरम् पठति । सिचः चित्करणानर्थक्यम् स्थानिवत्वात् । सिचः चित्करणम् नर्थयम् । किम् कारणम् । स्थानिवत्वात् । स्थानिवद्भावात् चित् भविष्यति । अर्थवत् तु चित्करणसामर्थ्यात् हि इटः उदात्तत्वम् । अर्थवत् तु चित्करणम् । कः अर्थः । चित्करणसामर्थ्यात् हि इटः उदात्तत्वम् भविष्यति । न अप्राप्ते प्रत्ययस्वरे आगमानुदात्तत्वम् आरभ्यते । तत् यथा एव प्रत्ययस्वरम् बाधते एवम् स्थानिवद्भावात् अपि या प्राप्तिः ताम् अपि बाधेत । तस्मात् चित्करणम् । तस्मात् चकारः कर्तव्यः । अथ इदित्करणम् किमर्थम् । इदित्करणम् नकारलोपाभावार्थम् । इदित्करणम् क्रियते नकारलोपः मा भूत् इति । अमंस्त अमंस्थाः । अनिदिताम् हलः उपधायाः क्ङिति इति । न वा हन्तेः सिचः कित्करणम् नकारलोपाभावस्य । न वा एतत् प्रयोजनम् अस्ति । किम् कारणम् । यत् अयम् हनः सिच् इति हन्तेः सिचः कित्त्वम् शास्ति तत् ज्ञापयति आचार्यः न सिजन्तस्य नकार्लोपः भवति इति । न एतत् अस्ति ज्ञापकम् । अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् । किम् । सिचि एव नलोपः यथा स्यात् । परस्मिन् निमित्ते मा भूत् इति । कः पुनः अत्र विशेषः सिचि वा नलोपे सति परस्मिन् वा निमित्ते । अयम् अस्ति विशेषः । सिचि नलोपे सति नलोपस्य असिद्धत्वात् अकारलोपः न भवति । परस्मिन् पुनः निमित्ते नलोपे सति अकारलोपः प्राप्नोति । समानाश्रयम् असिद्धम् व्याश्रयम् च इदम् । ननु च परस्मिन् अपि निमित्ते नलोपे सति अकारलोपः न भविष्यति । कथम् । असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति टत् एतत् हन्तेः सिचः कित्करणम् ज्ञापकम् एव न सिजन्तस्य नलोपः भवति इति । इदित्त्वात् वा स्थानिवत्त्वात् । अथ अपि अनेन इदिता अर्थः स्यात् । अयम् आदेशः स्थानिवद्भावात् इदित् भविष्यति।

KA II,51.2-52.8 Ro III,130-132 kimarthaḥ cakāraḥ . viśeṣaṇārthaḥ . kva viśeṣaṇārthena arthaḥ . sici vṛddhiḥ parasmaipadeṣu iti . sau vṛddhiḥ iti ucyamāne agniḥ vāyuḥ iti atra api prasajyeta . na etat asti prayojanam . parasmaipadeṣu iti ucyate . na ca atra parasmaipadam paśyāmaḥ . svarārthaḥ tarhi . citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt . etat api na asti prayojanam . anackaḥ ayam . tatra na arthaḥ svarārthena cakāreṇa anubandhena . iṭi kṛte sāckaḥ bhaviṣyati . tatra pratyayādyudāttatvena iṭaḥ udāttatvam bhaviṣyati . na sidhyati . āgamāḥ anudāttāḥ bhavanti iti anudāttatvam prāpnoti . ataḥ uttaram paṭhati . sicaḥ citkaraṇānarthakyam sthānivatvāt . sicaḥ citkaraṇam narthayam . kim kāraṇam . sthānivatvāt . sthānivadbhāvāt cit bhaviṣyati . arthavat tu citkaraṇasāmarthyāt hi iṭaḥ udāttatvam . arthavat tu citkaraṇam . kaḥ arthaḥ . citkaraṇasāmarthyāt hi iṭaḥ udāttatvam bhaviṣyati . na aprāpte pratyayasvare āgamānudāttatvam ārabhyate . tat yathā eva pratyayasvaram bādhate evam sthānivadbhāvāt api yā prāptiḥ tām api bādheta . tasmāt citkaraṇam . tasmāt cakāraḥ kartavyaḥ . atha iditkaraṇam kimartham . iditkaraṇam nakāralopābhāvārtham . iditkaraṇam kriyate nakāralopaḥ mā bhūt iti . amaṃsta amaṃsthāḥ . aniditām halaḥ upadhāyāḥ kṅiti iti . na vā hanteḥ sicaḥ kitkaraṇam nakāralopābhāvasya . na vā etat prayojanam asti . kim kāraṇam . yat ayam hanaḥ sic iti hanteḥ sicaḥ kittvam śāsti tat jñāpayati ācāryaḥ na sijantasya nakārlopaḥ bhavati iti . na etat asti jñāpakam . asti hi anyat etasya vacane prayojanam . kim . sici eva nalopaḥ yathā syāt . parasmin nimitte mā bhūt iti . kaḥ punaḥ atra viśeṣaḥ sici vā nalope sati parasmin vā nimitte . ayam asti viśeṣaḥ . sici nalope sati nalopasya asiddhatvāt akāralopaḥ na bhavati . parasmin punaḥ nimitte nalope sati akāralopaḥ prāpnoti . samānāśrayam asiddham vyāśrayam ca idam . nanu ca parasmin api nimitte nalope sati akāralopaḥ na bhaviṣyati . katham . asiddham bahiraṅgalakṣaṇam antaraṅgalakṣaṇe iti ṭat etat hanteḥ sicaḥ kitkaraṇam jñāpakam eva na sijantasya nalopaḥ bhavati iti . idittvāt vā sthānivattvāt . atha api anena iditā arthaḥ syāt . ayam ādeśaḥ sthānivadbhāvāt idit bhaviṣyati.

Sanskrit only: no published translation is held for this verse.

क्अ इइ,५२।९-५३।५ रो इइइ,१३३-१३५ स्पृशमृशकृषतृपदृपः सिच् वा । स्पृश्मृशकृषतृपदृपः सिच् वा इति वक्तव्यम् । स्पृश । अस्पृक्षत् अस्प्राक्षीत् । स्पृश । मृश । अमृक्षत् अम्राक्षीत् । मृश । कृष । अकृक्षत् अक्राक्षीत् । कृष । तृप । अतृपत् अत्राप्सीत् । तृप । दृप । अदृपत् अद्रप्सीत् । किम् प्रयोजनम् । सिच् यथा स्यात । अथ क्सः सिद्धः । सिद्धः शलः इगुपधात् अनिटः इति । सिच् अपि सिद्धः । कथम् । च्लेः चित्करणम् प्रत्याख्यायते । तत्र च्लौ एव झल्लक्षणे अमागमे कृते विहतनिमित्तत्वात् क्सः न भविष्यति । यदि एवम् अन्त्यसय सिजादयः प्राप्नुवन्ति । सिद्धम् तु सिचः यादित्वात् । सिद्धम् एतत् । कथम् । यादिः सिच् करिष्यते । सः अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति । किम् न श्रूयते यकारः । लुप्तनिर्दिष्टः यकारः । चङङोः कथम् । चङङोः प्रश्लिष्टनिर्देशात् सिद्धम् । चङङोः अपि प्रश्लिष्टनिर्देशः अयम् : च अङ् चङ् अ अङ् अङ् । सः अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति । चिणः कथम् । चिणः अनित्त्वात् सिद्धम् । चिणः अनित्त्वात् सिद्धम् । किम् इदम् अनित्त्वात् । अन्त्यस्य अयम् स्थाने भवन् न प्रत्ययः स्यात् । असत्यायाम् प्रत्ययसञ्ज्ञयाम् इत्सञ्ज्ञा न। असत्याम् इत्सञ्ज्ञायाम् लोपः न । असति लोपे अनेकाल् । यदा अनेकाल् तदा सर्वादेशः । यदा सर्वादेशः तदा प्रययः । यदा प्रत्ययः तदा इत्सञ्ज्ञा । यदा इत्सञ्ज्ञा तदा लोपः । एवम् च तत्र वार्त्तिककारस्य निर्णयः सप्रयोजनम् चित्करणम् इति । अपि च त्रैशब्द्यम् न प्रकल्पते । अस्पृक्षत् अस्प्राक्षीत् अस्पार्क्षीत् इति न सिध्यति । सिचि पुनः सति विभाषा सिच् । सिचि अपि झल्लक्षणः अमागमः विभाषा । यस्य खलु अपि अमा निमित्तम् न विहन्यते सः स्यात् एव । तस्मात् सुष्ठु उच्यते स्पृश्मृशकृषतृपदृपः सिच् वा इति ।

KA II,52.9-53.5 Ro III,133-135 spṛśamṛśakṛṣatṛpadṛpaḥ sic vā . spṛśmṛśakṛṣatṛpadṛpaḥ sic vā iti vaktavyam . spṛśa . aspṛkṣat asprākṣīt . spṛśa . mṛśa . amṛkṣat amrākṣīt . mṛśa . kṛṣa . akṛkṣat akrākṣīt . kṛṣa . tṛpa . atṛpat atrāpsīt . tṛpa . dṛpa . adṛpat adrapsīt . kim prayojanam . sic yathā syāta . atha ksaḥ siddhaḥ . siddhaḥ śalaḥ igupadhāt aniṭaḥ iti . sic api siddhaḥ . katham . cleḥ citkaraṇam pratyākhyāyate . tatra clau eva jhallakṣaṇe amāgame kṛte vihatanimittatvāt ksaḥ na bhaviṣyati . yadi evam antyasaya sijādayaḥ prāpnuvanti . siddham tu sicaḥ yāditvāt . siddham etat . katham . yādiḥ sic kariṣyate . saḥ anekālśit sarvasya iti sarvādeśaḥ bhaviṣyati . kim na śrūyate yakāraḥ . luptanirdiṣṭaḥ yakāraḥ . caṅaṅoḥ katham . caṅaṅoḥ praśliṣṭanirdeśāt siddham . caṅaṅoḥ api praśliṣṭanirdeśaḥ ayam : ca aṅ caṅ a aṅ aṅ . saḥ anekālśit sarvasya iti sarvādeśaḥ bhaviṣyati . ciṇaḥ katham . ciṇaḥ anittvāt siddham . ciṇaḥ anittvāt siddham . kim idam anittvāt . antyasya ayam sthāne bhavan na pratyayaḥ syāt . asatyāyām pratyayasañjñayām itsañjñā na. asatyām itsañjñāyām lopaḥ na . asati lope anekāl . yadā anekāl tadā sarvādeśaḥ . yadā sarvādeśaḥ tadā prayayaḥ . yadā pratyayaḥ tadā itsañjñā . yadā itsañjñā tadā lopaḥ . evam ca tatra vārttikakārasya nirṇayaḥ saprayojanam citkaraṇam iti . api ca traiśabdyam na prakalpate . aspṛkṣat asprākṣīt aspārkṣīt iti na sidhyati . sici punaḥ sati vibhāṣā sic . sici api jhallakṣaṇaḥ amāgamaḥ vibhāṣā . yasya khalu api amā nimittam na vihanyate saḥ syāt eva . tasmāt suṣṭhu ucyate spṛśmṛśakṛṣatṛpadṛpaḥ sic vā iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,५३।७-२५ रो इइइ,१३५-१३६ क्सविधाने इगुपधाभावः च्लेः गुणनिमित्तत्वात् । क्सविधाने इगुपधाभावः । किम् कारणम् । च्लेः गुणनिमित्तत्वात् । च्लिः गुणनिमित्तम् । तत्र च्लौ एव गुणे कृते इगुपधात् इति क्सः न प्राप्नोति । न वा क्सस्य अनवकाशत्वात् अपवादः गुणस्य । न वा एषः दोषः । किम् कारणम् । क्सस्य अनवकाशत्वात् । अनवकाशः क्सः गुणम् बाधिष्यते । अनिड्वचनम् अविशेषणम् च्लेः नित्यादिष्टत्वात् । अनिड्वचनम् अविशेषणम् । किम् कारणम् । च्लेः नित्यादिष्टत्वात् । नित्यादिष्टः च्लिः न क्व चित् श्रूयते । तत्र च्लेः अनिटः इति क्सः न प्राप्नोति । न वा क्सस्य सिजपवादत्वात् तस्य च अनिडाश्रयत्वात् अनिटि प्रसिद्धे क्सविद्धिः । न वा एषः दोषः । किम् कारणम् । क्सस्य सिजपवादत्वात् । सिजपवादः क्सः । सः च अनिडाश्रयः । न च अपवादविषये उपसर्गः अभिनिविशते । पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गाः । प्रकल्प्य वा अपवादविषयम् उत्सर्गः अभिनिविशते । तत् न तावत् अत्र कदा चित् सिच् भवति । अपवादम् क्सम् प्रतीक्षते । क्सस्य सिजपवादत्वात् तस्य च अनिडाश्रयत्वात् अनिट्त्वम् प्रसिद्धम् । अनिटि प्रसिद्धे क्सविद्धिः । अनिटि प्रसिद्धे क्सः भविष्यति । सिच् इदानीम् क्व भविष्यति । शेषे सिज्विधानम् । शेषे सिज्विधानम् भविष्यति । अकोषीत् अमोषीत् इति ।

KA II,53.7-25 Ro III,135-136 ksavidhāne igupadhābhāvaḥ cleḥ guṇanimittatvāt . ksavidhāne igupadhābhāvaḥ . kim kāraṇam . cleḥ guṇanimittatvāt . cliḥ guṇanimittam . tatra clau eva guṇe kṛte igupadhāt iti ksaḥ na prāpnoti . na vā ksasya anavakāśatvāt apavādaḥ guṇasya . na vā eṣaḥ doṣaḥ . kim kāraṇam . ksasya anavakāśatvāt . anavakāśaḥ ksaḥ guṇam bādhiṣyate . aniḍvacanam aviśeṣaṇam cleḥ nityādiṣṭatvāt . aniḍvacanam aviśeṣaṇam . kim kāraṇam . cleḥ nityādiṣṭatvāt . nityādiṣṭaḥ cliḥ na kva cit śrūyate . tatra cleḥ aniṭaḥ iti ksaḥ na prāpnoti . na vā ksasya sijapavādatvāt tasya ca aniḍāśrayatvāt aniṭi prasiddhe ksaviddhiḥ . na vā eṣaḥ doṣaḥ . kim kāraṇam . ksasya sijapavādatvāt . sijapavādaḥ ksaḥ . saḥ ca aniḍāśrayaḥ . na ca apavādaviṣaye upasargaḥ abhiniviśate . pūrvam hi apavādāḥ abhiniviśante paścāt utsargāḥ . prakalpya vā apavādaviṣayam utsargaḥ abhiniviśate . tat na tāvat atra kadā cit sic bhavati . apavādam ksam pratīkṣate . ksasya sijapavādatvāt tasya ca aniḍāśrayatvāt aniṭtvam prasiddham . aniṭi prasiddhe ksaviddhiḥ . aniṭi prasiddhe ksaḥ bhaviṣyati . sic idānīm kva bhaviṣyati . śeṣe sijvidhānam . śeṣe sijvidhānam bhaviṣyati . akoṣīt amoṣīt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,५४।२-२४ रो इइइ,१३६-१३८ किमर्थम् इदम् उच्यते । नियमार्थम् । श्लिषः आलिङ्गने एव क्सः यथा स्यात् । इह मा भूत् : उपाश्लिषत् जतु च काष्ठम् च । समाश्लिषत् ब्राह्मणकुलम् इति । अतः उत्तरम् पठति । श्लिषः आलिङ्गने नियमानुपपत्तिः विधेयभावात् । श्लिषः आलिङ्गने नियमस्य अनुपपत्तिः । किम् कारणम् । विधेयभावात् । कैमर्थक्यात् नियमः भवति । विधेयम् न अस्ति इति कृत्वा । इह च अस्ति विधेयम् । किम् । पुषादिपाठात् अङ् प्राप्तः । तद्बाधनार्थः क्सः विधेयः । तत्र अपूर्वः विधिः अस्तु नियमः वा इति अपूर्वः एव विधिः स्यात् न नियमः । किम् च स्यात् यदि अयम् नियमः न स्यात् । आत्मनेपदेषु आलिङ्गने च क्सः प्रसज्येत । यथा एव च क्सः अङम् बाधते एवम् चिणम् अपि बाधेत । उपाश्लेषि कन्या देवदत्तेन इति । सिद्धम् तु श्लिषः आलिङ्गने अचिण्विषये । सिद्धम् एतत् । कथम् । श्लिषः आलिङ्गने अचिण्विषये क्सः भवति इति वक्तव्यम् । अङ्विधाने च श्लिषः अनालिङ्गने । अङ्विधाने च श्लिषः अनालिङ्गने इति वक्तव्यम् । सिध्यति । सूत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् श्लिषः आलिङ्गने नियमानुपपत्तिः विधेयभावात् इति । न एषः दोषः । योगविभागात् सिद्धम् । योगविभागः करिष्यते । श्लिषः । श्लिषः क्सः भवति । किमर्थम् इदम् । पुषादिपाठात् अङ् प्राप्नोति । तद्बाधनार्थम् । ततः आलिङ्गने । आलिङ्गने च श्लिषः क्सः भवति । इदम् इदानीम् किमर्थम् । नियमार्थम् । श्लिषः आलिङ्गने एव । क्व मा भूत् । उपाश्लिषत् जतु च काष्ठम् च । समाश्लिषत् ब्राह्मणकुलम् इति । यत् अपि उच्यते यथा एव च क्सः अङम् बाधते एवम् चिणम् अपि बाधेत इति । पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते न उत्तरान् इति एवम् क्सः अङम् बाधिष्यते । चिणम् न बाधिष्यते । अथ वा तत्र वक्ष्यति : चिण्ग्रहणस्य प्रयोजनम् चिण् एव यथा स्यात् । यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।

KA II,54.2-24 Ro III,136-138 kimartham idam ucyate . niyamārtham . śliṣaḥ āliṅgane eva ksaḥ yathā syāt . iha mā bhūt : upāśliṣat jatu ca kāṣṭham ca . samāśliṣat brāhmaṇakulam iti . ataḥ uttaram paṭhati . śliṣaḥ āliṅgane niyamānupapattiḥ vidheyabhāvāt . śliṣaḥ āliṅgane niyamasya anupapattiḥ . kim kāraṇam . vidheyabhāvāt . kaimarthakyāt niyamaḥ bhavati . vidheyam na asti iti kṛtvā . iha ca asti vidheyam . kim . puṣādipāṭhāt aṅ prāptaḥ . tadbādhanārthaḥ ksaḥ vidheyaḥ . tatra apūrvaḥ vidhiḥ astu niyamaḥ vā iti apūrvaḥ eva vidhiḥ syāt na niyamaḥ . kim ca syāt yadi ayam niyamaḥ na syāt . ātmanepadeṣu āliṅgane ca ksaḥ prasajyeta . yathā eva ca ksaḥ aṅam bādhate evam ciṇam api bādheta . upāśleṣi kanyā devadattena iti . siddham tu śliṣaḥ āliṅgane aciṇviṣaye . siddham etat . katham . śliṣaḥ āliṅgane aciṇviṣaye ksaḥ bhavati iti vaktavyam . aṅvidhāne ca śliṣaḥ anāliṅgane . aṅvidhāne ca śliṣaḥ anāliṅgane iti vaktavyam . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam śliṣaḥ āliṅgane niyamānupapattiḥ vidheyabhāvāt iti . na eṣaḥ doṣaḥ . yogavibhāgāt siddham . yogavibhāgaḥ kariṣyate . śliṣaḥ . śliṣaḥ ksaḥ bhavati . kimartham idam . puṣādipāṭhāt aṅ prāpnoti . tadbādhanārtham . tataḥ āliṅgane . āliṅgane ca śliṣaḥ ksaḥ bhavati . idam idānīm kimartham . niyamārtham . śliṣaḥ āliṅgane eva . kva mā bhūt . upāśliṣat jatu ca kāṣṭham ca . samāśliṣat brāhmaṇakulam iti . yat api ucyate yathā eva ca ksaḥ aṅam bādhate evam ciṇam api bādheta iti . purastāt apavādāḥ anantarān vidhīn bādhante na uttarān iti evam ksaḥ aṅam bādhiṣyate . ciṇam na bādhiṣyate . atha vā tatra vakṣyati : ciṇgrahaṇasya prayojanam ciṇ eva yathā syāt . yat anyat prāpnoti tat mā bhūt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,५५।२-१६ रो इइइ,१३८-१३९ णिश्रिद्रुस्रुषु कमेः उपसङ्ख्यानम् । णिश्रिद्रुस्रुषु कमेः उपसङ्ख्यानम् कर्तव्यम् । नाकम् इष्टमुखम् यान्ति सुयुक्तैः वडवारथैः । अथ पत्काषीणः यान्ति ये अचीकमतभाषिणः । कर्मकर्तरि च । कर्मकर्तरि च उपसङ्ख्यानम् कर्तव्यम् । कारयति कटम् देवदत्तः । अचीकरत कटः स्वयम् एव । उच्छ्रययति कटम् देवदत्तः । औदशिश्रियत कटः स्वयम् एव । न वा कर्मणि अविधानात् कर्तृत्वात् च कर्मकर्तुः सिद्धम् । न वा कर्तव्यम् । किम् कारणम् । कर्मणि अविधानात् । न हि कः चित् कर्मणि विधीयते यः चङम् बाधेत । कर्तृत्वात् च कर्मकर्तुः सिद्धम् । अस्ति च कर्मकर्तरि कर्तृत्वम् इति कृत्वा चङ् भविष्यति । ननु च अयम् कर्मणि विधीयते । चिण् भावकर्मणोः इति । प्रतिषिध्येते तत्र यक्चिणौ । यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञाम् उपसङ्ख्यानम् इति । यः तर्हि अहेतुमण्णिच् । उदपुपुच्छत गौः स्वयम् एव । अत्र अपि यथा भारद्वाजीयाः पठन्ति तथा भवितव्यम् प्रतिषेधेन । यक्चिणोः प्रतिषेधे णिश्रिग्रन्थिब्रूञाम् आत्मनेपदाकर्मकाणाम् उपसङ्ख्यानम् इति ।

KA II,55.2-16 Ro III,138-139 ṇiśridrusruṣu kameḥ upasaṅkhyānam . ṇiśridrusruṣu kameḥ upasaṅkhyānam kartavyam . nākam iṣṭamukham yānti suyuktaiḥ vaḍavārathaiḥ . atha patkāṣīṇaḥ yānti ye acīkamatabhāṣiṇaḥ . karmakartari ca . karmakartari ca upasaṅkhyānam kartavyam . kārayati kaṭam devadattaḥ . acīkarata kaṭaḥ svayam eva . ucchrayayati kaṭam devadattaḥ . audaśiśriyata kaṭaḥ svayam eva . na vā karmaṇi avidhānāt kartṛtvāt ca karmakartuḥ siddham . na vā kartavyam . kim kāraṇam . karmaṇi avidhānāt . na hi kaḥ cit karmaṇi vidhīyate yaḥ caṅam bādheta . kartṛtvāt ca karmakartuḥ siddham . asti ca karmakartari kartṛtvam iti kṛtvā caṅ bhaviṣyati . nanu ca ayam karmaṇi vidhīyate . ciṇ bhāvakarmaṇoḥ iti . pratiṣidhyete tatra yakciṇau . yakciṇoḥ pratiṣedhe hetumaṇṇiśribrūñām upasaṅkhyānam iti . yaḥ tarhi ahetumaṇṇic . udapupucchata gauḥ svayam eva . atra api yathā bhāradvājīyāḥ paṭhanti tathā bhavitavyam pratiṣedhena . yakciṇoḥ pratiṣedhe ṇiśrigranthibrūñām ātmanepadākarmakāṇām upasaṅkhyānam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,५५।१८-२४ रो इइइ,१४० अस्यतिग्रहणम् किमर्थम् । अस्यतिग्रहणम् आत्मनेपदार्थम् । अस्यतिग्रहणम् आत्मनेपदार्थम् द्रष्टव्यम् । किम् उच्यते आत्मनेपदार्थम् इति । न पुनः परस्मैपदार्थम् अपि स्यात् । पुषादित्वात् । पुषादिपाठात् परस्मैपदेषु अङ् भविष्यति । कर्मकर्तरि च । कर्मकर्तरि च उपसङ्ख्यानम् कर्तव्यम् । पर्यास्थेताम् कुण्डले स्वयम् एव । अत्र अपि न वा कर्मणि अविधानात् कर्तृत्वात् च कर्मकर्तुः सिद्धम् इति एव ।

KA II,55.18-24 Ro III,140 asyatigrahaṇam kimartham . asyatigrahaṇam ātmanepadārtham . asyatigrahaṇam ātmanepadārtham draṣṭavyam . kim ucyate ātmanepadārtham iti . na punaḥ parasmaipadārtham api syāt . puṣāditvāt . puṣādipāṭhāt parasmaipadeṣu aṅ bhaviṣyati . karmakartari ca . karmakartari ca upasaṅkhyānam kartavyam . paryāsthetām kuṇḍale svayam eva . atra api na vā karmaṇi avidhānāt kartṛtvāt ca karmakartuḥ siddham iti eva .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,५६।२-६ रो इइइ,१४० इदम् लुचिग्रहणम् ग्लुञ्चिग्रहणम् च क्रियते । अन्यतरत् शक्यम् अकर्तुम् । कथम् । यदि तावत् ग्लुचिग्रहणम् क्रियते ग्लुञ्चिग्रहणम् न करिष्यते । तेन एव सिद्धम् न्यग्लुचत् न्यग्लोचीत् । इदम् इदानीम् ग्लुञ्चेः रूपम् न्यग्लुञ्चीत् । अथ ग्लुञ्चिग्रहणम् क्रियते ग्लुचेः ग्रहणम् न करिष्यते । तेन एव सिद्धम् न्यग्लुचत् न्यग्लुञ्चीत् । इदम् इदानीम् ग्लुचेः रूपम् न्यग्लोचीत् ।

KA II,56.2-6 Ro III,140 idam lucigrahaṇam gluñcigrahaṇam ca kriyate . anyatarat śakyam akartum . katham . yadi tāvat glucigrahaṇam kriyate gluñcigrahaṇam na kariṣyate . tena eva siddham nyaglucat nyaglocīt . idam idānīm gluñceḥ rūpam nyagluñcīt . atha gluñcigrahaṇam kriyate gluceḥ grahaṇam na kariṣyate . tena eva siddham nyaglucat nyagluñcīt . idam idānīm gluceḥ rūpam nyaglocīt .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,५६।८-९ रो इइइ,१४१ अयम् तशब्दः अस्ति एव आत्मनेपदम् अस्ति परस्मैपदम् अस्ति एकवचनम् अस्ति बहुवचनम् । कस्य इदम् ग्रहणम् । यः पदेः अस्ति । कः च पदेः अस्ति । पदिः अयम् आत्मनेपदी ।

KA II,56.8-9 Ro III,141 ayam taśabdaḥ asti eva ātmanepadam asti parasmaipadam asti ekavacanam asti bahuvacanam . kasya idam grahaṇam . yaḥ padeḥ asti . kaḥ ca padeḥ asti . padiḥ ayam ātmanepadī .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,५६।११-१३ रो इइइ,१४१ चिण् इति वर्तमाने पुनः चिण्ग्रहणम् किमर्थम् । न इति एवम् तत् अभूत् । विध्यर्थम् इदम् । अथ वा वा इति एवम् तत् अभूत् । नित्यार्थम् इदम् । अथ वा चिण् इति वर्तमाने पुनः चिण्ग्रहणस्य एतत् प्रयोजनम् । चिण् एव यथा स्यात् । यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।

KA II,56.11-13 Ro III,141 ciṇ iti vartamāne punaḥ ciṇgrahaṇam kimartham . na iti evam tat abhūt . vidhyartham idam . atha vā vā iti evam tat abhūt . nityārtham idam . atha vā ciṇ iti vartamāne punaḥ ciṇgrahaṇasya etat prayojanam . ciṇ eva yathā syāt . yat anyat prāpnoti tat mā bhūt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,५६।१५-५७।१७ रो इइइ,१४१-१४६ इह पश्यामः कर्मणि द्विवचनबहुवचनानि उदाह्रियन्ते । पच्येते* ओदनौ , पच्यन्ते ओदनाः इति । भावे पुनः एकवचनम् एव : आस्यते भवता , आस्यते भवद्भ्याम् , आस्यते भवद्भिः इति । केन एतत् एवम् भवति । कर्म अनेकम् । तस्य अनेकत्वात् द्विवचनबहुवचनानि भवन्ति । भावः पुनः एकः एव । कथम् तर्हि इह द्विवचनबहुवचनानि भवन्ति । पाकौ पाकाः इति । आश्रयभेदात् । यत् असौ द्रव्यम् श्रितः भवति भावः तस्य भेदात् द्विवचनबहुवचनानि भवन्ति । इह अपि तर्हि यावन्तः ताम् क्रियाम् कुर्वन्ति सर्वे ते तस्याः आश्रया भवन्ति । तद्भेदात् द्विवचनबहुवचनानि प्राप्नुवन्ति । एवम् तर्हि इदम् तावत् अयम् प्रष्टव्यः । किम् अभिसमीक्ष्य एतत् प्रयुज्यते । पाकौ पाकाः इति । यदि तावत् पाकविशेषान् अभिसमीक्ष्य यः च ओदनस्य पाकः यः च गुडस्य यः च तिलानाम् बहवः ते शब्दाः सरूपाः च । तत्र युक्तम् बहुवचनम् एकशेषः च । तिङभिहिते च अपि तदा भावे बहुवचनम् श्रूयते । तत् यथा : उष्टृआसिका आस्यन्ते । हतशायिकाः शय्यन्ते इति । अथ कालविशेषान् अभिसमीक्ष्य यः च अद्यतनः पाकः यः ह्यस्तनः यः श्वस्तनः ते अपि बहवः शब्दाः सरूपाः च । तत्र युक्तम् बहुवचनम् एकशेषः च । तिङभिहिते च अपि तदा भावे असारूप्यात् एकशेषः न भवति । आसि आस्यते , आसिष्यते । अस्ति खलु अपि विशेषः कृदभिहितस्य भावस्य तिङभिहितस्य च । कृदभिहितः भावः द्रव्यवत् भवति । किम् इदम् द्रव्यवत् इति । द्रव्यम् क्रियया समवायम् गच्छति । कम् समवायम् । द्रव्यम् क्रियाभिनिर्वृत्तौ साधनत्वम् उपैति । तद्वत् च अस्य भावस्य कृदभिहितस्य भवति । पाकः वर्तते इति । क्रियावत् न भवति । किम् इदम् क्रियावत् इति । क्रिया क्रियया समवायम् न गच्छति । पचति पठति इति । तद्वच् च अस्य कृतभिहितस्य न भवति । पाकः वर्तते इति । अस्ति खलु अपि विशेषः कृदभिहितस्य भावस्य तिङभिहितस्य च । तिङभिहितेन भावेन कालपुरुषोपग्रहाः अभिव्यज्यन्ते । कृदभिहितेन पुनः न व्यज्यन्ते । अस्ति खलु अपि विशेषः कृदभिहितस्य भावस्य तिङभिहितस्य च । तिङभिहितः भावः कर्त्रा सम्प्रयुज्यते। कृदभिहितः पुनः न सम्प्रयुज्यते । यावता किम् चित् सामान्यम् कः चित् विशेषः युक्तम् यत् अयम् अपि विशेषः स्यात् लिङ्गकृतः सङ्ख्याकृतः च इति ।

KA II,56.15-57.17 Ro III,141-146 iha paśyāmaḥ karmaṇi dvivacanabahuvacanāni udāhriyante . pacyete* odanau , pacyante odanāḥ iti . bhāve punaḥ ekavacanam eva : āsyate bhavatā , āsyate bhavadbhyām , āsyate bhavadbhiḥ iti . kena etat evam bhavati . karma anekam . tasya anekatvāt dvivacanabahuvacanāni bhavanti . bhāvaḥ punaḥ ekaḥ eva . katham tarhi iha dvivacanabahuvacanāni bhavanti . pākau pākāḥ iti . āśrayabhedāt . yat asau dravyam śritaḥ bhavati bhāvaḥ tasya bhedāt dvivacanabahuvacanāni bhavanti . iha api tarhi yāvantaḥ tām kriyām kurvanti sarve te tasyāḥ āśrayā bhavanti . tadbhedāt dvivacanabahuvacanāni prāpnuvanti . evam tarhi idam tāvat ayam praṣṭavyaḥ . kim abhisamīkṣya etat prayujyate . pākau pākāḥ iti . yadi tāvat pākaviśeṣān abhisamīkṣya yaḥ ca odanasya pākaḥ yaḥ ca guḍasya yaḥ ca tilānām bahavaḥ te śabdāḥ sarūpāḥ ca . tatra yuktam bahuvacanam ekaśeṣaḥ ca . tiṅabhihite ca api tadā bhāve bahuvacanam śrūyate . tat yathā : uṣṭṛāsikā āsyante . hataśāyikāḥ śayyante iti . atha kālaviśeṣān abhisamīkṣya yaḥ ca adyatanaḥ pākaḥ yaḥ hyastanaḥ yaḥ śvastanaḥ te api bahavaḥ śabdāḥ sarūpāḥ ca . tatra yuktam bahuvacanam ekaśeṣaḥ ca . tiṅabhihite ca api tadā bhāve asārūpyāt ekaśeṣaḥ na bhavati . āsi āsyate , āsiṣyate . asti khalu api viśeṣaḥ kṛdabhihitasya bhāvasya tiṅabhihitasya ca . kṛdabhihitaḥ bhāvaḥ dravyavat bhavati . kim idam dravyavat iti . dravyam kriyayā samavāyam gacchati . kam samavāyam . dravyam kriyābhinirvṛttau sādhanatvam upaiti . tadvat ca asya bhāvasya kṛdabhihitasya bhavati . pākaḥ vartate iti . kriyāvat na bhavati . kim idam kriyāvat iti . kriyā kriyayā samavāyam na gacchati . pacati paṭhati iti . tadvac ca asya kṛtabhihitasya na bhavati . pākaḥ vartate iti . asti khalu api viśeṣaḥ kṛdabhihitasya bhāvasya tiṅabhihitasya ca . tiṅabhihitena bhāvena kālapuruṣopagrahāḥ abhivyajyante . kṛdabhihitena punaḥ na vyajyante . asti khalu api viśeṣaḥ kṛdabhihitasya bhāvasya tiṅabhihitasya ca . tiṅabhihitaḥ bhāvaḥ kartrā samprayujyate. kṛdabhihitaḥ punaḥ na samprayujyate . yāvatā kim cit sāmānyam kaḥ cit viśeṣaḥ yuktam yat ayam api viśeṣaḥ syāt liṅgakṛtaḥ saṅkhyākṛtaḥ ca iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,५७।१८-५८।२३ रो इइइ,१४६-१४९ इदम् विचार्यते । भावकर्मकर्तारः सार्वधातुकार्थाः वा स्युः विकरणार्थाः वा इति । कथम् च सार्वधातुकार्थः स्युः कथम् वा विकरणार्थाः । भावकर्मवाचिनि सार्वधातुके यक् भवति कर्तृवाचिनि शर्वधातुके शप् भवति इति सार्वधातुकार्थाः । भावकर्मणोः यग् भवति सार्वधातुके कर्तरि शप् भवति सार्वधातुके इति विकरणार्थाः । कः च अत्र विशेषः । भावकर्मकर्तारः सार्वधातुकार्थाः चेत् एकद्विबहुषु नियमानुपपत्तिः अतदर्थत्वात् । भावकर्मकर्तारः सार्वधातुकार्थाः चेत् एकद्विबहुषु नियमस्य अनुपपत्तिः । किम् कारणम् । अतदर्थत्वात् । न हि तदानीम् एकत्वादयः एव विभक्त्यर्थाः । किम् तर्हि भावकर्मकर्तारः अपि । सन्तु तर्हि विकरणार्थाः । विकरणार्थाः इति चेत् कृता अभिहिते विकरणाभावः । विकरणार्थाः इति चेत् कृता अभिहिते विकरणः न प्राप्नोति । धारयः पारयः इति । किम् उच्यते कृता अभिहिते । न लेन अपि अभिधानम् भवति । अशक्यम् लेन अभिधानम् आश्रयितुम् । पक्षान्तरम् इदम् आस्थितम् भावकर्मकर्तारः सार्वधातुकार्थाः वा स्युः विकरणार्थाः वा इति । यदि च लेन अपि अभिधानम् स्यात् न इदम् पक्षान्तरम् स्यात् । कथम् अशक्यम् यदा भवान् एव आह लः कर्मणि च भावे च अकर्मकेभ्यः इति । एवम् वक्ष्यामि । लः कर्मणः भावात् च अकर्मकेभ्यः । यस्मिन् तर्हि ले विकरणाः न श्रूयन्ते कः तत्र भावकर्मकर्तॄन् अभिधास्यति । क्व च न श्रूयन्ते । ये एते लुग्विकरणाः श्लुविकरणाः च । अत्र अपि उक्ते कर्तृत्वे लुक् भविष्यति । यस्मिन् तर्हि ले विकरणाः न एव उत्पद्यन्ते कः तत्र भावकर्मकर्तॄन् अभिधास्यति । क्व च न एव उत्पद्यन्ते । लिङ्लिटोः । तस्मात् न एतत् शक्यम् वक्तुम् । न लेन अभिधानम् भवति इति । भवति चेत् अभिहिते विकरणाभावः एव । एवम् तर्हि इदम् स्यात् । यदा भावकर्मणोः लः तदा कर्तरि विकरणाः । यदा कर्तरि लः तदा भावकर्मणोः विकरणाः । इदम् अस्य यदि एव स्वाभाविकम् अथ अपि वाचनिकम् : प्रकृतिप्रत्ययौ प्रत्ययार्थम् सह ब्रूतः इति । न च अस्ति सम्भवः यत् एकस्याः प्रकृतेः द्वयोः नानार्थयोः युगपत् अनुसहायीभावः स्यात् । एवम् च कृत्वा एकपक्षीभूतम् इदम् भवति : सार्वधातुकार्थाः एव इति । ननु च उक्तम् भावकर्मकर्तारः सार्वधातुकार्थाः चेत् एकद्विबहुषु नियमानुपपत्तिः अतदर्थत्वात् इति । न एषः दोषः । सुपाम् कर्मादयः अपि अर्थाः सङ्ख्या च एव तथा तिङाम् । सुपाम् सङ्ख्या च एव अर्थः कर्मादयः च । तथा तिङाम् । प्रसिद्धः नियमः तत्र । प्रसिद्धः तत्र नियमः । नियमः प्रकृतेषु वा । अथ वा प्रकृतान् अर्थान् अपेक्ष्य नियमः । के च प्रकृताः । एकत्वादयः । एकस्मिन् एव एकवचनम् न द्वयोः न बहुषु । द्वयोः एव द्विवचनम् नैकस्मिन् न बहुषु । बहुषु एव बहुवचनम् न द्वयोः न एकस्मिन् इति ।

KA II,57.18-58.23 Ro III,146-149 idam vicāryate . bhāvakarmakartāraḥ sārvadhātukārthāḥ vā syuḥ vikaraṇārthāḥ vā iti . katham ca sārvadhātukārthaḥ syuḥ katham vā vikaraṇārthāḥ . bhāvakarmavācini sārvadhātuke yak bhavati kartṛvācini śarvadhātuke śap bhavati iti sārvadhātukārthāḥ . bhāvakarmaṇoḥ yag bhavati sārvadhātuke kartari śap bhavati sārvadhātuke iti vikaraṇārthāḥ . kaḥ ca atra viśeṣaḥ . bhāvakarmakartāraḥ sārvadhātukārthāḥ cet ekadvibahuṣu niyamānupapattiḥ atadarthatvāt . bhāvakarmakartāraḥ sārvadhātukārthāḥ cet ekadvibahuṣu niyamasya anupapattiḥ . kim kāraṇam . atadarthatvāt . na hi tadānīm ekatvādayaḥ eva vibhaktyarthāḥ . kim tarhi bhāvakarmakartāraḥ api . santu tarhi vikaraṇārthāḥ . vikaraṇārthāḥ iti cet kṛtā abhihite vikaraṇābhāvaḥ . vikaraṇārthāḥ iti cet kṛtā abhihite vikaraṇaḥ na prāpnoti . dhārayaḥ pārayaḥ iti . kim ucyate kṛtā abhihite . na lena api abhidhānam bhavati . aśakyam lena abhidhānam āśrayitum . pakṣāntaram idam āsthitam bhāvakarmakartāraḥ sārvadhātukārthāḥ vā syuḥ vikaraṇārthāḥ vā iti . yadi ca lena api abhidhānam syāt na idam pakṣāntaram syāt . katham aśakyam yadā bhavān eva āha laḥ karmaṇi ca bhāve ca akarmakebhyaḥ iti . evam vakṣyāmi . laḥ karmaṇaḥ bhāvāt ca akarmakebhyaḥ . yasmin tarhi le vikaraṇāḥ na śrūyante kaḥ tatra bhāvakarmakartṝn abhidhāsyati . kva ca na śrūyante . ye ete lugvikaraṇāḥ śluvikaraṇāḥ ca . atra api ukte kartṛtve luk bhaviṣyati . yasmin tarhi le vikaraṇāḥ na eva utpadyante kaḥ tatra bhāvakarmakartṝn abhidhāsyati . kva ca na eva utpadyante . liṅliṭoḥ . tasmāt na etat śakyam vaktum . na lena abhidhānam bhavati iti . bhavati cet abhihite vikaraṇābhāvaḥ eva . evam tarhi idam syāt . yadā bhāvakarmaṇoḥ laḥ tadā kartari vikaraṇāḥ . yadā kartari laḥ tadā bhāvakarmaṇoḥ vikaraṇāḥ . idam asya yadi eva svābhāvikam atha api vācanikam : prakṛtipratyayau pratyayārtham saha brūtaḥ iti . na ca asti sambhavaḥ yat ekasyāḥ prakṛteḥ dvayoḥ nānārthayoḥ yugapat anusahāyībhāvaḥ syāt . evam ca kṛtvā ekapakṣībhūtam idam bhavati : sārvadhātukārthāḥ eva iti . nanu ca uktam bhāvakarmakartāraḥ sārvadhātukārthāḥ cet ekadvibahuṣu niyamānupapattiḥ atadarthatvāt iti . na eṣaḥ doṣaḥ . supām karmādayaḥ api arthāḥ saṅkhyā ca eva tathā tiṅām . supām saṅkhyā ca eva arthaḥ karmādayaḥ ca . tathā tiṅām . prasiddhaḥ niyamaḥ tatra . prasiddhaḥ tatra niyamaḥ . niyamaḥ prakṛteṣu vā . atha vā prakṛtān arthān apekṣya niyamaḥ . ke ca prakṛtāḥ . ekatvādayaḥ . ekasmin eva ekavacanam na dvayoḥ na bahuṣu . dvayoḥ eva dvivacanam naikasmin na bahuṣu . bahuṣu eva bahuvacanam na dvayoḥ na ekasmin iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,५८।२४-६०।११ रो इइइ,१४९-१५३ भावकर्मणोः यग्विधाने कर्मकर्तरि उपसङ्ख्यानम् । भावकर्मणोः यग्विधाने कर्मकर्तरि उपसङ्ख्यानम् कर्तव्यम् । पच्यते स्वयम् एव । पठ्यते स्वयम् एव । किम् पुनः कारणम् न सिध्यति । विप्रतिषेधात् हि शपः बलीयस्त्वम् । विप्रतिषेधात् हि शपः बलीयस्त्वम् प्राप्नोति । शपः अवकाशः । पचति पठति । यकः अवकाशः । पच्यते ओदनः देवदत्तेन । पठ्यते विद्या देवदत्तेन । इह उभयम् प्राप्नोति । पच्यते स्वयम् एव । पठ्यते स्वयम् एव । परत्वात् शप् प्राप्नोति । योगविभागात् सिद्धम् । योगविभागः करिष्यते । चिण् भावकर्मणोः । सार्वधातुके यक् भावकर्मणोः । ततः कर्तरि । कर्तरि च यक् भवति भावकर्मणोः । यथा एव तर्हि कर्मणि कर्तरि यक् भवति एवम् भावे कर्तरि प्राप्नोति । एति जीवन्तम् आनन्दः । न अस्य किम् चित् रुजति रोगः इति । द्वितीयः योगविभागः करिष्यते । चिण् भावे । ततः कर्मणि । कर्मणि च चिण् भवति । ततः सार्वधातुके यक् भवति भावे च कर्मणि च । ततः कर्तरि । कर्तरि च यक् भवति । कर्मणि इति अनुवर्तते । भावे इति निवृत्तम् । ततः शप् । शप् च भवति । कर्तरि इति एव । कर्मणि इति अपि निवृत्तम् । एवम् अपि उपसङ्ख्यानम् कर्तव्यम् । विप्रतिषेधात् हि श्यनः बलीयस्त्वम् प्राप्नोति । श्यनः अवकाशः । दीव्यति सीव्यति । यकः अवकाशः । पच्यते ओदनः देवदत्तेन । पठ्यते विद्या देवदत्तेन । इह उभयम् प्राप्नोति । दीव्यते स्वयम् एव । सीव्यते स्वयम् एव । परत्वात् श्यन् प्राप्नोति । ननु च एतत् अपि योगविभागात् एव सिद्धम् । न सिध्यति । अनन्तरा या प्रप्तिः सा योगविभागेन शक्या बाधितुम् । कुतः एतत् । अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति । परा प्राप्तिः अप्रतिषिद्धा । तया प्राप्नोति । ननु च इयम् प्राप्तिः पराम् प्राप्तिम् बाधेत । न उत्सहते प्रतिषिद्धा सती बाधितुम् । एवम् तर्हि शबादेशाः श्यनादयः करिष्यन्ते । शप् च स्यादिभिः बाध्यते । तत्र दिवादिभ्यः यग्विषये शप् एव न अस्ति कुतः श्यनादयः । तत् तर्हि शपः ग्रहणम् कर्तव्यम् । न कर्तव्यम् । प्रकृतम् अनुवर्तते । क्व प्रकृतम् । कर्तरि शप् इति । तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः । दिवादिभ्यः इति एषा पञ्चमी शप् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति । प्रत्ययविधिः अयम् । न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति । न अयम् प्रत्ययविधिः । विहितः प्रत्ययः । प्रकृतः च अनुवर्तते । अथ वा भावकर्मणोः इति अनुवृत्त्या एव सिद्धे सति अनिवृत्तिः यकः भावाय ।इह सार्वधातुके यक् इति अन्तरेण भावकर्मणोः इति अनुवृत्तिम् सिद्धम् । सः अयम् एवम् सिद्धे सति यत् भावकर्मणोः इति अनुवर्तयति तस्य एतत् प्रयोजनम् । कर्मकर्तरि अपि यथा स्यात् । कर्तरि इति च योगविभागः श्यनः पूर्वविप्रतिषेधावचनाय । कर्तरि इति योगविभागः कर्तव्यः श्यनः पूर्वविप्रतिषेधम् मा वोचम् इति । अथ वा कर्मवद्भाववचनसामर्थ्यात् यक् भविष्यति । अस्ति अन्यत् कर्मवद्भाववचने प्रयोजनम् । किम् । आत्मनेपदम् यथा स्यात् । वचनात् आत्मनेपदम् भविष्यति । चिण् तर्हि यथा स्यात् । चिण् अपि वचनात् भविष्यति । चिण्वद्भावः तर्हि यथा स्यात् । न एकम् प्रयोजनम् योगारम्भम् प्रयोजयति । तत्र कर्मवद्भाववचनसामर्थ्यात् यक् भविष्यति । अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति कर्मकर्तरि यक् इति यत् अयम् न दुहस्न्नुनमाम् यक्चिणौ इति यक्चिणोः प्रतिषेधम् शास्ति ।

KA II,58.24-60.11 Ro III,149-153 bhāvakarmaṇoḥ yagvidhāne karmakartari upasaṅkhyānam . bhāvakarmaṇoḥ yagvidhāne karmakartari upasaṅkhyānam kartavyam . pacyate svayam eva . paṭhyate svayam eva . kim punaḥ kāraṇam na sidhyati . vipratiṣedhāt hi śapaḥ balīyastvam . vipratiṣedhāt hi śapaḥ balīyastvam prāpnoti . śapaḥ avakāśaḥ . pacati paṭhati . yakaḥ avakāśaḥ . pacyate odanaḥ devadattena . paṭhyate vidyā devadattena . iha ubhayam prāpnoti . pacyate svayam eva . paṭhyate svayam eva . paratvāt śap prāpnoti . yogavibhāgāt siddham . yogavibhāgaḥ kariṣyate . ciṇ bhāvakarmaṇoḥ . sārvadhātuke yak bhāvakarmaṇoḥ . tataḥ kartari . kartari ca yak bhavati bhāvakarmaṇoḥ . yathā eva tarhi karmaṇi kartari yak bhavati evam bhāve kartari prāpnoti . eti jīvantam ānandaḥ . na asya kim cit rujati rogaḥ iti . dvitīyaḥ yogavibhāgaḥ kariṣyate . ciṇ bhāve . tataḥ karmaṇi . karmaṇi ca ciṇ bhavati . tataḥ sārvadhātuke yak bhavati bhāve ca karmaṇi ca . tataḥ kartari . kartari ca yak bhavati . karmaṇi iti anuvartate . bhāve iti nivṛttam . tataḥ śap . śap ca bhavati . kartari iti eva . karmaṇi iti api nivṛttam . evam api upasaṅkhyānam kartavyam . vipratiṣedhāt hi śyanaḥ balīyastvam prāpnoti . śyanaḥ avakāśaḥ . dīvyati sīvyati . yakaḥ avakāśaḥ . pacyate odanaḥ devadattena . paṭhyate vidyā devadattena . iha ubhayam prāpnoti . dīvyate svayam eva . sīvyate svayam eva . paratvāt śyan prāpnoti . nanu ca etat api yogavibhāgāt eva siddham . na sidhyati . anantarā yā praptiḥ sā yogavibhāgena śakyā bādhitum . kutaḥ etat . anantarasya vidhiḥ vā bhavati pratiṣedhaḥ vā iti . parā prāptiḥ apratiṣiddhā . tayā prāpnoti . nanu ca iyam prāptiḥ parām prāptim bādheta . na utsahate pratiṣiddhā satī bādhitum . evam tarhi śabādeśāḥ śyanādayaḥ kariṣyante . śap ca syādibhiḥ bādhyate . tatra divādibhyaḥ yagviṣaye śap eva na asti kutaḥ śyanādayaḥ . tat tarhi śapaḥ grahaṇam kartavyam . na kartavyam . prakṛtam anuvartate . kva prakṛtam . kartari śap iti . tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . divādibhyaḥ iti eṣā pañcamī śap iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti . pratyayavidhiḥ ayam . na ca pratyayavidhau pañcamyaḥ prakalpikāḥ bhavanti . na ayam pratyayavidhiḥ . vihitaḥ pratyayaḥ . prakṛtaḥ ca anuvartate . atha vā bhāvakarmaṇoḥ iti anuvṛttyā eva siddhe sati anivṛttiḥ yakaḥ bhāvāya .iha sārvadhātuke yak iti antareṇa bhāvakarmaṇoḥ iti anuvṛttim siddham . saḥ ayam evam siddhe sati yat bhāvakarmaṇoḥ iti anuvartayati tasya etat prayojanam . karmakartari api yathā syāt . kartari iti ca yogavibhāgaḥ śyanaḥ pūrvavipratiṣedhāvacanāya . kartari iti yogavibhāgaḥ kartavyaḥ śyanaḥ pūrvavipratiṣedham mā vocam iti . atha vā karmavadbhāvavacanasāmarthyāt yak bhaviṣyati . asti anyat karmavadbhāvavacane prayojanam . kim . ātmanepadam yathā syāt . vacanāt ātmanepadam bhaviṣyati . ciṇ tarhi yathā syāt . ciṇ api vacanāt bhaviṣyati . ciṇvadbhāvaḥ tarhi yathā syāt . na ekam prayojanam yogārambham prayojayati . tatra karmavadbhāvavacanasāmarthyāt yak bhaviṣyati . atha vā ācāryapravṛttiḥ jñāpayati bhavati karmakartari yak iti yat ayam na duhasnnunamām yakciṇau iti yakciṇoḥ pratiṣedham śāsti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,६०।१३-१५ रो इइइ,१५३ अनुपसर्गात् इति किमर्थम् । आयस्यति प्रयस्यति । अनुपसर्गात् इति शक्यम् अकर्तुम् । कथम् आयस्यति प्रयस्यति । संयसः च इति एतत् नियमार्थम् भविष्यति । सम्पूर्वात् यसः न अन्यपूर्वात् इति ।

KA II,60.13-15 Ro III,153 anupasargāt iti kimartham . āyasyati prayasyati . anupasargāt iti śakyam akartum . katham āyasyati prayasyati . saṃyasaḥ ca iti etat niyamārtham bhaviṣyati . sampūrvāt yasaḥ na anyapūrvāt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,६०।१७-६१।१२ रो इइइ,१५३-१५४ किमर्थः शकारः । सार्वधातुकाऋथः । शित् सार्वधातुकम् इति सार्वधातुकसञ्ज्ञा । सार्वधातुकम् अपित् इति ङित्त्वम् । ङिति इति गुणप्रतिषेधः यथा स्यात् । भिनत्ति छिनत्ति इति । न एतत् अस्ति प्रयोजनम् । सार्वधातुकार्धधातुकयोः अङ्गस्य गुणः उच्यते यस्मात् च प्रत्ययविधिः तदादि प्रत्यये अङ्गसञ्ज्ञम् भवति । यस्मात् च अत्र प्रत्ययविधिः न तत् प्रत्यये परतः । यत् च प्रत्यये परतः न तस्मात् प्रत्ययविधिः । इदम् तर्हि प्रयोजनम् । आर्धधातुकसञ्ज्ञा मा भूत् इति । किम् च स्यात् । वलादिलक्षणः इट् प्रसज्येत । एतत् अपि न अस्ति प्रयोजनम् । वलादेः आर्धधातुकस्य अङ्गस्य इट् उच्यते । यस्मात् च प्रत्ययविधिः तदादि प्रत्यये अङ्गसञ्ज्ञम् भवति । यस्मात् च अत्र प्रत्ययविधिः न तत् प्रत्यये परतः । यत् च प्रत्यये परतः न तस्मात् प्रत्ययविधिः । अतः उत्तरम् पठति । श्नमि शित्करणम् प्वादिह्रस्वार्थम् । श्नमि शित्करणम् क्रियते प्वादीनाम् शिति ह्रस्वत्वम् यथा स्यात् । पृणसि मृणसि इति । न वा धात्वन्यत्वात् । न वा कर्तव्यम् । किम् कारणम् । धात्वन्यत्वात् । धात्वन्तरम् पृणिमृणी । यत्र भूम्याम् वृणसे । न एषः श्नम् । श्नः एतत् ह्रस्वत्वम् । यदि श्नः ह्रस्वत्वम् स्वरः न सिध्यति । वृणसे । अदुपदेशात् लसार्वधातुकम् अनुदात्तम् भवति इति एषः स्वरः न प्राप्नोति । तस्मात् श्नम् एषः । यदि श्नम् स्नसोः अल्लोपः इति लोपः प्राप्नोति । उपधायाः इति वर्तते । अनुपधात्वात् न भविष्यति । न सः शख्यः उपधायाः इति विज्ञातुम् । इह हि दोषः स्यात् । अङ्क्तः अञ्जन्ति । तस्मात् श्नः एव ह्रस्वत्वम् । स्वरः कथम् । बहुलम् पित् सार्वधातुकम् छन्दसि । सार्वधातुकस्य भलुलम् छन्दसि पित्त्वम् वक्तव्यम् । पितः च अपित्त्वम् दृश्यते अपितः च पित्त्वम् । पितः तावत् अपित्त्वम् । मातरम् प्रमिणीमि जनित्रीम् । अपितः पित्त्वम् । शृणोत ग्रावाणः । तत् तर्हि ह्रस्वत्वम् वक्तव्यम् । अवश्यम् छन्दसि ह्रस्वत्वम् वक्तव्यम् उपगायन्तु माम् पत्नयः गर्भिणयः युवतयः इति एवमर्थम् । विशेषणाऋथः तर्हि । क्व विशेषणाऋथेन अर्थः । श्नात् नलोपः इति । नात् नलोपः इति उच्यमाने यज्ञानाम् यत्नानाम् इति अत्र अपि प्रसज्येत । दीर्घत्वे कृते न भविष्यति । इदम् इह सम्प्रधार्यम् । दीर्घत्वम् क्रियताम् नलोपः इति । किम् अत्र कर्तव्यम् । परत्वात् न लोपः स्यात् । तस्मात् शकारः कर्तव्यः । अथ क्रियमाणे अपि शकारे इह कस्मात् न भवति । विश्नानाम् प्रश्नानाम् इति । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।

KA II,60.17-61.12 Ro III,153-154 kimarthaḥ śakāraḥ . sārvadhātukāṛthaḥ . śit sārvadhātukam iti sārvadhātukasañjñā . sārvadhātukam apit iti ṅittvam . ṅiti iti guṇapratiṣedhaḥ yathā syāt . bhinatti chinatti iti . na etat asti prayojanam . sārvadhātukārdhadhātukayoḥ aṅgasya guṇaḥ ucyate yasmāt ca pratyayavidhiḥ tadādi pratyaye aṅgasañjñam bhavati . yasmāt ca atra pratyayavidhiḥ na tat pratyaye parataḥ . yat ca pratyaye parataḥ na tasmāt pratyayavidhiḥ . idam tarhi prayojanam . ārdhadhātukasañjñā mā bhūt iti . kim ca syāt . valādilakṣaṇaḥ iṭ prasajyeta . etat api na asti prayojanam . valādeḥ ārdhadhātukasya aṅgasya iṭ ucyate . yasmāt ca pratyayavidhiḥ tadādi pratyaye aṅgasañjñam bhavati . yasmāt ca atra pratyayavidhiḥ na tat pratyaye parataḥ . yat ca pratyaye parataḥ na tasmāt pratyayavidhiḥ . ataḥ uttaram paṭhati . śnami śitkaraṇam pvādihrasvārtham . śnami śitkaraṇam kriyate pvādīnām śiti hrasvatvam yathā syāt . pṛṇasi mṛṇasi iti . na vā dhātvanyatvāt . na vā kartavyam . kim kāraṇam . dhātvanyatvāt . dhātvantaram pṛṇimṛṇī . yatra bhūmyām vṛṇase . na eṣaḥ śnam . śnaḥ etat hrasvatvam . yadi śnaḥ hrasvatvam svaraḥ na sidhyati . vṛṇase . adupadeśāt lasārvadhātukam anudāttam bhavati iti eṣaḥ svaraḥ na prāpnoti . tasmāt śnam eṣaḥ . yadi śnam snasoḥ allopaḥ iti lopaḥ prāpnoti . upadhāyāḥ iti vartate . anupadhātvāt na bhaviṣyati . na saḥ śakhyaḥ upadhāyāḥ iti vijñātum . iha hi doṣaḥ syāt . aṅktaḥ añjanti . tasmāt śnaḥ eva hrasvatvam . svaraḥ katham . bahulam pit sārvadhātukam chandasi . sārvadhātukasya bhalulam chandasi pittvam vaktavyam . pitaḥ ca apittvam dṛśyate apitaḥ ca pittvam . pitaḥ tāvat apittvam . mātaram pramiṇīmi janitrīm . apitaḥ pittvam . śṛṇota grāvāṇaḥ . tat tarhi hrasvatvam vaktavyam . avaśyam chandasi hrasvatvam vaktavyam upagāyantu mām patnayaḥ garbhiṇayaḥ yuvatayaḥ iti evamartham . viśeṣaṇāṛthaḥ tarhi . kva viśeṣaṇāṛthena arthaḥ . śnāt nalopaḥ iti . nāt nalopaḥ iti ucyamāne yajñānām yatnānām iti atra api prasajyeta . dīrghatve kṛte na bhaviṣyati . idam iha sampradhāryam . dīrghatvam kriyatām nalopaḥ iti . kim atra kartavyam . paratvāt na lopaḥ syāt . tasmāt śakāraḥ kartavyaḥ . atha kriyamāṇe api śakāre iha kasmāt na bhavati . viśnānām praśnānām iti . lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,६१।२४-६२।८ रो इइइ,१५५-१५६ अथ किमर्थम् करोतेः पृथग्ग्रहणम् क्रियते न तनादिभ्यः इति एव उच्यते । अन्यानि तनोत्यादिकार्याणि मा भूवन् इति । कानि । अनुनासिकलोपादीनि । दैवरक्ताः किंसुकाः । अनुनासिकाभावात् एव अनुनासिकलोपः न भविष्यति । इदम् तर्हि तनादिकार्यम् मा भूत् तनादिभ्यः तथासोः इति । ननु च भवति एव अत्र ह्रस्वात् अङ्गात् इति । तेन एव यथा स्यात् । अनेन मा भूत् इति । कः च अत्र विशेषः तेन वा सति अनेन वा । तेन सति सिज्लोपस्य असिद्धत्वात् चिण्वद्भावः सिद्धः भवति । अनेन पुनः सति चिण्वद्भावः न स्यात् । अनेन अपि सति चिण्वद्भावः सिद्धः । कथम् । विभाषा लुक् । यदा न लुक् तदा तेन लोपः । तत्र सिज्लोपस्य असिद्धत्वात् चिण्वद्भावः सिद्धः भवति । तनादित्वात् कृञः सिद्धम् सिज्लोपे च न दुष्यति । चिण्वद्भावे अत्र दोषः स्यात् । सः अपि प्रोक्तः विभाषया ।

KA II,61.24-62.8 Ro III,155-156 atha kimartham karoteḥ pṛthaggrahaṇam kriyate na tanādibhyaḥ iti eva ucyate . anyāni tanotyādikāryāṇi mā bhūvan iti . kāni . anunāsikalopādīni . daivaraktāḥ kiṃsukāḥ . anunāsikābhāvāt eva anunāsikalopaḥ na bhaviṣyati . idam tarhi tanādikāryam mā bhūt tanādibhyaḥ tathāsoḥ iti . nanu ca bhavati eva atra hrasvāt aṅgāt iti . tena eva yathā syāt . anena mā bhūt iti . kaḥ ca atra viśeṣaḥ tena vā sati anena vā . tena sati sijlopasya asiddhatvāt ciṇvadbhāvaḥ siddhaḥ bhavati . anena punaḥ sati ciṇvadbhāvaḥ na syāt . anena api sati ciṇvadbhāvaḥ siddhaḥ . katham . vibhāṣā luk . yadā na luk tadā tena lopaḥ . tatra sijlopasya asiddhatvāt ciṇvadbhāvaḥ siddhaḥ bhavati . tanāditvāt kṛñaḥ siddham sijlope ca na duṣyati . ciṇvadbhāve atra doṣaḥ syāt . saḥ api proktaḥ vibhāṣayā .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,६२।१०-२२ रो इइइ,१५६-१५७ क्व अयम् अकारः श्रूयते । न क्व चित् श्रूयते । लोपः अस्य भवति अतः लोपः आर्धधातुके इति । यदि न क्व चित् श्रूयते किमर्थम् अत्वम् उच्यते न लोपः एव उच्यते । न एवम् शक्यम् । लोपे हि सति गुणः प्रसज्येत । ननु च लोपे अपि सति न धातुलोपे आर्धधातुके इति प्रतिषेधः भविष्यति । आर्धधातुकनिमित्ते लोपे सः प्रतिषेधः । न च एषः आर्धधातुकनिमित्तः लोपः । अपि च प्रत्याख्यायते सः योगः । तस्मिन् प्रत्याख्याते गुणः स्यात् एव । तस्मात् अत्वम् वक्तव्यम् । अथ किमर्थम् नुमनुषक्तयोः ग्रहणम् क्रियते न धिविकृव्योः इति एव उच्यते । धिविकृव्योः इति उच्यमाने अत्वे कृते अनिष्टे देशे नुम् प्रसज्येत । इदम् इह सम्प्रधार्यम् । अत्वम् क्रियताम् नुम् इति । किम् अत्र कर्तव्यम् । परत्वात् नुमागमः । अन्तरङ्गम् अत्वम् । का अन्तरङ्गता । प्रत्ययोत्पत्तिसन्नियोगेन अत्वम् उच्यते । उत्पन्नेप्रत्यये प्रकृतिप्रत्ययौ आश्रित्य अङ्गस्य नुमागमः । नुम् अपि अन्तरङ्गः । कथम् । वक्ष्यति एतत् नुम्विधौ उपदेशिवद्वचनम् प्रत्ययविध्यर्थम् इति । उभयोः अन्तरङ्गयोः परत्वात् नुमागमः । तस्मात् धिविकृव्योः इति वक्तव्यम् ।

KA II,62.10-22 Ro III,156-157 kva ayam akāraḥ śrūyate . na kva cit śrūyate . lopaḥ asya bhavati ataḥ lopaḥ ārdhadhātuke iti . yadi na kva cit śrūyate kimartham atvam ucyate na lopaḥ eva ucyate . na evam śakyam . lope hi sati guṇaḥ prasajyeta . nanu ca lope api sati na dhātulope ārdhadhātuke iti pratiṣedhaḥ bhaviṣyati . ārdhadhātukanimitte lope saḥ pratiṣedhaḥ . na ca eṣaḥ ārdhadhātukanimittaḥ lopaḥ . api ca pratyākhyāyate saḥ yogaḥ . tasmin pratyākhyāte guṇaḥ syāt eva . tasmāt atvam vaktavyam . atha kimartham numanuṣaktayoḥ grahaṇam kriyate na dhivikṛvyoḥ iti eva ucyate . dhivikṛvyoḥ iti ucyamāne atve kṛte aniṣṭe deśe num prasajyeta . idam iha sampradhāryam . atvam kriyatām num iti . kim atra kartavyam . paratvāt numāgamaḥ . antaraṅgam atvam . kā antaraṅgatā . pratyayotpattisanniyogena atvam ucyate . utpannepratyaye prakṛtipratyayau āśritya aṅgasya numāgamaḥ . num api antaraṅgaḥ . katham . vakṣyati etat numvidhau upadeśivadvacanam pratyayavidhyartham iti . ubhayoḥ antaraṅgayoḥ paratvāt numāgamaḥ . tasmāt dhivikṛvyoḥ iti vaktavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,६२।२४-६४।११ रो इइइ,१५७-१६० किमर्थः शकारः । शित् सार्वधातुकम् इति सार्वधातुकसञ्ज्ञा सार्वधातुकम् अपित् इति ङित्त्वम् ङिति इति प्रतिषेधः यथा स्यात् । कुषाण पुषाण इति । अतः उत्तरम् पठति । श्नाविकारस्य शित्करणानर्थक्यम् स्थानिवत्वात् । श्नाविकारस्य शित्करणम् अनर्थकम् । किम् कारणम् । स्थानिवत्वात् । शितः अयम् आदेशः स्थानिवद्भावात् शित् भविष्यति । अर्थवत् तु ज्ञापकम् सार्वधातुकादेशे अनुबन्धास्थानिवत्त्वस्य । अर्थवत् तु श्नाविकारस्य शित्करणम् । कः अर्थः । ज्ञापकार्थम् । किम् ज्ञाप्यम् । एतत् ज्ञापयति आचार्यः सार्वधातुकादेशे अनुबन्धाः न स्थानिवत् भवन्ति इति । किम् एतस्य ज्ञपने प्रयोजनम् । प्रयोजनम् हितातङोः अपित्त्वम् । हेः पित्त्वम् न प्रतिषेध्यम् । पितः अयम् आदेशः स्थानिवद्भावात् पित् स्यात् । सार्वधातुकादेशे अनुबन्धाः न स्थानिवत् भवन्ति इति न अयम् पित् भविष्यति । तातङि च ङकारः न उच्चार्यः भवति । पितः अयम् आदेशः स्थानिवद्भावात् पित् स्यात् । सार्वधातुकादेशे अनुबन्धाः न स्थानिवत् भवन्ति इति न अयम् पित् भविष्यति । तबादिषु च अङित्त्वम् । तबादिषु च अङित्त्वम् प्रयोजनम् । शृणोत ग्रावाणः । ङितः इमे आदेशाः स्थानिवद्भावात् ङितः स्युः । सार्वधातुकादेशे अनुबन्धाः न स्थानिवत् भवन्ति इति न इमे ङितः भवन्ति । तस्य दोषः मिपः आदेशे पिदभावः । तस्य एतस्य लक्षणस्य दोषः मिपः आदेशे पितः अभावः । अचिनवम् असुनवम् अकरवम् । पितः अयम् आदेशः स्थानिवद्भावात् पित् स्यात् । सार्वधातुकादेशे अनुबन्धाः न स्थानिवत् भवन्ति इति न अयम् पित् स्यात् । अत्यल्पम् इदम् उच्यते । तिप्सिब्मिपाम् आदेशाः इति वक्तव्यम् । वेद वेत्थ । विदेः वसोः शित्त्वम् । विदेः उत्तरस्य वसोः शित्त्वम् वक्तव्यम् । शितः अयम् आदेशः स्थानिवद्भावात् पित् स्यात् । सार्वधातुकादेशे अनुबन्धाः न स्थानिवत् भवन्ति इति न अयम् शित् स्यात् । कित्करणात् वा सिद्धम् । अथ वा अवश्यम् अत्र सामान्यग्रहणाविघातार्थः ककारः अनुबन्धः कर्तव्यः । क्व सामान्यग्रहणाविघातार्थेन अर्थः । वसोः सम्प्रसारणम् । तेन एव यत्नेन गुणः न भविष्यति । अस्य ज्ञापकस्य सन्ति दोषाः सन्ति प्रयोजनानि । समाः दोषाः भूयांसः वा । तस्मात् न अर्थः अनेन ज्ञापकेन । कथम् यानि प्रयोजनानि । तानि क्रियन्ते न्यासे एव । एवम् अपि भवेत् पित्करणसामर्थ्यात् पित्कृतम् स्यात् ङित्करणसामर्थ्यात् ङित्कृतम् । यत् तु खलु पिति ङित्कृतम् प्राप्नोति ङिति च पित्कृतम् केन तत् न स्यात् । तस्मात् वक्तव्यम् पित् न ङिद्वत् भवति ङित् च न पिद्वत् भवति इति । न वक्तव्यम् । एवम् वक्ष्यामि । सार्वधातुकम् ङित् भवति पित् न । एवम् तावत् पितः ङित्त्वम् प्रतिषिद्धम् । ततः असंयोगात् लिट् कित् भवति इति ङित् च पित् न भवति । एवम् ङितः पित्त्वम् प्रतिषिद्धम् ।

KA II,62.24-64.11 Ro III,157-160 kimarthaḥ śakāraḥ . śit sārvadhātukam iti sārvadhātukasañjñā sārvadhātukam apit iti ṅittvam ṅiti iti pratiṣedhaḥ yathā syāt . kuṣāṇa puṣāṇa iti . ataḥ uttaram paṭhati . śnāvikārasya śitkaraṇānarthakyam sthānivatvāt . śnāvikārasya śitkaraṇam anarthakam . kim kāraṇam . sthānivatvāt . śitaḥ ayam ādeśaḥ sthānivadbhāvāt śit bhaviṣyati . arthavat tu jñāpakam sārvadhātukādeśe anubandhāsthānivattvasya . arthavat tu śnāvikārasya śitkaraṇam . kaḥ arthaḥ . jñāpakārtham . kim jñāpyam . etat jñāpayati ācāryaḥ sārvadhātukādeśe anubandhāḥ na sthānivat bhavanti iti . kim etasya jñapane prayojanam . prayojanam hitātaṅoḥ apittvam . heḥ pittvam na pratiṣedhyam . pitaḥ ayam ādeśaḥ sthānivadbhāvāt pit syāt . sārvadhātukādeśe anubandhāḥ na sthānivat bhavanti iti na ayam pit bhaviṣyati . tātaṅi ca ṅakāraḥ na uccāryaḥ bhavati . pitaḥ ayam ādeśaḥ sthānivadbhāvāt pit syāt . sārvadhātukādeśe anubandhāḥ na sthānivat bhavanti iti na ayam pit bhaviṣyati . tabādiṣu ca aṅittvam . tabādiṣu ca aṅittvam prayojanam . śṛṇota grāvāṇaḥ . ṅitaḥ ime ādeśāḥ sthānivadbhāvāt ṅitaḥ syuḥ . sārvadhātukādeśe anubandhāḥ na sthānivat bhavanti iti na ime ṅitaḥ bhavanti . tasya doṣaḥ mipaḥ ādeśe pidabhāvaḥ . tasya etasya lakṣaṇasya doṣaḥ mipaḥ ādeśe pitaḥ abhāvaḥ . acinavam asunavam akaravam . pitaḥ ayam ādeśaḥ sthānivadbhāvāt pit syāt . sārvadhātukādeśe anubandhāḥ na sthānivat bhavanti iti na ayam pit syāt . atyalpam idam ucyate . tipsibmipām ādeśāḥ iti vaktavyam . veda vettha . videḥ vasoḥ śittvam . videḥ uttarasya vasoḥ śittvam vaktavyam . śitaḥ ayam ādeśaḥ sthānivadbhāvāt pit syāt . sārvadhātukādeśe anubandhāḥ na sthānivat bhavanti iti na ayam śit syāt . kitkaraṇāt vā siddham . atha vā avaśyam atra sāmānyagrahaṇāvighātārthaḥ kakāraḥ anubandhaḥ kartavyaḥ . kva sāmānyagrahaṇāvighātārthena arthaḥ . vasoḥ samprasāraṇam . tena eva yatnena guṇaḥ na bhaviṣyati . asya jñāpakasya santi doṣāḥ santi prayojanāni . samāḥ doṣāḥ bhūyāṃsaḥ vā . tasmāt na arthaḥ anena jñāpakena . katham yāni prayojanāni . tāni kriyante nyāse eva . evam api bhavet pitkaraṇasāmarthyāt pitkṛtam syāt ṅitkaraṇasāmarthyāt ṅitkṛtam . yat tu khalu piti ṅitkṛtam prāpnoti ṅiti ca pitkṛtam kena tat na syāt . tasmāt vaktavyam pit na ṅidvat bhavati ṅit ca na pidvat bhavati iti . na vaktavyam . evam vakṣyāmi . sārvadhātukam ṅit bhavati pit na . evam tāvat pitaḥ ṅittvam pratiṣiddham . tataḥ asaṃyogāt liṭ kit bhavati iti ṅit ca pit na bhavati . evam ṅitaḥ pittvam pratiṣiddham .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,६४।१३-१५ रो इइइ,१६० शायच् छन्दसि सर्वत्र । शायच् छन्दसि सर्वत्र इति वक्तव्यम् । क्व सर्वत्र । हौ च अहौ च । किम् प्रयोजनम् । महीअस्कभायत् यः अस्कभायत् उद्गृभायत उन्मथायत इत्यर्थम् ।

KA II,64.13-15 Ro III,160 śāyac chandasi sarvatra . śāyac chandasi sarvatra iti vaktavyam . kva sarvatra . hau ca ahau ca . kim prayojanam . mahīaskabhāyat yaḥ askabhāyat udgṛbhāyata unmathāyata ityartham .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,६४।१७-६५।६ रो इइइ,१६०-१६२ योगविभागः कर्तव्यः । व्यत्ययः भवति स्यादीनाम् इति । आण्डा शुष्णस्य भॄदति । भिनत्ति इति प्राप्ते । सः च न मरति । मिर्यते इति प्राप्ते । ततः बहुलम्। बहुलम् छन्दसि विषये सर्वे विधयः भवन्ति इति । सुपाम् व्यत्ययः । तिङाम् व्यत्ययः । वर्णव्यत्ययः । लिङ्गव्यत्ययः । कालव्यत्ययः । पुरुषव्यत्ययः । आत्मनेपदव्यत्ययः । परस्मैपदव्यत्ययः । सुपाम् व्यत्ययः । युक्ता माता आसीत् धुरि दक्षिणायाः । दक्षिणायाम् इति प्राप्ते । तिङाम् व्यत्ययः । चषालम् ये अश्वयूपाय तक्षति । तक्षन्ति इति प्राप्ते । वर्णव्यत्ययः । त्रिष्टुभौजः शुभितम् उग्रवीरम् । सुहितम् इति प्राप्ते । लिङ्गव्यत्ययः । मधोः गृह्णाति । मधोः तृप्ताः इव आसते । मधुनः इति प्राप्ते । कालव्यत्ययः । श्वः अग्नीन् आधास्यमानेन । श्वः सोमेन यक्ष्यमाणेन । आधाता यष्टा इति एवम् प्राप्ते । पुरुषव्यत्ययः । अधा सः वीरैः दशभिः वियूयाः । वियूयात् इति प्राप्ते । आत्मनेपदव्यत्ययः । ब्रह्म्नचारिणम् इच्छते । इच्छति इति प्राप्ते । परस्मैपदव्यत्ययः । प्रतीपम् अन्यः ऊर्मिः युध्यति । युध्यते इति प्राप्ते । सुप्तिङुपग्रहलिङ्गनराणाम् काल्हलच्स्वरकर्तृयङाम् च व्यत्ययम् इच्छति शास्त्रकृत् एषाम् । सः अपि च सिध्यति बाहुलकेन ।

KA II,64.17-65.6 Ro III,160-162 yogavibhāgaḥ kartavyaḥ . vyatyayaḥ bhavati syādīnām iti . āṇḍā śuṣṇasya bhṝdati . bhinatti iti prāpte . saḥ ca na marati . miryate iti prāpte . tataḥ bahulam. bahulam chandasi viṣaye sarve vidhayaḥ bhavanti iti . supām vyatyayaḥ . tiṅām vyatyayaḥ . varṇavyatyayaḥ . liṅgavyatyayaḥ . kālavyatyayaḥ . puruṣavyatyayaḥ . ātmanepadavyatyayaḥ . parasmaipadavyatyayaḥ . supām vyatyayaḥ . yuktā mātā āsīt dhuri dakṣiṇāyāḥ . dakṣiṇāyām iti prāpte . tiṅām vyatyayaḥ . caṣālam ye aśvayūpāya takṣati . takṣanti iti prāpte . varṇavyatyayaḥ . triṣṭubhaujaḥ śubhitam ugravīram . suhitam iti prāpte . liṅgavyatyayaḥ . madhoḥ gṛhṇāti . madhoḥ tṛptāḥ iva āsate . madhunaḥ iti prāpte . kālavyatyayaḥ . śvaḥ agnīn ādhāsyamānena . śvaḥ somena yakṣyamāṇena . ādhātā yaṣṭā iti evam prāpte . puruṣavyatyayaḥ . adhā saḥ vīraiḥ daśabhiḥ viyūyāḥ . viyūyāt iti prāpte . ātmanepadavyatyayaḥ . brahmnacāriṇam icchate . icchati iti prāpte . parasmaipadavyatyayaḥ . pratīpam anyaḥ ūrmiḥ yudhyati . yudhyate iti prāpte . suptiṅupagrahaliṅganarāṇām kālhalacsvarakartṛyaṅām ca vyatyayam icchati śāstrakṛt eṣām . saḥ api ca sidhyati bāhulakena .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,६५।८-२० रो इइइ,१६१-१६२ अयम् आशिषि अङ् विधीयते । तस्य किम् प्रयोजनम् । आशिषि अङः प्रयोजनम् स्थागागमिवचिविदयः । स्था । उप स्थेषम् वृषभम् । स्था । गा । अञ्जसा सत्यम् उप गेषम् । गा । गमि । यज्ञेन प्रतिष्ठाम् गमेयम् । गमि । वचि । मन्त्रम् वोचेम अग्नये । वचि । विदि । विदेयम् एनाम् मनसि प्रविष्टाम् । शकिरुहोः च इति वक्तव्यम् । शकेम त्वा समिधम् । अस्रवन्तीम् आ रुहेम स्वस्तये । दृशोः अक् पितरम् च दृशेयम् मातरम् च । दृशोः अक् वक्तव्यः पितरम् च दृशेयम् मातरम् च इति एवमर्थम् । इह उपस्थेयाम इति आट् अपि वक्तव्यः । न हि अङा एव सिध्यति । न वक्तव्यः । सार्वधातुकत्वात् सलोपः आर्धधातुकत्वात् एत्वम् । द्तत्र उभयलिङ्गत्वात् सिद्धम् ।

KA II,65.8-20 Ro III,161-162 ayam āśiṣi aṅ vidhīyate . tasya kim prayojanam . āśiṣi aṅaḥ prayojanam sthāgāgamivacividayaḥ . sthā . upa stheṣam vṛṣabham . sthā . gā . añjasā satyam upa geṣam . gā . gami . yajñena pratiṣṭhām gameyam . gami . vaci . mantram vocema agnaye . vaci . vidi . videyam enām manasi praviṣṭām . śakiruhoḥ ca iti vaktavyam . śakema tvā samidham . asravantīm ā ruhema svastaye . dṛśoḥ ak pitaram ca dṛśeyam mātaram ca . dṛśoḥ ak vaktavyaḥ pitaram ca dṛśeyam mātaram ca iti evamartham . iha upastheyāma iti āṭ api vaktavyaḥ . na hi aṅā eva sidhyati . na vaktavyaḥ . sārvadhātukatvāt salopaḥ ārdhadhātukatvāt etvam . dtatra ubhayaliṅgatvāt siddham .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,६६।२-८ रो इइइ,१६२-१६४ वत्करणम् किमर्थम् । स्वाश्रयम् अपि यथा स्यात् । भिद्यते कुशूलेन इति । अकर्मकाणाम् भावे लः भवति इति लः यथा स्यात् । कर्मणा इति किमर्थम् । करणाधिकरणाभ्याम् तुल्यक्रियः कर्ता यः सः कर्मवत् मा भूत् । साधु असिः छिनत्ति । साधु स्थाली पचति । तुल्यक्रियः इति किमर्थम् । पचति ओदनम् देवदत्तः । तुल्यक्रियः इति उच्यमाने अपि अत्र प्राप्नोति । अत्र अपि हि कर्मणा तुल्यक्रियः कर्ता । न तुल्यक्रियग्रहणेन समानक्रियत्वम् अभिसम्बध्यते । किम् तर्हि । यस्मिन् कर्मणि कर्तृभूते अपि तद्वत् क्रिय लक्ष्यते यथा कर्मणि सः कर्मणा तुल्यक्रियः कर्ता कर्मवत् भवति इति ।

KA II,66.2-8 Ro III,162-164 vatkaraṇam kimartham . svāśrayam api yathā syāt . bhidyate kuśūlena iti . akarmakāṇām bhāve laḥ bhavati iti laḥ yathā syāt . karmaṇā iti kimartham . karaṇādhikaraṇābhyām tulyakriyaḥ kartā yaḥ saḥ karmavat mā bhūt . sādhu asiḥ chinatti . sādhu sthālī pacati . tulyakriyaḥ iti kimartham . pacati odanam devadattaḥ . tulyakriyaḥ iti ucyamāne api atra prāpnoti . atra api hi karmaṇā tulyakriyaḥ kartā . na tulyakriyagrahaṇena samānakriyatvam abhisambadhyate . kim tarhi . yasmin karmaṇi kartṛbhūte api tadvat kriya lakṣyate yathā karmaṇi saḥ karmaṇā tulyakriyaḥ kartā karmavat bhavati iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,६६।९-६७।२ रो इइइ,१६४-१६७ कर्मवत् अकर्मकस्य कर्ता । अकर्मकस्य कर्ता कर्मवत् भवति इति वक्तव्यम् । किम् प्रयोजनम् । सकर्मकस्य कर्ता कर्मवत् मा भूत् इति । भिद्यमानः कुशूलः पात्राणि भिनत्ति । तथा कर्म दृष्टः चेत् समानधातौ । कर्म दृष्टः चेत् समानधातौ इति वक्तव्यम् । इह मा भूत् । पचति ओदनम् देवदत्तः । राध्यति ओधनः स्वयम् एव । तथा कर्मस्थभावकानम् कर्मस्थक्रियाणाम् च । कर्मस्थभावकानम् कर्मस्थक्रियाणाम् वा कर्ता कर्मवत् भवति इति वक्तव्यम् । कर्तृस्थभावकानाम् कर्तृस्थक्रियाणाम् वा कर्ता कर्मवत् मा भूत् इति । यत् तावत् उच्यते अकर्मकस्य कर्ता कर्मवत् भवति इति वक्तव्यम् इति । न वक्तव्यम् । वक्ष्यति एतत् । सकर्मकाणाम् प्रतिषेधः अन्योन्यम् आश्लिष्यतः इति । यत् अपि उच्यते कर्म दृष्टः चेत् समानधातौ इति वक्तव्यम् इति । न वक्तव्यम् । धातोः इति वर्तते । धातोः कर्मणः कतुर्ः अयम् कर्मवद्भावः अतिदिश्यते । तत्र सम्बन्धात् एतत् गन्तव्यम् यस्य धातोः यत् कर्म तस्य चेत् कर्ता स्यात् इति । तत् यथा धातोः कर्मणि अण् भवति इति । तत्र सम्बन्धात् एतत् गम्यते यस्य धातोः यत् कर्म इति । इह मा भूत् । आहर कुम्भम् करोति कटम् इति । यत् अपि उच्यते कर्मस्थभावकानम् कर्मस्थक्रियाणाम् वा कर्ता कर्मवत् भवति इति वक्तव्यम् । कर्तृस्थभावकानाम् कर्तृस्थक्रियाणाम् वा कर्ता कर्मवत् मा भूत् इति । न वक्तव्यम् । कर्मस्थया क्रियया अयम् कर्तारम् उपमिमीते । न च कर्तृस्थभावकानाम् कर्तृस्थक्रियाणाम् वा कर्मणि क्रियायाः प्रवृत्तिः अस्ति ।

KA II,66.9-67.2 Ro III,164-167 karmavat akarmakasya kartā . akarmakasya kartā karmavat bhavati iti vaktavyam . kim prayojanam . sakarmakasya kartā karmavat mā bhūt iti . bhidyamānaḥ kuśūlaḥ pātrāṇi bhinatti . tathā karma dṛṣṭaḥ cet samānadhātau . karma dṛṣṭaḥ cet samānadhātau iti vaktavyam . iha mā bhūt . pacati odanam devadattaḥ . rādhyati odhanaḥ svayam eva . tathā karmasthabhāvakānam karmasthakriyāṇām ca . karmasthabhāvakānam karmasthakriyāṇām vā kartā karmavat bhavati iti vaktavyam . kartṛsthabhāvakānām kartṛsthakriyāṇām vā kartā karmavat mā bhūt iti . yat tāvat ucyate akarmakasya kartā karmavat bhavati iti vaktavyam iti . na vaktavyam . vakṣyati etat . sakarmakāṇām pratiṣedhaḥ anyonyam āśliṣyataḥ iti . yat api ucyate karma dṛṣṭaḥ cet samānadhātau iti vaktavyam iti . na vaktavyam . dhātoḥ iti vartate . dhātoḥ karmaṇaḥ katurḥ ayam karmavadbhāvaḥ atidiśyate . tatra sambandhāt etat gantavyam yasya dhātoḥ yat karma tasya cet kartā syāt iti . tat yathā dhātoḥ karmaṇi aṇ bhavati iti . tatra sambandhāt etat gamyate yasya dhātoḥ yat karma iti . iha mā bhūt . āhara kumbham karoti kaṭam iti . yat api ucyate karmasthabhāvakānam karmasthakriyāṇām vā kartā karmavat bhavati iti vaktavyam . kartṛsthabhāvakānām kartṛsthakriyāṇām vā kartā karmavat mā bhūt iti . na vaktavyam . karmasthayā kriyayā ayam kartāram upamimīte . na ca kartṛsthabhāvakānām kartṛsthakriyāṇām vā karmaṇi kriyāyāḥ pravṛttiḥ asti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,६७।३-९ रो इइइ,१६७ किम् पुनः कर्मकर्तरि कर्माश्रयम् एव भवति आहोस्वित् कर्त्राश्रयम् अपि । किम् च अतः । यदि कर्माश्रयम् एव चङ्शप्कृद्विधयः न सिध्यन्ति । चङ् । अचीकरत कटः स्वयम् एव । शप् । नमते दण्डः स्वयम् एव । कृद्विधिः । भिदुरम् काष्ठम् स्वयम् एव । अथ कर्त्राश्रयम् अपि सिद्धम् एतत् भवति । किम् तर्हि इति । आत्मनेपदशबादिविधिप्रतिषेधः । आत्मनेपदम् विधेयम् शबादीनाम् च प्रतिषेधः वक्तव्यः । उभयम् क्रियते न्यासे एव ।

KA II,67.3-9 Ro III,167 kim punaḥ karmakartari karmāśrayam eva bhavati āhosvit kartrāśrayam api . kim ca ataḥ . yadi karmāśrayam eva caṅśapkṛdvidhayaḥ na sidhyanti . caṅ . acīkarata kaṭaḥ svayam eva . śap . namate daṇḍaḥ svayam eva . kṛdvidhiḥ . bhiduram kāṣṭham svayam eva . atha kartrāśrayam api siddham etat bhavati . kim tarhi iti . ātmanepadaśabādividhipratiṣedhaḥ . ātmanepadam vidheyam śabādīnām ca pratiṣedhaḥ vaktavyaḥ . ubhayam kriyate nyāse eva .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,६७।१०-६८२२७ रो इइइ,१६८-१७१ किमर्थम् पुनः इदम् उच्यते । कर्मकर्तरि कर्तृत्वम् स्वातन्त्र्यस्य विवक्षितत्वात् । कर्मकर्तरि कर्तृत्वम् अस्ति । कुतः । स्वातन्त्र्यस्य विवक्षितत्वात् । स्वातन्त्र्येण एव अत्र कर्ता विवक्षितः । किम् पुनः सतः स्वातन्त्र्यस्य विवक्षा आहोस्वित् विवक्षामात्रम् । सतः इति आह । कथम् ज्ञायते । भिद्यते कुशूलेन इति । न च अन्यः कर्ता दृश्यते क्रिया च उपलभ्यते । किम् च भोः विग्रहवता एव क्रियायाः कर्त्रा भवितव्यम् न पुनः वातातपकालाः अपि कर्तारः स्युः । भवेत् सिद्धम् यदि वातातपकालानाम् अन्यतमः कर्ता स्यात् । यः तु खलु निवाते निरभिवर्षे अचिरकालकृतः कुशूलः भिद्यते तस्य न अन्यः कर्ता भवति अन्यत् अतः कुशूलात् । यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् यत्र अन्यः कर्ता न अस्ति इह तु कथम् न स्यात् लूयते केदारः स्वयम् एव इति यत्र असु देवदत्तः दात्रहस्तः समन्ततः विपरिपतन् दृश्यते । अत्र अपि या असौ सुकरता नाम तस्याः न अन्यत् कर्ता भवति अन्यत् अतः केदारात् । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति । तत्र लान्तस्य कर्मवदनुदेशः । तत्र लान्तस्य कर्मवदनुदेशः कर्तव्यः । लान्तस्य कर्ता कर्मवत् भवति इति वक्तव्यम् । इतरथा हि कृत्यक्तखलर्थेषु प्रतिषेधः । अक्रियमाणे हि लग्रहणे कृत्यक्तखलर्थेषु प्रतिषेधः वक्तव्यः स्यात् । कृत्य । भेत्तव्यः कुशूलः इति कर्म । सः यदा स्वातन्त्र्येण विवक्षितः तदा अस्य कर्मवद्भावः स्यात् । तस्य प्रतिषेधः वक्तव्यः । तस्मिन् प्रतिषिद्धि अकर्मकाणाम् भावे कृत्या भवन्ति इति भावे यथा स्यात् । भेत्तव्यम् कुशूलेन इति । क्त । भिन्नः कुशूलः इति कर्म । सः यदा स्वातन्त्र्येण विवक्षितः तदा अस्य कर्मवद्भावः स्यात् । तस्य प्रतिषेधः वक्तव्यः । तस्मिन् प्रतिषिद्धि अकर्मकाणाम् भावे क्तः भवति इति भावे क्तः यथा स्यात् । भिन्नम् कुशूलेन । खलर्थः । ईषद्भेद्यः कुशूलः इति कर्म । सः यदा स्वातन्त्र्येण विवक्षितः तदा अस्य कर्मवद्भावः स्यात् । तस्य प्रतिषेधः वक्तव्यः । तस्मिन् प्रतिषिद्धे अकर्मकाणाम् भावे खल् भवति इति भावे यथा स्यात् । ईषद्भेद्यम् कुशूलेन इति । तत् तर्हि लग्रहणम् कर्तव्यम् । न कर्तव्यम् । क्रियते न्यासे एव । लिङि आशिषि अङ् इति द्विलकारकः निर्देशः । सिद्धम् तु प्राकृतकर्मत्वात् । सिद्धम् एतत् । कथम् । प्राकृतकर्मत्वात् । प्राकृतम् एव एतत् कर्म यथा कटम् करोति शकटम् करोति । कथम् पुनः ज्ञायते प्राकृतम् एव एतत् कर्म इति । आत्मसंयोगे अकर्मकर्तुः कर्मदर्शनात् । आत्मसंयोगे अकर्मकर्तुः कर्म दृश्यते । क्व । हन्ति आत्मानम् । हन्यत आत्मना इति । विषमः उपन्यासः । हन्ति आत्मानम् इति कर्म दृश्यते । कर्ता न दृश्यते । आत्मना हन्यते इति कर्ता दृश्यते । कर्म न दृश्यते । पदलोपः च । पदलोपः च द्रष्टव्यः । हन्ति आत्मानम् आत्मना । आत्मना हन्यते आत्मा इति । कः पुनः आत्मानम् हन्ति कः वा आत्मना हन्यते । द्वौ आत्मानौ अन्तरात्मा शरीरात्मा च । अन्तरात्मा तत् कर्म करोति येन शरीरात्मा सुखदुःके अनुभवति । शरीरात्मा तत् कर्म करोति येन अन्तरात्मा सुखदुःके अनुभवति ।

KA II,67.10-68227 Ro III,168-171 kimartham punaḥ idam ucyate . karmakartari kartṛtvam svātantryasya vivakṣitatvāt . karmakartari kartṛtvam asti . kutaḥ . svātantryasya vivakṣitatvāt . svātantryeṇa eva atra kartā vivakṣitaḥ . kim punaḥ sataḥ svātantryasya vivakṣā āhosvit vivakṣāmātram . sataḥ iti āha . katham jñāyate . bhidyate kuśūlena iti . na ca anyaḥ kartā dṛśyate kriyā ca upalabhyate . kim ca bhoḥ vigrahavatā eva kriyāyāḥ kartrā bhavitavyam na punaḥ vātātapakālāḥ api kartāraḥ syuḥ . bhavet siddham yadi vātātapakālānām anyatamaḥ kartā syāt . yaḥ tu khalu nivāte nirabhivarṣe acirakālakṛtaḥ kuśūlaḥ bhidyate tasya na anyaḥ kartā bhavati anyat ataḥ kuśūlāt . yadi api tāvat atra etat śakyate vaktum yatra anyaḥ kartā na asti iha tu katham na syāt lūyate kedāraḥ svayam eva iti yatra asu devadattaḥ dātrahastaḥ samantataḥ viparipatan dṛśyate . atra api yā asau sukaratā nāma tasyāḥ na anyat kartā bhavati anyat ataḥ kedārāt . asti prayojanam etat . kim tarhi iti . tatra lāntasya karmavadanudeśaḥ . tatra lāntasya karmavadanudeśaḥ kartavyaḥ . lāntasya kartā karmavat bhavati iti vaktavyam . itarathā hi kṛtyaktakhalartheṣu pratiṣedhaḥ . akriyamāṇe hi lagrahaṇe kṛtyaktakhalartheṣu pratiṣedhaḥ vaktavyaḥ syāt . kṛtya . bhettavyaḥ kuśūlaḥ iti karma . saḥ yadā svātantryeṇa vivakṣitaḥ tadā asya karmavadbhāvaḥ syāt . tasya pratiṣedhaḥ vaktavyaḥ . tasmin pratiṣiddhi akarmakāṇām bhāve kṛtyā bhavanti iti bhāve yathā syāt . bhettavyam kuśūlena iti . kta . bhinnaḥ kuśūlaḥ iti karma . saḥ yadā svātantryeṇa vivakṣitaḥ tadā asya karmavadbhāvaḥ syāt . tasya pratiṣedhaḥ vaktavyaḥ . tasmin pratiṣiddhi akarmakāṇām bhāve ktaḥ bhavati iti bhāve ktaḥ yathā syāt . bhinnam kuśūlena . khalarthaḥ . īṣadbhedyaḥ kuśūlaḥ iti karma . saḥ yadā svātantryeṇa vivakṣitaḥ tadā asya karmavadbhāvaḥ syāt . tasya pratiṣedhaḥ vaktavyaḥ . tasmin pratiṣiddhe akarmakāṇām bhāve khal bhavati iti bhāve yathā syāt . īṣadbhedyam kuśūlena iti . tat tarhi lagrahaṇam kartavyam . na kartavyam . kriyate nyāse eva . liṅi āśiṣi aṅ iti dvilakārakaḥ nirdeśaḥ . siddham tu prākṛtakarmatvāt . siddham etat . katham . prākṛtakarmatvāt . prākṛtam eva etat karma yathā kaṭam karoti śakaṭam karoti . katham punaḥ jñāyate prākṛtam eva etat karma iti . ātmasaṃyoge akarmakartuḥ karmadarśanāt . ātmasaṃyoge akarmakartuḥ karma dṛśyate . kva . hanti ātmānam . hanyata ātmanā iti . viṣamaḥ upanyāsaḥ . hanti ātmānam iti karma dṛśyate . kartā na dṛśyate . ātmanā hanyate iti kartā dṛśyate . karma na dṛśyate . padalopaḥ ca . padalopaḥ ca draṣṭavyaḥ . hanti ātmānam ātmanā . ātmanā hanyate ātmā iti . kaḥ punaḥ ātmānam hanti kaḥ vā ātmanā hanyate . dvau ātmānau antarātmā śarīrātmā ca . antarātmā tat karma karoti yena śarīrātmā sukhaduḥke anubhavati . śarīrātmā tat karma karoti yena antarātmā sukhaduḥke anubhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,६८।२३-७०।७ रो इइइ,१७२-१७६ सकर्मकाणाम् प्रतिषेधः अन्योन्यम् आश्लिष्यतः इति । सकर्मकाणाम् प्रतिषेधः वक्तव्यः । किम् प्रयोजनम् । अन्योन्यम् आश्लिष्यतः । अन्योन्यम् संस्पृशतः । अन्योन्यम् गृह्णीतः इति । तपेः वा सकर्मकस्य वचनम् नियमार्थम् । तपेः वा सकर्मकस्य वचनम् नियमार्थम् भविष्यति । तपेः एव सकर्मकस्य न अन्यस्य सकर्मकस्य इति । तस्य तर्हि अन्यकर्मकस्य अपि प्राप्नोति । उत्तपति सुवर्णम् सुवर्णकारः । उत्तप्यमानम् सुवर्णम् सुवर्णकारम् उत्तपति । तस्य च तपःकर्मकस्य एव । तस्य च तपःकर्मकस्य एव कर्ता कर्मवत् भवति न अन्यकर्मकस्य इति । किम् इदम् तपः इति । तपेः अयम् औणादिकः अस्कारः भावसाधनः । कः प्रकृत्यर्थः कः प्रत्ययार्थः । सः एव सन्तपः । कथम् पुनः सः एव नाम प्रकृत्यर्थः स्यात् सः एव प्रत्ययार्थः । सामान्यतपेः अवयवतपिः कर्म भवति । तत् यथा । सः एतान् पोषान् अपुष्यत् गोपोषम् अश्वपोषम् रैपोषम् इति । सामान्यपुषेः अवयविपुषिः कर्म भवति । एवम् इह अपि सामान्यतपेः अवयवतपिः कर्म भवति । दुहिपच्योः बहुलम् सकर्मकयोः । दुहिपच्योः सकर्मकयोः कर्ता बहुलम् कर्मवत् भवति इति वक्तव्यम् । दुग्धे गौः पयः । तस्मात् उदुम्बरः सः लोहितम् फलम् पच्यते । बहुलवचनम् किमर्थम् । परस्मैपदार्थम् । यदि एवम् न अर्थः बहुलवचनेन । न हि परस्मैपदम् इष्यते । सृजियुज्योः श्यन् तु । सृजियुज्योः सकर्मकयोः कर्ता बहुलम् कर्मवत् भवति इति वक्तव्यम् । श्यन् तु भवति । सृजेः श्रद्धोपपन्ने कर्तरि कर्मवद्भावः वाच्यः चिणात्मनेपदार्थः । सृज्यते मालाम् । असर्जि मालाम् । यजेः तु न्याय्ये कर्मकर्तरि यकः अभावाय । युज्यते ब्रह्मचारी योगम् । करणेन तुल्यक्रियः कर्ता बहुलम् । करणेन तुल्यक्रियः कर्ता बहुलम् कर्मवत् भवति इति वक्तव्यम् । परिवारयन्ति कण्टकैः वृक्षम् । परिवारयन्ते कण्टकाः वृक्षम् इति । स्रवत्यादीनाम् प्रतिषेधः । स्रवत्यादीनाम् प्रतिषेधः वक्तव्यः । स्रवति कुण्डिका उदकम् । स्रवति कुण्डिकायाः उदकम् । स्रवन्ति वलीकानि उदकम् । स्रवति वलीकेभ्यः उदकम् इति । सः तर्हि प्रतिषेधः वक्तव्यः । न वक्तव्यः । तुल्यक्रियः इति उच्यते । क्रियान्तरम् च अत्र गम्यते । इह तावत् स्रवति कुण्डिका उदकम् इति । विसृजति इति गम्यते । स्रवति कुण्डिकायाः उदकम् इति । निष्क्रामति इति गम्यते । स्रवन्ति वलीकानि उदकम् इति । विसृजन्ति इति गम्यते । स्रवति वलीकेभ्यः उदकम् इति । पतति इति गम्यते । भूषाकर्मकिरतिसनाम् च अन्यत्र आत्मनेपदात् । भूषाकर्मकिरतिसनाम् च प्रतिषेधः वक्तव्यः अन्यत्र आत्मनेपदात् । भूषयते कन्या स्वयम् एव । अबुभूषत कन्या स्वयम् एव । मण्डयते कन्या स्वयम् एव । अममण्डत कन्या स्वयम् एव । किरति । अवकिरते हस्ती स्वयम् एव । अवाकीर्ष्ट हस्ती स्वयम् एव । सन् । चिकीर्षते कटः स्वयम् एव । अचिकीर्षिष्ट कटः स्वयम् एव ।

KA II,68.23-70.7 Ro III,172-176 sakarmakāṇām pratiṣedhaḥ anyonyam āśliṣyataḥ iti . sakarmakāṇām pratiṣedhaḥ vaktavyaḥ . kim prayojanam . anyonyam āśliṣyataḥ . anyonyam saṃspṛśataḥ . anyonyam gṛhṇītaḥ iti . tapeḥ vā sakarmakasya vacanam niyamārtham . tapeḥ vā sakarmakasya vacanam niyamārtham bhaviṣyati . tapeḥ eva sakarmakasya na anyasya sakarmakasya iti . tasya tarhi anyakarmakasya api prāpnoti . uttapati suvarṇam suvarṇakāraḥ . uttapyamānam suvarṇam suvarṇakāram uttapati . tasya ca tapaḥkarmakasya eva . tasya ca tapaḥkarmakasya eva kartā karmavat bhavati na anyakarmakasya iti . kim idam tapaḥ iti . tapeḥ ayam auṇādikaḥ askāraḥ bhāvasādhanaḥ . kaḥ prakṛtyarthaḥ kaḥ pratyayārthaḥ . saḥ eva santapaḥ . katham punaḥ saḥ eva nāma prakṛtyarthaḥ syāt saḥ eva pratyayārthaḥ . sāmānyatapeḥ avayavatapiḥ karma bhavati . tat yathā . saḥ etān poṣān apuṣyat gopoṣam aśvapoṣam raipoṣam iti . sāmānyapuṣeḥ avayavipuṣiḥ karma bhavati . evam iha api sāmānyatapeḥ avayavatapiḥ karma bhavati . duhipacyoḥ bahulam sakarmakayoḥ . duhipacyoḥ sakarmakayoḥ kartā bahulam karmavat bhavati iti vaktavyam . dugdhe gauḥ payaḥ . tasmāt udumbaraḥ saḥ lohitam phalam pacyate . bahulavacanam kimartham . parasmaipadārtham . yadi evam na arthaḥ bahulavacanena . na hi parasmaipadam iṣyate . sṛjiyujyoḥ śyan tu . sṛjiyujyoḥ sakarmakayoḥ kartā bahulam karmavat bhavati iti vaktavyam . śyan tu bhavati . sṛjeḥ śraddhopapanne kartari karmavadbhāvaḥ vācyaḥ ciṇātmanepadārthaḥ . sṛjyate mālām . asarji mālām . yajeḥ tu nyāyye karmakartari yakaḥ abhāvāya . yujyate brahmacārī yogam . karaṇena tulyakriyaḥ kartā bahulam . karaṇena tulyakriyaḥ kartā bahulam karmavat bhavati iti vaktavyam . parivārayanti kaṇṭakaiḥ vṛkṣam . parivārayante kaṇṭakāḥ vṛkṣam iti . sravatyādīnām pratiṣedhaḥ . sravatyādīnām pratiṣedhaḥ vaktavyaḥ . sravati kuṇḍikā udakam . sravati kuṇḍikāyāḥ udakam . sravanti valīkāni udakam . sravati valīkebhyaḥ udakam iti . saḥ tarhi pratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . tulyakriyaḥ iti ucyate . kriyāntaram ca atra gamyate . iha tāvat sravati kuṇḍikā udakam iti . visṛjati iti gamyate . sravati kuṇḍikāyāḥ udakam iti . niṣkrāmati iti gamyate . sravanti valīkāni udakam iti . visṛjanti iti gamyate . sravati valīkebhyaḥ udakam iti . patati iti gamyate . bhūṣākarmakiratisanām ca anyatra ātmanepadāt . bhūṣākarmakiratisanām ca pratiṣedhaḥ vaktavyaḥ anyatra ātmanepadāt . bhūṣayate kanyā svayam eva . abubhūṣata kanyā svayam eva . maṇḍayate kanyā svayam eva . amamaṇḍata kanyā svayam eva . kirati . avakirate hastī svayam eva . avākīrṣṭa hastī svayam eva . san . cikīrṣate kaṭaḥ svayam eva . acikīrṣiṣṭa kaṭaḥ svayam eva .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,७०।९-१५ रो इइइ,१७६-१७७ यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञाम् उपसङ्ख्यानम् । यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञाम् उपसङ्ख्यानम् कर्तव्यम् । णि । कारयते कटः स्वयम् एव । अचीकरत कटः स्वयम् एव । णि । श्रि । उच्छ्रयते दण्डः स्वयम् एव । उदशिश्रियत दण्डः स्वयम् एव । श्रि । ब्रूञ् । ब्रूते कथा स्वयम् एव । अवोचत कथा स्वयम् एव । भारद्वाजीयाः पठन्ति । यक्चिणोः प्रतिषेधे णिश्रिग्रन्थिब्रूञात्मनेपदाकर्मकाणाम् उपसङ्ख्यानम् इति ।

KA II,70.9-15 Ro III,176-177 yakciṇoḥ pratiṣedhe hetumaṇṇiśribrūñām upasaṅkhyānam . yakciṇoḥ pratiṣedhe hetumaṇṇiśribrūñām upasaṅkhyānam kartavyam . ṇi . kārayate kaṭaḥ svayam eva . acīkarata kaṭaḥ svayam eva . ṇi . śri . ucchrayate daṇḍaḥ svayam eva . udaśiśriyata daṇḍaḥ svayam eva . śri . brūñ . brūte kathā svayam eva . avocata kathā svayam eva . bhāradvājīyāḥ paṭhanti . yakciṇoḥ pratiṣedhe ṇiśrigranthibrūñātmanepadākarmakāṇām upasaṅkhyānam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,७०।१७-७१।२३ रो इइइ,१७७-१७९ कुषिरजोः श्यन्विधाने सार्वधातुकवचनम् ।कुषिरजोः श्यन्विधाने सार्वधातुकग्रहणम् कर्तव्यम् । अवचने हि लिङ्लिटोः प्रतिषेधः । अक्रियमाणे हि सार्वधातुकग्रहणे लिङ्लिटोः प्रतिषेधः वक्तव्यः स्यात् । चुकुषे पादः स्वयम् एव । ररञ्जे वस्त्रम् स्वयम् एव । कोषिषीष्ट पादः स्वयम् एव । रङ्क्षीष्ट वस्त्रम् स्वयम् एव । क्रियमाणे अपि सार्वधातुकग्रहणे इह प्राप्नोति । कति इह कुष्णाणाः पादाः । श्यना च स्यादीनाम् बाधनम् प्राप्नोति । कोषिष्यते पादः स्वयम् एव । रङ्क्ष्यते वस्त्रम् स्वयम् एव । अकोषि पादः स्वयम् एव । अरञ्जि वस्त्रम् स्वयम् एव । यत् तावत् उच्यते सार्वधातुकग्रहणम् कर्तव्यम् इति । प्रकृतम् अनुवर्तते । क्व प्रकृतम् । सार्वधातुके यक् इति । यदि तत् अनुवर्तते पूर्वस्मिन् योगे किम् समुच्चयः । ले च सार्वधातुके च इति । आहोस्वित् लग्रहणम् सार्वधातुकविशेषणम् । किम् च अतः । यदि समुच्चयः कति इह भिन्दानाः कुशूलाः इति अत्र अपि प्राप्नोति । अथ लग्रहणम् सार्वधातुकविशेषणम् लिङ्लिटोः न सिध्यति । बिभिदे कुशूलः स्वयम् एव । भित्सीष्ट कुशूलः स्वयम् एव इति । अस्तु लग्रहणम् सार्वधातुकविशेषणम् । ननु च उक्तम् लिङ्लिटोः न सिध्यति इति । लिङ्लिड्ग्रहणम् अपि प्रकृतम् अनुवर्तते । क्व प्रकृतम् । कास् प्रत्ययात् आम् अमन्त्रे लिटि लिङि आशिषि आङ् इति । एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् कति इह कुष्णाणाः पादाः इति प्राप्नोति । अत्र अपि लविशिष्टम् सार्वधातुकग्रहणम् अनुवर्तते । यत् अपि उच्यते श्यना च स्यादीनाम् बाधनम् प्राप्नोति । यक्प्रतिषेधसम्बन्धेन श्यनं वक्ष्यामि । न दुहस्नुनमाम् यक्चिणौ । ततः कुषिरजोः प्राचाम् यक्चिणौ न भवतः । ततः श्यन् परस्मैपदम् च इति । यथा एव तर्हि यकः विषये श्यन् भवति एवम् चिणः अपि विषये प्राप्नोति । अकोषि पादः स्वयम् एव । अरञ्जि वस्त्रम् स्वयम् एव इति । एवम् तर्हि द्वितीयः योगविभागः करिष्यते । न दुहस्नुनमाम् चिण् भवति । ततः यक् । यक् च न भवति दुहस्नुनमाम् । ततः कुषिरजोः प्राचाम् यक् न भवति । ततः श्यन् परस्मैपदम् च । अथ वा अनुवृत्तिः करिष्यते । स्यतासी लृलुटोः । च्लि लुङि । च्लेः सिच् भवति । कर्तरि शप् स्यतासी लृलुटोः च्लि लुङि च्लेः सिच् भवति । कुषिरजोः प्राचाम् श्यन् परस्मैपदम् च स्यतासी लृलुटोः च्लि लुङि च्लेः सिच् भवति इति । अथ वा अन्तरङ्गाः स्यादयः । का अन्तरङ्गता । लकारावस्थायाम् एव स्यादयः । सार्वधातुके श्यन् ।

KA II,70.17-71.23 Ro III,177-179 kuṣirajoḥ śyanvidhāne sārvadhātukavacanam .kuṣirajoḥ śyanvidhāne sārvadhātukagrahaṇam kartavyam . avacane hi liṅliṭoḥ pratiṣedhaḥ . akriyamāṇe hi sārvadhātukagrahaṇe liṅliṭoḥ pratiṣedhaḥ vaktavyaḥ syāt . cukuṣe pādaḥ svayam eva . rarañje vastram svayam eva . koṣiṣīṣṭa pādaḥ svayam eva . raṅkṣīṣṭa vastram svayam eva . kriyamāṇe api sārvadhātukagrahaṇe iha prāpnoti . kati iha kuṣṇāṇāḥ pādāḥ . śyanā ca syādīnām bādhanam prāpnoti . koṣiṣyate pādaḥ svayam eva . raṅkṣyate vastram svayam eva . akoṣi pādaḥ svayam eva . arañji vastram svayam eva . yat tāvat ucyate sārvadhātukagrahaṇam kartavyam iti . prakṛtam anuvartate . kva prakṛtam . sārvadhātuke yak iti . yadi tat anuvartate pūrvasmin yoge kim samuccayaḥ . le ca sārvadhātuke ca iti . āhosvit lagrahaṇam sārvadhātukaviśeṣaṇam . kim ca ataḥ . yadi samuccayaḥ kati iha bhindānāḥ kuśūlāḥ iti atra api prāpnoti . atha lagrahaṇam sārvadhātukaviśeṣaṇam liṅliṭoḥ na sidhyati . bibhide kuśūlaḥ svayam eva . bhitsīṣṭa kuśūlaḥ svayam eva iti . astu lagrahaṇam sārvadhātukaviśeṣaṇam . nanu ca uktam liṅliṭoḥ na sidhyati iti . liṅliḍgrahaṇam api prakṛtam anuvartate . kva prakṛtam . kās pratyayāt ām amantre liṭi liṅi āśiṣi āṅ iti . evam ca kṛtvā saḥ api adoṣaḥ bhavati yat uktam kati iha kuṣṇāṇāḥ pādāḥ iti prāpnoti . atra api laviśiṣṭam sārvadhātukagrahaṇam anuvartate . yat api ucyate śyanā ca syādīnām bādhanam prāpnoti . yakpratiṣedhasambandhena śyanaṃ vakṣyāmi . na duhasnunamām yakciṇau . tataḥ kuṣirajoḥ prācām yakciṇau na bhavataḥ . tataḥ śyan parasmaipadam ca iti . yathā eva tarhi yakaḥ viṣaye śyan bhavati evam ciṇaḥ api viṣaye prāpnoti . akoṣi pādaḥ svayam eva . arañji vastram svayam eva iti . evam tarhi dvitīyaḥ yogavibhāgaḥ kariṣyate . na duhasnunamām ciṇ bhavati . tataḥ yak . yak ca na bhavati duhasnunamām . tataḥ kuṣirajoḥ prācām yak na bhavati . tataḥ śyan parasmaipadam ca . atha vā anuvṛttiḥ kariṣyate . syatāsī lṛluṭoḥ . cli luṅi . cleḥ sic bhavati . kartari śap syatāsī lṛluṭoḥ cli luṅi cleḥ sic bhavati . kuṣirajoḥ prācām śyan parasmaipadam ca syatāsī lṛluṭoḥ cli luṅi cleḥ sic bhavati iti . atha vā antaraṅgāḥ syādayaḥ . kā antaraṅgatā . lakārāvasthāyām eva syādayaḥ . sārvadhātuke śyan .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,७१।२४-७४।४ रो इइइ,१७९-१८३ आ कुतः अयम् धात्वधिकारः । किम् प्राक् लादेशात् आहोस्वित् आ तृतीयाध्यायपरिसमाप्तेः । धातुवधिकारः प्राक् लादेशात् । प्राक् लादेशात् धात्वधिकारः । लादेशे हि व्यवहितत्वात् अप्रसिद्धिः । अनुवर्तमाने हि लादेशे धात्वधिकारे व्यवहितव्ता अप्रसिद्धिः स्यात् । किम् च स्यात् । आद्ये योगे न व्यवाये तिङः स्युः । आद्ये योगे विकरणैः व्यवहितत्वात् तिङः न स्युः । पचति पठति । इदम् इह सम्प्रधार्यम् । विकरणाः क्रियन्ताम् आडेशाः इति । किम् अत्र कर्तव्यम् । परत्वात् आदेशाः । नित्याः विकरणाः । कृतेषु आदेशेषु प्राप्नुवन्ति अकृतेषु अपि प्राप्नुवन्ति । नित्यत्वात् विकरणेषु कृतेषु विकरणैः व्यवहितत्वात् आदेशाः न प्राप्नुवन्ति । अनवकाशः तर्हि आदेशाः । सावकाशाः आदेशाः । कः अवकाशः । ये एते लुग्विकरणाः श्लुविकरणाः च लिङ्लिटौ च । न स्यात् एत्वम् टेः टिताम् यत् विधत्ते । यत् च टित्सञ्ज्ञानाम् एत्वम् विधत्ते तत् च विकरणैः व्यवहितत्वात् न स्यात् । एशः शित्त्वम् । एकारः च शित् कर्तव्यः । किम् प्रयोजनम् । शित् सर्वस्य इति सर्वादेशः यथा स्यात् । अक्रियमाणे हि शकारे तस्मात् इति उत्तरस्य आदेः इति तकारस्य एत्वे कृते द्वयोः एकारयोः श्रवणम् प्रसज्येत । निवृत्ते पुनः लादेशे धात्वधिकारे अलः अन्त्यस्य विधयः भवन्ति इति एकारस्य एकार्वचनने प्रयोजनम् न अस्ति इति कृत्वा अन्तरेण अपि शकारम् सर्वादेशः भविष्यति । यत् च लोटः विधत्ते । तत् च विकरणैः व्यवहितत्वात् न स्यात् । किम् पुनः तत् । लोटः लङ्वत् एः उः सेः हि अपित् च वा छन्दसि इति । यत् च अपि उक्तम् लङ्लिङोः तत् च न स्यात् । किम् पुनः तत् । नित्यम् ङितः इतः च तस्थस्थमिपाम् ताम्तम्तामः लिङः सीयुट् यासुट् परस्मैपदेषु उदात्तः ङित् च इति । तस्मात् प्राक् लादेशात् धात्वधिकारः । यदि प्राक् लादेशात् धात्वधिकारः अकारः शित् कर्तव्यः । किम् प्रयोजनम् । शित् सर्वस्य इति सर्वादेशः यथा स्यात् । अनुवर्तमाने पुनः लादेशे धात्वधिकारे तस्मात् इति उत्तरस्य आदेः इति थकारस्य अत्वे कृते द्वयोः अकारयोः पररूपेण सिद्धम् रूपम् स्यात् । पेच यूयम् । चक्र यूयम् इति । ननु च निवृत्ते अपि लादेशे धात्वधिकारे अलः अन्त्यस्य विधयः भवन्ति इति अकारस्य अकार्वचनने प्रयोजनम् न अस्ति इति कृत्वा अन्तरेण अपि शकारम् सर्वादेशः भविष्यति । अस्ति अन्यत् अकारस्य अकारवचने प्रयोजनम् । किम् । वक्ष्यति एतत् तत् अकारस्य अकारवचनम् समसङ्ख्यार्थम् इति । आर्धधातुकसञ्ज्ञायाम् धातुग्रहणम् कर्तव्यम् धातोः परस्य आर्धधातुकसञ्ज्ञा यथा स्यात् । इह मा भूत् : वृक्ष्त्वम् वृक्षता इति । तस्मात् लादेशे धात्वधिकारः अनुवर्त्यः । ननु च उक्तम् आद्ये योगे न व्यवाये तिङः स्युः इति । न एषः दोषः । आनुपूर्व्यात् सिद्धम् एतत् । न अत्र अकृतेषु आदेशेषु विकरणाः प्राप्नुवन्ति । किम् कारणम् । सार्वधातुके विकरणाः उच्यन्ते । न च अकृतेषु आदेशेषु सार्वधातुकत्वम् भवति । ये तर्हि न एतस्मिन् विशेषे विधीयन्ते । के पुनः ते । स्यादयः । तत्र अपि विहितविशेषणम् धातुग्रहणम् । धातोः विहितस्य लस्य इति । यदि एवम् विन्दति इति णलादयः प्राप्नुवन्ति । धातुना अत्र विहितम् विशेषयिष्यामः विदिना च आनतर्यम् । धातोः विहितस्य लस्य विदेः अनन्तरस्य इति । इह तर्हि अजक्षिष्यन् अजागैर्ष्यन् इति अभ्यस्तात् झेः जुस् भवति इति जुस्भावः प्राप्नोति । अत्र अपि धातुना विहितम् विशेषयिष्यामः अभ्यस्तेन आनन्तर्यम् । धातोः विहितस्य अभस्तात् अनन्तरस्य इति । आतः इति अत्र कथम् विशेषयिष्यसि । यदि तावत् धातुग्रहणम् विहितविशेषणम् आकारग्रहणम् आनन्तर्यविशेषणम् अलुनन् इति अत्र अपि प्राप्नोति । अथ आकारग्रहणम् विहितविशेषणम् धातुग्रहणम् आनन्तर्यविशेषणम् अपिबन् इति अत्र अपि प्राप्नोति । अस्तु तर्हि धातुग्रहणम् विहितविशेषणम् आकारग्रहणम् आनन्तर्यविशेषणम् । ननु च उक्तम् अलुनन् इति अत्र अपि प्राप्नोति इति । न एषः दोषः । लोपे कृते न भविष्यति । न अत्र लोपः प्राप्नोति । किम्

KA II,71.24-74.4 Ro III,179-183 ā kutaḥ ayam dhātvadhikāraḥ . kim prāk lādeśāt āhosvit ā tṛtīyādhyāyaparisamāpteḥ . dhātuvadhikāraḥ prāk lādeśāt . prāk lādeśāt dhātvadhikāraḥ . lādeśe hi vyavahitatvāt aprasiddhiḥ . anuvartamāne hi lādeśe dhātvadhikāre vyavahitavtā aprasiddhiḥ syāt . kim ca syāt . ādye yoge na vyavāye tiṅaḥ syuḥ . ādye yoge vikaraṇaiḥ vyavahitatvāt tiṅaḥ na syuḥ . pacati paṭhati . idam iha sampradhāryam . vikaraṇāḥ kriyantām āḍeśāḥ iti . kim atra kartavyam . paratvāt ādeśāḥ . nityāḥ vikaraṇāḥ . kṛteṣu ādeśeṣu prāpnuvanti akṛteṣu api prāpnuvanti . nityatvāt vikaraṇeṣu kṛteṣu vikaraṇaiḥ vyavahitatvāt ādeśāḥ na prāpnuvanti . anavakāśaḥ tarhi ādeśāḥ . sāvakāśāḥ ādeśāḥ . kaḥ avakāśaḥ . ye ete lugvikaraṇāḥ śluvikaraṇāḥ ca liṅliṭau ca . na syāt etvam ṭeḥ ṭitām yat vidhatte . yat ca ṭitsañjñānām etvam vidhatte tat ca vikaraṇaiḥ vyavahitatvāt na syāt . eśaḥ śittvam . ekāraḥ ca śit kartavyaḥ . kim prayojanam . śit sarvasya iti sarvādeśaḥ yathā syāt . akriyamāṇe hi śakāre tasmāt iti uttarasya ādeḥ iti takārasya etve kṛte dvayoḥ ekārayoḥ śravaṇam prasajyeta . nivṛtte punaḥ lādeśe dhātvadhikāre alaḥ antyasya vidhayaḥ bhavanti iti ekārasya ekārvacanane prayojanam na asti iti kṛtvā antareṇa api śakāram sarvādeśaḥ bhaviṣyati . yat ca loṭaḥ vidhatte . tat ca vikaraṇaiḥ vyavahitatvāt na syāt . kim punaḥ tat . loṭaḥ laṅvat eḥ uḥ seḥ hi apit ca vā chandasi iti . yat ca api uktam laṅliṅoḥ tat ca na syāt . kim punaḥ tat . nityam ṅitaḥ itaḥ ca tasthasthamipām tāmtamtāmaḥ liṅaḥ sīyuṭ yāsuṭ parasmaipadeṣu udāttaḥ ṅit ca iti . tasmāt prāk lādeśāt dhātvadhikāraḥ . yadi prāk lādeśāt dhātvadhikāraḥ akāraḥ śit kartavyaḥ . kim prayojanam . śit sarvasya iti sarvādeśaḥ yathā syāt . anuvartamāne punaḥ lādeśe dhātvadhikāre tasmāt iti uttarasya ādeḥ iti thakārasya atve kṛte dvayoḥ akārayoḥ pararūpeṇa siddham rūpam syāt . peca yūyam . cakra yūyam iti . nanu ca nivṛtte api lādeśe dhātvadhikāre alaḥ antyasya vidhayaḥ bhavanti iti akārasya akārvacanane prayojanam na asti iti kṛtvā antareṇa api śakāram sarvādeśaḥ bhaviṣyati . asti anyat akārasya akāravacane prayojanam . kim . vakṣyati etat tat akārasya akāravacanam samasaṅkhyārtham iti . ārdhadhātukasañjñāyām dhātugrahaṇam kartavyam dhātoḥ parasya ārdhadhātukasañjñā yathā syāt . iha mā bhūt : vṛkṣtvam vṛkṣatā iti . tasmāt lādeśe dhātvadhikāraḥ anuvartyaḥ . nanu ca uktam ādye yoge na vyavāye tiṅaḥ syuḥ iti . na eṣaḥ doṣaḥ . ānupūrvyāt siddham etat . na atra akṛteṣu ādeśeṣu vikaraṇāḥ prāpnuvanti . kim kāraṇam . sārvadhātuke vikaraṇāḥ ucyante . na ca akṛteṣu ādeśeṣu sārvadhātukatvam bhavati . ye tarhi na etasmin viśeṣe vidhīyante . ke punaḥ te . syādayaḥ . tatra api vihitaviśeṣaṇam dhātugrahaṇam . dhātoḥ vihitasya lasya iti . yadi evam vindati iti ṇalādayaḥ prāpnuvanti . dhātunā atra vihitam viśeṣayiṣyāmaḥ vidinā ca ānataryam . dhātoḥ vihitasya lasya videḥ anantarasya iti . iha tarhi ajakṣiṣyan ajāgairṣyan iti abhyastāt jheḥ jus bhavati iti jusbhāvaḥ prāpnoti . atra api dhātunā vihitam viśeṣayiṣyāmaḥ abhyastena ānantaryam . dhātoḥ vihitasya abhastāt anantarasya iti . ātaḥ iti atra katham viśeṣayiṣyasi . yadi tāvat dhātugrahaṇam vihitaviśeṣaṇam ākāragrahaṇam ānantaryaviśeṣaṇam alunan iti atra api prāpnoti . atha ākāragrahaṇam vihitaviśeṣaṇam dhātugrahaṇam ānantaryaviśeṣaṇam apiban iti atra api prāpnoti . astu tarhi dhātugrahaṇam vihitaviśeṣaṇam ākāragrahaṇam ānantaryaviśeṣaṇam . nanu ca uktam alunan iti atra api prāpnoti iti . na eṣaḥ doṣaḥ . lope kṛte na bhaviṣyati . na atra lopaḥ prāpnoti . kim

Sanskrit only: no published translation is held for this verse.

क्अ इइ,७४।५-७५।९ रो इइइ,१८३-१८५ कानि पुनः अस्य योगस्य प्रयोजनानि । प्रयोजनम् प्रातिपदिकप्रतिषेधः । प्रातिपदिकप्रतिषेधः प्रयोजनम् । धातोः तव्यादयः यथा स्युः । प्रातिपदिकात् मा भूवन् इति । न एतत् अस्ति प्रयोजनम् । साधने ताव्यादयः विधीयन्ते साधनम् च क्रियायाः । क्रियाभावात् साधनाभावः । साधनाभावात् असति अपि धात्वधिकारे प्रातिपदिकात् तव्यादयः न भविष्यन्ति । स्वपादिषु । स्वपादिषु तर्हि प्रयोजनम् । स्वपिति । सुपति इति मा भूत् । अङ्गसञ्ज्ञा च । अङ्गसञ्ज्ञा च प्रयोजनम् । यस्मात् प्रत्ययविधिः तदादि प्रत्यये अङ्गम् इति धातोः अङ्गसञ्ज्ञा सिद्धा भवति । कृत्सञ्ज्ञा च । कृत्सञ्ज्ञा च प्रयोजनम् । धातुविहितस्य प्रत्ययस्य कृत्सञ्ज्ञा सिद्धा भवति । उपपदसञ्ज्ञा च। उपपदसञ्ज्ञा च प्रयोजनम् । तत्र एतस्मिन् धात्वधिकारे सप्तमीनिर्दिष्टम् उपपदस्ञ्ज्ञम् भवति इति उपपदसञ्ज्ञा सिद्धा भवति । कृदुपपदसञ्ज्ञे तावन् न प्रयोजनम् । अधिकारात् अपि एते सिद्धे । स्वपादिषु तर्हि अङ्गसञ्ज्ञा च प्रयोजनम् । धातुग्रहणम् अनर्थकम् यङ्विधौ धात्वधिकारात् । धातुग्रहणम् अनर्थकम् । किम् कारणम् । यङ्विधौ धात्वधिकारात् । यङ्विधौ धातुग्रहणम् प्रकृतम् अनुवर्तते । तत् च अवश्यम् अनुवर्त्यम् । अनधिकारे हि अङ्गसञ्ज्ञाभावः । अनधिकारे हि सति अङ्गसञ्ज्ञायाः अभावः स्यात् । करिष्यति हरिष्यति इति । यद् तत् अनुवर्तते चूर्णचुरादिभ्यः णिच् भवति धातोः च इति धातुमात्रात् णिच् प्राप्नोति । हेतुमद्वचनम् तु ज्ञापकम् अन्यत्राभावस्य । यत् अयम् हेतुमति च इति आह तत् ज्ञापयति आचार्यः न धातुमात्रात् णिच् भवति इति । इह तर्हि कण्ड्वादिभ्यः यक् भवति धातोः च इति धातुमात्रात् यक् प्राप्नोति । कण्ड्वादिषु च व्यपदेशिवद्वचनात् । यत् अयम् कण्ड्वादिभ्यः यक् भवति इति आह तत् ज्ञापयति आचार्यः न धातुमात्रात् यक् भवति इति । अथ वा कण्ड्वादिभ्यः धातुग्रहणेन अभिसम्भन्त्स्यामः । कण्ड्वादिभ्यः धातुभ्यः इति ।

KA II,74.5-75.9 Ro III,183-185 kāni punaḥ asya yogasya prayojanāni . prayojanam prātipadikapratiṣedhaḥ . prātipadikapratiṣedhaḥ prayojanam . dhātoḥ tavyādayaḥ yathā syuḥ . prātipadikāt mā bhūvan iti . na etat asti prayojanam . sādhane tāvyādayaḥ vidhīyante sādhanam ca kriyāyāḥ . kriyābhāvāt sādhanābhāvaḥ . sādhanābhāvāt asati api dhātvadhikāre prātipadikāt tavyādayaḥ na bhaviṣyanti . svapādiṣu . svapādiṣu tarhi prayojanam . svapiti . supati iti mā bhūt . aṅgasañjñā ca . aṅgasañjñā ca prayojanam . yasmāt pratyayavidhiḥ tadādi pratyaye aṅgam iti dhātoḥ aṅgasañjñā siddhā bhavati . kṛtsañjñā ca . kṛtsañjñā ca prayojanam . dhātuvihitasya pratyayasya kṛtsañjñā siddhā bhavati . upapadasañjñā ca. upapadasañjñā ca prayojanam . tatra etasmin dhātvadhikāre saptamīnirdiṣṭam upapadasñjñam bhavati iti upapadasañjñā siddhā bhavati . kṛdupapadasañjñe tāvan na prayojanam . adhikārāt api ete siddhe . svapādiṣu tarhi aṅgasañjñā ca prayojanam . dhātugrahaṇam anarthakam yaṅvidhau dhātvadhikārāt . dhātugrahaṇam anarthakam . kim kāraṇam . yaṅvidhau dhātvadhikārāt . yaṅvidhau dhātugrahaṇam prakṛtam anuvartate . tat ca avaśyam anuvartyam . anadhikāre hi aṅgasañjñābhāvaḥ . anadhikāre hi sati aṅgasañjñāyāḥ abhāvaḥ syāt . kariṣyati hariṣyati iti . yad tat anuvartate cūrṇacurādibhyaḥ ṇic bhavati dhātoḥ ca iti dhātumātrāt ṇic prāpnoti . hetumadvacanam tu jñāpakam anyatrābhāvasya . yat ayam hetumati ca iti āha tat jñāpayati ācāryaḥ na dhātumātrāt ṇic bhavati iti . iha tarhi kaṇḍvādibhyaḥ yak bhavati dhātoḥ ca iti dhātumātrāt yak prāpnoti . kaṇḍvādiṣu ca vyapadeśivadvacanāt . yat ayam kaṇḍvādibhyaḥ yak bhavati iti āha tat jñāpayati ācāryaḥ na dhātumātrāt yak bhavati iti . atha vā kaṇḍvādibhyaḥ dhātugrahaṇena abhisambhantsyāmaḥ . kaṇḍvādibhyaḥ dhātubhyaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,७५।११-१८ रो इइइ,१८५-१८६ स्थग्रहणम् किमर्थम् । तत्र उपपदम् सप्तमी इति इयति उच्यमाने यत्र एव सप्तमी श्रूयते तत्र एव स्यात् : स्तम्बेरमः कर्णेजपः । यत्र वा एतेन शब्देन निर्देशः क्रियते । सप्तम्याम् जनेः डः इति । इह न स्यात् । कुम्भकारः नगरकारः । स्थग्रहणे पुनः क्रियमाणे यत्र च सप्तमी श्रूयते य च न श्रूयते यत्र च एतेन शब्देन निर्देशः क्रियते यत्र च अन्येन सप्तमीस्थमात्रे सिद्धम् भवति । अथ तत्रग्रहणम् किमर्थम् । तत्रग्रहणम् विषयार्थम् । विषयः प्रतिनिर्दिश्यते । तत्र एतस्मिन् धात्वधिकारे यत् सप्तमीनिर्दिष्टम् तत् उपपदसञ्ज्ञम् भवति इति उपपदसञ्ज्ञा सिद्धा भवति ।

KA II,75.11-18 Ro III,185-186 sthagrahaṇam kimartham . tatra upapadam saptamī iti iyati ucyamāne yatra eva saptamī śrūyate tatra eva syāt : stamberamaḥ karṇejapaḥ . yatra vā etena śabdena nirdeśaḥ kriyate . saptamyām janeḥ ḍaḥ iti . iha na syāt . kumbhakāraḥ nagarakāraḥ . sthagrahaṇe punaḥ kriyamāṇe yatra ca saptamī śrūyate ya ca na śrūyate yatra ca etena śabdena nirdeśaḥ kriyate yatra ca anyena saptamīsthamātre siddham bhavati . atha tatragrahaṇam kimartham . tatragrahaṇam viṣayārtham . viṣayaḥ pratinirdiśyate . tatra etasmin dhātvadhikāre yat saptamīnirdiṣṭam tat upapadasañjñam bhavati iti upapadasañjñā siddhā bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,७५।१९-७६।२६ रो इइइ,१८७-१९० उपपदसञ्ज्ञायाम् समर्थवचनम् । उपपदसञ्ज्ञायाम् समर्थग्रहणम् कर्तव्यम् । समर्थम् उपपदम् प्रत्ययस्य इति वक्तव्यम् । इह मा भूत् । आहर कुम्भम् । करोति कटम् इति । क्रियमाणे च अपि समर्थग्रहणे महान्तम् कुम्भम् करोति इति अत्र अपि प्राप्नोति । न वा भवितव्यम् महाकुम्भकारः इति । भवैतव्यम् यदा एतत् वाक्यम् भवति । महान् कुम्भः महाकुम्भः महाकुम्भम् करोति इति महाकुम्भकारः । यदा तु एतत् वाक्यम् भवति महान्तम् कुम्भम् करोति इति तदा न भवितव्यम् । तदा च प्राप्नोति । तदा मा भूत् इति । यत् तावत् उच्यते समर्थग्रहणम् कर्तव्यम् इति । न कर्तव्यम् । धातोः इति वर्तते । धातोः कर्मणि अण् भवति । तत्र सम्बन्धात् एतत् गन्तव्यम् । यस्य धातोः यत् कर्म इति । यत् अपि उच्यते क्रियमाणे च अपि समर्थग्रहणे महान्तम् कुम्भम् करोति इति अत्र अपि प्राप्नोति इति । उपपदम् इति महतीइहम् सञ्ज्ञा क्रियते । सञ्ज्ञा च नाम यतः न लघीयः । कुतः एतत् । लघ्वर्थम् हि सञ्ज्ञाकरणम् । तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम् अन्वर्थसञ्ज्ञा यथा विज्ञायेत : उपोच्चारि पदम् उपपदम् । यत् च अत्र उपोच्चारि न तत् पदम् यत् च पदम् न तत् उपोच्चारि । यावता च इदानीम् पदगन्धः अस्ति पदविधिः अयम् भवति । पदविधिः च समर्थानाम् भवति । तत्र असामार्थ्यान् न भविष्यति । अथ च्व्यन्ते उपपदे किम् अणा भवितव्यम् । अकुम्भम् कुम्भम् करोति कुम्भीकरोति मृदम् इति । न भवितव्यम् । किम् कारणम् । प्रकृतिविवक्षायाम् च्विः विधीयते । तत् सापेक्षम् । सापेक्षम् च असमर्थम् भवति । न तर्हि इदानीम् इदम् भवति : इच्छामि अहम् काशकटीकारम् इति । इष्टम् एव एतत् गोनर्दीयस्य । निमित्तोपादनम् च । निमित्तोपादनम् च कर्तव्यम् । निमित्तम् उपपदम् प्रत्ययस्य इति वक्तव्यम् । अनुपादाने हि अनुपपदे प्रत्ययप्रसङ्गः । अक्रियमाणे हि निमित्तोपादाने अनुपपदे अपि प्रसज्येत । निर्देशः इदानीम् किमर्थः स्यात् । निर्देशः सञ्ज्ञाकरणार्थः । यदा उपपदे प्रत्ययः तदा उपपदसञ्ज्ञाम् वक्ष्यामि इति । तत् तर्हि निमित्तोपादनम् कर्तव्यम् । न कर्तव्यम् । तत्रवचनम् उपपदसन्नियोगार्थम् । तत्रवचनम् क्रियते । तत् उपपदसन्नियोगार्थम् भविष्यति । कर्मणि अण् विधीयते तत्र चेत् प्रत्ययः भवति इति । ननु च अन्यत् तत्रग्रहणस्य प्रयोजनम् उक्तम् । किम् । तत्रग्रहणम् विषयार्थम् इति । अधिकारात् अपि एतत् सिद्धम् ।

KA II,75.19-76.26 Ro III,187-190 upapadasañjñāyām samarthavacanam . upapadasañjñāyām samarthagrahaṇam kartavyam . samartham upapadam pratyayasya iti vaktavyam . iha mā bhūt . āhara kumbham . karoti kaṭam iti . kriyamāṇe ca api samarthagrahaṇe mahāntam kumbham karoti iti atra api prāpnoti . na vā bhavitavyam mahākumbhakāraḥ iti . bhavaitavyam yadā etat vākyam bhavati . mahān kumbhaḥ mahākumbhaḥ mahākumbham karoti iti mahākumbhakāraḥ . yadā tu etat vākyam bhavati mahāntam kumbham karoti iti tadā na bhavitavyam . tadā ca prāpnoti . tadā mā bhūt iti . yat tāvat ucyate samarthagrahaṇam kartavyam iti . na kartavyam . dhātoḥ iti vartate . dhātoḥ karmaṇi aṇ bhavati . tatra sambandhāt etat gantavyam . yasya dhātoḥ yat karma iti . yat api ucyate kriyamāṇe ca api samarthagrahaṇe mahāntam kumbham karoti iti atra api prāpnoti iti . upapadam iti mahatīiham sañjñā kriyate . sañjñā ca nāma yataḥ na laghīyaḥ . kutaḥ etat . laghvartham hi sañjñākaraṇam . tatra mahatyāḥ sañjñāyāḥ karaṇe etat prayojanam anvarthasañjñā yathā vijñāyeta : upoccāri padam upapadam . yat ca atra upoccāri na tat padam yat ca padam na tat upoccāri . yāvatā ca idānīm padagandhaḥ asti padavidhiḥ ayam bhavati . padavidhiḥ ca samarthānām bhavati . tatra asāmārthyān na bhaviṣyati . atha cvyante upapade kim aṇā bhavitavyam . akumbham kumbham karoti kumbhīkaroti mṛdam iti . na bhavitavyam . kim kāraṇam . prakṛtivivakṣāyām cviḥ vidhīyate . tat sāpekṣam . sāpekṣam ca asamartham bhavati . na tarhi idānīm idam bhavati : icchāmi aham kāśakaṭīkāram iti . iṣṭam eva etat gonardīyasya . nimittopādanam ca . nimittopādanam ca kartavyam . nimittam upapadam pratyayasya iti vaktavyam . anupādāne hi anupapade pratyayaprasaṅgaḥ . akriyamāṇe hi nimittopādāne anupapade api prasajyeta . nirdeśaḥ idānīm kimarthaḥ syāt . nirdeśaḥ sañjñākaraṇārthaḥ . yadā upapade pratyayaḥ tadā upapadasañjñām vakṣyāmi iti . tat tarhi nimittopādanam kartavyam . na kartavyam . tatravacanam upapadasanniyogārtham . tatravacanam kriyate . tat upapadasanniyogārtham bhaviṣyati . karmaṇi aṇ vidhīyate tatra cet pratyayaḥ bhavati iti . nanu ca anyat tatragrahaṇasya prayojanam uktam . kim . tatragrahaṇam viṣayārtham iti . adhikārāt api etat siddham .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,७७।२-१७ रो इइइ,१९०-१९२ अतिङ् इति किमर्थम् । पचति करोति । अतिङ् इति शक्यम् अकर्तुम् । कस्मात् न भवति पचति करोति इति । धातोः परस्य कृत्सञ्ज्ञा । प्राक् च लादेशात् धात्वधिकारः । एवम् अपि स्थानिवद्भावात् कृत्सञ्ज्ञ प्राप्नोति । यथा अतिङ् इति उच्यमाने यावता स्थानिवद्भावः कथम् एव एतत् सिध्यति । प्रतिषेधवचनसामर्थ्यात् । अथ वा तिङ्भाविनः लकारस्य कृत्सञ्ज्ञाप्रतिषेधः । किम् च स्यात् यति अत्र कृत्सञ्ज्ञा स्यात् । कृत्प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा स्यात् । प्रातिपदिकात् इति स्वाद्युत्पत्तिः प्रसज्येत । न एषः दोषः । एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते । ते च अत्र तिङोक्ताः एकत्वादयः इति कृत्वा उक्तार्थत्वात् न भविष्यन्ति । टाबादयः तर्हि तिङन्तात् मा भूवन् इति । स्त्रियाम् टाबादयः विधीयन्ते । न च तिङन्तस्य स्त्रीत्वेन योगः अस्ति । अणादयः तर्हि तिङन्तात् मा भूवन् इति । अपत्यादिषु अर्थेषु अणादयः विधीयन्ते । न च तिङन्तस्य अपत्यादिभिः योगः अस्ति । अथ अपि कथम् चित् योगः स्यात् । एवम् अपि न दोषः । आचार्यप्रवृत्तिः ज्ञापयति न तिङन्तात् अणादयः भवन्ति इति यत् अयम् क्व चित् तद्धितविधौ तिङ्ग्रहणम् करोति । अतिशायने तमबिष्ठनौ तिङः च इति । इह तर्हि पचति पठति इति । ह्रस्वस्य पिति कृति तुक् भवति इति तुक् प्राप्नोति । धातोः इति वर्तते । एवम् अपि चिकीर्षति इति अत्र प्राप्नोति । अत्र अपि शपा व्यवधानम् । एकादेशे कृते न अस्ति व्यवधानम् । एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव इति ।

KA II,77.2-17 Ro III,190-192 atiṅ iti kimartham . pacati karoti . atiṅ iti śakyam akartum . kasmāt na bhavati pacati karoti iti . dhātoḥ parasya kṛtsañjñā . prāk ca lādeśāt dhātvadhikāraḥ . evam api sthānivadbhāvāt kṛtsañjña prāpnoti . yathā atiṅ iti ucyamāne yāvatā sthānivadbhāvaḥ katham eva etat sidhyati . pratiṣedhavacanasāmarthyāt . atha vā tiṅbhāvinaḥ lakārasya kṛtsañjñāpratiṣedhaḥ . kim ca syāt yati atra kṛtsañjñā syāt . kṛtprātipadikam iti prātipadikasañjñā syāt . prātipadikāt iti svādyutpattiḥ prasajyeta . na eṣaḥ doṣaḥ . ekatvādiṣu artheṣu svādayaḥ vidhīyante . te ca atra tiṅoktāḥ ekatvādayaḥ iti kṛtvā uktārthatvāt na bhaviṣyanti . ṭābādayaḥ tarhi tiṅantāt mā bhūvan iti . striyām ṭābādayaḥ vidhīyante . na ca tiṅantasya strītvena yogaḥ asti . aṇādayaḥ tarhi tiṅantāt mā bhūvan iti . apatyādiṣu artheṣu aṇādayaḥ vidhīyante . na ca tiṅantasya apatyādibhiḥ yogaḥ asti . atha api katham cit yogaḥ syāt . evam api na doṣaḥ . ācāryapravṛttiḥ jñāpayati na tiṅantāt aṇādayaḥ bhavanti iti yat ayam kva cit taddhitavidhau tiṅgrahaṇam karoti . atiśāyane tamabiṣṭhanau tiṅaḥ ca iti . iha tarhi pacati paṭhati iti . hrasvasya piti kṛti tuk bhavati iti tuk prāpnoti . dhātoḥ iti vartate . evam api cikīrṣati iti atra prāpnoti . atra api śapā vyavadhānam . ekādeśe kṛte na asti vyavadhānam . ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam eva iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,७८।२-७ रो इइइ,१९२-१९३ कथम् इदम् विज्ञायते । स्त्रियाम् अभिधेयायाम् वा अस्रूपः न भवति इति आहोस्वित् स्त्रीप्रत्ययेषु इति । किम् च अतः । यदि स्त्रियाम् अभिधेयायाम् इति लव्या लवितव्या अत्र वा असरूपः न प्राप्नोति । अथ विज्ञायते स्त्रीप्रत्ययेषु इति व्यावक्रोशी वयतिक्रुष्टिः इति न सिध्यति । एवम् तर्हि न एवम् विज्ञायते स्त्रियाम् अभिधेयायाम् न अपि स्त्रीप्रत्ययेषु इति । कथम् तर्हि स्त्रीग्रहणम् स्वरयिष्यते । तत्र स्वरितेन अधिकारगतिः भवति इति स्त्रियाम् इति अधिकृत्य ये प्रतयाः विहिताः तेषाम् प्रतिषेधः विज्ञास्यते ।

KA II,78.2-7 Ro III,192-193 katham idam vijñāyate . striyām abhidheyāyām vā asrūpaḥ na bhavati iti āhosvit strīpratyayeṣu iti . kim ca ataḥ . yadi striyām abhidheyāyām iti lavyā lavitavyā atra vā asarūpaḥ na prāpnoti . atha vijñāyate strīpratyayeṣu iti vyāvakrośī vayatikruṣṭiḥ iti na sidhyati . evam tarhi na evam vijñāyate striyām abhidheyāyām na api strīpratyayeṣu iti . katham tarhi strīgrahaṇam svarayiṣyate . tatra svaritena adhikāragatiḥ bhavati iti striyām iti adhikṛtya ye pratayāḥ vihitāḥ teṣām pratiṣedhaḥ vijñāsyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,७८।८-८०।१४ रो इइइ,१९३-१९८ किमर्थम् पुनः इदम् उच्यते । असरूपस्य वावचनम् उत्सर्गस्य बाधकविषये अनिवृत्त्यर्थम् । असरूपस्य वावचनम् क्रियते उत्सर्गस्य बाधकविषये अनिवृत्तिः यथा स्यात् । तव्यत्तव्यानीयरः उत्सर्गाः । तेषाम् अजन्तात् यत् अपवादः । चेयम् , चेतव्यम् इति अपि यथा स्यात् । न एतत् अस्ति प्रयोजनम् । अजन्तात् यत् विधीयते । हलन्तात् ण्यत् विधीयते । एतावन्तः च धातवः यत् उत अजन्ताः हलन्ताः च । उच्यन्ते च तव्यादयः । ते वचनात् भविष्यन्ति । एवम् तर्हि ण्वुल्तृचौ उत्सर्गौ । तयोः पचादिभ्यः अच् अपवादः । पचति इति पचः । पक्ता पाचकः इति अपि यथा स्यात् । एतत् अपि न अस्ति प्रयोजनम् । वक्ष्यति एतत् । अच् अपि सर्वधातुभ्यः वक्तव्यः इति । एवम् तर्हि ण्वुल्तृजचः उत्सर्गाः तेषाम् इगुपधात् कः अपवादः । विक्षिपः विलिखः । विक्षेप्ता विक्षेपकः इति अपि यथा स्यात् । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति । तत्र उत्पत्तिवाप्रसङ्गः यथा तद्धिते । तत्र उत्पत्तिः विभाषा प्राप्नोति यथा तद्धिते । अस्तु । यदा विक्षिपः विलिखः इति एतत् न तदा विक्षेप्ता विक्षेपकः इति एतत् भविष्यति । यदि एतत् लभ्येत कृतम् स्यात् । तत् तु न लभ्यम् । किम् कारणम् । यथा तद्धिते इति उच्यते । तद्दितेषु च सर्वम् एव उत्सर्गापवादम् विभाषा । उत्पद्यते वा न वा । सिद्धम् तु असरूपस्य बाधकस्य वावचनात् । सिद्धम् एतत् । कथम् । असरूपस्य बाधकस्य वावचनात् । असरूपः बाधकः वा बाधकः भवति इति वक्तव्यम् । सिध्यति । सूत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् तत्र उत्पत्तिवाप्रसङ्गः यथा तद्धिते इति । न एषः दोषः । अस्ति कारणम् येन तद्धिते विभाषा उत्पत्तिः भवति । किम् कारणम् । प्रकृतिः तत्र प्रकृत्यर्थे वर्तते । अन्येन शब्देन प्रत्ययार्थः अभिधीयते । इह पुनः न केवला प्रकृतिः प्रकृत्यर्थे वर्तते न च अन्यः शब्दः अस्ति यः तम् अर्थम् अभिदधीत इति कृत्वा अनुत्पत्तिः न भविष्यति । अथ वा समयः कृतः । न केवला प्रकृतिः प्रयोक्तव्या न च केवलः प्रत्ययः इति । एतस्मात् समयात् अनुत्पत्तिः न भविष्यति । ननु च यः एव तस्य समयस्य कर्ता सः एव इदम् अपि आह । यदि असौ तत्र प्रमाणम् इह अपि प्रमाणम् भवितुम् अर्हति । प्रमाणम् असौ तत्र च इह च । सामर्थ्यम् तु इह द्रष्टव्यम् प्रयोगे । न च अनुत्पत्तौ सामर्थ्यम् अस्ति । तेन अनुत्पत्तिः न भविष्यति । कथम् तर्हि तद्धितेषु अनुत्पत्तौ सामर्थ्यम् भवति । अन्येन प्रत्ययेन सामर्थ्यम् । केन । षष्ठ्या । अथ वा रूपवत्ताम् आश्रित्य वाविधिः उच्यते । न च अनुत्पत्तिः रूपवती । तेन अनुत्पत्तिः न भविष्यति । एवम् अपि कुतः एतत् अपवादः विभाषा भविष्यति न पुनः उत्सर्गः इति । न च एव अस्ति विशेषः यत् अपवादः विभाषा स्यात् उत्सर्गः वा । अपि च सापेक्षः अयम् निर्देशः क्रियते वा असरूपः इति । न च उत्सर्गवेलायाम् किम् चित् अपेक्ष्यम् अस्ति । अपवादवेलायाम् पुनः उत्सर्गः अपेक्ष्यते । तेन यः रूपवान् अन्यपूर्वकः बाधकः प्राप्नोति सः वा बाधकः भविष्यति । कः पुनः असौ । अपवादः । यदि यः रूपवान् अन्यपूर्वकः बाधकः प्राप्नोति सः वा बाधकः भवति इति उच्यते क्विबादिषु समावेशः न प्राप्नोति । ग्रामणीः ग्रामणायः इति । न हि एते रूपवन्तः । एते अपि रूपवन्तः । कस्याम् अवस्थायाम् । उपदेशावस्थायाम् । यदि एवम् अनुबन्धभिन्नेषु विभाषाप्रसङ्गः । अनुबन्धभिन्नेषु विभाषा प्राप्नोति । कर्मणि अण् आतः अनुपसर्गे कः इति कविषये अण् अपि प्राप्नोति । सिद्धम् अनुबन्धस्य अनेकान्तत्वात् । सिद्धम् एतत् । कथम् । अनुबन्धस्य अनेकान्तत्वात् । अनेकान्ताः अनुबन्धाः । अथ वा प्रयोगे असरूपाणाम् वाविधिः न्याय्यः । प्रयोगे चेत् लादेशेषु प्रतिषेधः । प्रयोगे चेत् लादेशेषु प्रतिषेधः वक्तव्यः । ह्यः अपचत् इति अत्र लुङ् अपि प्राप्नोति । श्वः पक्ता इति अत्र लृट् अपि प्राप्नोति । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति न लादेशेषु वा असरूपः भवति इति यत् अयम् हशश्वतोः लङ् च इति आह । अथ वा प्रयोगे असरूपाणाम् वाविधौ न सर्वम् इष्टम् सङ्गृहीतम् इति कृत्वा द्वितीयः प्रयोगः उपास्यते । कः असौ । उपदेशः नाम । उपदेशे च एते सरूपाः । ननु च उक्तम् अनुबन्धभिन्नेषु विभाषाप्रसङ्गः इति । परिहृतम् एतत् । कथम् । सिद्धम् अनुबन्धस्य अनेकान्तत्वात् । अथ एकान्ते दोषः एव । एकान्ते च न दोषः । आचार्यप्रवृत्तिः ज्ञापयति न अनुबन्धकृतम् असारूप्यम् भवति इति यत् अयम् ददादिदधात्योः

KA II,78.8-80.14 Ro III,193-198 kimartham punaḥ idam ucyate . asarūpasya vāvacanam utsargasya bādhakaviṣaye anivṛttyartham . asarūpasya vāvacanam kriyate utsargasya bādhakaviṣaye anivṛttiḥ yathā syāt . tavyattavyānīyaraḥ utsargāḥ . teṣām ajantāt yat apavādaḥ . ceyam , cetavyam iti api yathā syāt . na etat asti prayojanam . ajantāt yat vidhīyate . halantāt ṇyat vidhīyate . etāvantaḥ ca dhātavaḥ yat uta ajantāḥ halantāḥ ca . ucyante ca tavyādayaḥ . te vacanāt bhaviṣyanti . evam tarhi ṇvultṛcau utsargau . tayoḥ pacādibhyaḥ ac apavādaḥ . pacati iti pacaḥ . paktā pācakaḥ iti api yathā syāt . etat api na asti prayojanam . vakṣyati etat . ac api sarvadhātubhyaḥ vaktavyaḥ iti . evam tarhi ṇvultṛjacaḥ utsargāḥ teṣām igupadhāt kaḥ apavādaḥ . vikṣipaḥ vilikhaḥ . vikṣeptā vikṣepakaḥ iti api yathā syāt . asti prayojanam etat . kim tarhi iti . tatra utpattivāprasaṅgaḥ yathā taddhite . tatra utpattiḥ vibhāṣā prāpnoti yathā taddhite . astu . yadā vikṣipaḥ vilikhaḥ iti etat na tadā vikṣeptā vikṣepakaḥ iti etat bhaviṣyati . yadi etat labhyeta kṛtam syāt . tat tu na labhyam . kim kāraṇam . yathā taddhite iti ucyate . tadditeṣu ca sarvam eva utsargāpavādam vibhāṣā . utpadyate vā na vā . siddham tu asarūpasya bādhakasya vāvacanāt . siddham etat . katham . asarūpasya bādhakasya vāvacanāt . asarūpaḥ bādhakaḥ vā bādhakaḥ bhavati iti vaktavyam . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam tatra utpattivāprasaṅgaḥ yathā taddhite iti . na eṣaḥ doṣaḥ . asti kāraṇam yena taddhite vibhāṣā utpattiḥ bhavati . kim kāraṇam . prakṛtiḥ tatra prakṛtyarthe vartate . anyena śabdena pratyayārthaḥ abhidhīyate . iha punaḥ na kevalā prakṛtiḥ prakṛtyarthe vartate na ca anyaḥ śabdaḥ asti yaḥ tam artham abhidadhīta iti kṛtvā anutpattiḥ na bhaviṣyati . atha vā samayaḥ kṛtaḥ . na kevalā prakṛtiḥ prayoktavyā na ca kevalaḥ pratyayaḥ iti . etasmāt samayāt anutpattiḥ na bhaviṣyati . nanu ca yaḥ eva tasya samayasya kartā saḥ eva idam api āha . yadi asau tatra pramāṇam iha api pramāṇam bhavitum arhati . pramāṇam asau tatra ca iha ca . sāmarthyam tu iha draṣṭavyam prayoge . na ca anutpattau sāmarthyam asti . tena anutpattiḥ na bhaviṣyati . katham tarhi taddhiteṣu anutpattau sāmarthyam bhavati . anyena pratyayena sāmarthyam . kena . ṣaṣṭhyā . atha vā rūpavattām āśritya vāvidhiḥ ucyate . na ca anutpattiḥ rūpavatī . tena anutpattiḥ na bhaviṣyati . evam api kutaḥ etat apavādaḥ vibhāṣā bhaviṣyati na punaḥ utsargaḥ iti . na ca eva asti viśeṣaḥ yat apavādaḥ vibhāṣā syāt utsargaḥ vā . api ca sāpekṣaḥ ayam nirdeśaḥ kriyate vā asarūpaḥ iti . na ca utsargavelāyām kim cit apekṣyam asti . apavādavelāyām punaḥ utsargaḥ apekṣyate . tena yaḥ rūpavān anyapūrvakaḥ bādhakaḥ prāpnoti saḥ vā bādhakaḥ bhaviṣyati . kaḥ punaḥ asau . apavādaḥ . yadi yaḥ rūpavān anyapūrvakaḥ bādhakaḥ prāpnoti saḥ vā bādhakaḥ bhavati iti ucyate kvibādiṣu samāveśaḥ na prāpnoti . grāmaṇīḥ grāmaṇāyaḥ iti . na hi ete rūpavantaḥ . ete api rūpavantaḥ . kasyām avasthāyām . upadeśāvasthāyām . yadi evam anubandhabhinneṣu vibhāṣāprasaṅgaḥ . anubandhabhinneṣu vibhāṣā prāpnoti . karmaṇi aṇ ātaḥ anupasarge kaḥ iti kaviṣaye aṇ api prāpnoti . siddham anubandhasya anekāntatvāt . siddham etat . katham . anubandhasya anekāntatvāt . anekāntāḥ anubandhāḥ . atha vā prayoge asarūpāṇām vāvidhiḥ nyāyyaḥ . prayoge cet lādeśeṣu pratiṣedhaḥ . prayoge cet lādeśeṣu pratiṣedhaḥ vaktavyaḥ . hyaḥ apacat iti atra luṅ api prāpnoti . śvaḥ paktā iti atra lṛṭ api prāpnoti . na eṣaḥ doṣaḥ . ācāryapravṛttiḥ jñāpayati na lādeśeṣu vā asarūpaḥ bhavati iti yat ayam haśaśvatoḥ laṅ ca iti āha . atha vā prayoge asarūpāṇām vāvidhau na sarvam iṣṭam saṅgṛhītam iti kṛtvā dvitīyaḥ prayogaḥ upāsyate . kaḥ asau . upadeśaḥ nāma . upadeśe ca ete sarūpāḥ . nanu ca uktam anubandhabhinneṣu vibhāṣāprasaṅgaḥ iti . parihṛtam etat . katham . siddham anubandhasya anekāntatvāt . atha ekānte doṣaḥ eva . ekānte ca na doṣaḥ . ācāryapravṛttiḥ jñāpayati na anubandhakṛtam asārūpyam bhavati iti yat ayam dadādidadhātyoḥ

Sanskrit only: no published translation is held for this verse.

क्अ इइ,८०।१५-२६ रो इइइ,१९९-२०० अथ कथम् इदम् विज्ञायते अस्त्रियाम् इति । किम् स्त्रियाम् न भवति आहोस्वित् प्राक् स्त्रियाः भवति इति । कः च अत्र विशेषः । स्त्रियाम् प्रतिषेधे क्तल्युट्तुमुन्खलर्थेषु विभाषाप्रसङ्गः । स्त्रियाम् प्रतिषेधे क्तल्युट्तुमुन्खलर्थेषु विभाषा प्राप्नोति । क्त । हसितम् छात्रस्य्स् शोभनम् । घञ् अपि प्राप्नोति । ल्युट् । हसनम् छात्रस्य्स् शोभनम् । घञ् अपि प्राप्नोति । तुमुन् । इच्छति भोक्तुम् । लिङ्लोटौ अपि प्राप्नुतः । खलर्थः । ईषत्पानः सोमः भवता । खल् अपि प्राप्नोति । एवम् तर्हि स्त्रियाः प्राक् इति वक्ष्यामि । स्त्रियाः प्राक् इति चेत् क्त्वायाम् वावचनम् । स्त्रियाः प्राक् इति चेत् क्त्वायाम् वावचनम् कर्तव्यम् । आसित्वा भुङ्क्ते । आस्यते भोक्तुम् इति अपि यथा स्यात् । कालादिषु तुमुनि । कालादिषु तुमुनि वावचनम् कर्तव्यम् । कालः भोक्तुम् । कालः भोजनस्य इति अपि यथा स्यात् ।

KA II,80.15-26 Ro III,199-200 atha katham idam vijñāyate astriyām iti . kim striyām na bhavati āhosvit prāk striyāḥ bhavati iti . kaḥ ca atra viśeṣaḥ . striyām pratiṣedhe ktalyuṭtumunkhalartheṣu vibhāṣāprasaṅgaḥ . striyām pratiṣedhe ktalyuṭtumunkhalartheṣu vibhāṣā prāpnoti . kta . hasitam chātrasys śobhanam . ghañ api prāpnoti . lyuṭ . hasanam chātrasys śobhanam . ghañ api prāpnoti . tumun . icchati bhoktum . liṅloṭau api prāpnutaḥ . khalarthaḥ . īṣatpānaḥ somaḥ bhavatā . khal api prāpnoti . evam tarhi striyāḥ prāk iti vakṣyāmi . striyāḥ prāk iti cet ktvāyām vāvacanam . striyāḥ prāk iti cet ktvāyām vāvacanam kartavyam . āsitvā bhuṅkte . āsyate bhoktum iti api yathā syāt . kālādiṣu tumuni . kālādiṣu tumuni vāvacanam kartavyam . kālaḥ bhoktum . kālaḥ bhojanasya iti api yathā syāt .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,८१।१-६ रो इइइ,२०० अर्हे तृज्विधानम् । अर्हे तृच् विधेयः । इमे अर्हे कृत्याः विधीयन्ते । ते विशेषविहिताः सामान्यविहितम् तृचम् बाधेरन् । न एषः दोषः । भावकर्मणोः कृत्याः विधीयन्ते कर्तरि तृच् । कः प्रसङ्गः यत् भावकर्मणोः कृत्याः कर्तरि तृचम् बाधेरन् । एवम् तर्हि अर्हे कृत्यतृज्विधानम् । अर्हे कृत्यतृचः विधेयाः । अयम् अर्हे लिङ् विधीयते । सः विशेषविहितः सामान्यविहितान् कृत्यतृचः बाधेत ।

KA II,81.1-6 Ro III,200 arhe tṛjvidhānam . arhe tṛc vidheyaḥ . ime arhe kṛtyāḥ vidhīyante . te viśeṣavihitāḥ sāmānyavihitam tṛcam bādheran . na eṣaḥ doṣaḥ . bhāvakarmaṇoḥ kṛtyāḥ vidhīyante kartari tṛc . kaḥ prasaṅgaḥ yat bhāvakarmaṇoḥ kṛtyāḥ kartari tṛcam bādheran . evam tarhi arhe kṛtyatṛjvidhānam . arhe kṛtyatṛcaḥ vidheyāḥ . ayam arhe liṅ vidhīyate . saḥ viśeṣavihitaḥ sāmānyavihitān kṛtyatṛcaḥ bādheta .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,८१।८-१४ रो इइइ,२०० कृत्यसञ्ज्ञायाम् प्राङ्ण्वुल्वचनम् । कृत्यसञ्ज्ञायाम् प्राक् ण्वुलः इति वक्तव्यम् । किम् प्रयोजनम् । ण्वुलः कृत्यसञ्ज्ञा मा भूत् । अर्हे कृत्यत्र्ज्वचनम् तु ज्ञापकम् प्राङ्ण्वुलवनानर्थ्यस्य । यत् अयम् अर्हे कृत्यतृचः च इति तृज्ग्रहणम् करोति तत् ज्ञापयति आचार्यः प्राक् ण्वुलः कृत्यसञ्ज्ञा भवति इति । एवम् अपि ण्वुलः कृत्यसञ्ज्ञा प्राप्नोति । योगापेक्षम् ज्ञापकम् ।

KA II,81.8-14 Ro III,200 kṛtyasañjñāyām prāṅṇvulvacanam . kṛtyasañjñāyām prāk ṇvulaḥ iti vaktavyam . kim prayojanam . ṇvulaḥ kṛtyasañjñā mā bhūt . arhe kṛtyatrjvacanam tu jñāpakam prāṅṇvulavanānarthyasya . yat ayam arhe kṛtyatṛcaḥ ca iti tṛjgrahaṇam karoti tat jñāpayati ācāryaḥ prāk ṇvulaḥ kṛtyasañjñā bhavati iti . evam api ṇvulaḥ kṛtyasañjñā prāpnoti . yogāpekṣam jñāpakam .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,८१।१६-२२ रो इइइ,२०१ केलिमरः उपसङ्ख्यानम् । केलिमरः उपसङ्ख्यानम् कर्तव्यम् । पचेलिमाः माषाः । पक्तव्याः । भिदेलिमाः सरलाः । भेत्तव्याः । वसेः तव्यत् कर्तरि णित् च । वसेः तव्यत् कर्तरि वक्तव्यः । णित् च असौ भवति इति वक्तव्यम् । वसति इति वास्तव्यः । तद्धितः वा । तद्धितः वा पुनः एषः भविष्यति । वास्तुनि भवः वास्तव्यः ।

KA II,81.16-22 Ro III,201 kelimaraḥ upasaṅkhyānam . kelimaraḥ upasaṅkhyānam kartavyam . pacelimāḥ māṣāḥ . paktavyāḥ . bhidelimāḥ saralāḥ . bhettavyāḥ . vaseḥ tavyat kartari ṇit ca . vaseḥ tavyat kartari vaktavyaḥ . ṇit ca asau bhavati iti vaktavyam . vasati iti vāstavyaḥ . taddhitaḥ vā . taddhitaḥ vā punaḥ eṣaḥ bhaviṣyati . vāstuni bhavaḥ vāstavyaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,८२।२-१० रो इइइ,२०२-२०३ अज्ग्रहणम् किमर्थम् । अजन्तात् यथा स्यात् । हलन्तात् मा भूत् इति । न एतत् अस्ति प्रयोजनम् । हलन्तात् ण्यत् विधीयते । सः बाधकः भविष्यति । यथा एव तर्हि ण्यत् यतम् बाधते एवम् तव्यादीन् अपि बाधेत । अज्ग्रहणे पुनः क्रियमाणे अजन्तात् यत् विधीयते हलन्तात् ण्यत् । एतावन्तः च धातवः यत् उत अजन्ताः हलन्ताः च । उच्यन्ते च तव्यादयः । ते वचनात् भविष्यन्ति । न एतत् अस्ति प्रयोजनम् । वासरूपेण तव्यादयः भविष्यन्ति । इदम् तर्हि प्रयोजनम् । अजन्तभूतपूर्वमात्रात् अपि यथा स्यात् । लव्यम् पव्यम् । आर्धधातुकसामान्ये गुणे कृते यि प्रत्ययसामान्ये च वान्तादेशे कृते हलन्तात् इति ण्यत् प्राप्नोति । तथा दित्स्यम् धित्स्यम् । आर्धधातुकसामान्ये अकारलोपे कृते हलन्तात् इति ण्यत् प्राप्नोति । अज्ग्रहणसामर्थ्यात् यत् एव भवति ।

KA II,82.2-10 Ro III,202-203 ajgrahaṇam kimartham . ajantāt yathā syāt . halantāt mā bhūt iti . na etat asti prayojanam . halantāt ṇyat vidhīyate . saḥ bādhakaḥ bhaviṣyati . yathā eva tarhi ṇyat yatam bādhate evam tavyādīn api bādheta . ajgrahaṇe punaḥ kriyamāṇe ajantāt yat vidhīyate halantāt ṇyat . etāvantaḥ ca dhātavaḥ yat uta ajantāḥ halantāḥ ca . ucyante ca tavyādayaḥ . te vacanāt bhaviṣyanti . na etat asti prayojanam . vāsarūpeṇa tavyādayaḥ bhaviṣyanti . idam tarhi prayojanam . ajantabhūtapūrvamātrāt api yathā syāt . lavyam pavyam . ārdhadhātukasāmānye guṇe kṛte yi pratyayasāmānye ca vāntādeśe kṛte halantāt iti ṇyat prāpnoti . tathā ditsyam dhitsyam . ārdhadhātukasāmānye akāralope kṛte halantāt iti ṇyat prāpnoti . ajgrahaṇasāmarthyāt yat eva bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,८२।११-२२ रो इइइ,२०२-२०३ यति जातेः उपसङ्ख्यानम् । यति जातेः उपसङ्ख्यानम् कर्तव्यम् । जन्यम् वत्सेन । अत्यल्पम् इदम् उच्यते । तकिशसिचतियतिजनीनाम् उपसङ्ख्यानम् इति वक्तव्यम् । तकि तक्यम् : शसि शस्यम् । यति यत्यम् : जनि : जन्यम् । हनः वा वध च । हनः वा यत् वक्तव्यः वध इति अयम् च आदेशः वक्तव्यः । वध्यः घात्यः । तद्धितः वा । तद्धितः वा पुनः एषः भविष्यति । वधम् अर्हति वध्यः । यदि तद्धितः समासः न प्राप्नोति : असिवध्यः , मुसलवध्यः इति । यदि पुनः सति साधनम् कृता इति वा पादहारकाद्यर्थम् इति समासः सिद्धः भवति । यदि पुनः असिवधशब्दात् उत्पत्तिः स्यात् । असिवधम् अर्हति इति । न एवम् शक्यम् । स्वरे हि दोषः स्यात् । असिवध्यः एवम् स्वरः प्रसज्येत । असिवध्यः इति च इष्यते ।

KA II,82.11-22 Ro III,202-203 yati jāteḥ upasaṅkhyānam . yati jāteḥ upasaṅkhyānam kartavyam . janyam vatsena . atyalpam idam ucyate . takiśasicatiyatijanīnām upasaṅkhyānam iti vaktavyam . taki takyam : śasi śasyam . yati yatyam : jani : janyam . hanaḥ vā vadha ca . hanaḥ vā yat vaktavyaḥ vadha iti ayam ca ādeśaḥ vaktavyaḥ . vadhyaḥ ghātyaḥ . taddhitaḥ vā . taddhitaḥ vā punaḥ eṣaḥ bhaviṣyati . vadham arhati vadhyaḥ . yadi taddhitaḥ samāsaḥ na prāpnoti : asivadhyaḥ , musalavadhyaḥ iti . yadi punaḥ sati sādhanam kṛtā iti vā pādahārakādyartham iti samāsaḥ siddhaḥ bhavati . yadi punaḥ asivadhaśabdāt utpattiḥ syāt . asivadham arhati iti . na evam śakyam . svare hi doṣaḥ syāt . asivadhyaḥ evam svaraḥ prasajyeta . asivadhyaḥ iti ca iṣyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,८३।२-४ रो इइइ,२०३ अनुपसर्गात् चरेः आङि च अगुरौ । अनुपसर्गात् चरेः इति अत्र आङि च अगुरौ इति वक्तव्यम् । आचर्यः देशः । अगुरौ इति किमर्थम् । आचार्यः उपनयमानः ।

KA II,83.2-4 Ro III,203 anupasargāt careḥ āṅi ca agurau . anupasargāt careḥ iti atra āṅi ca agurau iti vaktavyam . ācaryaḥ deśaḥ . agurau iti kimartham . ācāryaḥ upanayamānaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,८३।६-७ रो इइइ,२०३ स्वामिनि अन्तोदात्तत्वम् च । स्वामिनि अन्तोदात्तत्वम् च वक्तव्यम् । आर्यः स्वामी ।

KA II,83.6-7 Ro III,203 svāmini antodāttatvam ca . svāmini antodāttatvam ca vaktavyam . āryaḥ svāmī .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,८३।९-१६ रो इइइ,२०४-२०५ सङ्गतम् इति किम् प्रत्युदाह्रियते । अजरः कम्बलः । अजरिता कम्बलः इति । किम् पुनः कारणम् कर्तृसाधनः प्रत्युदाह्रियते । न भावसाधनः प्रत्युदाहार्यः । एवम् तर्हि अजर्यम् कर्तरि । अजर्यम् कर्तरि इति वक्तव्यम् । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । गत्यर्थानाम् क्तः कर्तरि विधीयते । तेन योगात् अजर्यम् कर्तरि भविष्यति । गत्यर्थानाम् वै क्तः कर्मणि अपि विधीयते । तेन योगात् अजर्यम् कर्मणि अपि प्राप्नोति । जीर्यतिः अकर्मकः । भावे तर्हि प्राप्नोति । सङ्गतग्रहणम् इदानीम् किमर्थम् स्यात् । कर्तृविशेषणम् सङ्गतग्रहणम् । सङ्गतम् चेत् कर्तृ भवति इति । तत् यथा हृषेः लोमसु इति लोमानि चेत् कर्तॄणि भवन्ति ।

KA II,83.9-16 Ro III,204-205 saṅgatam iti kim pratyudāhriyate . ajaraḥ kambalaḥ . ajaritā kambalaḥ iti . kim punaḥ kāraṇam kartṛsādhanaḥ pratyudāhriyate . na bhāvasādhanaḥ pratyudāhāryaḥ . evam tarhi ajaryam kartari . ajaryam kartari iti vaktavyam . tat tarhi vaktavyam . na vaktavyam . gatyarthānām ktaḥ kartari vidhīyate . tena yogāt ajaryam kartari bhaviṣyati . gatyarthānām vai ktaḥ karmaṇi api vidhīyate . tena yogāt ajaryam karmaṇi api prāpnoti . jīryatiḥ akarmakaḥ . bhāve tarhi prāpnoti . saṅgatagrahaṇam idānīm kimartham syāt . kartṛviśeṣaṇam saṅgatagrahaṇam . saṅgatam cet kartṛ bhavati iti . tat yathā hṛṣeḥ lomasu iti lomāni cet kartṝṇi bhavanti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,८३।१८-८४।२ वदः सुपि अनुपसर्गग्रहणम् । वदः सुपि अनुपसर्गग्रहणम् कर्तव्यम् । इह मा भूत् । प्रवाद्यम् अपवाद्यम् इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । अनुपसर्गे इति वर्तते । एवम् तर्हि अन्वाचष्टे अनुपसर्गे इति वर्तते । न एतत् अन्वाख्येयम् अधिकाराः अनुवर्तन्ते इति । एषः एव न्यायः यत् उत अधिकाराः अनुवर्तेरन् इति ।

KA II,83.18-84.2 vadaḥ supi anupasargagrahaṇam . vadaḥ supi anupasargagrahaṇam kartavyam . iha mā bhūt . pravādyam apavādyam iti . tat tarhi vaktavyam . na vaktavyam . anupasarge iti vartate . evam tarhi anvācaṣṭe anupasarge iti vartate . na etat anvākhyeyam adhikārāḥ anuvartante iti . eṣaḥ eva nyāyaḥ yat uta adhikārāḥ anuvarteran iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,८४।४-८ रो इइइ,२०५-२०६ भावग्रहणम् किमर्थम् । कर्मणि मा भूत् इति । न एतत् अस्ति प्रयोजनम् । भवतिः अयम् अकर्मः । अकर्मकाः अपि वै धातवः सोपसर्गाः सकर्मकाः भवन्ति । तेन अनुभव्यम् आमन्त्रणम् इति अत्र अपि प्राप्नोति । एतत् अपि न अस्ति प्रयोजनम् । अनुपसर्गे इति वर्तते । उत्तरार्थम् तर्हि भावग्रहणम् कर्तव्यम् । हनः त च भावे यथा स्यात् । श्वहत्या वर्तते । क्व मा भूत् । श्वघात्यः वृषालः इति ।

KA II,84.4-8 Ro III,205-206 bhāvagrahaṇam kimartham . karmaṇi mā bhūt iti . na etat asti prayojanam . bhavatiḥ ayam akarmaḥ . akarmakāḥ api vai dhātavaḥ sopasargāḥ sakarmakāḥ bhavanti . tena anubhavyam āmantraṇam iti atra api prāpnoti . etat api na asti prayojanam . anupasarge iti vartate . uttarārtham tarhi bhāvagrahaṇam kartavyam . hanaḥ ta ca bhāve yathā syāt . śvahatyā vartate . kva mā bhūt . śvaghātyaḥ vṛṣālaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,८४।१०-१३ रो इइइ,२०६ हनः तः चित् स्त्रियाम् छन्दसि । हनः तः च इति अत्र चित् स्त्रियाम् छन्दसि वक्तव्यः । ताम् भ्रूणहत्याम् निगृह्य अनुचरणम् । अस्यै त्वाम् भ्रूणहत्यायै चतुर्थम् प्रतिगृहाण । स्त्रियाम् इति किमर्थम् । आघ्नते दस्युहत्याय । छन्दसि इति किमर्थम् । दस्युहत्या श्वहत्या वर्तते ।

KA II,84.10-13 Ro III,206 hanaḥ taḥ cit striyām chandasi . hanaḥ taḥ ca iti atra cit striyām chandasi vaktavyaḥ . tām bhrūṇahatyām nigṛhya anucaraṇam . asyai tvām bhrūṇahatyāyai caturtham pratigṛhāṇa . striyām iti kimartham . āghnate dasyuhatyāya . chandasi iti kimartham . dasyuhatyā śvahatyā vartate .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,८४।१५-८५।५ रो इइइ,२०६-२०७ क्यप् इति वर्तमाने पुनः क्यब्ग्रहणम् किमर्थम् । क्यप् एव यथा स्यात् । अन्यत् यत् प्राप्नोति तत् मा भूत् इति । किम् च अन्यत् प्राप्नोति । ण्यत् । ओः आवश्यके ण्यतः स्तोतेः क्यप् पूर्वविप्रतिषिद्धम् इति वक्ष्यति । सः पूर्वविप्रतिषेधः न पठितव्यः भवति । अथ वा हनः तः चित् स्त्रियाम् छन्दसि चोदितः । सः न वक्तव्यः भवति । क्यब्विधौ वृञ्ग्रहणम् । क्यब्विधौ वृञ्ग्रहणम् कर्तव्यम् । इह मा भूत् । वार्याः ऋत्विजः इति । अञ्जेः च उपसङ्ख्यानम् सञ्ज्ञायाम् । सञ्ज्ञायाम् अञ्जेः च उपसङ्ख्यानम् कर्तव्यम् । आज्यम् । यदि क्यप् वृद्धिः न प्राप्नोति । तस्मात् ण्यत् एषः । यदि ण्यत् उपधालोपः न प्राप्नोति । तस्मात् क्यप् एषः । ननु च उक्तम् वृद्धिः न प्राप्नोति इति । आङ्पूर्वस्य एषः प्रयोगः भविष्यति । यदि एवम् अवग्रहः प्राप्नोति । न लक्षणेन पदकाराः अनुवर्त्याः । पद्कारैः नाम लक्षणम् अनुवर्त्यम् । यथालक्षणम् पदम् कर्तव्यम् ।

KA II,84.15-85.5 Ro III,206-207 kyap iti vartamāne punaḥ kyabgrahaṇam kimartham . kyap eva yathā syāt . anyat yat prāpnoti tat mā bhūt iti . kim ca anyat prāpnoti . ṇyat . oḥ āvaśyake ṇyataḥ stoteḥ kyap pūrvavipratiṣiddham iti vakṣyati . saḥ pūrvavipratiṣedhaḥ na paṭhitavyaḥ bhavati . atha vā hanaḥ taḥ cit striyām chandasi coditaḥ . saḥ na vaktavyaḥ bhavati . kyabvidhau vṛñgrahaṇam . kyabvidhau vṛñgrahaṇam kartavyam . iha mā bhūt . vāryāḥ ṛtvijaḥ iti . añjeḥ ca upasaṅkhyānam sañjñāyām . sañjñāyām añjeḥ ca upasaṅkhyānam kartavyam . ājyam . yadi kyap vṛddhiḥ na prāpnoti . tasmāt ṇyat eṣaḥ . yadi ṇyat upadhālopaḥ na prāpnoti . tasmāt kyap eṣaḥ . nanu ca uktam vṛddhiḥ na prāpnoti iti . āṅpūrvasya eṣaḥ prayogaḥ bhaviṣyati . yadi evam avagrahaḥ prāpnoti . na lakṣaṇena padakārāḥ anuvartyāḥ . padkāraiḥ nāma lakṣaṇam anuvartyam . yathālakṣaṇam padam kartavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,८५।७-१० रो इइइ,२०७-२०८ दीर्घोच्चारणम् किमर्थम् न इ च खनः इति एव उच्येत । का रूपसिद्धिः : खेयम् । आद्गुणेन सिद्धम् । न सिध्यति । षत्वतुकोः असिद्धः एकादेशः इति एकादेशस्य असिद्धत्वात् तुक् प्रसज्येत । न एतत् अस्ति । पदान्तपदाद्योः एकादेशः असिद्धः । न च एषः पदान्तपदाद्योः एकादेशः । तस्मात् इ च खनः इति एव वक्तव्यम् ।

KA II,85.7-10 Ro III,207-208 dīrghoccāraṇam kimartham na i ca khanaḥ iti eva ucyeta . kā rūpasiddhiḥ : kheyam . ādguṇena siddham . na sidhyati . ṣatvatukoḥ asiddhaḥ ekādeśaḥ iti ekādeśasya asiddhatvāt tuk prasajyeta . na etat asti . padāntapadādyoḥ ekādeśaḥ asiddhaḥ . na ca eṣaḥ padāntapadādyoḥ ekādeśaḥ . tasmāt i ca khanaḥ iti eva vaktavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,८५।१२-८६।१४ रो इइइ,२०८-२१० असञ्ज्ञायाम् इति किमर्थम् । भार्या । भृञः सञ्ज्ञाप्रतिषेधे स्त्रियाम् अप्रतिषेधः अन्येन विहितत्वात् । भृञः सञ्ज्ञाप्रतिषेधे स्त्रियाम् अप्रतिषेधः । अनर्थकः प्रतिषेधः अप्रतिषेधः । किम् कारणम् । अन्येन विहितत्वात् । अन्येन लक्षणेन स्त्रियाम् क्यप् विधीयते । सञ्ज्ञायाम् समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः इति । प्रतिषेधः इदानीम् किमर्थः स्यात् । प्रतिषेधः किमर्थः इति चेत् अस्त्रीसञ्ज्ञाप्रतिषेधार्थः । प्रतिषेधः किमर्थः इति चेत् अस्त्रीसञ्ज्ञा अस्ति तदर्थः प्रतिषेधः स्यात् । भार्याः नाम क्षत्रियाः । सिद्धम् तु स्त्रियाम् सञ्ज्ञाप्रतिषेधात् । सिद्धम् एतत् । कथम् । स्त्रियाम् सञ्ज्ञाप्रतिषेधः वक्तव्यः । सञ्ज्ञायाम् समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः ततः न स्त्रियाम् भृञः इति । सिध्यति । सूत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् भृञः सञ्ज्ञाप्रतिषेधे स्त्रियाम् अप्रतिषेधः अन्येन विहितत्वात् इति । न एषः दोषः । भावे इति तत्र अनुवर्तते । कर्मसाधनः च अयम् । अथ वा ये एते सञ्ज्ञायाम् विधीयन्ते तेषु न एवम् विज्ञायते सञ्ज्ञायाम् अभिधेयायाम् इति । किम् तर्हि । प्रत्ययान्तेन चेत् सञ्ज्ञा गम्यते इति । अपरः आह : सञ्ज्ञायाम् पुंसि दृष्टत्वात् न ते भार्या प्रसिध्यति । सञ्ज्ञायाम् पुंसि दृष्टत्वात् तव भार्याशब्दः न सिध्यति । स्त्रियाम् भावाधिकारः अस्ति तेन भार्या प्रसिध्यति । भावे इति तत्र वर्तते । कर्मसाधनः च अयम् । अथ वा बहुलम् कृत्याः सञ्ज्ञायाम् इति तत् स्मृतम् । अथ वा कृत्यल्युटः बहुलम् इति एवम् अत्र अपि ण्यत् भविष्यति । यथा यत्यम् जन्यम् यथा भित्तिः तथा एव सा । समः च बहुलम् । समः च बहुलम् उपसङ्ख्यानम् कर्तव्यम् । सम्भृत्याः एव सम्भाराः । सम्भार्याः एव सम्भाराः ।

KA II,85.12-86.14 Ro III,208-210 asañjñāyām iti kimartham . bhāryā . bhṛñaḥ sañjñāpratiṣedhe striyām apratiṣedhaḥ anyena vihitatvāt . bhṛñaḥ sañjñāpratiṣedhe striyām apratiṣedhaḥ . anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . kim kāraṇam . anyena vihitatvāt . anyena lakṣaṇena striyām kyap vidhīyate . sañjñāyām samajaniṣadanipatamanavidaṣuñśīṅbhṛñiṇaḥ iti . pratiṣedhaḥ idānīm kimarthaḥ syāt . pratiṣedhaḥ kimarthaḥ iti cet astrīsañjñāpratiṣedhārthaḥ . pratiṣedhaḥ kimarthaḥ iti cet astrīsañjñā asti tadarthaḥ pratiṣedhaḥ syāt . bhāryāḥ nāma kṣatriyāḥ . siddham tu striyām sañjñāpratiṣedhāt . siddham etat . katham . striyām sañjñāpratiṣedhaḥ vaktavyaḥ . sañjñāyām samajaniṣadanipatamanavidaṣuñśīṅbhṛñiṇaḥ tataḥ na striyām bhṛñaḥ iti . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam bhṛñaḥ sañjñāpratiṣedhe striyām apratiṣedhaḥ anyena vihitatvāt iti . na eṣaḥ doṣaḥ . bhāve iti tatra anuvartate . karmasādhanaḥ ca ayam . atha vā ye ete sañjñāyām vidhīyante teṣu na evam vijñāyate sañjñāyām abhidheyāyām iti . kim tarhi . pratyayāntena cet sañjñā gamyate iti . aparaḥ āha : sañjñāyām puṃsi dṛṣṭatvāt na te bhāryā prasidhyati . sañjñāyām puṃsi dṛṣṭatvāt tava bhāryāśabdaḥ na sidhyati . striyām bhāvādhikāraḥ asti tena bhāryā prasidhyati . bhāve iti tatra vartate . karmasādhanaḥ ca ayam . atha vā bahulam kṛtyāḥ sañjñāyām iti tat smṛtam . atha vā kṛtyalyuṭaḥ bahulam iti evam atra api ṇyat bhaviṣyati . yathā yatyam janyam yathā bhittiḥ tathā eva sā . samaḥ ca bahulam . samaḥ ca bahulam upasaṅkhyānam kartavyam . sambhṛtyāḥ eva sambhārāḥ . sambhāryāḥ eva sambhārāḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,८६।१६-२५ रो इइइ,२१० सूर्यरुच्याव्यथ्याः कर्तरि । सूर्य रुचि अव्यथ्य इति कर्तरि निपात्यन्ते । किम् निपात्यते । सूर्यः । सूसर्तिभ्याम् सर्तेः उत्वम् सुवतेः वा रुडागमः । सरणात् वा सुवति वा कर्मणि इति सूर्यः । रुच्य । रोचते असौ रुच्यः । न व्यथथे अव्यथ्यः । कुप्यम् सञ्ज्ञायाम् । कुप्यम् सञ्ज्ञायाम् इति वक्तव्यम् । गोप्यम् अन्यत् । कृष्टपच्यस्य अन्तोदात्तत्वम् च कर्मकर्तरि च । कृष्टपच्यस्य अन्तोदात्तत्वम् च कर्मकर्तरि च इति वक्तव्यम् । कृष्टे पच्यन्ते स्वयम् एव । कृष्टपच्याः च मे अकृष्टपच्याः च मे । यः हि कृष्टे पक्तव्यः क्ष्टपाक्यः स भवति ।

KA II,86.16-25 Ro III,210 sūryarucyāvyathyāḥ kartari . sūrya ruci avyathya iti kartari nipātyante . kim nipātyate . sūryaḥ . sūsartibhyām sarteḥ utvam suvateḥ vā ruḍāgamaḥ . saraṇāt vā suvati vā karmaṇi iti sūryaḥ . rucya . rocate asau rucyaḥ . na vyathathe avyathyaḥ . kupyam sañjñāyām . kupyam sañjñāyām iti vaktavyam . gopyam anyat . kṛṣṭapacyasya antodāttatvam ca karmakartari ca . kṛṣṭapacyasya antodāttatvam ca karmakartari ca iti vaktavyam . kṛṣṭe pacyante svayam eva . kṛṣṭapacyāḥ ca me akṛṣṭapacyāḥ ca me . yaḥ hi kṛṣṭe paktavyaḥ kṣṭapākyaḥ sa bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,८७।२-४ रो इइइ,२११ प्रत्यपिभ्याम् ग्रहेः छन्दसि । प्रत्यपिभ्याम् ग्रहेः छन्दसि इति वक्तव्यम् । मत्तस्य न प्रतिगृह्यम् । अनृतम् हि मत्तः भवति । तस्मात् न अपिगृह्यम् । प्रतिग्राह्यम् अपिग्राह्यम् इति एव अन्यत्र ।

KA II,87.2-4 Ro III,211 pratyapibhyām graheḥ chandasi . pratyapibhyām graheḥ chandasi iti vaktavyam . mattasya na pratigṛhyam . anṛtam hi mattaḥ bhavati . tasmāt na apigṛhyam . pratigrāhyam apigrāhyam iti eva anyatra .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,८७।६-११ रो इइइ,२११-२१२ कस्य अयम् अनुबन्धः । प्रधानस्य । यदि प्रधानस्य अमावस्या एवम् स्वरः प्रसज्येत । अमावस्या इति च इष्यते । तथा अमावास्याग्रहणेन अमावस्याग्रहणम् न प्राप्नोति । एवम् तर्हि निपातनस्य । यदि तर्हि निपातनानि अपि एवञ्जातीयकानि भवन्ति श्रोत्रियन् छन्दः अधीते इति व्यपवर्गाभावात् ञ्निति इति आद्युदात्तत्वम् न प्राप्नोति । एवम् तर्हि अमावसोः अहम् ण्यतोः निपातयामि अवृद्धिताम् । तथा एकवृत्तिता तयोः स्वरः च मे प्रसिध्यति ।

KA II,87.6-11 Ro III,211-212 kasya ayam anubandhaḥ . pradhānasya . yadi pradhānasya amāvasyā evam svaraḥ prasajyeta . amāvasyā iti ca iṣyate . tathā amāvāsyāgrahaṇena amāvasyāgrahaṇam na prāpnoti . evam tarhi nipātanasya . yadi tarhi nipātanāni api evañjātīyakāni bhavanti śrotriyan chandaḥ adhīte iti vyapavargābhāvāt ñniti iti ādyudāttatvam na prāpnoti . evam tarhi amāvasoḥ aham ṇyatoḥ nipātayāmi avṛddhitām . tathā ekavṛttitā tayoḥ svaraḥ ca me prasidhyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,८७।१५-८८।४ रो इइइ,२१२-२१३ निष्टर्क्य इति किम् निपात्यते । निष्टर्क्ये कृतेः आद्यन्तविपर्ययः छन्दसि कृताद्यर्थः । यथा कृतेः तर्कुः कसेः सिकताः हिंसेः सिंहः । अपरः आह : निष्टर्क्ये व्यत्ययम् विद्यात् निसः षत्वम् निपातनात् । ण्यत् आयादेशः इति एतौ उपचाय्ये निपातितौ । निष्टर्क्यम् चिन्वीत पशुकामः । ण्यत् एकस्मात् चतुर्भ्यः क्यप् चतुर्भ्यः यतः विधिः । ण्यत् एकस्मात् यशब्दः च द्वौ क्यपौ ण्यद्विधिः चतुः । ण्यत् एकस्मात् । निष्टर्क्यः । चतुर्भ्यः क्यप् । देवहूयः प्रणीयः उन्नीयः उच्छिष्यः । चतुर्भ्यः च यतः विधिः । मर्यः स्तर्या ध्वर्यः खन्यः । ण्यत् एकस्मात् । खान्यः । यशब्दः च । देवयज्या । द्वौ क्यपौ । आपृच्छ्यः प्रतिषीव्यः । ण्यद्विधिः चतुः । ब्रह्मवाद्यः भाव्यः स्ताव्यः उपचाय्यपृडम् । उपपूर्वात् चिनोतेः आयादेशः निपात्यते । न हि ण्यता एव सिध्यति । हिरण्ये इति वक्तव्यम् । उपचेयपृडम् एव अन्यत्र ।

KA II,87.15-88.4 Ro III,212-213 niṣṭarkya iti kim nipātyate . niṣṭarkye kṛteḥ ādyantaviparyayaḥ chandasi kṛtādyarthaḥ . yathā kṛteḥ tarkuḥ kaseḥ sikatāḥ hiṃseḥ siṃhaḥ . aparaḥ āha : niṣṭarkye vyatyayam vidyāt nisaḥ ṣatvam nipātanāt . ṇyat āyādeśaḥ iti etau upacāyye nipātitau . niṣṭarkyam cinvīta paśukāmaḥ . ṇyat ekasmāt caturbhyaḥ kyaP caturbhyaḥ yataḥ vidhiḥ . ṇyat ekasmāt yaśabdaḥ ca dvau kyapau ṇyadvidhiḥ catuḥ . ṇyat ekasmāt . niṣṭarkyaḥ . caturbhyaḥ kyap . devahūyaḥ praṇīyaḥ unnīyaḥ ucchiṣyaḥ . caturbhyaḥ ca yataḥ vidhiḥ . maryaḥ staryā dhvaryaḥ khanyaḥ . ṇyat ekasmāt . khānyaḥ . yaśabdaḥ ca . devayajyā . dvau kyapau . āpṛcchyaḥ pratiṣīvyaḥ . ṇyadvidhiḥ catuḥ . brahmavādyaḥ bhāvyaḥ stāvyaḥ upacāyyapṛḍam . upapūrvāt cinoteḥ āyādeśaḥ nipātyate . na hi ṇyatā eva sidhyati . hiraṇye iti vaktavyam . upaceyapṛḍam eva anyatra .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,८८।६-११ रो इइइ,२१३ पाणौ सृजेः ण्यद्विधिः । पाणौ सृजेः ण्यत् विधेयः । पाणिसर्ग्या रज्जुः । समवपूर्वात् च । समवपूर्वात् च इति वक्तव्यम् । समवसर्ग्यः । लपिदमिभ्याम् च। लपिदमिभ्याम् च इति वक्तव्यम् । अपलप्यम् अवदाम्यम् ।

KA II,88.6-11 Ro III,213 pāṇau sṛjeḥ ṇyadvidhiḥ . pāṇau sṛjeḥ ṇyat vidheyaḥ . pāṇisargyā rajjuḥ . samavapūrvāt ca . samavapūrvāt ca iti vaktavyam . samavasargyaḥ . lapidamibhyām ca. lapidamibhyām ca iti vaktavyam . apalapyam avadāmyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,८८।१६-२० रो इइइ,२१४ कथम् इदम् विज्ञायते । आवश्यके उपपदे आहोस्वित् ध्योत्ये इति । कः च अत्र विशेषः । आवश्यके उपपदे इति चेत् द्योत्ये उपसङ्ख्यानम् । आवश्यके उपपदे इति चेत् द्योत्ये उपसङ्ख्यानम् कर्तव्यम् । लाव्यम् पाव्यम् । अस्तु तर्हि द्योत्ये । द्योत्ये इति चेत् स्वरसमासानुपपत्तिः । द्योत्ये इति चेत् स्वरसमासानुपपत्तिः । आवश्यलाव्यम् आवश्यपाव्यम् । न एषः दोषः । मयूरव्यंसकादित्वात् समासः विश्पष्टादिवत् स्वरः भविष्यति ।

KA II,88.16-20 Ro III,214 katham idam vijñāyate . āvaśyake upapade āhosvit dhyotye iti . kaḥ ca atra viśeṣaḥ . āvaśyake upapade iti cet dyotye upasaṅkhyānam . āvaśyake upapade iti cet dyotye upasaṅkhyānam kartavyam . lāvyam pāvyam . astu tarhi dyotye . dyotye iti cet svarasamāsānupapattiḥ . dyotye iti cet svarasamāsānupapattiḥ . āvaśyalāvyam āvaśyapāvyam . na eṣaḥ doṣaḥ . mayūravyaṃsakāditvāt samāsaḥ viśpaṣṭādivat svaraḥ bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,८८।२१-८९।४ रो इइइ,२१४ ओः आवश्यके ण्यतः स्तौतेः क्यप् पूर्वविप्रतिषिद्धम् । ओः आवश्यके ण्यतः स्तौतेः क्यप् भवति पूर्वविप्रतिष्धेन । ओः आवश्यके ण्यत् भवति इति अस्य अवकाशः । अवश्यलाव्यम् अवश्यपाव्यम् । क्यपः अवकाशः । स्तुत्यः । इह उभयम् प्राप्नोति । अवश्यस्तुत्यः । क्यप् भवति पूर्वविप्रतिष्धेन । सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः । न वक्तव्यः । उक्तम् तत्र क्यप् इति वर्तमाने पुनः क्यब्ग्रहणस्य प्रयोजनम् क्यप् एव यथा स्यात् । अन्यत् यत् प्राप्नोति तत् मा भूत् इति ।

KA II,88.21-89.4 Ro III,214 oḥ āvaśyake ṇyataḥ stauteḥ kyaP pūrvavipratiṣiddham . oḥ āvaśyake ṇyataḥ stauteḥ kyap bhavati pūrvavipratiṣdhena . oḥ āvaśyake ṇyat bhavati iti asya avakāśaḥ . avaśyalāvyam avaśyapāvyam . kyapaḥ avakāśaḥ . stutyaḥ . iha ubhayam prāpnoti . avaśyastutyaḥ . kyap bhavati pūrvavipratiṣdhena . saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . uktam tatra kyap iti vartamāne punaḥ kyabgrahaṇasya prayojanam kyap eva yathā syāt . anyat yat prāpnoti tat mā bhūt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,८९।६-८ रो इइइ,२१५ दक्षिणाग्नौ इति वक्तव्यम् । आनेयः अन्यः । आनाय्यः अनित्यः इति चेत् दक्षिणाग्नौ कृतम् भवेत् । एकयोनौ तु तम् विद्यात् । आनेयः हि अन्यथा भवेत् ।

KA II,89.6-8 Ro III,215 dakṣiṇāgnau iti vaktavyam . āneyaḥ anyaḥ . ānāyyaḥ anityaḥ iti cet dakṣiṇāgnau kṛtam bhavet . ekayonau tu tam vidyāt . āneyaḥ hi anyathā bhavet .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,८९।११-१३ रो इइइ,२१५ पाय्यनिकाय्ययोः किम् निपात्यते । पाय्यनिकाय्ययोः आदिपत्वकत्वनिपातनम् । पाय्यनिकाय्ययोः आदिपत्वम् आदिकत्वम् च निपात्यते । मेयम् निचेयम् इति एव अन्यत्र ।

KA II,89.11-13 Ro III,215 pāyyanikāyyayoḥ kim nipātyate . pāyyanikāyyayoḥ ādipatvakatvanipātanam . pāyyanikāyyayoḥ ādipatvam ādikatvam ca nipātyate . meyam niceyam iti eva anyatra .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,८९।१५-१६ रो इइइ,२१५ कुण्डपाय्ये यद्विधिः । कुण्डपाय्ये यत् विधेयः । कुण्डपाय्यः क्रतुः ।

KA II,89.15-16 Ro III,215 kuṇḍapāyye yadvidhiḥ . kuṇḍapāyye yat vidheyaḥ . kuṇḍapāyyaḥ kratuḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,८९।१८-९०।९ रो इइइ,२१५-२१६ समूह्यः इति अनर्थकम् वचनम् सामान्येन कृतत्वात् । समूह्यः इति वचनम् अनर्थकम् । किम् कारणम् । सामान्येन कृतत्वात् । सामान्येन एव ण्यत् भविष्यति : ऋहलोः ण्यत् इति । वह्यर्थम् तर्हि निपातनम् कर्तव्यम् । वहेः ण्यत् यथा स्यात् । वह्यर्थम् इति चेत् ऊहेः तदर्थत्वात् सिद्धम् । ऊहिः अपि वह्यर्थे वर्तते । कथम् पुनः अन्यः नाम अन्यस्य अर्थे वर्तते । कथम् ऊहिः वह्यर्थे वर्तते । बह्वर्थाः अपि धातवः भवन्ति इति । अस्ति पुनः क्व चित् अन्यत्र अपि ऊहिः वह्यर्थे वर्तते । अस्ति इति आह । ऊहिविग्रहात् च ब्राह्मणे सिद्धम् । ऊहिविग्रहात् च ब्राह्मणे सिद्धम् एतत् । समूह्यम् चिन्वीत पशुकामः । पशवः वै पुरीषम् । पशून् एव अस्मै तत् समूहति ।

KA II,89.18-90.9 Ro III,215-216 samūhyaḥ iti anarthakam vacanam sāmānyena kṛtatvāt . samūhyaḥ iti vacanam anarthakam . kim kāraṇam . sāmānyena kṛtatvāt . sāmānyena eva ṇyat bhaviṣyati : ṛhaloḥ ṇyat iti . vahyartham tarhi nipātanam kartavyam . vaheḥ ṇyat yathā syāt . vahyartham iti cet ūheḥ tadarthatvāt siddham . ūhiḥ api vahyarthe vartate . katham punaḥ anyaḥ nāma anyasya arthe vartate . katham ūhiḥ vahyarthe vartate . bahvarthāḥ api dhātavaḥ bhavanti iti . asti punaḥ kva cit anyatra api ūhiḥ vahyarthe vartate . asti iti āha . ūhivigrahāt ca brāhmaṇe siddham . ūhivigrahāt ca brāhmaṇe siddham etat . samūhyam cinvīta paśukāmaḥ . paśavaḥ vai purīṣam . paśūn eva asmai tat samūhati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,९०।११-१२ रो इइइ,२१६ अग्निचित्या भावे अन्तोदात्तः । अग्निचित्या इति भावे अन्तोदात्तः । अग्निचयनम् एव अग्निचित्या ।

KA II,90.11-12 Ro III,216 agnicityā bhāve antodāttaḥ . agnicityā iti bhāve antodāttaḥ . agnicayanam eva agnicityā .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,९०।१४-२२ रो इइइ,२१६-२१७ किमर्थः चकारः । स्वरार्थः । चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् । न एतत् अस्ति प्रयोजनम् । एकाच् अयम् । तत्र न अर्थः स्वरार्थेन चकारेण अनुबन्धेन । प्रत्ययस्वरेण एव सिद्धम् । विशेषणार्थः तर्हि । क्व विशेषणार्थेन अर्थः : अप्तृन्तृच् इति । तृ इति उच्यमाने मातरौ मातरः पितरौ पितरः अत्र अपि प्रसज्येत । स्वसृनप्तृग्रहणम् नियमाऋथम् भविष्यति । एतयोः एव योनिसम्बन्धयोः न अन्येषाम् योनिसम्बन्धानाम् इति । सामान्यग्रहणाविघातार्थः तर्हि । क्व सामान्यग्रहणाविघातार्थेन अर्थः । अत्र एव । यत् एतत् तृन्तृचोः ग्रहणम् एतत् तृ इति वक्ष्यामि । यदि तृ इचि उच्यते मातरौ मातरः पितरौ पितरः अत्र अपि प्रसज्येत । स्वसृनप्तृग्रहणम् नियमाऋथम् भविष्यति : एतयोः एव योनिसम्बन्धयोः न अन्येषाम् योनिसम्बन्धानाम् इति ।

KA II,90.14-22 Ro III,216-217 kimarthaḥ cakāraḥ . svarārthaḥ . citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt . na etat asti prayojanam . ekāc ayam . tatra na arthaḥ svarārthena cakāreṇa anubandhena . pratyayasvareṇa eva siddham . viśeṣaṇārthaḥ tarhi . kva viśeṣaṇārthena arthaḥ : aptṛntṛc iti . tṛ iti ucyamāne mātarau mātaraḥ pitarau pitaraḥ atra api prasajyeta . svasṛnaptṛgrahaṇam niyamāṛtham bhaviṣyati . etayoḥ eva yonisambandhayoḥ na anyeṣām yonisambandhānām iti . sāmānyagrahaṇāvighātārthaḥ tarhi . kva sāmānyagrahaṇāvighātārthena arthaḥ . atra eva . yat etat tṛntṛcoḥ grahaṇam etat tṛ iti vakṣyāmi . yadi tṛ ici ucyate mātarau mātaraḥ pitarau pitaraḥ atra api prasajyeta . svasṛnaptṛgrahaṇam niyamāṛtham bhaviṣyati : etayoḥ eva yonisambandhayoḥ na anyeṣām yonisambandhānām iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,९१।१-११ रो इइइ,२१७ ण्वुलि सकर्मकग्रहणम् । ण्वुलि सकर्मकग्रहणम् कर्तव्यम् । इह मा भूत् । आसिता शयिता इति । न वा धातुमात्रात् दर्शनात् ण्वुलः । न वा वक्तव्यम् । किम् कारणम् । धातुमात्रात् ण्वुल् दृश्यते । इमे अस्य आसकाः इमे । अस्य शायकाः । उत्थिताः आसका वैश्रवणस्य इति । तृजादिषु वर्तमानकालोपादानम् अध्यायकवेदाध्यायकार्थम् । तृजादिषु वर्तमानकालोपादानम् कर्तव्यम् । किम् कारणम् । अध्यायकवेदाध्यायकार्थम् । अध्यायकः वेदाध्यायः । अधीतवति अध्येष्यमाणे वा मा भूत् । न वा कालमात्रे दर्शनात् अन्येषाम् । न वा वक्तव्यम् । किम् कारणम् । कालमात्रे दर्शनात् अन्येषाम् । कालमात्रे हि अन्ये प्रत्ययाः दृश्यन्ते । चर्चापारः शमनीपारः ।

KA II,91.1-11 Ro III,217 ṇvuli sakarmakagrahaṇam . ṇvuli sakarmakagrahaṇam kartavyam . iha mā bhūt . āsitā śayitā iti . na vā dhātumātrāt darśanāt ṇvulaḥ . na vā vaktavyam . kim kāraṇam . dhātumātrāt ṇvul dṛśyate . ime asya āsakāḥ ime . asya śāyakāḥ . utthitāḥ āsakā vaiśravaṇasya iti . tṛjādiṣu vartamānakālopādānam adhyāyakavedādhyāyakārtham . tṛjādiṣu vartamānakālopādānam kartavyam . kim kāraṇam . adhyāyakavedādhyāyakārtham . adhyāyakaḥ vedādhyāyaḥ . adhītavati adhyeṣyamāṇe vā mā bhūt . na vā kālamātre darśanāt anyeṣām . na vā vaktavyam . kim kāraṇam . kālamātre darśanāt anyeṣām . kālamātre hi anye pratyayāḥ dṛśyante . carcāpāraḥ śamanīpāraḥ .

Sanskrit only: no published translation is held for this verse.