क्अ इइ,८९।१८-९०।९ रो इइइ,२१५-२१६ समूह्यः इति अनर्थकम् वचनम् सामान्येन कृतत्वात् । समूह्यः इति वचनम् अनर्थकम् । किम् कारणम् । सामान्येन कृतत्वात् । सामान्येन एव ण्यत् भविष्यति : ऋहलोः ण्यत् इति । वह्यर्थम् तर्हि निपातनम् कर्तव्यम् । वहेः ण्यत् यथा स्यात् । वह्यर्थम् इति चेत् ऊहेः तदर्थत्वात् सिद्धम् । ऊहिः अपि वह्यर्थे वर्तते । कथम् पुनः अन्यः नाम अन्यस्य अर्थे वर्तते । कथम् ऊहिः वह्यर्थे वर्तते । बह्वर्थाः अपि धातवः भवन्ति इति । अस्ति पुनः क्व चित् अन्यत्र अपि ऊहिः वह्यर्थे वर्तते । अस्ति इति आह । ऊहिविग्रहात् च ब्राह्मणे सिद्धम् । ऊहिविग्रहात् च ब्राह्मणे सिद्धम् एतत् । समूह्यम् चिन्वीत पशुकामः । पशवः वै पुरीषम् । पशून् एव अस्मै तत् समूहति ।
KA II,89.18-90.9 Ro III,215-216 samūhyaḥ iti anarthakam vacanam sāmānyena kṛtatvāt . samūhyaḥ iti vacanam anarthakam . kim kāraṇam . sāmānyena kṛtatvāt . sāmānyena eva ṇyat bhaviṣyati : ṛhaloḥ ṇyat iti . vahyartham tarhi nipātanam kartavyam . vaheḥ ṇyat yathā syāt . vahyartham iti cet ūheḥ tadarthatvāt siddham . ūhiḥ api vahyarthe vartate . katham punaḥ anyaḥ nāma anyasya arthe vartate . katham ūhiḥ vahyarthe vartate . bahvarthāḥ api dhātavaḥ bhavanti iti . asti punaḥ kva cit anyatra api ūhiḥ vahyarthe vartate . asti iti āha . ūhivigrahāt ca brāhmaṇe siddham . ūhivigrahāt ca brāhmaṇe siddham etat . samūhyam cinvīta paśukāmaḥ . paśavaḥ vai purīṣam . paśūn eva asmai tat samūhati .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.