Library·Patanjali: Vyakaranamahabhasya·3·3.1·3.1.67

Patanjali: Vyakaranamahabhasya 3.1.67

क्अ इइ,५६।१५-५७।१७ रो इइइ,१४१-१४६ इह पश्यामः कर्मणि द्विवचनबहुवचनानि उदाह्रियन्ते । पच्येते* ओदनौ , पच्यन्ते ओदनाः इति । भावे पुनः एकवचनम् एव : आस्यते भवता , आस्यते भवद्भ्याम् , आस्यते भवद्भिः इति । केन एतत् एवम् भवति । कर्म अनेकम् । तस्य अनेकत्वात् द्विवचनबहुवचनानि भवन्ति । भावः पुनः एकः एव । कथम् तर्हि इह द्विवचनबहुवचनानि भवन्ति । पाकौ पाकाः इति । आश्रयभेदात् । यत् असौ द्रव्यम् श्रितः भवति भावः तस्य भेदात् द्विवचनबहुवचनानि भवन्ति । इह अपि तर्हि यावन्तः ताम् क्रियाम् कुर्वन्ति सर्वे ते तस्याः आश्रया भवन्ति । तद्भेदात् द्विवचनबहुवचनानि प्राप्नुवन्ति । एवम् तर्हि इदम् तावत् अयम् प्रष्टव्यः । किम् अभिसमीक्ष्य एतत् प्रयुज्यते । पाकौ पाकाः इति । यदि तावत् पाकविशेषान् अभिसमीक्ष्य यः च ओदनस्य पाकः यः च गुडस्य यः च तिलानाम् बहवः ते शब्दाः सरूपाः च । तत्र युक्तम् बहुवचनम् एकशेषः च । तिङभिहिते च अपि तदा भावे बहुवचनम् श्रूयते । तत् यथा : उष्टृआसिका आस्यन्ते । हतशायिकाः शय्यन्ते इति । अथ कालविशेषान् अभिसमीक्ष्य यः च अद्यतनः पाकः यः ह्यस्तनः यः श्वस्तनः ते अपि बहवः शब्दाः सरूपाः च । तत्र युक्तम् बहुवचनम् एकशेषः च । तिङभिहिते च अपि तदा भावे असारूप्यात् एकशेषः न भवति । आसि आस्यते , आसिष्यते । अस्ति खलु अपि विशेषः कृदभिहितस्य भावस्य तिङभिहितस्य च । कृदभिहितः भावः द्रव्यवत् भवति । किम् इदम् द्रव्यवत् इति । द्रव्यम् क्रियया समवायम् गच्छति । कम् समवायम् । द्रव्यम् क्रियाभिनिर्वृत्तौ साधनत्वम् उपैति । तद्वत् च अस्य भावस्य कृदभिहितस्य भवति । पाकः वर्तते इति । क्रियावत् न भवति । किम् इदम् क्रियावत् इति । क्रिया क्रियया समवायम् न गच्छति । पचति पठति इति । तद्वच् च अस्य कृतभिहितस्य न भवति । पाकः वर्तते इति । अस्ति खलु अपि विशेषः कृदभिहितस्य भावस्य तिङभिहितस्य च । तिङभिहितेन भावेन कालपुरुषोपग्रहाः अभिव्यज्यन्ते । कृदभिहितेन पुनः न व्यज्यन्ते । अस्ति खलु अपि विशेषः कृदभिहितस्य भावस्य तिङभिहितस्य च । तिङभिहितः भावः कर्त्रा सम्प्रयुज्यते। कृदभिहितः पुनः न सम्प्रयुज्यते । यावता किम् चित् सामान्यम् कः चित् विशेषः युक्तम् यत् अयम् अपि विशेषः स्यात् लिङ्गकृतः सङ्ख्याकृतः च इति ।

KA II,56.15-57.17 Ro III,141-146 iha paśyāmaḥ karmaṇi dvivacanabahuvacanāni udāhriyante . pacyete* odanau , pacyante odanāḥ iti . bhāve punaḥ ekavacanam eva : āsyate bhavatā , āsyate bhavadbhyām , āsyate bhavadbhiḥ iti . kena etat evam bhavati . karma anekam . tasya anekatvāt dvivacanabahuvacanāni bhavanti . bhāvaḥ punaḥ ekaḥ eva . katham tarhi iha dvivacanabahuvacanāni bhavanti . pākau pākāḥ iti . āśrayabhedāt . yat asau dravyam śritaḥ bhavati bhāvaḥ tasya bhedāt dvivacanabahuvacanāni bhavanti . iha api tarhi yāvantaḥ tām kriyām kurvanti sarve te tasyāḥ āśrayā bhavanti . tadbhedāt dvivacanabahuvacanāni prāpnuvanti . evam tarhi idam tāvat ayam praṣṭavyaḥ . kim abhisamīkṣya etat prayujyate . pākau pākāḥ iti . yadi tāvat pākaviśeṣān abhisamīkṣya yaḥ ca odanasya pākaḥ yaḥ ca guḍasya yaḥ ca tilānām bahavaḥ te śabdāḥ sarūpāḥ ca . tatra yuktam bahuvacanam ekaśeṣaḥ ca . tiṅabhihite ca api tadā bhāve bahuvacanam śrūyate . tat yathā : uṣṭṛāsikā āsyante . hataśāyikāḥ śayyante iti . atha kālaviśeṣān abhisamīkṣya yaḥ ca adyatanaḥ pākaḥ yaḥ hyastanaḥ yaḥ śvastanaḥ te api bahavaḥ śabdāḥ sarūpāḥ ca . tatra yuktam bahuvacanam ekaśeṣaḥ ca . tiṅabhihite ca api tadā bhāve asārūpyāt ekaśeṣaḥ na bhavati . āsi āsyate , āsiṣyate . asti khalu api viśeṣaḥ kṛdabhihitasya bhāvasya tiṅabhihitasya ca . kṛdabhihitaḥ bhāvaḥ dravyavat bhavati . kim idam dravyavat iti . dravyam kriyayā samavāyam gacchati . kam samavāyam . dravyam kriyābhinirvṛttau sādhanatvam upaiti . tadvat ca asya bhāvasya kṛdabhihitasya bhavati . pākaḥ vartate iti . kriyāvat na bhavati . kim idam kriyāvat iti . kriyā kriyayā samavāyam na gacchati . pacati paṭhati iti . tadvac ca asya kṛtabhihitasya na bhavati . pākaḥ vartate iti . asti khalu api viśeṣaḥ kṛdabhihitasya bhāvasya tiṅabhihitasya ca . tiṅabhihitena bhāvena kālapuruṣopagrahāḥ abhivyajyante . kṛdabhihitena punaḥ na vyajyante . asti khalu api viśeṣaḥ kṛdabhihitasya bhāvasya tiṅabhihitasya ca . tiṅabhihitaḥ bhāvaḥ kartrā samprayujyate. kṛdabhihitaḥ punaḥ na samprayujyate . yāvatā kim cit sāmānyam kaḥ cit viśeṣaḥ yuktam yat ayam api viśeṣaḥ syāt liṅgakṛtaḥ saṅkhyākṛtaḥ ca iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,५७।१८-५८।२३ रो इइइ,१४६-१४९ इदम् विचार्यते । भावकर्मकर्तारः सार्वधातुकार्थाः वा स्युः विकरणार्थाः वा इति । कथम् च सार्वधातुकार्थः स्युः कथम् वा विकरणार्थाः । भावकर्मवाचिनि सार्वधातुके यक् भवति कर्तृवाचिनि शर्वधातुके शप् भवति इति सार्वधातुकार्थाः । भावकर्मणोः यग् भवति सार्वधातुके कर्तरि शप् भवति सार्वधातुके इति विकरणार्थाः । कः च अत्र विशेषः । भावकर्मकर्तारः सार्वधातुकार्थाः चेत् एकद्विबहुषु नियमानुपपत्तिः अतदर्थत्वात् । भावकर्मकर्तारः सार्वधातुकार्थाः चेत् एकद्विबहुषु नियमस्य अनुपपत्तिः । किम् कारणम् । अतदर्थत्वात् । न हि तदानीम् एकत्वादयः एव विभक्त्यर्थाः । किम् तर्हि भावकर्मकर्तारः अपि । सन्तु तर्हि विकरणार्थाः । विकरणार्थाः इति चेत् कृता अभिहिते विकरणाभावः । विकरणार्थाः इति चेत् कृता अभिहिते विकरणः न प्राप्नोति । धारयः पारयः इति । किम् उच्यते कृता अभिहिते । न लेन अपि अभिधानम् भवति । अशक्यम् लेन अभिधानम् आश्रयितुम् । पक्षान्तरम् इदम् आस्थितम् भावकर्मकर्तारः सार्वधातुकार्थाः वा स्युः विकरणार्थाः वा इति । यदि च लेन अपि अभिधानम् स्यात् न इदम् पक्षान्तरम् स्यात् । कथम् अशक्यम् यदा भवान् एव आह लः कर्मणि च भावे च अकर्मकेभ्यः इति । एवम् वक्ष्यामि । लः कर्मणः भावात् च अकर्मकेभ्यः । यस्मिन् तर्हि ले विकरणाः न श्रूयन्ते कः तत्र भावकर्मकर्तॄन् अभिधास्यति । क्व च न श्रूयन्ते । ये एते लुग्विकरणाः श्लुविकरणाः च । अत्र अपि उक्ते कर्तृत्वे लुक् भविष्यति । यस्मिन् तर्हि ले विकरणाः न एव उत्पद्यन्ते कः तत्र भावकर्मकर्तॄन् अभिधास्यति । क्व च न एव उत्पद्यन्ते । लिङ्लिटोः । तस्मात् न एतत् शक्यम् वक्तुम् । न लेन अभिधानम् भवति इति । भवति चेत् अभिहिते विकरणाभावः एव । एवम् तर्हि इदम् स्यात् । यदा भावकर्मणोः लः तदा कर्तरि विकरणाः । यदा कर्तरि लः तदा भावकर्मणोः विकरणाः । इदम् अस्य यदि एव स्वाभाविकम् अथ अपि वाचनिकम् : प्रकृतिप्रत्ययौ प्रत्ययार्थम् सह ब्रूतः इति । न च अस्ति सम्भवः यत् एकस्याः प्रकृतेः द्वयोः नानार्थयोः युगपत् अनुसहायीभावः स्यात् । एवम् च कृत्वा एकपक्षीभूतम् इदम् भवति : सार्वधातुकार्थाः एव इति । ननु च उक्तम् भावकर्मकर्तारः सार्वधातुकार्थाः चेत् एकद्विबहुषु नियमानुपपत्तिः अतदर्थत्वात् इति । न एषः दोषः । सुपाम् कर्मादयः अपि अर्थाः सङ्ख्या च एव तथा तिङाम् । सुपाम् सङ्ख्या च एव अर्थः कर्मादयः च । तथा तिङाम् । प्रसिद्धः नियमः तत्र । प्रसिद्धः तत्र नियमः । नियमः प्रकृतेषु वा । अथ वा प्रकृतान् अर्थान् अपेक्ष्य नियमः । के च प्रकृताः । एकत्वादयः । एकस्मिन् एव एकवचनम् न द्वयोः न बहुषु । द्वयोः एव द्विवचनम् नैकस्मिन् न बहुषु । बहुषु एव बहुवचनम् न द्वयोः न एकस्मिन् इति ।

KA II,57.18-58.23 Ro III,146-149 idam vicāryate . bhāvakarmakartāraḥ sārvadhātukārthāḥ vā syuḥ vikaraṇārthāḥ vā iti . katham ca sārvadhātukārthaḥ syuḥ katham vā vikaraṇārthāḥ . bhāvakarmavācini sārvadhātuke yak bhavati kartṛvācini śarvadhātuke śap bhavati iti sārvadhātukārthāḥ . bhāvakarmaṇoḥ yag bhavati sārvadhātuke kartari śap bhavati sārvadhātuke iti vikaraṇārthāḥ . kaḥ ca atra viśeṣaḥ . bhāvakarmakartāraḥ sārvadhātukārthāḥ cet ekadvibahuṣu niyamānupapattiḥ atadarthatvāt . bhāvakarmakartāraḥ sārvadhātukārthāḥ cet ekadvibahuṣu niyamasya anupapattiḥ . kim kāraṇam . atadarthatvāt . na hi tadānīm ekatvādayaḥ eva vibhaktyarthāḥ . kim tarhi bhāvakarmakartāraḥ api . santu tarhi vikaraṇārthāḥ . vikaraṇārthāḥ iti cet kṛtā abhihite vikaraṇābhāvaḥ . vikaraṇārthāḥ iti cet kṛtā abhihite vikaraṇaḥ na prāpnoti . dhārayaḥ pārayaḥ iti . kim ucyate kṛtā abhihite . na lena api abhidhānam bhavati . aśakyam lena abhidhānam āśrayitum . pakṣāntaram idam āsthitam bhāvakarmakartāraḥ sārvadhātukārthāḥ vā syuḥ vikaraṇārthāḥ vā iti . yadi ca lena api abhidhānam syāt na idam pakṣāntaram syāt . katham aśakyam yadā bhavān eva āha laḥ karmaṇi ca bhāve ca akarmakebhyaḥ iti . evam vakṣyāmi . laḥ karmaṇaḥ bhāvāt ca akarmakebhyaḥ . yasmin tarhi le vikaraṇāḥ na śrūyante kaḥ tatra bhāvakarmakartṝn abhidhāsyati . kva ca na śrūyante . ye ete lugvikaraṇāḥ śluvikaraṇāḥ ca . atra api ukte kartṛtve luk bhaviṣyati . yasmin tarhi le vikaraṇāḥ na eva utpadyante kaḥ tatra bhāvakarmakartṝn abhidhāsyati . kva ca na eva utpadyante . liṅliṭoḥ . tasmāt na etat śakyam vaktum . na lena abhidhānam bhavati iti . bhavati cet abhihite vikaraṇābhāvaḥ eva . evam tarhi idam syāt . yadā bhāvakarmaṇoḥ laḥ tadā kartari vikaraṇāḥ . yadā kartari laḥ tadā bhāvakarmaṇoḥ vikaraṇāḥ . idam asya yadi eva svābhāvikam atha api vācanikam : prakṛtipratyayau pratyayārtham saha brūtaḥ iti . na ca asti sambhavaḥ yat ekasyāḥ prakṛteḥ dvayoḥ nānārthayoḥ yugapat anusahāyībhāvaḥ syāt . evam ca kṛtvā ekapakṣībhūtam idam bhavati : sārvadhātukārthāḥ eva iti . nanu ca uktam bhāvakarmakartāraḥ sārvadhātukārthāḥ cet ekadvibahuṣu niyamānupapattiḥ atadarthatvāt iti . na eṣaḥ doṣaḥ . supām karmādayaḥ api arthāḥ saṅkhyā ca eva tathā tiṅām . supām saṅkhyā ca eva arthaḥ karmādayaḥ ca . tathā tiṅām . prasiddhaḥ niyamaḥ tatra . prasiddhaḥ tatra niyamaḥ . niyamaḥ prakṛteṣu vā . atha vā prakṛtān arthān apekṣya niyamaḥ . ke ca prakṛtāḥ . ekatvādayaḥ . ekasmin eva ekavacanam na dvayoḥ na bahuṣu . dvayoḥ eva dvivacanam naikasmin na bahuṣu . bahuṣu eva bahuvacanam na dvayoḥ na ekasmin iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,५८।२४-६०।११ रो इइइ,१४९-१५३ भावकर्मणोः यग्विधाने कर्मकर्तरि उपसङ्ख्यानम् । भावकर्मणोः यग्विधाने कर्मकर्तरि उपसङ्ख्यानम् कर्तव्यम् । पच्यते स्वयम् एव । पठ्यते स्वयम् एव । किम् पुनः कारणम् न सिध्यति । विप्रतिषेधात् हि शपः बलीयस्त्वम् । विप्रतिषेधात् हि शपः बलीयस्त्वम् प्राप्नोति । शपः अवकाशः । पचति पठति । यकः अवकाशः । पच्यते ओदनः देवदत्तेन । पठ्यते विद्या देवदत्तेन । इह उभयम् प्राप्नोति । पच्यते स्वयम् एव । पठ्यते स्वयम् एव । परत्वात् शप् प्राप्नोति । योगविभागात् सिद्धम् । योगविभागः करिष्यते । चिण् भावकर्मणोः । सार्वधातुके यक् भावकर्मणोः । ततः कर्तरि । कर्तरि च यक् भवति भावकर्मणोः । यथा एव तर्हि कर्मणि कर्तरि यक् भवति एवम् भावे कर्तरि प्राप्नोति । एति जीवन्तम् आनन्दः । न अस्य किम् चित् रुजति रोगः इति । द्वितीयः योगविभागः करिष्यते । चिण् भावे । ततः कर्मणि । कर्मणि च चिण् भवति । ततः सार्वधातुके यक् भवति भावे च कर्मणि च । ततः कर्तरि । कर्तरि च यक् भवति । कर्मणि इति अनुवर्तते । भावे इति निवृत्तम् । ततः शप् । शप् च भवति । कर्तरि इति एव । कर्मणि इति अपि निवृत्तम् । एवम् अपि उपसङ्ख्यानम् कर्तव्यम् । विप्रतिषेधात् हि श्यनः बलीयस्त्वम् प्राप्नोति । श्यनः अवकाशः । दीव्यति सीव्यति । यकः अवकाशः । पच्यते ओदनः देवदत्तेन । पठ्यते विद्या देवदत्तेन । इह उभयम् प्राप्नोति । दीव्यते स्वयम् एव । सीव्यते स्वयम् एव । परत्वात् श्यन् प्राप्नोति । ननु च एतत् अपि योगविभागात् एव सिद्धम् । न सिध्यति । अनन्तरा या प्रप्तिः सा योगविभागेन शक्या बाधितुम् । कुतः एतत् । अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति । परा प्राप्तिः अप्रतिषिद्धा । तया प्राप्नोति । ननु च इयम् प्राप्तिः पराम् प्राप्तिम् बाधेत । न उत्सहते प्रतिषिद्धा सती बाधितुम् । एवम् तर्हि शबादेशाः श्यनादयः करिष्यन्ते । शप् च स्यादिभिः बाध्यते । तत्र दिवादिभ्यः यग्विषये शप् एव न अस्ति कुतः श्यनादयः । तत् तर्हि शपः ग्रहणम् कर्तव्यम् । न कर्तव्यम् । प्रकृतम् अनुवर्तते । क्व प्रकृतम् । कर्तरि शप् इति । तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः । दिवादिभ्यः इति एषा पञ्चमी शप् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति । प्रत्ययविधिः अयम् । न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति । न अयम् प्रत्ययविधिः । विहितः प्रत्ययः । प्रकृतः च अनुवर्तते । अथ वा भावकर्मणोः इति अनुवृत्त्या एव सिद्धे सति अनिवृत्तिः यकः भावाय ।इह सार्वधातुके यक् इति अन्तरेण भावकर्मणोः इति अनुवृत्तिम् सिद्धम् । सः अयम् एवम् सिद्धे सति यत् भावकर्मणोः इति अनुवर्तयति तस्य एतत् प्रयोजनम् । कर्मकर्तरि अपि यथा स्यात् । कर्तरि इति च योगविभागः श्यनः पूर्वविप्रतिषेधावचनाय । कर्तरि इति योगविभागः कर्तव्यः श्यनः पूर्वविप्रतिषेधम् मा वोचम् इति । अथ वा कर्मवद्भाववचनसामर्थ्यात् यक् भविष्यति । अस्ति अन्यत् कर्मवद्भाववचने प्रयोजनम् । किम् । आत्मनेपदम् यथा स्यात् । वचनात् आत्मनेपदम् भविष्यति । चिण् तर्हि यथा स्यात् । चिण् अपि वचनात् भविष्यति । चिण्वद्भावः तर्हि यथा स्यात् । न एकम् प्रयोजनम् योगारम्भम् प्रयोजयति । तत्र कर्मवद्भाववचनसामर्थ्यात् यक् भविष्यति । अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति कर्मकर्तरि यक् इति यत् अयम् न दुहस्न्नुनमाम् यक्चिणौ इति यक्चिणोः प्रतिषेधम् शास्ति ।

KA II,58.24-60.11 Ro III,149-153 bhāvakarmaṇoḥ yagvidhāne karmakartari upasaṅkhyānam . bhāvakarmaṇoḥ yagvidhāne karmakartari upasaṅkhyānam kartavyam . pacyate svayam eva . paṭhyate svayam eva . kim punaḥ kāraṇam na sidhyati . vipratiṣedhāt hi śapaḥ balīyastvam . vipratiṣedhāt hi śapaḥ balīyastvam prāpnoti . śapaḥ avakāśaḥ . pacati paṭhati . yakaḥ avakāśaḥ . pacyate odanaḥ devadattena . paṭhyate vidyā devadattena . iha ubhayam prāpnoti . pacyate svayam eva . paṭhyate svayam eva . paratvāt śap prāpnoti . yogavibhāgāt siddham . yogavibhāgaḥ kariṣyate . ciṇ bhāvakarmaṇoḥ . sārvadhātuke yak bhāvakarmaṇoḥ . tataḥ kartari . kartari ca yak bhavati bhāvakarmaṇoḥ . yathā eva tarhi karmaṇi kartari yak bhavati evam bhāve kartari prāpnoti . eti jīvantam ānandaḥ . na asya kim cit rujati rogaḥ iti . dvitīyaḥ yogavibhāgaḥ kariṣyate . ciṇ bhāve . tataḥ karmaṇi . karmaṇi ca ciṇ bhavati . tataḥ sārvadhātuke yak bhavati bhāve ca karmaṇi ca . tataḥ kartari . kartari ca yak bhavati . karmaṇi iti anuvartate . bhāve iti nivṛttam . tataḥ śap . śap ca bhavati . kartari iti eva . karmaṇi iti api nivṛttam . evam api upasaṅkhyānam kartavyam . vipratiṣedhāt hi śyanaḥ balīyastvam prāpnoti . śyanaḥ avakāśaḥ . dīvyati sīvyati . yakaḥ avakāśaḥ . pacyate odanaḥ devadattena . paṭhyate vidyā devadattena . iha ubhayam prāpnoti . dīvyate svayam eva . sīvyate svayam eva . paratvāt śyan prāpnoti . nanu ca etat api yogavibhāgāt eva siddham . na sidhyati . anantarā yā praptiḥ sā yogavibhāgena śakyā bādhitum . kutaḥ etat . anantarasya vidhiḥ vā bhavati pratiṣedhaḥ vā iti . parā prāptiḥ apratiṣiddhā . tayā prāpnoti . nanu ca iyam prāptiḥ parām prāptim bādheta . na utsahate pratiṣiddhā satī bādhitum . evam tarhi śabādeśāḥ śyanādayaḥ kariṣyante . śap ca syādibhiḥ bādhyate . tatra divādibhyaḥ yagviṣaye śap eva na asti kutaḥ śyanādayaḥ . tat tarhi śapaḥ grahaṇam kartavyam . na kartavyam . prakṛtam anuvartate . kva prakṛtam . kartari śap iti . tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . divādibhyaḥ iti eṣā pañcamī śap iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti . pratyayavidhiḥ ayam . na ca pratyayavidhau pañcamyaḥ prakalpikāḥ bhavanti . na ayam pratyayavidhiḥ . vihitaḥ pratyayaḥ . prakṛtaḥ ca anuvartate . atha vā bhāvakarmaṇoḥ iti anuvṛttyā eva siddhe sati anivṛttiḥ yakaḥ bhāvāya .iha sārvadhātuke yak iti antareṇa bhāvakarmaṇoḥ iti anuvṛttim siddham . saḥ ayam evam siddhe sati yat bhāvakarmaṇoḥ iti anuvartayati tasya etat prayojanam . karmakartari api yathā syāt . kartari iti ca yogavibhāgaḥ śyanaḥ pūrvavipratiṣedhāvacanāya . kartari iti yogavibhāgaḥ kartavyaḥ śyanaḥ pūrvavipratiṣedham mā vocam iti . atha vā karmavadbhāvavacanasāmarthyāt yak bhaviṣyati . asti anyat karmavadbhāvavacane prayojanam . kim . ātmanepadam yathā syāt . vacanāt ātmanepadam bhaviṣyati . ciṇ tarhi yathā syāt . ciṇ api vacanāt bhaviṣyati . ciṇvadbhāvaḥ tarhi yathā syāt . na ekam prayojanam yogārambham prayojayati . tatra karmavadbhāvavacanasāmarthyāt yak bhaviṣyati . atha vā ācāryapravṛttiḥ jñāpayati bhavati karmakartari yak iti yat ayam na duhasnnunamām yakciṇau iti yakciṇoḥ pratiṣedham śāsti .

Sanskrit only: no published translation is held for this verse.