क्अ इइ,१९।२५-२०।१५ रो इइइ,५६-५७ किमर्थः चकारः । स्वरार्थः । चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् । न एतत् अस्ति प्रयोजनम् । धातुस्वरेण अपि एतत् सिद्धम् । ककारस्य तर्हि इत्सञ्ज्ञापरित्राणार्थः आदितः चकारः कर्तव्यः । अतः उत्तरम् पठति । काम्यचः चित्करणानर्थक्यम् कस्य इदर्थाभावात् । काम्यचः चित्करणम् अनर्थकम् । ककारस्य तर्हि इत्सञ्ज्ञा कस्मात् न भवति । इदर्थाभावात् । इत्कार्याभावात् अत्र इत्सञ्ज्ञा न भविष्यति । ननु च लोपः एव इत्कार्यम् । अकार्यम् लोपः । इह हि शब्दस्य कार्यार्थः वा भवति उपदेशः श्रवणार्थः वा । कर्यम् च इह न अस्ति । कार्ये असति यदि श्रवणम् अपि न स्यात् उपदेशः अनर्थकः स्यात् । इदम् तर्हि इत्कार्यम् । अग्निचित्कम्यति । किति इति गुणप्रतिषेधः यथा स्यात् । न एतत् अस्ति प्रयोजनम् । सार्वधातुकार्धधातुकयोः अङ्गस्य गुणः उच्यते । धातोः च विहितः प्रत्ययः शेषः आर्धधातुकसञ्ज्ञाम् लभते । न च अयम् धातोः विधीयते । इदम् तर्हि । उपयट्काम्यति । किति इति सम्प्रसारणम् यथा स्यात् ॥ एतत् अपि न अस्ति प्रयोजनम् । यजादिभिः अत्र कितम् विशेषयिष्यामः । यजादीनाम् यः कित् इति । कः च यजादीनाम् कित् । यजादिभ्यः यः विहितः इति । अथ अपि कथम् चित् इत्कार्यम् स्यात् । एवम् अपि न दोषः । क्रियते न्यासे एव द्विचकारकः निर्देशः । सुपः आत्मनः क्यच् च्काम्यत् च इति । अथ वा छान्दसम् एतत् । दृष्टानुविधिः छन्दसि भवति । न च अत्र सम्प्रसारणम् दृश्यते ।
KA II,19.25-20.15 Ro III,56-57 kimarthaḥ cakāraḥ . svarārthaḥ . citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt . na etat asti prayojanam . dhātusvareṇa api etat siddham . kakārasya tarhi itsañjñāparitrāṇārthaḥ āditaḥ cakāraḥ kartavyaḥ . ataḥ uttaram paṭhati . kāmyacaḥ citkaraṇānarthakyam kasya idarthābhāvāt . kāmyacaḥ citkaraṇam anarthakam . kakārasya tarhi itsañjñā kasmāt na bhavati . idarthābhāvāt . itkāryābhāvāt atra itsañjñā na bhaviṣyati . nanu ca lopaḥ eva itkāryam . akāryam lopaḥ . iha hi śabdasya kāryārthaḥ vā bhavati upadeśaḥ śravaṇārthaḥ vā . karyam ca iha na asti . kārye asati yadi śravaṇam api na syāt upadeśaḥ anarthakaḥ syāt . idam tarhi itkāryam . agnicitkamyati . kiti iti guṇapratiṣedhaḥ yathā syāt . na etat asti prayojanam . sārvadhātukārdhadhātukayoḥ aṅgasya guṇaḥ ucyate . dhātoḥ ca vihitaḥ pratyayaḥ śeṣaḥ ārdhadhātukasañjñām labhate . na ca ayam dhātoḥ vidhīyate . idam tarhi . upayaṭkāmyati . kiti iti samprasāraṇam yathā syāt .. etat api na asti prayojanam . yajādibhiḥ atra kitam viśeṣayiṣyāmaḥ . yajādīnām yaḥ kit iti . kaḥ ca yajādīnām kit . yajādibhyaḥ yaḥ vihitaḥ iti . atha api katham cit itkāryam syāt . evam api na doṣaḥ . kriyate nyāse eva dvicakārakaḥ nirdeśaḥ . supaḥ ātmanaḥ kyac ckāmyat ca iti . atha vā chāndasam etat . dṛṣṭānuvidhiḥ chandasi bhavati . na ca atra samprasāraṇam dṛśyate .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.