Library·Patanjali: Vyakaranamahabhasya·3·3.1·3.1.92

Patanjali: Vyakaranamahabhasya 3.1.92

क्अ इइ,७५।११-१८ रो इइइ,१८५-१८६ स्थग्रहणम् किमर्थम् । तत्र उपपदम् सप्तमी इति इयति उच्यमाने यत्र एव सप्तमी श्रूयते तत्र एव स्यात् : स्तम्बेरमः कर्णेजपः । यत्र वा एतेन शब्देन निर्देशः क्रियते । सप्तम्याम् जनेः डः इति । इह न स्यात् । कुम्भकारः नगरकारः । स्थग्रहणे पुनः क्रियमाणे यत्र च सप्तमी श्रूयते य च न श्रूयते यत्र च एतेन शब्देन निर्देशः क्रियते यत्र च अन्येन सप्तमीस्थमात्रे सिद्धम् भवति । अथ तत्रग्रहणम् किमर्थम् । तत्रग्रहणम् विषयार्थम् । विषयः प्रतिनिर्दिश्यते । तत्र एतस्मिन् धात्वधिकारे यत् सप्तमीनिर्दिष्टम् तत् उपपदसञ्ज्ञम् भवति इति उपपदसञ्ज्ञा सिद्धा भवति ।

KA II,75.11-18 Ro III,185-186 sthagrahaṇam kimartham . tatra upapadam saptamī iti iyati ucyamāne yatra eva saptamī śrūyate tatra eva syāt : stamberamaḥ karṇejapaḥ . yatra vā etena śabdena nirdeśaḥ kriyate . saptamyām janeḥ ḍaḥ iti . iha na syāt . kumbhakāraḥ nagarakāraḥ . sthagrahaṇe punaḥ kriyamāṇe yatra ca saptamī śrūyate ya ca na śrūyate yatra ca etena śabdena nirdeśaḥ kriyate yatra ca anyena saptamīsthamātre siddham bhavati . atha tatragrahaṇam kimartham . tatragrahaṇam viṣayārtham . viṣayaḥ pratinirdiśyate . tatra etasmin dhātvadhikāre yat saptamīnirdiṣṭam tat upapadasañjñam bhavati iti upapadasañjñā siddhā bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,७५।१९-७६।२६ रो इइइ,१८७-१९० उपपदसञ्ज्ञायाम् समर्थवचनम् । उपपदसञ्ज्ञायाम् समर्थग्रहणम् कर्तव्यम् । समर्थम् उपपदम् प्रत्ययस्य इति वक्तव्यम् । इह मा भूत् । आहर कुम्भम् । करोति कटम् इति । क्रियमाणे च अपि समर्थग्रहणे महान्तम् कुम्भम् करोति इति अत्र अपि प्राप्नोति । न वा भवितव्यम् महाकुम्भकारः इति । भवैतव्यम् यदा एतत् वाक्यम् भवति । महान् कुम्भः महाकुम्भः महाकुम्भम् करोति इति महाकुम्भकारः । यदा तु एतत् वाक्यम् भवति महान्तम् कुम्भम् करोति इति तदा न भवितव्यम् । तदा च प्राप्नोति । तदा मा भूत् इति । यत् तावत् उच्यते समर्थग्रहणम् कर्तव्यम् इति । न कर्तव्यम् । धातोः इति वर्तते । धातोः कर्मणि अण् भवति । तत्र सम्बन्धात् एतत् गन्तव्यम् । यस्य धातोः यत् कर्म इति । यत् अपि उच्यते क्रियमाणे च अपि समर्थग्रहणे महान्तम् कुम्भम् करोति इति अत्र अपि प्राप्नोति इति । उपपदम् इति महतीइहम् सञ्ज्ञा क्रियते । सञ्ज्ञा च नाम यतः न लघीयः । कुतः एतत् । लघ्वर्थम् हि सञ्ज्ञाकरणम् । तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम् अन्वर्थसञ्ज्ञा यथा विज्ञायेत : उपोच्चारि पदम् उपपदम् । यत् च अत्र उपोच्चारि न तत् पदम् यत् च पदम् न तत् उपोच्चारि । यावता च इदानीम् पदगन्धः अस्ति पदविधिः अयम् भवति । पदविधिः च समर्थानाम् भवति । तत्र असामार्थ्यान् न भविष्यति । अथ च्व्यन्ते उपपदे किम् अणा भवितव्यम् । अकुम्भम् कुम्भम् करोति कुम्भीकरोति मृदम् इति । न भवितव्यम् । किम् कारणम् । प्रकृतिविवक्षायाम् च्विः विधीयते । तत् सापेक्षम् । सापेक्षम् च असमर्थम् भवति । न तर्हि इदानीम् इदम् भवति : इच्छामि अहम् काशकटीकारम् इति । इष्टम् एव एतत् गोनर्दीयस्य । निमित्तोपादनम् च । निमित्तोपादनम् च कर्तव्यम् । निमित्तम् उपपदम् प्रत्ययस्य इति वक्तव्यम् । अनुपादाने हि अनुपपदे प्रत्ययप्रसङ्गः । अक्रियमाणे हि निमित्तोपादाने अनुपपदे अपि प्रसज्येत । निर्देशः इदानीम् किमर्थः स्यात् । निर्देशः सञ्ज्ञाकरणार्थः । यदा उपपदे प्रत्ययः तदा उपपदसञ्ज्ञाम् वक्ष्यामि इति । तत् तर्हि निमित्तोपादनम् कर्तव्यम् । न कर्तव्यम् । तत्रवचनम् उपपदसन्नियोगार्थम् । तत्रवचनम् क्रियते । तत् उपपदसन्नियोगार्थम् भविष्यति । कर्मणि अण् विधीयते तत्र चेत् प्रत्ययः भवति इति । ननु च अन्यत् तत्रग्रहणस्य प्रयोजनम् उक्तम् । किम् । तत्रग्रहणम् विषयार्थम् इति । अधिकारात् अपि एतत् सिद्धम् ।

KA II,75.19-76.26 Ro III,187-190 upapadasañjñāyām samarthavacanam . upapadasañjñāyām samarthagrahaṇam kartavyam . samartham upapadam pratyayasya iti vaktavyam . iha mā bhūt . āhara kumbham . karoti kaṭam iti . kriyamāṇe ca api samarthagrahaṇe mahāntam kumbham karoti iti atra api prāpnoti . na vā bhavitavyam mahākumbhakāraḥ iti . bhavaitavyam yadā etat vākyam bhavati . mahān kumbhaḥ mahākumbhaḥ mahākumbham karoti iti mahākumbhakāraḥ . yadā tu etat vākyam bhavati mahāntam kumbham karoti iti tadā na bhavitavyam . tadā ca prāpnoti . tadā mā bhūt iti . yat tāvat ucyate samarthagrahaṇam kartavyam iti . na kartavyam . dhātoḥ iti vartate . dhātoḥ karmaṇi aṇ bhavati . tatra sambandhāt etat gantavyam . yasya dhātoḥ yat karma iti . yat api ucyate kriyamāṇe ca api samarthagrahaṇe mahāntam kumbham karoti iti atra api prāpnoti iti . upapadam iti mahatīiham sañjñā kriyate . sañjñā ca nāma yataḥ na laghīyaḥ . kutaḥ etat . laghvartham hi sañjñākaraṇam . tatra mahatyāḥ sañjñāyāḥ karaṇe etat prayojanam anvarthasañjñā yathā vijñāyeta : upoccāri padam upapadam . yat ca atra upoccāri na tat padam yat ca padam na tat upoccāri . yāvatā ca idānīm padagandhaḥ asti padavidhiḥ ayam bhavati . padavidhiḥ ca samarthānām bhavati . tatra asāmārthyān na bhaviṣyati . atha cvyante upapade kim aṇā bhavitavyam . akumbham kumbham karoti kumbhīkaroti mṛdam iti . na bhavitavyam . kim kāraṇam . prakṛtivivakṣāyām cviḥ vidhīyate . tat sāpekṣam . sāpekṣam ca asamartham bhavati . na tarhi idānīm idam bhavati : icchāmi aham kāśakaṭīkāram iti . iṣṭam eva etat gonardīyasya . nimittopādanam ca . nimittopādanam ca kartavyam . nimittam upapadam pratyayasya iti vaktavyam . anupādāne hi anupapade pratyayaprasaṅgaḥ . akriyamāṇe hi nimittopādāne anupapade api prasajyeta . nirdeśaḥ idānīm kimarthaḥ syāt . nirdeśaḥ sañjñākaraṇārthaḥ . yadā upapade pratyayaḥ tadā upapadasañjñām vakṣyāmi iti . tat tarhi nimittopādanam kartavyam . na kartavyam . tatravacanam upapadasanniyogārtham . tatravacanam kriyate . tat upapadasanniyogārtham bhaviṣyati . karmaṇi aṇ vidhīyate tatra cet pratyayaḥ bhavati iti . nanu ca anyat tatragrahaṇasya prayojanam uktam . kim . tatragrahaṇam viṣayārtham iti . adhikārāt api etat siddham .

Sanskrit only: no published translation is held for this verse.