क्अ इइ,१३७।४-८ रो इइइ,३०८ शीलितः रक्षितः क्षान्तः आक्रुष्टः जुष्टः इति अपि रुष्टः च रुषितः च उभौ अभिव्याहृतः इति अपि हृष्टतुष्टौ तथा कान्तः तथा उभौ संयोतोद्यतौ । कष्टम् भविष्यति इति आहुः । अमृताः पूर्ववत् स्मृताः । न म्रियन्ते अमृताः । (३।३।१) क्अ इइ,१३८।२ - २२ रो इइइ।३०९-३१२ बहुलवचनम् किमर्थम् । बाहुलकम् प्रकृतेः तनुदृष्टेः । तन्वीभ्यः प्रकृतिभ्यः उणादयः दृश्यन्ते । न सर्वाभ्यः दृश्यन्ते । प्रायसमुच्चयाद् अपि तेषाम् । प्रायेण खलु अपि ते समुच्चिताः न सर्वे समुच्चिताः । कार्यसशेषविधेः च तत् उक्तम् । कार्याणि खलु अपि सशेषाणि कृतानि न सर्वाणि लक्षणेन परिसमाप्तानि । किम् पुनः कारणम् तन्वीभ्यः प्रकृतिभ्यः उणादयः दृश्यन्ते न सर्वाभ्यः दृश्यन्ते । किम् च कारणम् प्रायेण समुच्चिताः न सर्वे समुच्चिताः । किम् च कारणम् कार्याणि सशेषाणि कृतानि न सर्वाणि लक्षणेन परिसमाप्तानि । नैगमरूडिभवम् हि सुसाधु । नैगमाः च रूढिभवाः च औणादिकाः सुसाधवः कथम् स्युः । नाम च धातुजम् आह निरुक्ते । नाम खलु अपि धातुजम् । एवम् आहुः नैरुक्ताः । व्याकरणे शकटस्य च तोकम् । वैयाकरणानाम् च शाकटायनः आह धातुजम् नाम इति । अथ यस्य विशेषपदार्थः न समुत्तितः कथम् तत्र भवितव्यम् । यत् न विशेषपदार्थसमुत्तम् प्रत्ययतः प्रकृतेः च तत् ऊह्यम् । प्रकृतिम् दृष्ट्वा प्रत्ययः ऊहितव्यः प्रत्ययम् च दृष्ट्वा प्रकृतिः ऊहितव्या । सञ्ज्ञासु धातुरूपाणि प्रत्ययाः च ततः परे कार्यात् विद्यात् अनुबन्धम् । एतत् शास्त्रम् उणादिषु ।
KA II,137.4-8 Ro III,308 śīlitaḥ rakṣitaḥ kṣāntaḥ ākruṣṭaḥ juṣṭaḥ iti api ruṣṭaḥ ca ruṣitaḥ ca ubhau abhivyāhṛtaḥ iti api hṛṣṭatuṣṭau tathā kāntaḥ tathā ubhau saṃyotodyatau . kaṣṭam bhaviṣyati iti āhuḥ . amṛtāḥ pūrvavat smṛtāḥ . na mriyante amṛtāḥ . (3.3.1) KA II,138.2 - 22 Ro III.309-312 bahulavacanam kimartham . bāhulakam prakṛteḥ tanudṛṣṭeḥ . tanvībhyaḥ prakṛtibhyaḥ uṇādayaḥ dṛśyante . na sarvābhyaḥ dṛśyante . prāyasamuccayād api teṣām . prāyeṇa khalu api te samuccitāḥ na sarve samuccitāḥ . kāryasaśeṣavidheḥ ca tat uktam . kāryāṇi khalu api saśeṣāṇi kṛtāni na sarvāṇi lakṣaṇena parisamāptāni . kim punaḥ kāraṇam tanvībhyaḥ prakṛtibhyaḥ uṇādayaḥ dṛśyante na sarvābhyaḥ dṛśyante . kim ca kāraṇam prāyeṇa samuccitāḥ na sarve samuccitāḥ . kim ca kāraṇam kāryāṇi saśeṣāṇi kṛtāni na sarvāṇi lakṣaṇena parisamāptāni . naigamarūḍibhavam hi susādhu . naigamāḥ ca rūḍhibhavāḥ ca auṇādikāḥ susādhavaḥ katham syuḥ . nāma ca dhātujam āha nirukte . nāma khalu api dhātujam . evam āhuḥ nairuktāḥ . vyākaraṇe śakaṭasya ca tokam . vaiyākaraṇānām ca śākaṭāyanaḥ āha dhātujam nāma iti . atha yasya viśeṣapadārthaḥ na samuttitaḥ katham tatra bhavitavyam . yat na viśeṣapadārthasamuttam pratyayataḥ prakṛteḥ ca tat ūhyam . prakṛtim dṛṣṭvā pratyayaḥ ūhitavyaḥ pratyayam ca dṛṣṭvā prakṛtiḥ ūhitavyā . sañjñāsu dhāturūpāṇi pratyayāḥ ca tataḥ pare kāryāt vidyāt anubandham . etat śāstram uṇādiṣu .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.