Library·Patanjali: Vyakaranamahabhasya·3·3.2

Patanjali: Vyakaranamahabhasya 3.2

क्अ इइ,९४।२-१५ रो इइइ,२२०-२२१ कर्मणि निर्वर्त्यमाणविक्रियमाणे इति वक्तत्व्यम् । इह मा भूत् । आदित्यम् पश्यति । हिववन्तम् श्र्णोति । ग्रामम् गच्छति इति । कर्मणि निर्वर्त्यमाणविक्रियमाणे चेत् वेदाध्यायादीनाम् उपसङ्ख्यानम् । कर्मणि निर्वर्त्यमाणविक्रियमाणे चेत् वेदाध्यायादीनाम् उपसङ्ख्यानम् कर्तव्यम् । वेदाध्यायः चर्चापारः शमनीपारः । यत्र च नियुक्तः । यत्र च नियुक्तः तत्र उपसङ्ख्यानम् कर्तत्व्यम् । छत्रधारः द्वारपालः । हृग्रहिनीवहिभ्यः च । हृग्रहिनीवहिभ्यः च इति वक्तव्यम् । हृ । भारहारः । ग्रहि । कमण्डलुग्राहः । नी। उष्ट्रप्रणायः । वहि । भारवाहः । अपरिगणनम् वा । न वा अर्थः परिगणनेन । कस्मात् न भवति : आदित्यम् पश्यति , हिमवन्तम् श्र्णोति । ग्रामम् गच्छति इति । अनभिधानात् । अनभिधानात् एव न भविष्यति ।

KA II,94.2-15 Ro III,220-221 karmaṇi nirvartyamāṇavikriyamāṇe iti vaktatvyam . iha mā bhūt . ādityam paśyati . hivavantam śrṇoti . grāmam gacchati iti . karmaṇi nirvartyamāṇavikriyamāṇe cet vedādhyāyādīnām upasaṅkhyānam . karmaṇi nirvartyamāṇavikriyamāṇe cet vedādhyāyādīnām upasaṅkhyānam kartavyam . vedādhyāyaḥ carcāpāraḥ śamanīpāraḥ . yatra ca niyuktaḥ . yatra ca niyuktaḥ tatra upasaṅkhyānam kartatvyam . chatradhāraḥ dvārapālaḥ . hṛgrahinīvahibhyaḥ ca . hṛgrahinīvahibhyaḥ ca iti vaktavyam . hṛ . bhārahāraḥ . grahi . kamaṇḍalugrāhaḥ . nī. uṣṭrapraṇāyaḥ . vahi . bhāravāhaḥ . aparigaṇanam vā . na vā arthaḥ parigaṇanena . kasmāt na bhavati : ādityam paśyati , himavantam śrṇoti . grāmam gacchati iti . anabhidhānāt . anabhidhānāt eva na bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,९४।१६-९५।१५ रो इइइ,२२१-२२३ अकारात् अनुपपदात् कर्मोपपदः विप्रतिषेधेन । अकारात् अनुपपदात् कर्मोपपदः भवति विप्रतिषेधेन । अनुपपदस्य अवकाशः पचति इति पचः । कर्मोपपदस्य अवकाशः कुम्भकारः नगरकारः । ओदनपाचे उभयम् प्राप्नोति । कर्मोपदः भवति विप्रतिषेधेन । अनुपपदस्य अवकाशः विक्षिपः विलिखः । कर्मोपपदस्य सः एव । काष्ठभेदे उभयम् प्राप्नोति । कर्मोपदः भवति विप्रतिषेधेन । अनुपपदस्य अवकाशः जानाति इति ज्ञः । कर्मोपपदस्य सः एव । अर्थज्ञे उभयम् प्राप्नोति । कर्मोपदः भवति विप्रतिषेधेन । न एषः युक्तः विप्रतिषेधः । अनुपपदः तृतीयः । ण्वुल्तृजचः । तेषाम् णः । णस्य कः । सः यथा एव कः णम् बाधते एवम् कर्मोपपदम् अपि बाधेत । कर्मोपपदः अपि तृतीयः । ण्वुल्तृजचः । तेषाम् अण् । अणः कः । उभयोः तृतीययोः युक्तः विप्रतिषेधः । अनुपपदस्य अवकाशः लिम्पति इति लिम्पः । कर्मोपपदस्य सः एव । कुड्यलेपे उभयम् प्राप्नोति । कर्मोपदः भवति विप्रतिषेधेन । न एषः युक्तः विप्रतिषेधः । अनुपपदः तृतीयः । ण्वुल्तृजचः । तेषाम् कः । कस्य कः । सः यथा एव शः कम् बाधते एवम् कर्मोपपदम् अपि बाधेत । का तर्हि गतिः । मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् शः कम् बाधिष्यते । कर्मोपपदम् न बाधिष्यते । अनुपपदस्य अवकाशः सुग्लः सुम्लः । कर्मोपपदस्य सः एव । वडवासन्दाये उभयम् प्राप्नोति । कर्मोपदः भवति विप्रतिषेधेन । न एषः युक्तः विप्रतिषेधः । अनुपपदः तृतीयः । ण्वुल्तृजचः । तेषाम् णः । णस्य कः । सः यथा एव कः णम् बाधते एवम् कर्मोपपदम् अपि बाधेत । का तर्हि गतिः । पुरस्ताद् अपवादाः अनन्तराञ्विधीन् बाधन्ते इति एवम् अयम् कः णम् बाधिष्यते । कर्मोपपदम् न बाधिष्यते ।

KA II,94.16-95.15 Ro III,221-223 akārāt anupapadāt karmopapadaḥ vipratiṣedhena . akārāt anupapadāt karmopapadaḥ bhavati vipratiṣedhena . anupapadasya avakāśaḥ pacati iti pacaḥ . karmopapadasya avakāśaḥ kumbhakāraḥ nagarakāraḥ . odanapāce ubhayam prāpnoti . karmopadaḥ bhavati vipratiṣedhena . anupapadasya avakāśaḥ vikṣipaḥ vilikhaḥ . karmopapadasya saḥ eva . kāṣṭhabhede ubhayam prāpnoti . karmopadaḥ bhavati vipratiṣedhena . anupapadasya avakāśaḥ jānāti iti jñaḥ . karmopapadasya saḥ eva . arthajñe ubhayam prāpnoti . karmopadaḥ bhavati vipratiṣedhena . na eṣaḥ yuktaḥ vipratiṣedhaḥ . anupapadaḥ tṛtīyaḥ . ṇvultṛjacaḥ . teṣām ṇaḥ . ṇasya kaḥ . saḥ yathā eva kaḥ ṇam bādhate evam karmopapadam api bādheta . karmopapadaḥ api tṛtīyaḥ . ṇvultṛjacaḥ . teṣām aṇ . aṇaḥ kaḥ . ubhayoḥ tṛtīyayoḥ yuktaḥ vipratiṣedhaḥ . anupapadasya avakāśaḥ limpati iti limpaḥ . karmopapadasya saḥ eva . kuḍyalepe ubhayam prāpnoti . karmopadaḥ bhavati vipratiṣedhena . na eṣaḥ yuktaḥ vipratiṣedhaḥ . anupapadaḥ tṛtīyaḥ . ṇvultṛjacaḥ . teṣām kaḥ . kasya kaḥ . saḥ yathā eva śaḥ kam bādhate evam karmopapadam api bādheta . kā tarhi gatiḥ . madhye apavādāḥ pūrvān vidhīn bādhante iti evam śaḥ kam bādhiṣyate . karmopapadam na bādhiṣyate . anupapadasya avakāśaḥ suglaḥ sumlaḥ . karmopapadasya saḥ eva . vaḍavāsandāye ubhayam prāpnoti . karmopadaḥ bhavati vipratiṣedhena . na eṣaḥ yuktaḥ vipratiṣedhaḥ . anupapadaḥ tṛtīyaḥ . ṇvultṛjacaḥ . teṣām ṇaḥ . ṇasya kaḥ . saḥ yathā eva kaḥ ṇam bādhate evam karmopapadam api bādheta . kā tarhi gatiḥ . purastād apavādāḥ anantarāñvidhīn bādhante iti evam ayam kaḥ ṇam bādhiṣyate . karmopapadam na bādhiṣyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,९५।१६-९६।११ रो इइइ,२२३-२२५ शीलिकामिभक्ष्याचरिभ्यः णः पूर्वपदप्रकृतिस्वरत्वम् च । शीलिकामिभक्ष्याचरिभ्यः णः वक्तव्यः पूर्वपदप्रकृतिस्वरत्वम् च वक्तव्यम् । शीलि । मांसशीलः मांसशीला । शीलि । कामि । मांसकामः मांसकामा । कामि । भक्षि । मांसभक्षः मांसभक्षा । भक्षि आचरि । कल्याणाचारः कल्याणाचारा । ईक्षिक्षमिभ्याम् च । ईक्षिक्षमिभ्याम् च इति वक्तव्यम् । सुखप्रतीक्षः सुखप्रतीक्षा । कल्याणक्षमः कल्याणक्षमा । किमर्थम् इदम् उच्यते । पूर्वपदप्रकृत्स्वरत्वम् च वक्ष्यामि ईकारः च मा भूत् इति । न एतत् अस्ति प्रयोजनम् । इह यः मांसम् भक्षयति मांसम् तस्य भक्षः भवति । यः असौ भक्षयतेः अच् तदन्तेन बहुव्रीहिः । एवम् तर्हि सिद्धे सति यत् कर्मोपपदम् णम् शास्ति तत् ज्ञापयति आचार्यः समाने अर्थे केवलम् विग्रहभेदात् यत्र कर्मोपपदः च प्राप्नोति बहुव्रीहिः च कर्मोपपदः तत्र भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । काण्डलावः । काण्डानि लावः अस्य इति बहुव्रीहिः न भवति । भवति तु बहुर्वीहिः अपि । मांसे कामः अस्य मांसकामः मांसकामकः इति वा । न तु अम्भोभिगमा । न तु इदम् भवति अम्भः अभिगमः अस्याः इति । किम् तर्हि । अम्भोभिगामी इति एव भवति । काण्डलावे अपि च विग्रहाभावात् न ज्ञापकस्य प्रयोजनम् भवति इति । न एषः अस्ति विग्रहः काण्डानि लावः अस्य इति । आन्नादाय इति च कृताम् व्यत्ययः छन्दसि । आन्नादाय इति च कृताम् व्यत्ययः छन्दसि द्रष्टव्यः । अन्नादाय अन्नपतये । ये आहुतिम् अन्नादीम् कृत्वा ।

KA II,95.16-96.11 Ro III,223-225 śīlikāmibhakṣyācaribhyaḥ ṇaḥ pūrvapadaprakṛtisvaratvam ca . śīlikāmibhakṣyācaribhyaḥ ṇaḥ vaktavyaḥ pūrvapadaprakṛtisvaratvam ca vaktavyam . śīli . māṃsaśīlaḥ māṃsaśīlā . śīli . kāmi . māṃsakāmaḥ māṃsakāmā . kāmi . bhakṣi . māṃsabhakṣaḥ māṃsabhakṣā . bhakṣi ācari . kalyāṇācāraḥ kalyāṇācārā . īkṣikṣamibhyām ca . īkṣikṣamibhyām ca iti vaktavyam . sukhapratīkṣaḥ sukhapratīkṣā . kalyāṇakṣamaḥ kalyāṇakṣamā . kimartham idam ucyate . pūrvapadaprakṛtsvaratvam ca vakṣyāmi īkāraḥ ca mā bhūt iti . na etat asti prayojanam . iha yaḥ māṃsam bhakṣayati māṃsam tasya bhakṣaḥ bhavati . yaḥ asau bhakṣayateḥ ac tadantena bahuvrīhiḥ . evam tarhi siddhe sati yat karmopapadam ṇam śāsti tat jñāpayati ācāryaḥ samāne arthe kevalam vigrahabhedāt yatra karmopapadaḥ ca prāpnoti bahuvrīhiḥ ca karmopapadaḥ tatra bhavati iti . kim etasya jñāpane prayojanam . kāṇḍalāvaḥ . kāṇḍāni lāvaḥ asya iti bahuvrīhiḥ na bhavati . bhavati tu bahurvīhiḥ api . māṃse kāmaḥ asya māṃsakāmaḥ māṃsakāmakaḥ iti vā . na tu ambhobhigamā . na tu idam bhavati ambhaḥ abhigamaḥ asyāḥ iti . kim tarhi . ambhobhigāmī iti eva bhavati . kāṇḍalāve api ca vigrahābhāvāt na jñāpakasya prayojanam bhavati iti . na eṣaḥ asti vigrahaḥ kāṇḍāni lāvaḥ asya iti . ānnādāya iti ca kṛtām vyatyayaḥ chandasi . ānnādāya iti ca kṛtām vyatyayaḥ chandasi draṣṭavyaḥ . annādāya annapataye . ye āhutim annādīm kṛtvā .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,९६।१३-९७।२७ रो इइइ,२२५-२२८ कविधौ सर्वत्र प्रसारणिभ्यः डः । कविधौ सर्वत्र प्रसारणिभ्यः डः वक्तव्यः । ब्रह्मज्यः । किम् उच्यते सर्वत्र इति । अन्यत्र अपि न अवश्यम् इह एव । ह्व अन्यत्र । आह्वः प्रह्वः इति । के हि सम्प्रसारणप्रसङ्गः । के हि सति सम्प्रसारणम् प्रसज्येत । सम्प्रसारणे कृते सम्प्रसारणपूर्वत्वे च उवङादेशे आहुवः इति एतत् रूपम् स्यात् । सः तर्हि वक्तव्यः । न वक्तव्यः । अस्तु अत्र सम्प्रसारणम् । सम्प्रसारणे कृते आकारलोपः । तस्य स्थानिवद्भावात् उवङादेशः न भविष्यति । पूर्वत्वे कृते प्राप्नोति । एवम् तर्हि इदम् इह सम्प्रधार्यम् । आकारलोपः क्रियताम् पूर्वत्वम् इति । किम् अत्र कर्तव्यम् । परत्वात् आकारलोपः । न सिध्यति । अन्तरङ्गत्वात् पूर्वत्वम् प्राप्नोति । एवम् तर्हि वार्णात् आङ्गम् बलीयः भवति इति आकारलोपः भविष्यति । एवम् तर्हि इदम् इह सम्प्रधार्यम् । आकारलोपः क्रियताम् सम्प्रसारणम् इति । किम् अत्र कर्तव्यम् । परत्वात् आकारलोपः । नित्यम् सम्प्रसारणम् । कृते अपि आकारलोपे प्राप्नोति अकृते अपि प्राप्नोति । आकारलोपः अपि नित्यः । कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि प्राप्नोति । अनित्यः आकारलोपः । न हि कृते सम्प्रसारणे प्राप्नोति । अन्तरङ्गम् हि पूर्वत्वम् भाधते । यस्य लक्षणान्तरेण निमित्तम् विहन्यते न तत् अनित्यम् । न च सम्प्रसारणम् एव आकारलोपस्य निमित्तम् हन्ति । अवश्यम् लक्षणान्तरम् पूर्वत्वम् प्रतीक्ष्यम् । उभयोः नित्ययोः परत्वात् आकारलोपः । आकारलोपे कृते सम्प्रसारणम् । सम्प्रसारणे कृते यणादेशे सिद्धम् रूपम् आह्वः प्रह्वः इति । एवम् अपि न सिध्यति । यः अनादिष्टाद् अचः पूर्वः तस्य विधिम् प्रति स्थानिवद्भावः । आदिष्टात् च एषः अचः पूर्वः भवति । एवम् तर्हि आकारलोपस्य असिद्धत्वात् उवङादेशः न भविष्यति । इह अपि तर्हि आकारलोपस्य असिद्धत्वात् उवङादेशः न स्यात् । जुहुवतुः झुहुवुः इति । अस्ति अत्र विशेषः । अकृते अत्र आत्त्वे पूर्वत्वम् भवति । इदम् इह सम्प्रधार्यम् आत्त्वम् क्रियताम् पूर्वत्वम् इति । किम् अत्र कर्तव्यम् । परत्वात् पूर्वत्वम् । न सिध्यति । अन्तरङ्गत्वात् आत्त्वम् प्राप्नोति । एवम् तर्हि इदम् इह सम्प्रधार्यम् । आत्त्वम् क्रियताम् सम्प्रसारणम् इति । किम् अत्र कर्तव्यम् । परत्वात् आत्त्वम् । नित्यम् सम्प्रसारणम् । कृते अपि आत्त्वे प्राप्नोति अकृते अपि । आत्त्वम् अपि नित्यम् । कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि प्राप्नोति । अनित्यम् आत्त्वम् । न हि सम्प्रसारणे कृते प्राप्नोति । परत्वात् पूर्वत्वेन एव भवितव्यम् । यस्य लक्षणान्तरेण निमित्तम् विहन्यते न तत् अनित्यम् । न च सम्प्रसारणम् एव आत्त्वस्य निमित्तम् विहन्ति । अवश्यम् लक्षणान्तरम् पूर्वत्वम् प्रतीक्ष्यम् । उभयोः नित्ययोः परत्वात् आत्त्त्वे कृते सम्प्रसारणम् । एवम् तर्हि पूर्वत्वे योगविभागः करिष्यते । सम्प्रसारणात् परः पूर्वः भवति । तत एङः । एङः च सम्प्रसारणात् पूर्वः भवति । किमर्थम् इदम् । अकृते आत्त्वे पूर्वत्वम् यथा स्यात् । ततः पदान्तात् अति । एङः इति एव । इह अपि तर्हि अकृते आत्त्वे पूर्वत्वम् स्यात् । आह्वः प्रह्वः इति । अस्ति अत्र विशेषः । आकारान्तलक्षणः कविधिः । तेन अनेन अवश्यम् आत्त्वम् प्रतीक्ष्यम् । लिट् पुनः अविशेषेण धातुमात्रात् विधीयते । नित्यम् प्रसारणम् । ह्वः यण् । वार्णात् आङ्गम् न पूर्वत्वम् । यः अनादिष्टात् अचः पूर्वः तत्कार्ये स्थानिवत्त्वम् हि प्रोवाच भगवान् कात्यः । तेन असिद्धिः यणः ते । आतः कः । लिट् न । एङः पूर्वः । सिद्धः आह्वः तथा सति ।

KA II,96.13-97.27 Ro III,225-228 kavidhau sarvatra prasāraṇibhyaḥ ḍaḥ . kavidhau sarvatra prasāraṇibhyaḥ ḍaḥ vaktavyaḥ . brahmajyaḥ . kim ucyate sarvatra iti . anyatra api na avaśyam iha eva . hva anyatra . āhvaḥ prahvaḥ iti . ke hi samprasāraṇaprasaṅgaḥ . ke hi sati samprasāraṇam prasajyeta . samprasāraṇe kṛte samprasāraṇapūrvatve ca uvaṅādeśe āhuvaḥ iti etat rūpam syāt . saḥ tarhi vaktavyaḥ . na vaktavyaḥ . astu atra samprasāraṇam . samprasāraṇe kṛte ākāralopaḥ . tasya sthānivadbhāvāt uvaṅādeśaḥ na bhaviṣyati . pūrvatve kṛte prāpnoti . evam tarhi idam iha sampradhāryam . ākāralopaḥ kriyatām pūrvatvam iti . kim atra kartavyam . paratvāt ākāralopaḥ . na sidhyati . antaraṅgatvāt pūrvatvam prāpnoti . evam tarhi vārṇāt āṅgam balīyaḥ bhavati iti ākāralopaḥ bhaviṣyati . evam tarhi idam iha sampradhāryam . ākāralopaḥ kriyatām samprasāraṇam iti . kim atra kartavyam . paratvāt ākāralopaḥ . nityam samprasāraṇam . kṛte api ākāralope prāpnoti akṛte api prāpnoti . ākāralopaḥ api nityaḥ . kṛte api samprasāraṇe prāpnoti akṛte api prāpnoti . anityaḥ ākāralopaḥ . na hi kṛte samprasāraṇe prāpnoti . antaraṅgam hi pūrvatvam bhādhate . yasya lakṣaṇāntareṇa nimittam vihanyate na tat anityam . na ca samprasāraṇam eva ākāralopasya nimittam hanti . avaśyam lakṣaṇāntaram pūrvatvam pratīkṣyam . ubhayoḥ nityayoḥ paratvāt ākāralopaḥ . ākāralope kṛte samprasāraṇam . samprasāraṇe kṛte yaṇādeśe siddham rūpam āhvaḥ prahvaḥ iti . evam api na sidhyati . yaḥ anādiṣṭād acaḥ pūrvaḥ tasya vidhim prati sthānivadbhāvaḥ . ādiṣṭāt ca eṣaḥ acaḥ pūrvaḥ bhavati . evam tarhi ākāralopasya asiddhatvāt uvaṅādeśaḥ na bhaviṣyati . iha api tarhi ākāralopasya asiddhatvāt uvaṅādeśaḥ na syāt . juhuvatuḥ jhuhuvuḥ iti . asti atra viśeṣaḥ . akṛte atra āttve pūrvatvam bhavati . idam iha sampradhāryam āttvam kriyatām pūrvatvam iti . kim atra kartavyam . paratvāt pūrvatvam . na sidhyati . antaraṅgatvāt āttvam prāpnoti . evam tarhi idam iha sampradhāryam . āttvam kriyatām samprasāraṇam iti . kim atra kartavyam . paratvāt āttvam . nityam samprasāraṇam . kṛte api āttve prāpnoti akṛte api . āttvam api nityam . kṛte api samprasāraṇe prāpnoti akṛte api prāpnoti . anityam āttvam . na hi samprasāraṇe kṛte prāpnoti . paratvāt pūrvatvena eva bhavitavyam . yasya lakṣaṇāntareṇa nimittam vihanyate na tat anityam . na ca samprasāraṇam eva āttvasya nimittam vihanti . avaśyam lakṣaṇāntaram pūrvatvam pratīkṣyam . ubhayoḥ nityayoḥ paratvāt ātttve kṛte samprasāraṇam . evam tarhi pūrvatve yogavibhāgaḥ kariṣyate . samprasāraṇāt paraḥ pūrvaḥ bhavati . tata eṅaḥ . eṅaḥ ca samprasāraṇāt pūrvaḥ bhavati . kimartham idam . akṛte āttve pūrvatvam yathā syāt . tataḥ padāntāt ati . eṅaḥ iti eva . iha api tarhi akṛte āttve pūrvatvam syāt . āhvaḥ prahvaḥ iti . asti atra viśeṣaḥ . ākārāntalakṣaṇaḥ kavidhiḥ . tena anena avaśyam āttvam pratīkṣyam . liṭ punaḥ aviśeṣeṇa dhātumātrāt vidhīyate . nityam prasāraṇam . hvaḥ yaṇ . vārṇāt āṅgam na pūrvatvam . yaḥ anādiṣṭāt acaḥ pūrvaḥ tatkārye sthānivattvam hi provāca bhagavān kātyaḥ . tena asiddhiḥ yaṇaḥ te . ātaḥ kaḥ . liṭ na . eṅaḥ pūrvaḥ . siddhaḥ āhvaḥ tathā sati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,९८।२-१२ रो इइइ,२२९ सुपि स्थः भावे च । सुपि स्थः इति अत्र भावे च इति वक्तव्यम् । इह अपि यथा स्यात् । आखूत्थः वर्तते । श्येनोत्थः शलभोत्थः । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । योगविभागात् सिद्धम् । योगविभागः करिष्यते । आतः अनुपसर्गे कः भवति । ततः सुपि । सुपि च अतः कः भवति । कच्छेन पिबति कच्छपः । कटाहेन पिबति कटाहः । द्वाभ्याम् पिबति द्विपः । ततः स्थः । स्थः च कः भवति सुपि इति । किमर्थम् इदम् । भावे यथा स्यात् । कुतः नु खल्वु एतत् भावे भविष्यति न पुनः कर्मादिषु कारकेषु इति । योगविभागात् अयम् कर्तुः अपकृष्यते । न च अन्यस्मिन् अर्थे आदिश्यते । अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति इति स्वार्थे भविष्यन्ति । तत् यथा गुप्तिज्किद्भ्यः सन् यावादिभ्यः कन् । सः असौ स्वार्थे भवन् भावे भविष्यति ।

KA II,98.2-12 Ro III,229 supi sthaḥ bhāve ca . supi sthaḥ iti atra bhāve ca iti vaktavyam . iha api yathā syāt . ākhūtthaḥ vartate . śyenotthaḥ śalabhotthaḥ . tat tarhi vaktavyam . na vaktavyam . yogavibhāgāt siddham . yogavibhāgaḥ kariṣyate . ātaḥ anupasarge kaḥ bhavati . tataḥ supi . supi ca ataḥ kaḥ bhavati . kacchena pibati kacchapaḥ . kaṭāhena pibati kaṭāhaḥ . dvābhyām pibati dvipaḥ . tataḥ sthaḥ . sthaḥ ca kaḥ bhavati supi iti . kimartham idam . bhāve yathā syāt . kutaḥ nu khalvu etat bhāve bhaviṣyati na punaḥ karmādiṣu kārakeṣu iti . yogavibhāgāt ayam kartuḥ apakṛṣyate . na ca anyasmin arthe ādiśyate . anirdiṣṭārthāḥ pratyayāḥ svārthe bhavanti iti svārthe bhaviṣyanti . tat yathā guptijkidbhyaḥ san yāvādibhyaḥ kan . saḥ asau svārthe bhavan bhāve bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,९८।१४-२० रो इइइ,२३० तुन्दशोकयोः परिमृजापनुदोः आलस्यसुखाहरणयोः । तुन्दशोकयोः परिमृजापनुदोः इति अत्र आलस्यसुखाहरणयोः इति वक्तव्यम् । तुन्दपरिमृजः अलसः । शोकापनुदः पुत्रः जातः । यः हि तुन्दम् परिमार्ष्टि तुन्दपरिमार्जः सः भवति । यः च शोकम् अपनुदति शोकापनोदः सः भवति । कप्रकरणे मूलिअविभुजादिभ्यः उपसङ्ख्यानम् । कप्रकरणे मूलिअविभुजादिभ्यः उपसङ्ख्यानम् कर्तव्यम् । मूलविभुजः रथः । नखमुचानि धनूंषि । काकगुहाः तिलाः । सरसीरुहम् कुमुदम् ।

KA II,98.14-20 Ro III,230 tundaśokayoḥ parimṛjāpanudoḥ ālasyasukhāharaṇayoḥ . tundaśokayoḥ parimṛjāpanudoḥ iti atra ālasyasukhāharaṇayoḥ iti vaktavyam . tundaparimṛjaḥ alasaḥ . śokāpanudaḥ putraḥ jātaḥ . yaḥ hi tundam parimārṣṭi tundaparimārjaḥ saḥ bhavati . yaḥ ca śokam apanudati śokāpanodaḥ saḥ bhavati . kaprakaraṇe mūliavibhujādibhyaḥ upasaṅkhyānam . kaprakaraṇe mūliavibhujādibhyaḥ upasaṅkhyānam kartavyam . mūlavibhujaḥ rathaḥ . nakhamucāni dhanūṃṣi . kākaguhāḥ tilāḥ . sarasīruham kumudam .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,९९।२-८ रो इइइ,२३०-२३१ सुरासीध्वोः पिबतेः । सुरासीध्वोः पिबतेः इति वक्तव्यम् । इह मा भूत् । क्षीरपा ब्राह्मणी इति । पिबतेः इति किमर्थम् । या हि सुराम् पाति सुरापा सा भवति । बहुलम् तणि । बहुलम् तणि इति वक्तव्यम् । किम् इदम् तणि इति । सञ्ज्ञाछन्दसोः ग्रहणम् । या ब्राह्मणी सुरापी भवति न एनाम् देवाः पतिलोकम् नयन्ति । या ब्राह्मणी सुरापा भवति न एनाम् देवाः पतिलोकम् नयन्ति ।

KA II,99.2-8 Ro III,230-231 surāsīdhvoḥ pibateḥ . surāsīdhvoḥ pibateḥ iti vaktavyam . iha mā bhūt . kṣīrapā brāhmaṇī iti . pibateḥ iti kimartham . yā hi surām pāti surāpā sā bhavati . bahulam taṇi . bahulam taṇi iti vaktavyam . kim idam taṇi iti . sañjñāchandasoḥ grahaṇam . yā brāhmaṇī surāpī bhavati na enām devāḥ patilokam nayanti . yā brāhmaṇī surāpā bhavati na enām devāḥ patilokam nayanti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,९९।१०-१८ रो इइइ,२३१ अच्प्रकरणे शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधनुःषु घ्रहेः उपसङ्ख्यानम् । अच्प्रकरणे शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधनुःषु घ्रहेः उपसङ्ख्यानम् कर्तव्यम् । शक्तिग्रहः । शक्ति । लाङ्गल । लाङ्गलग्रहः । लाङ्गल । आङ्कुश । आङ्कुशग्रहः । आङ्कुश । यष्टि । यष्टिग्रहः । यष्टि । तोमर । तोमरग्रहः । तोमर । घट । घटग्रहः । घट । घटी । घटीग्रहः । घटी । धनुस् । धनुर्ग्रहः । धनुस् । सूत्रे च धार्यर्थे । सूत्रे च धार्यर्थे ग्रहेः उपसङ्ख्यानम् । सूत्रग्रहः । धार्यर्थे इति किमर्थम् । यः हि सूत्रम् गृह्णाति सूत्रग्राहण् सः भवति ।

KA II,99.10-18 Ro III,231 acprakaraṇe śaktilāṅgalāṅkuśayaṣṭitomaraghaṭaghaṭīdhanuḥṣu ghraheḥ upasaṅkhyānam . acprakaraṇe śaktilāṅgalāṅkuśayaṣṭitomaraghaṭaghaṭīdhanuḥṣu ghraheḥ upasaṅkhyānam kartavyam . śaktigrahaḥ . śakti . lāṅgala . lāṅgalagrahaḥ . lāṅgala . āṅkuśa . āṅkuśagrahaḥ . āṅkuśa . yaṣṭi . yaṣṭigrahaḥ . yaṣṭi . tomara . tomaragrahaḥ . tomara . ghaṭa . ghaṭagrahaḥ . ghaṭa . ghaṭī . ghaṭīgrahaḥ . ghaṭī . dhanus . dhanurgrahaḥ . dhanus . sūtre ca dhāryarthe . sūtre ca dhāryarthe graheḥ upasaṅkhyānam . sūtragrahaḥ . dhāryarthe iti kimartham . yaḥ hi sūtram gṛhṇāti sūtragrāhaṇ saḥ bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,९९।२०-२२ रो इइइ,२३१ स्तम्बकर्णयोः हस्तिसूचकयोः । स्तम्बकर्णयोः इति अत्र हस्तिसूचकयोः इति वक्तव्यम् । स्तम्बेरमः हस्ती । कर्णेजपः सूचकः । सम्बे रन्ता कर्णे जपिता इति एव अन्यत्र ।

KA II,99.20-22 Ro III,231 stambakarṇayoḥ hastisūcakayoḥ . stambakarṇayoḥ iti atra hastisūcakayoḥ iti vaktavyam . stamberamaḥ hastī . karṇejapaḥ sūcakaḥ . sambe rantā karṇe japitā iti eva anyatra .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१००।२-९ रो इइइ,२३१-२३२ धातुग्रहणम् किमर्थम् । शमि सञ्ज्ञयाम् धातुग्रहणम् कृञः हेत्वादिषु टप्रतिषेधार्थम् । शमि सञ्ज्ञयाम् धातुग्रहणम् क्रियते कृञः हेत्वादिषु टः मा भूत् इति । शमि सञ्ज्ञयाम् अच् भवति इति अस्य अवकाशः शम्वदः शम्भवः । टस्य अवकाशः श्राद्धकरः पिण्डकरः । शङ्करा नाम परिव्राजिका । शङ्करा शकुनिका तच्छिला च । तस्याम् उभयम् प्राप्नोति । परत्वात् टः स्यात् । धातुग्रहणसामर्थ्यात् अच् एव भवति । कुणरवाडवः तु आह । न एषा शङ्करा । शङ्गरा एषा । गृणातिः शब्दकर्मा । तस्य एषः प्रयोगः ।

KA II,100.2-9 Ro III,231-232 dhātugrahaṇam kimartham . śami sañjñayām dhātugrahaṇam kṛñaḥ hetvādiṣu ṭapratiṣedhārtham . śami sañjñayām dhātugrahaṇam kriyate kṛñaḥ hetvādiṣu ṭaḥ mā bhūt iti . śami sañjñayām ac bhavati iti asya avakāśaḥ śamvadaḥ śambhavaḥ . ṭasya avakāśaḥ śrāddhakaraḥ piṇḍakaraḥ . śaṅkarā nāma parivrājikā . śaṅkarā śakunikā tacchilā ca . tasyām ubhayam prāpnoti . paratvāt ṭaḥ syāt . dhātugrahaṇasāmarthyāt ac eva bhavati . kuṇaravāḍavaḥ tu āha . na eṣā śaṅkarā . śaṅgarā eṣā . gṛṇātiḥ śabdakarmā . tasya eṣaḥ prayogaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१००।११-२१ रो इइइ,२३२-२३३ अधिकरणे शेतेः पार्श्वादिषु उपसङ्ख्यानम्। अधिकरणे शेतेः पार्श्वादिषु उपसङ्ख्यानम् कर्तव्यम् । पार्श्वशयः पृष्ठशयः उदरशयः । दिग्धसहपूर्वात् च । दिद्घसहपूर्वात् च इति वक्तव्यम् । दिग्धसहशयः । उत्तानादिषु कर्तृषु । उत्तानादिषु कर्तृषु इति वक्तव्यम् । उत्तानशयः अवमूर्धशयः । गिरौ डः छन्दसि । गिरौ उपपदे डः छन्दसि वक्तव्यः । गिरौ शेते गिरिशः । तद्धितः वा । तद्धितः वा पुनः एषः भवति । गिरौ शेते गिरिशः इति ।

KA II,100.11-21 Ro III,232-233 adhikaraṇe śeteḥ pārśvādiṣu upasaṅkhyānam. adhikaraṇe śeteḥ pārśvādiṣu upasaṅkhyānam kartavyam . pārśvaśayaḥ pṛṣṭhaśayaḥ udaraśayaḥ . digdhasahapūrvāt ca . didghasahapūrvāt ca iti vaktavyam . digdhasahaśayaḥ . uttānādiṣu kartṛṣu . uttānādiṣu kartṛṣu iti vaktavyam . uttānaśayaḥ avamūrdhaśayaḥ . girau ḍaḥ chandasi . girau upapade ḍaḥ chandasi vaktavyaḥ . girau śete giriśaḥ . taddhitaḥ vā . taddhitaḥ vā punaḥ eṣaḥ bhavati . girau śete giriśaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१०१।२-६ रो इइइ,२३३ इह कस्मात् न भवति । कुरून् चरति । पञ्चालान् चरति इति । अधिकरणे इति वर्तते । ननु च कर्मणि इति अपि वर्तते । तत्र कुतः एतत् । अधिकरणे भविष्यति न पुनः कर्मणि इति । चरेः भिक्षाग्रहणम् ज्ञपकम् कर्मणि अप्रसङ्गः । यत् अयम् भिक्षासेनादायेषु च इति चरेः भिक्षाग्रहणम् करोति तत् ज्ञापयति आचार्यः न भवति कर्मणि इति ।

KA II,101.2-6 Ro III,233 iha kasmāt na bhavati . kurūn carati . pañcālān carati iti . adhikaraṇe iti vartate . nanu ca karmaṇi iti api vartate . tatra kutaḥ etat . adhikaraṇe bhaviṣyati na punaḥ karmaṇi iti . careḥ bhikṣāgrahaṇam jñapakam karmaṇi aprasaṅgaḥ . yat ayam bhikṣāsenādāyeṣu ca iti careḥ bhikṣāgrahaṇam karoti tat jñāpayati ācāryaḥ na bhavati karmaṇi iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१०१।९-११ रो इइइ,२३४ किंयत्तद्बहुषु कृञः अज्विधानम् । किंयत्तद्बहुषु कृञः अज्विधानम् कर्तव्यम् । किङ्करा । किम् । यत् । यत्करा । यत् । तत् । तत्करा । तत् । बहु । बहुकरा ।

KA II,101.9-11 Ro III,234 kiṃyattadbahuṣu kṛñaḥ ajvidhānam . kiṃyattadbahuṣu kṛñaḥ ajvidhānam kartavyam . kiṅkarā . kim . yat . yatkarā . yat . tat . tatkarā . tat . bahu . bahukarā .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१०१।१३-१४ रो इइइ,२३४ स्तम्बशकृतोः व्रीहिवत्सयोः । व्रीहिवत्सयोः इति वक्तव्यम् । स्तम्बकरिः व्रीहिः । शकृत्करिः वत्सः ।

KA II,101.13-14 Ro III,234 stambaśakṛtoḥ vrīhivatsayoḥ . vrīhivatsayoḥ iti vaktavyam . stambakariḥ vrīhiḥ . śakṛtkariḥ vatsaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१०१।१६-१०२।३ रो इइइ,२३४-२३५ आत्मम्भरिः इति किम् निपात्यते । आत्मनः मुम् भृञः च इन्प्रत्ययः । अत्यल्पम् इदम् उच्यते । भृञः कुक्ष्यात्मनोः मुम् च । भृञः कुक्ष्यात्मनोः मुम् च इति वक्तव्यम् । कुक्षिम्भरः । आत्मम्भरिः चरति यूथम् असेवमानः ।

KA II,101.16-102.3 Ro III,234-235 ātmambhariḥ iti kim nipātyate . ātmanaḥ mum bhṛñaḥ ca inpratyayaḥ . atyalpam idam ucyate . bhṛñaḥ kukṣyātmanoḥ mum ca . bhṛñaḥ kukṣyātmanoḥ mum ca iti vaktavyam . kukṣimbharaḥ . ātmambhariḥ carati yūtham asevamānaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१०२।५-८ रो इइइ,२३५ खश्प्रकरणे वातसुनीतिलशर्धेषु अजधेट्तुदजहातिभ्यः । खश्प्रकरणे वातसुनीतिलशर्धेषु अजधेट्तुदजहातिभ्यः इति वक्तव्यम् । वातमजाः मृगाः । वात । शुनी । शुनीन्धयः । शुनी । तिल । तिलन्द्तुदः । तिल । शर्ध । शर्धञ्जहाः माषाः ।

KA II,102.5-8 Ro III,235 khaśprakaraṇe vātasunītilaśardheṣu ajadheṭtudajahātibhyaḥ . khaśprakaraṇe vātasunītilaśardheṣu ajadheṭtudajahātibhyaḥ iti vaktavyam . vātamajāḥ mṛgāḥ . vāta . śunī . śunīndhayaḥ . śunī . tila . tilandtudaḥ . tila . śardha . śardhañjahāḥ māṣāḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१०२।१०-१७ रो इइइ,२३५-२३६ स्तने धेटः । स्तने धेटः इति वक्तव्यम् । स्तनन्धयः । ततः मुष्टौ ध्मः च । मुष्टौ ध्मः च धेटः च इति वक्तव्यम् । मुष्टिन्धमः मुष्टिधयः । अतयल्पम् इदम् उच्यते । नासिकानाडीमुष्टिघटीखारीषु इति वक्तव्यम् । नासिकन्धमः नासिकन्धयः । नासिक । नाडी । नाडिन्धमः नाडिन्धयः । नाडी । मुष्टि । मुष्टिन्धमः मुष्टिधयः । मुष्टि । घटी । घटिन्धमः घटिन्धयः । घटी । खारी । खारिन्धमः खारिन्धयः । खारी ।

KA II,102.10-17 Ro III,235-236 stane dheṭaḥ . stane dheṭaḥ iti vaktavyam . stanandhayaḥ . tataḥ muṣṭau dhmaḥ ca . muṣṭau dhmaḥ ca dheṭaḥ ca iti vaktavyam . muṣṭindhamaḥ muṣṭidhayaḥ . atayalpam idam ucyate . nāsikānāḍīmuṣṭighaṭīkhārīṣu iti vaktavyam . nāsikandhamaḥ nāsikandhayaḥ . nāsika . nāḍī . nāḍindhamaḥ nāḍindhayaḥ . nāḍī . muṣṭi . muṣṭindhamaḥ muṣṭidhayaḥ . muṣṭi . ghaṭī . ghaṭindhamaḥ ghaṭindhayaḥ . ghaṭī . khārī . khārindhamaḥ khārindhayaḥ . khārī .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१०२।१९-१०३॥४ रो इइइ,२३६ खच्प्रकरणे गमेः सुपि उपसङ्ख्यानम् । खच्प्रकरणे गमेः सुपि उपसङ्ख्यानम् । मितङ्गमः । मितङ्गमा हस्तिनी । विहायसः विह च । विहायसः विह इति अयम् आदेशः वक्तव्यः । खच् च । विहङ्गमः । खच् च डित् वा । खच् च डित् वा वक्तव्यः । विहङ्गः । डे च । डे च विहायसः विह इति अयम् आदेशः वक्तव्यः । विहगः ।

KA II,102.19-103..4 Ro III,236 khacprakaraṇe gameḥ supi upasaṅkhyānam . khacprakaraṇe gameḥ supi upasaṅkhyānam . mitaṅgamaḥ . mitaṅgamā hastinī . vihāyasaḥ viha ca . vihāyasaḥ viha iti ayam ādeśaḥ vaktavyaḥ . khac ca . vihaṅgamaḥ . khac ca ḍit vā . khac ca ḍit vā vaktavyaḥ . vihaṅgaḥ . ḍe ca . ḍe ca vihāyasaḥ viha iti ayam ādeśaḥ vaktavyaḥ . vihagaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१०३।६-१५ रो इइइ,२३६-२३७ डप्रकरणे सर्वत्रपन्नयोः उपसङ्ख्यानम् । डप्रकरणे सर्वत्रपन्नयोः उपसङ्ख्यानम् कर्तव्यम् । सर्वत्रगः पन्नगः । उरसः लोपः च । उरसः लोपः च वक्तव्यः । उरगः । सुदुरोः अधिकरणे । सुदुरोः अधिकरणे डः वक्तव्यः । सुगः दुर्गः । निसः देशे । निसः देशे डः वक्तव्यः । निर्गः । अपर आह । डप्रकरणे अन्येषु अपि दृश्यते । डप्रकरणे अन्येषु अपि दृश्यते इति वक्तव्यम् । ततः स्त्र्यगारगः । अश्नुते यावत् अन्नाय ग्रामगः । ध्वंसते गुरुतल्पगः ।

KA II,103.6-15 Ro III,236-237 ḍaprakaraṇe sarvatrapannayoḥ upasaṅkhyānam . ḍaprakaraṇe sarvatrapannayoḥ upasaṅkhyānam kartavyam . sarvatragaḥ pannagaḥ . urasaḥ lopaḥ ca . urasaḥ lopaḥ ca vaktavyaḥ . uragaḥ . suduroḥ adhikaraṇe . suduroḥ adhikaraṇe ḍaḥ vaktavyaḥ . sugaḥ durgaḥ . nisaḥ deśe . nisaḥ deśe ḍaḥ vaktavyaḥ . nirgaḥ . apara āha . ḍaprakaraṇe anyeṣu api dṛśyate . ḍaprakaraṇe anyeṣu api dṛśyate iti vaktavyam . tataḥ stryagāragaḥ . aśnute yāvat annāya grāmagaḥ . dhvaṃsate gurutalpagaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१०३।१७-१०४।३ रो इइइ,२३७ दारौ आहनः अण् अन्त्यस्य च टः सञ्ज्ञायाम् । दारौ उपपदे आङ्पूर्वात् हन्तेः अण् वक्तव्यः अन्त्यस्य च टः वक्तव्यः । दार्वाघाटः ते वनस्पतीनाम् । चारौ वा । चारौ उपपदे आङ्पूर्वात् हन्तेः अण् वक्तव्यः अन्त्यस्य च टः वा वक्तव्यः । चार्वाघाटः चार्वाघातः । कर्मणि समि च । कर्मणि उपपदे सपूर्वात् हन्तेः अण् वक्तव्यः अन्त्यस्य च टः वा वक्तव्यः । वर्णसङ्घाटः वर्णसङ्घातः पदसङ्घाटः पदसङ्घातः ।

KA II,103.17-104.3 Ro III,237 dārau āhanaḥ aṇ antyasya ca ṭaḥ sañjñāyām . dārau upapade āṅpūrvāt hanteḥ aṇ vaktavyaḥ antyasya ca ṭaḥ vaktavyaḥ . dārvāghāṭaḥ te vanaspatīnām . cārau vā . cārau upapade āṅpūrvāt hanteḥ aṇ vaktavyaḥ antyasya ca ṭaḥ vā vaktavyaḥ . cārvāghāṭaḥ cārvāghātaḥ . karmaṇi sami ca . karmaṇi upapade sapūrvāt hanteḥ aṇ vaktavyaḥ antyasya ca ṭaḥ vā vaktavyaḥ . varṇasaṅghāṭaḥ varṇasaṅghātaḥ padasaṅghāṭaḥ padasaṅghātaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१०४।५-१२ रो इइइ,२३७-२३८ कथम् इदम् विज्ञायते । लक्षणे कर्तरि इति आहोस्वित् लक्षणवति कर्तरि इति । किम् च अतः । यदि विज्ञायते लक्षणे कर्तरि इति सिद्धम् जायाघ्नः तिलकालकः पतिघ्नी पाणिलेखा इति । जायाघ्नः तिलकालकः पतिघ्नी पाणिरेखा इति । जायाघ्नः ब्राह्मणः पतिघ्नी व्र्षली इति न सिध्यति । अथ विज्ञायते लक्षणवति कर्तरि इति सिद्धम् जायाघ्नः ब्राह्मणः पतिघ्नी व्र्षली इति । जायाघ्नः तिलकालकः पतिघ्नी पाणिलेखा इति न सिध्यति । अस्तु लक्षणे कर्तरि इति । कथम् जायाघ्नः , ब्राह्मणः पतिघ्नी व्र्षली इति । अकारः मत्वर्थीयः । जायाघ्नः अस्मिन् अस्ति इति सः अयम् जायाघ्नः । पतिघ्नीवृषली इति न सिध्यति । अस्तु तर्हि लक्षणवति कर्तरि इति । कथम् जायाघ्नः तिलकालकः पतिघ्नी पाणिलेखा इति । अमनुष्यकर्तृके इति एवम् भविष्यति ।

KA II,104.5-12 Ro III,237-238 katham idam vijñāyate . lakṣaṇe kartari iti āhosvit lakṣaṇavati kartari iti . kim ca ataḥ . yadi vijñāyate lakṣaṇe kartari iti siddham jāyāghnaḥ tilakālakaḥ patighnī pāṇilekhā iti . jāyāghnaḥ tilakālakaḥ patighnī pāṇirekhā iti . jāyāghnaḥ brāhmaṇaḥ patighnī vrṣalī iti na sidhyati . atha vijñāyate lakṣaṇavati kartari iti siddham jāyāghnaḥ brāhmaṇaḥ patighnī vrṣalī iti . jāyāghnaḥ tilakālakaḥ patighnī pāṇilekhā iti na sidhyati . astu lakṣaṇe kartari iti . katham jāyāghnaḥ , brāhmaṇaḥ patighnī vrṣalī iti . akāraḥ matvarthīyaḥ . jāyāghnaḥ asmin asti iti saḥ ayam jāyāghnaḥ . patighnīvṛṣalī iti na sidhyati . astu tarhi lakṣaṇavati kartari iti . katham jāyāghnaḥ tilakālakaḥ patighnī pāṇilekhā iti . amanuṣyakartṛke iti evam bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१०४।१४-१७ रो इइइ,२३८ अप्रणिकर्तृके इति वक्तव्यम् । इह मा भूत् । नगरघातः हस्ती । यदि अप्रणिकर्तृके इति उच्यते शशघ्नी शकुनिः इति न सिध्यति । अस्तु तर्हि अमनुष्यकर्तृके इति एव । कथम् नगरघातः हस्ती । कृत्यल्युटः बहुलम् इति एवम् अत्र अण् भविष्यति ।

KA II,104.14-17 Ro III,238 apraṇikartṛke iti vaktavyam . iha mā bhūt . nagaraghātaḥ hastī . yadi apraṇikartṛke iti ucyate śaśaghnī śakuniḥ iti na sidhyati . astu tarhi amanuṣyakartṛke iti eva . katham nagaraghātaḥ hastī . kṛtyalyuṭaḥ bahulam iti evam atra aṇ bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१०४।१९-२० रो इइइ,२३८ राजघे उपसङ्ख्यानम् । राजघे उपसङ्ख्यानम् कर्तव्यम् । राजघः ।

KA II,104.19-20 Ro III,238 rājaghe upasaṅkhyānam . rājaghe upasaṅkhyānam kartavyam . rājaghaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१०५।३-२० रो इइइ,२३८-२४० ख्युनि च्विप्रतिषेधानर्थक्यम् ल्युट्ख्य्नोः अविशेषात् । ख्युनि च्विप्रतिषेधः अनर्थकः । किम् कारणम् । ल्युट्ख्य्नोः अविशेषात् । ख्युना मुक्ते ल्युटा भवितव्यम् । न च अस्ति विशेषः च्व्यन्ते उपपदे ल्युटः ख्युनः वा । तत् एव रूपम् सः एव स्वरः । अयम् अस्ति विशेषः । ल्युटि सति ईकारेण भवितव्यम् । ख्युनि सति न भवितव्यम् । ख्युनि अपि सति भवतव्यम् । एवम् हि सौनागाः पठन्ति । नञ्स्नञीक्ख्युंस्तरुणतलुनानाम् उपसङ्ख्यानम् इति । अयम् तर्हि विशेषः । ख्युनि सति नित्यसमासेन भवितव्यम् । उपपदसमासः हि नित्यसमासः इति । ल्युटि सति न भवितव्यम् । ल्युटि अपि भवितव्यम् । गतिसमासः अपि हि नित्यसमासः । च्य्वन्तम् च गतिसञ्ज्ञम् भवति । मुमर्थम् तर्हि प्रतिषेधः वक्तव्यः । ख्युनि सति मुमा भवितव्यम् । ल्युति सति न भवितव्यम् । मुमर्थम् इति चेत् न अव्ययत्वात् । मुमर्थम् इति चेत् तत् न । किम् कारणम् । अव्ययत्वात् । अनव्ययस्य मुम् उच्यते । च्व्यन्तम् च अव्ययसञ्ज्ञम् । उत्तरार्थम् तु । उत्तरार्थम् तर्हि प्रतिषेधः वक्तव्यः । कर्तरि भुवः खिष्णुच्खुकञौ अच्वौ इति एव । आढ्यीभविता । अथ इदानीम् अनेन मुक्ते ताच्छीलिलः इष्णुच् विधीयते । सः अत्र कस्मात् न भवति । रूढिशब्दप्रकाराः तच्छीलिकाः । न च रूड्ःइशब्दाः गतिभिः विशेष्यन्ते । न हि भवति प्रदेवदत्तः इति ।

KA II,105.3-20 Ro III,238-240 khyuni cvipratiṣedhānarthakyam lyuṭkhynoḥ aviśeṣāt . khyuni cvipratiṣedhaḥ anarthakaḥ . kim kāraṇam . lyuṭkhynoḥ aviśeṣāt . khyunā mukte lyuṭā bhavitavyam . na ca asti viśeṣaḥ cvyante upapade lyuṭaḥ khyunaḥ vā . tat eva rūpam saḥ eva svaraḥ . ayam asti viśeṣaḥ . lyuṭi sati īkāreṇa bhavitavyam . khyuni sati na bhavitavyam . khyuni api sati bhavatavyam . evam hi saunāgāḥ paṭhanti . nañsnañīkkhyuṃstaruṇatalunānām upasaṅkhyānam iti . ayam tarhi viśeṣaḥ . khyuni sati nityasamāsena bhavitavyam . upapadasamāsaḥ hi nityasamāsaḥ iti . lyuṭi sati na bhavitavyam . lyuṭi api bhavitavyam . gatisamāsaḥ api hi nityasamāsaḥ . cyvantam ca gatisañjñam bhavati . mumartham tarhi pratiṣedhaḥ vaktavyaḥ . khyuni sati mumā bhavitavyam . lyuti sati na bhavitavyam . mumartham iti cet na avyayatvāt . mumartham iti cet tat na . kim kāraṇam . avyayatvāt . anavyayasya mum ucyate . cvyantam ca avyayasañjñam . uttarārtham tu . uttarārtham tarhi pratiṣedhaḥ vaktavyaḥ . kartari bhuvaḥ khiṣṇuckhukañau acvau iti eva . āḍhyībhavitā . atha idānīm anena mukte tācchīlilaḥ iṣṇuc vidhīyate . saḥ atra kasmāt na bhavati . rūḍhiśabdaprakārāḥ tacchīlikāḥ . na ca rūḍḥiśabdāḥ gatibhiḥ viśeṣyante . na hi bhavati pradevadattaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१०५।२२-१०६।११ रो इइइ,२४०-२४१ किमर्थम् खिष्णुच् इकारादिः क्रियते न क्स्नुः इति एव उच्येत । तत्र अयम् अपि अर्थः । स्वरार्थः चकारः न कर्तव्यः भवति । केन इदानीम् इकारादित्वम् क्रियते । इष्णुचः इकारादित्वम् उदात्तत्वात् कृतम् भुवः । भवतेः उदात्तत्वात् इकारादित्वम् भविष्यति । इदम् तर्हि प्रयोजनम् । खित् अयम् क्रियते । तत्र चर्त्वे कृते स्यात् । कित् वा खित् वा इति । सन्देहमात्रम् एतत् भवति । सर्वसन्देहेषु च इदम् उपतिष्ठते । व्याख्यानतः विशेषप्रतिपत्तिः । न हि सन्देहात् अलक्षणम् इति । खित् इति व्याख्यास्यामः । नञः तु स्वरसिद्ध्यर्थम् इकारादित्वम् इष्णुचः । इदम् तर्हि प्रयोजनम् । कृत्योकेष्णुच्चार्वादयः च इति एषः स्वरः यथा स्यात् । एतत् अपि न अस्ति प्रयोजनम् । अयम् अपि इटि कृते षत्वे च इष्णुच् भविष्यति । न सिध्यति । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति । अथ वा असिद्धम् खलु अपि षत्वम् । षत्वस्य असिद्धत्वात् इस्नुच् एव भवति । इष्णुचः इकारादित्वम् उदात्तत्वात् कृतम् भुवः । नञः तु स्वरसिद्ध्यर्थम् इकारादित्वम् इष्णुचः ।

KA II,105.22-106.11 Ro III,240-241 kimartham khiṣṇuc ikārādiḥ kriyate na ksnuḥ iti eva ucyeta . tatra ayam api arthaḥ . svarārthaḥ cakāraḥ na kartavyaḥ bhavati . kena idānīm ikārāditvam kriyate . iṣṇucaḥ ikārāditvam udāttatvāt kṛtam bhuvaḥ . bhavateḥ udāttatvāt ikārāditvam bhaviṣyati . idam tarhi prayojanam . khit ayam kriyate . tatra cartve kṛte syāt . kit vā khit vā iti . sandehamātram etat bhavati . sarvasandeheṣu ca idam upatiṣṭhate . vyākhyānataḥ viśeṣapratipattiḥ . na hi sandehāt alakṣaṇam iti . khit iti vyākhyāsyāmaḥ . nañaḥ tu svarasiddhyartham ikārāditvam iṣṇucaḥ . idam tarhi prayojanam . kṛtyokeṣṇuccārvādayaḥ ca iti eṣaḥ svaraḥ yathā syāt . etat api na asti prayojanam . ayam api iṭi kṛte ṣatve ca iṣṇuc bhaviṣyati . na sidhyati . lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti . atha vā asiddham khalu api ṣatvam . ṣatvasya asiddhatvāt isnuc eva bhavati . iṣṇucaḥ ikārāditvam udāttatvāt kṛtam bhuvaḥ . nañaḥ tu svarasiddhyartham ikārāditvam iṣṇucaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१०६।१३-१९ रो इइइ,२४१-२४२ किमर्थः नकारः । ञ्निति इति आद्युदात्तत्वम् यथा स्यात् । न एतत् अस्ति प्रयोजनम् । एकाचः अयम् विधीयते । तत्र न अर्थः स्वरार्थेन नकारेण अनुबन्धेन । धातुस्वरेण एव सिद्धम् । यः तर्हि अनेकाच् । दधृक् इति । वक्ष्यति एतत् धृषेः द्विर्वचनम् अन्तोदात्तत्वम् च निपात्यते इति । विशेषणार्थः तर्हि । क्व विशेषनार्थेन अर्थः । क्विन्प्रत्ययस्य कुः इति । क्विप्रत्ययस्य कुः इति उच्यमाने सन्देहः स्यात् । क्विः वा एषः प्रत्ययः क्विप् वा इति । सन्देहमात्रम् एतत् भवति । सर्वसन्देहेषु च इदम् उपतिष्ठते । व्याख्यानतः विशेषप्रतिपत्तिः । न हि सन्देहात् अलक्षणम् इति । क्क्विप्रत्ययस्य इति व्याख्यास्यामः ।

KA II,106.13-19 Ro III,241-242 kimarthaḥ nakāraḥ . ñniti iti ādyudāttatvam yathā syāt . na etat asti prayojanam . ekācaḥ ayam vidhīyate . tatra na arthaḥ svarārthena nakāreṇa anubandhena . dhātusvareṇa eva siddham . yaḥ tarhi anekāc . dadhṛk iti . vakṣyati etat dhṛṣeḥ dvirvacanam antodāttatvam ca nipātyate iti . viśeṣaṇārthaḥ tarhi . kva viśeṣanārthena arthaḥ . kvinpratyayasya kuḥ iti . kvipratyayasya kuḥ iti ucyamāne sandehaḥ syāt . kviḥ vā eṣaḥ pratyayaḥ kvip vā iti . sandehamātram etat bhavati . sarvasandeheṣu ca idam upatiṣṭhate . vyākhyānataḥ viśeṣapratipattiḥ . na hi sandehāt alakṣaṇam iti . kkvipratyayasya iti vyākhyāsyāmaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१०६।२१-२३ रो इइइ,२४२ दधृक् इति किम् निपात्यते । धृषेः द्विर्वचनम् अन्तोदात्तत्वम् च । धृषेः द्विर्वचनम् अन्तोदात्तत्वम् च निपात्यते ।

KA II,106.21-23 Ro III,242 dadhṛk iti kim nipātyate . dhṛṣeḥ dvirvacanam antodāttatvam ca . dhṛṣeḥ dvirvacanam antodāttatvam ca nipātyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१०७।२-५ रो इइइ,२४२ किमर्थः ञकारः । स्वरार्थः । ञ्निति इति आद्युदात्तत्वम् यथा स्यात् । न एतत् अस्ति प्रयोजनम् । नकारेण अपि एषः स्वरः सिद्धः । विशेषणार्थः तर्हि भविष्यति । क्व विशेषणार्थेन अर्थः । कञ्क्वरप् इति । कन्क्वरप् इति उच्यामाने याचितिका अत्र अपि प्रसज्येत ॥

KA II,107.2-5 Ro III,242 kimarthaḥ ñakāraḥ . svarārthaḥ . ñniti iti ādyudāttatvam yathā syāt . na etat asti prayojanam . nakāreṇa api eṣaḥ svaraḥ siddhaḥ . viśeṣaṇārthaḥ tarhi bhaviṣyati . kva viśeṣaṇārthena arthaḥ . kañkvarap iti . kankvarap iti ucyāmāne yācitikā atra api prasajyeta ..

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१०७।६-१५ रो इइइ,२४२-२४३ दृशेः समानान्ययोः च उपसङ्ख्यानम् । दृशेः समानान्ययोः च उपसङ्ख्यानम् कर्तव्यम् । सदृक् सदृशः अन्यादृक् अन्यादृशः । कृदर्थानुपपत्तिः तु । कृदर्थः तु न उपपद्यते । दृशेः कर्तरि प्राप्नोति । इवार्थे तु तद्धितः । इवार्थे अयम् तद्धितः द्रष्टव्यः । सः इव अयम् तादृक् । अन्य इव अयम् अन्यादृक् । अथ वा युक्तः एव अत्र कृदर्थः । कर्मकर्ता अयम् । तम् इव इमम् पश्यन्ति जनाः । सः अयम् सः इव दृश्यमानः तम् इव आत्मानम् पश्यति । तादृक् । अन्यम् इव इमम् पश्यन्ति जनाः । सः अयम् अन्यः इव दृश्यमानः अन्यम् इव आत्मानम् पश्यति । अन्यादृक् इति ।

KA II,107.6-15 Ro III,242-243 dṛśeḥ samānānyayoḥ ca upasaṅkhyānam . dṛśeḥ samānānyayoḥ ca upasaṅkhyānam kartavyam . sadṛk sadṛśaḥ anyādṛk anyādṛśaḥ . kṛdarthānupapattiḥ tu . kṛdarthaḥ tu na upapadyate . dṛśeḥ kartari prāpnoti . ivārthe tu taddhitaḥ . ivārthe ayam taddhitaḥ draṣṭavyaḥ . saḥ iva ayam tādṛk . anya iva ayam anyādṛk . atha vā yuktaḥ eva atra kṛdarthaḥ . karmakartā ayam . tam iva imam paśyanti janāḥ . saḥ ayam saḥ iva dṛśyamānaḥ tam iva ātmānam paśyati . tādṛk . anyam iva imam paśyanti janāḥ . saḥ ayam anyaḥ iva dṛśyamānaḥ anyam iva ātmānam paśyati . anyādṛk iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१०७।१८-२१ रो इइइ,२४३-२४४ सदादिषु सुब्ग्रहणम् । सदादिषु सुब्ग्रहणम् कर्तव्यम् । होता वेदिषत् । अतिथिः चुरोणसत् । न तर्हि इदानीम् उपसर्गे अपि इति वक्तव्यम् । वक्तव्यम् च । किम् प्रयोजनम् । ज्ञापकार्थम् । किम् ज्ञाप्यम् । एतत् ज्ञापयति आचार्यः । अन्यत्र सुब्ग्रहणे उपसर्गग्रहणम् न भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । वदः सुपि अनुपसर्गग्रहणम् चोदितम् । तत् न वक्तव्यम् भवति ।

KA II,107.18-21 Ro III,243-244 sadādiṣu subgrahaṇam . sadādiṣu subgrahaṇam kartavyam . hotā vediṣat . atithiḥ curoṇasat . na tarhi idānīm upasarge api iti vaktavyam . vaktavyam ca . kim prayojanam . jñāpakārtham . kim jñāpyam . etat jñāpayati ācāryaḥ . anyatra subgrahaṇe upasargagrahaṇam na bhavati iti . kim etasya jñāpane prayojanam . vadaḥ supi anupasargagrahaṇam coditam . tat na vaktavyam bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१०८।२-६ रो इइइ,२४४ किमर्थम् इदम् उच्यते न अदः अनन्ने इति एव सिद्धम् । न सिध्यति । छन्दसि इति एतत् अनुवर्तते । भाषार्थः अयम् आरम्भः । पूर्वस्मिन् एव योगे छन्दोग्रहणम् निवृत्तम् । तत् च अवश्यम् निवर्त्यम् अमात् इति एवमर्थम् । अतः उत्तरम् पठति । अदः अनन्ने क्रव्येग्रहणम् वासरूपनिवृत्त्यर्थम् । अदः अनन्ने क्रव्येग्रहणम् क्रियते वासरूपः मा भूत् ।

KA II,108.2-6 Ro III,244 kimartham idam ucyate na adaḥ ananne iti eva siddham . na sidhyati . chandasi iti etat anuvartate . bhāṣārthaḥ ayam ārambhaḥ . pūrvasmin eva yoge chandograhaṇam nivṛttam . tat ca avaśyam nivartyam amāt iti evamartham . ataḥ uttaram paṭhati . adaḥ ananne kravyegrahaṇam vāsarūpanivṛttyartham . adaḥ ananne kravyegrahaṇam kriyate vāsarūpaḥ mā bhūt .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१०८।८-१८ रो इइइ,२४५-२४६ श्वेतवहादीनां डस् । श्वेतवहादीनां डस् वक्तव्यः । श्वेतवाः इन्द्रः । पदस्य च । पदस्य च इति वक्तव्यम् । इह मा भूत् । श्वेतवाहौ श्वेतवाहः । किम् प्रयोजनम् । र्वर्थम् । रुः यथा स्यात् । क्रियते र्वर्थम् निपातनम् । अवयाः श्वेतवाः पुरोडाः च इति । आतः च र्वर्थम् । उक्थशस्शब्दस्य सामान्येन रुः सिद्धः । न तस्य निपातनम् क्रियते । तत् न वक्तव्यम् । अवश्यम् तत् वक्तव्यम् दीर्घार्थम् । न एतत् अस्ति प्रयोजनम् । सिद्धम् अत्र दीर्घत्वम् अत्वसन्तस्य च अधातोः इति । यत्र तेन न सिध्यति तदर्थम् । क्व च तेन न सिध्यति । सम्बुद्धौ । हे श्वेतवाः इति । न तर्हि इदानीम् डस् वक्तव्यः । वक्तव्यः च । किम् प्रयोजनम् । उत्तराऋथम् । श्वेतवोभ्याम् श्वेतवोभिः ।

KA II,108.8-18 Ro III,245-246 śvetavahādīnāṃ ḍas . śvetavahādīnāṃ ḍas vaktavyaḥ . śvetavāḥ indraḥ . padasya ca . padasya ca iti vaktavyam . iha mā bhūt . śvetavāhau śvetavāhaḥ . kim prayojanam . rvartham . ruḥ yathā syāt . kriyate rvartham nipātanam . avayāḥ śvetavāḥ puroḍāḥ ca iti . ātaḥ ca rvartham . ukthaśasśabdasya sāmānyena ruḥ siddhaḥ . na tasya nipātanam kriyate . tat na vaktavyam . avaśyam tat vaktavyam dīrghārtham . na etat asti prayojanam . siddham atra dīrghatvam atvasantasya ca adhātoḥ iti . yatra tena na sidhyati tadartham . kva ca tena na sidhyati . sambuddhau . he śvetavāḥ iti . na tarhi idānīm ḍas vaktavyaḥ . vaktavyaḥ ca . kim prayojanam . uttarāṛtham . śvetavobhyām śvetavobhiḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१०८।२०-१०९।३ रो इइइ,२४६ किमर्थम् स्थः कक्विपौ उच्येते न क्विप् सिद्धः अन्येभ्यः अपि दृश्यते इति कः च आतः अनुपसर्गे कः इति । न सिध्यति । विशेष्विहितः कः सामान्यविहितम् क्विपम् बाधते। वासरूपेण क्विप् अपि भविष्यति । इदम् तर्हि शंस्थः शंस्थाः । उक्तम् एतत् । शमि सञ्ज्ञायाम् धातुग्रहणम् कृञः हेत्वादिषु टप्रतिषेधार्थम् इति । सः यथा एव अच् टम् बाधते एवम् कक्विपौ अपि बाधेत ।

KA II,108.20-109.3 Ro III,246 kimartham sthaḥ kakvipau ucyete na kvip siddhaḥ anyebhyaḥ api dṛśyate iti kaḥ ca ātaḥ anupasarge kaḥ iti . na sidhyati . viśeṣvihitaḥ kaḥ sāmānyavihitam kvipam bādhate. vāsarūpeṇa kvip api bhaviṣyati . idam tarhi śaṃsthaḥ śaṃsthāḥ . uktam etat . śami sañjñāyām dhātugrahaṇam kṛñaḥ hetvādiṣu ṭapratiṣedhārtham iti . saḥ yathā eva ac ṭam bādhate evam kakvipau api bādheta .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१०९।५-१० रो इइइ,२४७ सुपि इति वर्तमाने पुनः सुब्ग्रहणम् किमर्थम् । अनुपसर्गे इति एवम् तत् अभूत् । इदम् सुब्मात्रे यथा स्यात् । प्रत्यासारिण्यः उदासारिण्यः । णिन्विधौ साधुकारिणि उपसङ्ख्यानम् । णिन्विधौ साधुकारिणि उपसङ्ख्यानम् कर्तव्यम् । साधुकारी साधुदायी । ब्रह्मणि वदः । ब्रह्मणि वदः उपसङ्ख्यानम् कर्तव्यम् । ब्रह्मवादिनः वदन्ति ।

KA II,109.5-10 Ro III,247 supi iti vartamāne punaḥ subgrahaṇam kimartham . anupasarge iti evam tat abhūt . idam submātre yathā syāt . pratyāsāriṇyaḥ udāsāriṇyaḥ . ṇinvidhau sādhukāriṇi upasaṅkhyānam . ṇinvidhau sādhukāriṇi upasaṅkhyānam kartavyam . sādhukārī sādhudāyī . brahmaṇi vadaḥ . brahmaṇi vadaḥ upasaṅkhyānam kartavyam . brahmavādinaḥ vadanti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१०९।१२-२० रो इइइ,२४७-२४८ किम् उदाहरणम् । अश्राद्धभोजी । किम् यः अश्राद्धम् भुङ्क्ते सः अश्राद्धभोजी । किम् च अतः । यदा असौ अश्राद्धम् न भुङ्क्ते तदा अस्य व्रतलोपः स्यात् । तत् यथा : स्थायी यदा न तिष्थति तदा अस्य व्रतलोपः भवति । एवम् तर्हि णिन्यन्तेन समासः भविष्यति : न श्राद्धभोजी अश्राद्धभोजी । न एवम् शक्यम् । स्वरे हि दोषः स्यात् । अश्राद्धभोजी इति एवम् स्वरः प्रसज्येत । अश्राद्धभोजी इति च इष्यते । एवम् तर्हि नञः एव अयम् भुजिप्रतिषेधवाचिनः श्राद्धशब्देन असमर्थसमासः : न भोजी श्राद्धस्य इति । सः तर्हि असमर्थसमासः वक्तव्यः । यदि अपि वक्तव्यः अथ वा एतर्हि बहूनि प्रयोजनानि । कानि । असूर्यम्पश्यानि मुखानि । अपूर्वगेयाः श्लोकाः । अश्राद्धभोजी ब्राह्मणः । सुट् अनपुंसकस्य इति ।

KA II,109.12-20 Ro III,247-248 kim udāharaṇam . aśrāddhabhojī . kim yaḥ aśrāddham bhuṅkte saḥ aśrāddhabhojī . kim ca ataḥ . yadā asau aśrāddham na bhuṅkte tadā asya vratalopaḥ syāt . tat yathā : sthāyī yadā na tiṣthati tadā asya vratalopaḥ bhavati . evam tarhi ṇinyantena samāsaḥ bhaviṣyati : na śrāddhabhojī aśrāddhabhojī . na evam śakyam . svare hi doṣaḥ syāt . aśrāddhabhojī iti evam svaraḥ prasajyeta . aśrāddhabhojī iti ca iṣyate . evam tarhi nañaḥ eva ayam bhujipratiṣedhavācinaḥ śrāddhaśabdena asamarthasamāsaḥ : na bhojī śrāddhasya iti . saḥ tarhi asamarthasamāsaḥ vaktavyaḥ . yadi api vaktavyaḥ atha vā etarhi bahūni prayojanāni . kāni . asūryampaśyāni mukhāni . apūrvageyāḥ ślokāḥ . aśrāddhabhojī brāhmaṇaḥ . suṭ anapuṃsakasya iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१०९।२२-११०।१६ रो इइइ,२४८-२५० आत्मग्रहणम् किमर्थम् । परमाने मा भूत् । क्रियमाणे अपि आत्मग्रहणे परमाने प्राप्नोति । किम् कारणम् । आत्मनः इति इयम् कर्तरि षष्ठी मानः इति अकारः भावे । सः यदि एव आत्मानम् मन्यते अथ अपि परम् आत्मनः एव असौ मानः भवति । न एषः दोषः । आत्मनः इति कर्मणि षष्ठी । कथम् । कर्तृकर्मणोः कृति इति । ननु च कर्तरि अपि वै एतेन एव विधीयते । तत्र कुतः एतत् कर्मणि भविष्यति न पुनः कर्तरि इति । एवम् तर्हि कर्मकर्तरि च । कर्मकर्तरि च इति वक्तव्यम् । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । आत्मनः इति कर्मणि षष्ठी । कथम् । कर्तृकर्मणोः कृति इति । ननु च उक्तम् कर्तरि अपि वै एतेन एव विधीयते । तत्र कुतः एतत् कर्मणि भविष्यति न पुनः कर्तरि इति । आत्मग्रहणसामर्थ्यात् कर्मणि विज्ञास्यते । एवम् अपि कर्मकर्तृग्रहणम् कर्तव्यम् कर्मापदिष्टः यक् यथा स्यात् श्यन् मा भूत् इति । कः च अत्र विशेषः यकः वा श्यनः वा । यकि सति अन्तोदात्तत्वेन भवितयम् श्यनि सति आद्युदात्तत्वेन । श्यनि अपि सति अन्तोदात्तत्वेन एव भवितव्यम् । कथम् । खशः स्वरः श्यनः स्वरम् बाधिष्यते । सति शिष्टत्वात् श्यनः स्वरः प्राप्नोति । आचार्यप्रवृत्तिः ज्ञापयति सति शिष्टः अपि विकरणस्वरः सार्वधातुकस्वरम् न बाधते इति यत् अयम् तासेः परस्य लसार्वधातुकस्य अनुदात्तत्वम् शास्ति । लसार्वधातुके एतत् ज्ञापकम् स्यात् । न इति आह । अविशेषेण ज्ञापकम् ।

KA II,109.22-110.16 Ro III,248-250 ātmagrahaṇam kimartham . paramāne mā bhūt . kriyamāṇe api ātmagrahaṇe paramāne prāpnoti . kim kāraṇam . ātmanaḥ iti iyam kartari ṣaṣṭhī mānaḥ iti akāraḥ bhāve . saḥ yadi eva ātmānam manyate atha api param ātmanaḥ eva asau mānaḥ bhavati . na eṣaḥ doṣaḥ . ātmanaḥ iti karmaṇi ṣaṣṭhī . katham . kartṛkarmaṇoḥ kṛti iti . nanu ca kartari api vai etena eva vidhīyate . tatra kutaḥ etat karmaṇi bhaviṣyati na punaḥ kartari iti . evam tarhi karmakartari ca . karmakartari ca iti vaktavyam . tat tarhi vaktavyam . na vaktavyam . ātmanaḥ iti karmaṇi ṣaṣṭhī . katham . kartṛkarmaṇoḥ kṛti iti . nanu ca uktam kartari api vai etena eva vidhīyate . tatra kutaḥ etat karmaṇi bhaviṣyati na punaḥ kartari iti . ātmagrahaṇasāmarthyāt karmaṇi vijñāsyate . evam api karmakartṛgrahaṇam kartavyam karmāpadiṣṭaḥ yak yathā syāt śyan mā bhūt iti . kaḥ ca atra viśeṣaḥ yakaḥ vā śyanaḥ vā . yaki sati antodāttatvena bhavitayam śyani sati ādyudāttatvena . śyani api sati antodāttatvena eva bhavitavyam . katham . khaśaḥ svaraḥ śyanaḥ svaram bādhiṣyate . sati śiṣṭatvāt śyanaḥ svaraḥ prāpnoti . ācāryapravṛttiḥ jñāpayati sati śiṣṭaḥ api vikaraṇasvaraḥ sārvadhātukasvaram na bādhate iti yat ayam tāseḥ parasya lasārvadhātukasya anudāttatvam śāsti . lasārvadhātuke etat jñāpakam syāt . na iti āha . aviśeṣeṇa jñāpakam .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१११।२-११२।४ रो इइइ,२५०-२५४ भूते इति उच्यते । कस्मिन् भूते । काले । न वै कालाधिकारः अस्ति । एवम् तर्हि धातोः इति वर्तते । धातौ भूते । धातुः वै शब्दः । न च शब्दस्य भूतभविष्यद्वर्तमानतायाम् सम्भवः अस्ति । शब्दे असम्भवात् अर्थे कार्यम् विज्ञास्यते । कः पुनः धात्वर्थः । क्रिया । क्रियायाम् भूतायाम् । यदि एवम् निष्ठायाम् इतरेतराश्रयत्वात् अप्रसिद्धिः । निष्ठायाम् इतरेतराश्रयत्वात् अप्रसिद्धिः । का इतरेतराश्रयता । भूतकालेन शब्देन निर्देशः क्रियते । निर्देशोत्तरकालम् च भूतकालता । तत् एतत् इतरेतराश्रयम् भवति । इतरेतराश्रयाणि च न प्रकल्पन्ते । अव्ययनिर्देशात् सिद्धम् । अव्ययवता शब्देन निर्देशः करिष्यते । अवर्तमाने अभविष्यति इति । सः तर्हि अव्ययवता शब्देन निर्देशः कर्तव्यः । न कर्तव्यः । अव्ययम् एषः भूतेशब्दः न भवतेः निष्ठा । कथम् अव्ययत्वम् । विभक्तिस्वरप्रतिरूपकाः च निपाताः भवन्ति इति निपातसञ्ज्ञा । निपातम् अव्ययम् इति अवययसञ्ज्ञा । अथ अपि भवतेः निष्ठा एवम् अपि अवययम् एव । कथम् न व्येति इति अव्ययम् । क्व पुनः न व्येति । एतौ कालविशेषौ वर्तमानभविष्यन्तौ । स्वभावतः भूते एव वर्तते । यदि तत्रि न व्येति इति अव्ययम् । न वा तद्विधानस्य अन्यत्र अभावात् । न वा भूताधिकारेण अर्थः । किम् कारणम् । तद्विधानस्य अन्यत्र अभावात् । ये अपि एते इतः उत्तरम् प्रत्ययाः शिष्यन्ते एते अपि एतौ कालविशेषौ न वियन्ति वर्तमानभविष्यन्तौ । स्वभावतः एव ते भूते एव वर्तन्ते । अतः उत्तरम् पठति । भूताधिकारस्य प्रयोजनम् कुमारघाती शीर्षघाती आखुहा बिडालः सुत्वानः सुनवन्तः सुषुपुषः अनेहाः अग्निम् आदधानस्य । कुमारघाती शीर्षघाती इति भविष्यद्वर्तमानार्थः भूतनिवृत्त्यर्थः । आखुहा बिडालः इति भविष्यद्वर्तमानार्थः । इतरथा हि ब्रह्मादिषु नियमः त्रिषु कालेषु निवर्तकः स्यात् । सुत्वानः सुन्वन्तः । यज्ञसंयोगे ङ्वनिपः त्रिषु कालेषु शता अपवादः मा भूत् । सुषुपुषः । नजिङ् सर्वकालपवादः मा भूत् । अनेहाः इति वर्तमानकालः एव । अन्यत्र अनाहन्ता । आदधानस्य । कानचः चानश् ताच्छीलादिषु सर्वकालापवादः मा भूत् । अग्निम् आदधानस्य । आदधानस्य इति एव अन्यत्र ।

KA II,111.2-112.4 Ro III,250-254 bhūte iti ucyate . kasmin bhūte . kāle . na vai kālādhikāraḥ asti . evam tarhi dhātoḥ iti vartate . dhātau bhūte . dhātuḥ vai śabdaḥ . na ca śabdasya bhūtabhaviṣyadvartamānatāyām sambhavaḥ asti . śabde asambhavāt arthe kāryam vijñāsyate . kaḥ punaḥ dhātvarthaḥ . kriyā . kriyāyām bhūtāyām . yadi evam niṣṭhāyām itaretarāśrayatvāt aprasiddhiḥ . niṣṭhāyām itaretarāśrayatvāt aprasiddhiḥ . kā itaretarāśrayatā . bhūtakālena śabdena nirdeśaḥ kriyate . nirdeśottarakālam ca bhūtakālatā . tat etat itaretarāśrayam bhavati . itaretarāśrayāṇi ca na prakalpante . avyayanirdeśāt siddham . avyayavatā śabdena nirdeśaḥ kariṣyate . avartamāne abhaviṣyati iti . saḥ tarhi avyayavatā śabdena nirdeśaḥ kartavyaḥ . na kartavyaḥ . avyayam eṣaḥ bhūteśabdaḥ na bhavateḥ niṣṭhā . katham avyayatvam . vibhaktisvarapratirūpakāḥ ca nipātāḥ bhavanti iti nipātasañjñā . nipātam avyayam iti avayayasañjñā . atha api bhavateḥ niṣṭhā evam api avayayam eva . katham na vyeti iti avyayam . kva punaḥ na vyeti . etau kālaviśeṣau vartamānabhaviṣyantau . svabhāvataḥ bhūte eva vartate . yadi tatri na vyeti iti avyayam . na vā tadvidhānasya anyatra abhāvāt . na vā bhūtādhikāreṇa arthaḥ . kim kāraṇam . tadvidhānasya anyatra abhāvāt . ye api ete itaḥ uttaram pratyayāḥ śiṣyante ete api etau kālaviśeṣau na viyanti vartamānabhaviṣyantau . svabhāvataḥ eva te bhūte eva vartante . ataḥ uttaram paṭhati . bhūtādhikārasya prayojanam kumāraghātī śīrṣaghātī ākhuhā biḍālaḥ sutvānaḥ sunavantaḥ suṣupuṣaḥ anehāḥ agnim ādadhānasya . kumāraghātī śīrṣaghātī iti bhaviṣyadvartamānārthaḥ bhūtanivṛttyarthaḥ . ākhuhā biḍālaḥ iti bhaviṣyadvartamānārthaḥ . itarathā hi brahmādiṣu niyamaḥ triṣu kāleṣu nivartakaḥ syāt . sutvānaḥ sunvantaḥ . yajñasaṃyoge ṅvanipaḥ triṣu kāleṣu śatā apavādaḥ mā bhūt . suṣupuṣaḥ . najiṅ sarvakālapavādaḥ mā bhūt . anehāḥ iti vartamānakālaḥ eva . anyatra anāhantā . ādadhānasya . kānacaḥ cānaś tācchīlādiṣu sarvakālāpavādaḥ mā bhūt . agnim ādadhānasya . ādadhānasya iti eva anyatra .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,११२।६-१५ रो इइइ,२५४-२५५ किमर्थम् ब्रह्मादिषु हन्तेः क्विप् विधीयते । न क्विप् च अन्येभ्यः अपि दृश्यते इति एव सिद्धम् । ब्रह्मादिषु हन्तेः क्विब्वचनम् नियमार्थम् । नियमार्थः अयम् आरम्भः । ब्रह्मादिषु एव हन्तेः क्विप् यथा स्यात् । किम् अविशेषेण । न इति आह ।उपपदविशेषे एतस्मिन् च विशेषे । अथ ब्रह्मादिषु हन्तेः णिनिना भवितव्यम् । न भवितव्यम् । किम् कारणम् । उभयतः नियमात् । उभयतः नियमः अयम् । ब्रह्मादिषु एव हन्तेः क्विप् भवति । क्विप् एव च ब्रह्मादिषु इति । तथा च उत्तरस्य नियमाऋथम् । एवम् च कृत्वा उत्तरस्य योगस्य वचनार्थः उपपन्नः भवति । बहुलम् छन्दसि इति । यः मातृहा पितृहा भ्रातृहा । न च भवति । अमित्रघातः ।

KA II,112.6-15 Ro III,254-255 kimartham brahmādiṣu hanteḥ kvip vidhīyate . na kvip ca anyebhyaḥ api dṛśyate iti eva siddham . brahmādiṣu hanteḥ kvibvacanam niyamārtham . niyamārthaḥ ayam ārambhaḥ . brahmādiṣu eva hanteḥ kvip yathā syāt . kim aviśeṣeṇa . na iti āha .upapadaviśeṣe etasmin ca viśeṣe . atha brahmādiṣu hanteḥ ṇininā bhavitavyam . na bhavitavyam . kim kāraṇam . ubhayataḥ niyamāt . ubhayataḥ niyamaḥ ayam . brahmādiṣu eva hanteḥ kvip bhavati . kvip eva ca brahmādiṣu iti . tathā ca uttarasya niyamāṛtham . evam ca kṛtvā uttarasya yogasya vacanārthaḥ upapannaḥ bhavati . bahulam chandasi iti . yaḥ mātṛhā pitṛhā bhrātṛhā . na ca bhavati . amitraghātaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,११२।१७-१८ रो इइइ,२५५ कर्मणि कुत्सिते । कर्मणि कुत्सिते इति वक्तव्यम् । इह मा भूत् । धान्यविक्रायः ।

KA II,112.17-18 Ro III,255 karmaṇi kutsite . karmaṇi kutsite iti vaktavyam . iha mā bhūt . dhānyavikrāyaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,११२।२०-२१ रो इइइ,२५६ अन्येभ्यः अपि दृश्यते इति वक्तव्यम् , इह अपि यथा स्यात् । आखा उत्खा परिखा ।

KA II,112.20-21 Ro III,256 anyebhyaḥ api dṛśyate iti vaktavyam , iha api yathā syāt . ākhā utkhā parikhā .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,११३।२-२२ रो इइइ,२५६-२५७ निष्ठायाम् इतरेतराश्रयत्वात् अप्रसिद्धिः । निष्ठायाम् इतरेतराश्रयत्वात् अप्रसिद्धिः । का इतरेतराश्रयता । सतोः क्तक्तवत्वोः सञ्ज्ञया भवितव्यम् सञ्ज्ञया च क्तक्तवतू भाव्येते । तत् एतत् इतरेतराश्रयम् भवति । इतरेतराश्रयाणि च न प्रकल्पन्ते । द्विः वा क्तक्तव्तुग्रहणम् । द्विः वा क्तक्तव्तुग्रहणम् कर्तव्यम् । क्तक्तव्तू भूते । क्तक्तवतू निष्ठा इति । यदि पुनः इह एव निष्ठासञ्ज्ञा अपि उच्येत : क्तक्तव्तू भूते । ततः निष्ठा । निष्ठासञ्ज्ञौ च क्तक्तव्तू भवतः इति । किम् कृतम् भवति । द्विः वा क्तक्तव्तुग्रहणम् न कर्तव्यम् भवति । एवम् अपि तौ इति वक्तव्यम् स्यात् । वक्ष्यति हि एतत् । तौ सत् इति वचनम् असंसर्गार्थम् इति । असंसक्तयोः भूतेन कालेन निष्ठासञ्ज्ञा यथा स्यात् । ञिमिदा मिन्नः ञिक्ष्विदा क्ष्विन्नः । यदि पुनः अदृष्टश्रुतौ एव क्तक्तवतू गृहीत्वा निष्ठासञ्ज्ञा उच्येत । न एवम् शक्यम् । दृष्टश्रुतयोः न स्यात् । ञिमिदा मिन्नः । तस्मात् न एवम् शक्यम् । न चेत् एवम् द्विः वा क्तक्तव्तुग्रहणम् कर्तव्यम् इतरेतराश्रयम् वा भवति । न एषः दोषः । इतरेतराश्रयमात्रम् एतत् भवति । सर्वाणि च इतरेतराश्रयाणि एकत्वेन परिहृतानि सिद्धम् तु नित्यशब्दत्वात् इति । न इदम् तुल्यम् अन्यैः इतरेतराश्रयैः । न हि सञ्ज्ञा नित्या । एवम् तर्हि भाविनी सञ्ज्ञा विज्ञास्यते । तत् यथा : कः चित् कम् चित् तन्तुवायम् आह : अस्य सूत्रस्य शाटकम् वय इति । सः पश्यति । यदि शाटकः न वातव्यः अथ वातव्यः न शाटकः । शाटकः वातव्यः इति विप्रतिषिद्धम्। भाविनी खलु अस्य सञ्ज्ञा अभिप्रेता । सः मन्ये वातव्यः यस्मिन् उते शाटकः इति एतत् भवति इति । एवम् इह अपि तौ भूते काले भवतः ययोः अभिनिर्वृतयोः निष्ठा इति एषा सञ्ज्ञा भविष्यति ।

KA II,113.2-22 Ro III,256-257 niṣṭhāyām itaretarāśrayatvāt aprasiddhiḥ . niṣṭhāyām itaretarāśrayatvāt aprasiddhiḥ . kā itaretarāśrayatā . satoḥ ktaktavatvoḥ sañjñayā bhavitavyam sañjñayā ca ktaktavatū bhāvyete . tat etat itaretarāśrayam bhavati . itaretarāśrayāṇi ca na prakalpante . dviḥ vā ktaktavtugrahaṇam . dviḥ vā ktaktavtugrahaṇam kartavyam . ktaktavtū bhūte . ktaktavatū niṣṭhā iti . yadi punaḥ iha eva niṣṭhāsañjñā api ucyeta : ktaktavtū bhūte . tataḥ niṣṭhā . niṣṭhāsañjñau ca ktaktavtū bhavataḥ iti . kim kṛtam bhavati . dviḥ vā ktaktavtugrahaṇam na kartavyam bhavati . evam api tau iti vaktavyam syāt . vakṣyati hi etat . tau sat iti vacanam asaṃsargārtham iti . asaṃsaktayoḥ bhūtena kālena niṣṭhāsañjñā yathā syāt . ñimidā minnaḥ ñikṣvidā kṣvinnaḥ . yadi punaḥ adṛṣṭaśrutau eva ktaktavatū gṛhītvā niṣṭhāsañjñā ucyeta . na evam śakyam . dṛṣṭaśrutayoḥ na syāt . ñimidā minnaḥ . tasmāt na evam śakyam . na cet evam dviḥ vā ktaktavtugrahaṇam kartavyam itaretarāśrayam vā bhavati . na eṣaḥ doṣaḥ . itaretarāśrayamātram etat bhavati . sarvāṇi ca itaretarāśrayāṇi ekatvena parihṛtāni siddham tu nityaśabdatvāt iti . na idam tulyam anyaiḥ itaretarāśrayaiḥ . na hi sañjñā nityā . evam tarhi bhāvinī sañjñā vijñāsyate . tat yathā : kaḥ cit kam cit tantuvāyam āha : asya sūtrasya śāṭakam vaya iti . saḥ paśyati . yadi śāṭakaḥ na vātavyaḥ atha vātavyaḥ na śāṭakaḥ . śāṭakaḥ vātavyaḥ iti vipratiṣiddham. bhāvinī khalu asya sañjñā abhipretā . saḥ manye vātavyaḥ yasmin ute śāṭakaḥ iti etat bhavati iti . evam iha api tau bhūte kāle bhavataḥ yayoḥ abhinirvṛtayoḥ niṣṭhā iti eṣā sañjñā bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,११३।२४-११४।१५ रो इइइ,२५८-२५९ आदिकर्मणि निष्ठा । आदिकर्मणि निष्ठा वक्तव्या । प्रकृतः कटम् देवदत्तः । किम् पुनः कारणम् न सिध्यति । यत् वा भवन्त्यर्थे । यत् वा भवन्त्यर्थे भाष्यते । प्रकृतः कटम् देवदत्तः । प्रकरोति कटम् देवदत्तः इति । न्याय्या तु आद्यपवर्गात् । न्याय्या तु एषा भूतकालता । कुतः । आद्यपवर्गात् । आदिः अत्र अपवृक्तः । एषः च नाम न्याय्यः भूतकालः यत्र किम् चित् अपवृक्तम् दृश्यते । वा च अद्यतन्याम् । वा च अद्यतन्याम् भाष्यते । प्रकृतः कटम् देवदत्तः । प्राकार्षीत् कटम् देवदत्तः इति । किम् शक्यन्ते एते शब्दाः प्रयोक्तुम् इति अतः न्याय्या एषा भूतकालता । न अवश्यम् प्रयोगात् एव । क्रिया नाम इयम् अत्यन्तापरिदृष्टा अनुमानगम्या अशक्या पिण्डीभूता निदर्शयितुम् यथा गर्भः निर्लुठितः । सा असौ येन येन शब्देन अभिसम्बध्यते तावति तावति परिसम्पाप्यते । तत् यथा । कः चित् पाटलिपुत्रम् जिगमिषुः एकम् अहः गत्वा आह इदम् अद्य गतम् इति । न च तावता अस्य व्रजिक्रिया परिसमाप्ता भवति । यत् तु गतम् तत् अभिसमीक्ष्य एतत् प्रयुज्यते इदम् अद्य गतम् इति । एवम् इह अपि यत् कृतम् तत् अभिसमीक्ष्य एतत् प्रयुज्यते प्रकृतः कटम् देवदत्तः इति । यदा हि वेणिकान्तः कटः अभिसमीक्षितः भवति प्रकरोति कटम् इति एव तदा भवति ।

KA II,113.24-114.15 Ro III,258-259 ādikarmaṇi niṣṭhā . ādikarmaṇi niṣṭhā vaktavyā . prakṛtaḥ kaṭam devadattaḥ . kim punaḥ kāraṇam na sidhyati . yat vā bhavantyarthe . yat vā bhavantyarthe bhāṣyate . prakṛtaḥ kaṭam devadattaḥ . prakaroti kaṭam devadattaḥ iti . nyāyyā tu ādyapavargāt . nyāyyā tu eṣā bhūtakālatā . kutaḥ . ādyapavargāt . ādiḥ atra apavṛktaḥ . eṣaḥ ca nāma nyāyyaḥ bhūtakālaḥ yatra kim cit apavṛktam dṛśyate . vā ca adyatanyām . vā ca adyatanyām bhāṣyate . prakṛtaḥ kaṭam devadattaḥ . prākārṣīt kaṭam devadattaḥ iti . kim śakyante ete śabdāḥ prayoktum iti ataḥ nyāyyā eṣā bhūtakālatā . na avaśyam prayogāt eva . kriyā nāma iyam atyantāparidṛṣṭā anumānagamyā aśakyā piṇḍībhūtā nidarśayitum yathā garbhaḥ nirluṭhitaḥ . sā asau yena yena śabdena abhisambadhyate tāvati tāvati parisampāpyate . tat yathā . kaḥ cit pāṭaliputram jigamiṣuḥ ekam ahaḥ gatvā āha idam adya gatam iti . na ca tāvatā asya vrajikriyā parisamāptā bhavati . yat tu gatam tat abhisamīkṣya etat prayujyate idam adya gatam iti . evam iha api yat kṛtam tat abhisamīkṣya etat prayujyate prakṛtaḥ kaṭam devadattaḥ iti . yadā hi veṇikāntaḥ kaṭaḥ abhisamīkṣitaḥ bhavati prakaroti kaṭam iti eva tadā bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,११५।१४-११६।१० रो इइइ,२६१-२६३ भाषायाम् सदादिभ्यः वा लिट् । भाषायाम् सदादिभ्यः वा लिट् वक्तव्यः । किम् प्रयोजनम् । तद्विषये लुङः अनिवृत्त्यर्थम् । तस्य लिटः विषये लुङः अनिवृत्तिः यथा स्यात् । उपसेदिवान् कौत्सः पाणिनिम् । उपासदत् । अनद्यतनपरोक्षयोः च । अनद्यतनपरोक्षयोः च वा लिट् वक्तव्यः । उपसेदिवान् कौत्सः पाणिनिम् । उपासीदत् । उपससाद । अपवादविप्रतिषेधात् हि तयोः भावः । अपवादविप्रतिषेधात् हि तौ स्याताम् । कौ । लङ्लिटौ । तस्य क्वसुः अपरोक्षे नित्यम् । तस्य लिटः भाषायाम् क्वसुः अपरोक्षे नित्यम् इति वक्तव्यम् । अपरोक्षग्रहणेन न अर्थः । तस्य क्वसुः नित्यम् इति एव । केन इदानीम् लिटः परोक्षे श्रवणम् भविष्यति । परोक्षे लिट् इति अनेन । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । अनुवृत्तिः करिष्यते । भाषायाम् सदादिभ्यः वा लिट् भवति लिटः च क्वसुः भवति । ततः लुङ् । लुङ् भवति भूते काले । भाषायाम् सदादिभ्यः वा लिट् भवति लिटः च क्वसुः भवति । ततः अनद्यतने लङ् । अनद्यतने भूते काले लङ् भवति । भाषायाम् सदादिभ्यः वा लिट् भवति लिटः च क्वसुः भवति । परोक्षे लिट् भवति । भाषायाम् सदादिभ्यः वा लिट् भवति लिटः च क्वसुः भवति । तत्र अयम् अपि अर्थः । तस्य क्वसुः अपरोक्षे नित्यम् इति एतत् न वक्तव्यम् भवति ।

KA II,115.14-116.10 Ro III,261-263 bhāṣāyām sadādibhyaḥ vā liṭ . bhāṣāyām sadādibhyaḥ vā liṭ vaktavyaḥ . kim prayojanam . tadviṣaye luṅaḥ anivṛttyartham . tasya liṭaḥ viṣaye luṅaḥ anivṛttiḥ yathā syāt . upasedivān kautsaḥ pāṇinim . upāsadat . anadyatanaparokṣayoḥ ca . anadyatanaparokṣayoḥ ca vā liṭ vaktavyaḥ . upasedivān kautsaḥ pāṇinim . upāsīdat . upasasāda . apavādavipratiṣedhāt hi tayoḥ bhāvaḥ . apavādavipratiṣedhāt hi tau syātām . kau . laṅliṭau . tasya kvasuḥ aparokṣe nityam . tasya liṭaḥ bhāṣāyām kvasuḥ aparokṣe nityam iti vaktavyam . aparokṣagrahaṇena na arthaḥ . tasya kvasuḥ nityam iti eva . kena idānīm liṭaḥ parokṣe śravaṇam bhaviṣyati . parokṣe liṭ iti anena . tat tarhi vaktavyam . na vaktavyam . anuvṛttiḥ kariṣyate . bhāṣāyām sadādibhyaḥ vā liṭ bhavati liṭaḥ ca kvasuḥ bhavati . tataḥ luṅ . luṅ bhavati bhūte kāle . bhāṣāyām sadādibhyaḥ vā liṭ bhavati liṭaḥ ca kvasuḥ bhavati . tataḥ anadyatane laṅ . anadyatane bhūte kāle laṅ bhavati . bhāṣāyām sadādibhyaḥ vā liṭ bhavati liṭaḥ ca kvasuḥ bhavati . parokṣe liṭ bhavati . bhāṣāyām sadādibhyaḥ vā liṭ bhavati liṭaḥ ca kvasuḥ bhavati . tatra ayam api arthaḥ . tasya kvasuḥ aparokṣe nityam iti etat na vaktavyam bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,११६।११-११७।२३ रो इइइ,२६३-२६६ किम् उपेयिवान् इति निपातनम् क्रियते । उपेयुषि निपातनम् इडर्थम् । उपेयुषि निपातनम् क्रियते इडर्थम् । इट् यथा स्यात् । न एतत् अस्ति प्रयोजनम् । सिद्धः अत्र इट् वस्वेकाकाद्घसाम् इति । द्विर्वचने कृते अनेकाच्त्वात् न प्राप्नोति । इदम् इह सम्प्रधार्यम् । द्विर्वचनम् क्रियताम् इट् इति । किम् अत्र कर्तव्यम् । परत्वात् इडागमः । नित्यम् द्विर्वचनम् । कृते अपि इटि प्राप्नोति अकृते अपि प्राप्नोति । इट् अपि नित्यः । कृते अपि द्विर्वचने एकादेशे च प्राप्नोति अकृते अपि प्राप्नोति । न अत्र एकादेशः प्राप्नोति । किम् कारणम् । दीर्घः इणः किति इति दीर्घत्वेन बाधते । तत् एतत् उपेयुषि निपातनम् इडर्थम् क्रियते । उपेयुषि निपातनम् इडर्थम् इति चेत् अजादौ अतिप्रसङ्गः । उपेयुषि निपातनम् इडर्थम् इति चेत् अजादौ अतिप्रसङ्गः भवति । उपेयुषा उपेयुषे उपेयुषः उपेयुषि इति । एकादिष्टस्य ईय्भावार्थम् तु । एकादिष्टस्य ईय्भावार्थम् तु निपातनम् क्रियते । एकादिष्टस्य ईय् इति एतत् रूपम् निपात्यते । ननु च उक्तम् न अत्र एकादेशः प्राप्नोति । किम् कारणम् । दीर्घः इणः किति इति दीर्घत्वेन बाधते इति । तत् हि न सुष्ठु उच्यते । न हि दीर्घत्वम् एकादेशम् बाधते । कः तर्हि बाधते । यणादेशः । सः च क्व बाधते । यत्र अस्य निमित्तम् अस्ति । यत्र हि निमित्तम् न अस्ति निष्प्रतिद्वन्द्वः तत्र एकादेशः । व्यञ्जने यणादेशार्थम् वा । अथ वा व्यञ्जने एव यणादेशः निपात्यते । यणादेशे कृते एकाचः इति इट् सिद्धः भवति । अपरः आह : न उपेयिवान् निपात्यः । द्विर्वचनाद् इट् भविष्यति परत्वात् । द्विर्वचनम् क्रियताम् इट् इति इट् भविष्यति विप्रतिषेधेन । इह अपि तर्हि द्विर्वचनात् इट् स्यात् बिभिद्वान् चिच्छिद्वान् । अन्येषाम् एकाचाम् द्विर्वचनम् नित्यम् इति आहुः । अन्येषाम् एकाचाम् नित्यम् द्विर्वचनम् । कृते अपि इटि प्राप्नोति अकृते अपि प्राप्नोति । अस्य पुनः इट् च नित्यः द्विव्रचनम् च । अस्य पुनः इट् च एव नित्यः द्विव्रचनम् च । द्विर्वचने च कृते एकाच् भवति । कथम् । एकादेशे कृते । तस्मात् इट् बाधते द्वित्वम् । तस्मात् इट् द्विर्वचनम् बाधते । अनूचानः कर्तरि । अनूचानः कर्तरीति वक्तव्यम् । अनूक्तवान् अनूचानः । अनूक्तम् इति एव अन्यत्र । न उपेयिवान् निपात्यः । द्विर्वचनाद् इट् भविष्यति परत्वात् । अन्येषाम् एकाचाम् द्विर्वचनम् नित्यम् इति आहुः । अस्य पुनः इट् च नित्यः द्विव्रचनम् च । न विहन्यते हि अस्य । द्विर्वचने च एकाच्त्वात् । तस्मात् इट् बाधते द्वित्वम् ।

KA II,116.11-117.23 Ro III,263-266 kim upeyivān iti nipātanam kriyate . upeyuṣi nipātanam iḍartham . upeyuṣi nipātanam kriyate iḍartham . iṭ yathā syāt . na etat asti prayojanam . siddhaḥ atra iṭ vasvekākādghasām iti . dvirvacane kṛte anekāctvāt na prāpnoti . idam iha sampradhāryam . dvirvacanam kriyatām iṭ iti . kim atra kartavyam . paratvāt iḍāgamaḥ . nityam dvirvacanam . kṛte api iṭi prāpnoti akṛte api prāpnoti . iṭ api nityaḥ . kṛte api dvirvacane ekādeśe ca prāpnoti akṛte api prāpnoti . na atra ekādeśaḥ prāpnoti . kim kāraṇam . dīrghaḥ iṇaḥ kiti iti dīrghatvena bādhate . tat etat upeyuṣi nipātanam iḍartham kriyate . upeyuṣi nipātanam iḍartham iti cet ajādau atiprasaṅgaḥ . upeyuṣi nipātanam iḍartham iti cet ajādau atiprasaṅgaḥ bhavati . upeyuṣā upeyuṣe upeyuṣaḥ upeyuṣi iti . ekādiṣṭasya īybhāvārtham tu . ekādiṣṭasya īybhāvārtham tu nipātanam kriyate . ekādiṣṭasya īy iti etat rūpam nipātyate . nanu ca uktam na atra ekādeśaḥ prāpnoti . kim kāraṇam . dīrghaḥ iṇaḥ kiti iti dīrghatvena bādhate iti . tat hi na suṣṭhu ucyate . na hi dīrghatvam ekādeśam bādhate . kaḥ tarhi bādhate . yaṇādeśaḥ . saḥ ca kva bādhate . yatra asya nimittam asti . yatra hi nimittam na asti niṣpratidvandvaḥ tatra ekādeśaḥ . vyañjane yaṇādeśārtham vā . atha vā vyañjane eva yaṇādeśaḥ nipātyate . yaṇādeśe kṛte ekācaḥ iti iṭ siddhaḥ bhavati . aparaḥ āha : na upeyivān nipātyaḥ . dvirvacanād iṭ bhaviṣyati paratvāt . dvirvacanam kriyatām iṭ iti iṭ bhaviṣyati vipratiṣedhena . iha api tarhi dvirvacanāt iṭ syāt bibhidvān cicchidvān . anyeṣām ekācām dvirvacanam nityam iti āhuḥ . anyeṣām ekācām nityam dvirvacanam . kṛte api iṭi prāpnoti akṛte api prāpnoti . asya punaḥ iṭ ca nityaḥ dvivracanam ca . asya punaḥ iṭ ca eva nityaḥ dvivracanam ca . dvirvacane ca kṛte ekāc bhavati . katham . ekādeśe kṛte . tasmāt iṭ bādhate dvitvam . tasmāt iṭ dvirvacanam bādhate . anūcānaḥ kartari . anūcānaḥ kartarīti vaktavyam . anūktavān anūcānaḥ . anūktam iti eva anyatra . na upeyivān nipātyaḥ . dvirvacanād iṭ bhaviṣyati paratvāt . anyeṣām ekācām dvirvacanam nityam iti āhuḥ . asya punaḥ iṭ ca nityaḥ dvivracanam ca . na vihanyate hi asya . dvirvacane ca ekāctvāt . tasmāt iṭ bādhate dvitvam .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,११७।२५-१११।१४ रो इइइ,२६६-२६७ लुङ्लृटोः अपवादप्रसङ्गः भूतभविष्यतोः अविशेषवचनात् । लुङ्लृटोः अपवादः प्राप्नोति । अगाम घोषान् । अपाम पयः । अशयिष्महि पूतीकतृणेषु । गमिष्यामः घोषान् । पास्यामः पयः । शयिष्यामहे पूतीकतृणेषु । किम् कारणम् । भूतभविष्यतोः अविशेषवचनात् । भूतभविष्यतोः अविशेषेण विधीयेते लुङ्लृटौ । तयोः विशेषविहितौ लन्लुटौ अपवादौ प्राप्नुतः । न वा अपवादस्य निमित्ताभावात् अनद्यतने हि तयोः विधानम् । न वा एषः दोषः । किम् कारणम् । अपवादस्य निमित्ताभावात् । न अत्र अपवादस्य निमित्तम् अस्ति । किम् कारणम् । अनद्यतने हि तयोः विधानम् । अनद्यतने हि तौ विधीयेते लङ्लुटौ । न च अत्र अनद्यतनः कालः विवक्षितः । किम् तर्हि । भूतकालसामान्यम् भविष्यत्कालसामान्यम् च । यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् गमिष्यामः घोषान् पास्यामः पयः शयिष्यामहे पूतीकतृणेषु इति यत्र एतत् न ज्ञायते किम् कदा इति । इह तु कथम् अगाम घोषान् अपाम पयः अशयिष्महि पूतीकतृणेषु यत्र एतत् निर्ज्ञातम् भवति अमुष्मिन् अहनि गतम् इति । अत्र अपि न वा अपवादस्य निमित्ताभावात् अनद्यतने हि तयोः विधानम् इति एव । कथम् पुनः सतः नाम अविवक्षा स्यात् । सतः अपि अविवक्षा भवति । तत् यथा । अलोमिका एडका । अनुदरा कन्या । असतः च विवक्षा भवति । तत् यथा । समुद्रः कुण्डिका । विन्ध्यः वर्धितकम् इति ।

KA II,117.25-111.14 Ro III,266-267 luṅlṛṭoḥ apavādaprasaṅgaḥ bhūtabhaviṣyatoḥ aviśeṣavacanāt . luṅlṛṭoḥ apavādaḥ prāpnoti . agāma ghoṣān . apāma payaḥ . aśayiṣmahi pūtīkatṛṇeṣu . gamiṣyāmaḥ ghoṣān . pāsyāmaḥ payaḥ . śayiṣyāmahe pūtīkatṛṇeṣu . kim kāraṇam . bhūtabhaviṣyatoḥ aviśeṣavacanāt . bhūtabhaviṣyatoḥ aviśeṣeṇa vidhīyete luṅlṛṭau . tayoḥ viśeṣavihitau lanluṭau apavādau prāpnutaḥ . na vā apavādasya nimittābhāvāt anadyatane hi tayoḥ vidhānam . na vā eṣaḥ doṣaḥ . kim kāraṇam . apavādasya nimittābhāvāt . na atra apavādasya nimittam asti . kim kāraṇam . anadyatane hi tayoḥ vidhānam . anadyatane hi tau vidhīyete laṅluṭau . na ca atra anadyatanaḥ kālaḥ vivakṣitaḥ . kim tarhi . bhūtakālasāmānyam bhaviṣyatkālasāmānyam ca . yadi api tāvat atra etat śakyate vaktum gamiṣyāmaḥ ghoṣān pāsyāmaḥ payaḥ śayiṣyāmahe pūtīkatṛṇeṣu iti yatra etat na jñāyate kim kadā iti . iha tu katham agāma ghoṣān apāma payaḥ aśayiṣmahi pūtīkatṛṇeṣu yatra etat nirjñātam bhavati amuṣmin ahani gatam iti . atra api na vā apavādasya nimittābhāvāt anadyatane hi tayoḥ vidhānam iti eva . katham punaḥ sataḥ nāma avivakṣā syāt . sataḥ api avivakṣā bhavati . tat yathā . alomikā eḍakā . anudarā kanyā . asataḥ ca vivakṣā bhavati . tat yathā . samudraḥ kuṇḍikā . vindhyaḥ vardhitakam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,११८।१५-२० रो इइइ,२६८ वसेः लुङ् रात्रिशेषे । वसेः लुङ् रात्रिशेषे वक्तव्यः । न्याय्ये प्रत्युत्थाने प्रत्युत्थितम् कः चित् कम् चित् पृच्छति । क्व भवान् उषितः इति । सः आह । अमुत्र अवात्सम् इति । अमुत्र अवसम् इति प्राप्नोति । जागरणसन्ततौ । जागरणसन्ततौ इति वक्तव्यम् । यः हि मुहूर्तमात्रम् अपि स्वपिति तत्र अमुत्र अवसम् इति एव भवितव्यम् ।

KA II,118.15-20 Ro III,268 vaseḥ luṅ rātriśeṣe . vaseḥ luṅ rātriśeṣe vaktavyaḥ . nyāyye pratyutthāne pratyutthitam kaḥ cit kam cit pṛcchati . kva bhavān uṣitaḥ iti . saḥ āha . amutra avātsam iti . amutra avasam iti prāpnoti . jāgaraṇasantatau . jāgaraṇasantatau iti vaktavyam . yaḥ hi muhūrtamātram api svapiti tatra amutra avasam iti eva bhavitavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,११८।२२-११९।७ रो इइइ,२६८-२६९ अनद्यतने इति बहुव्रीहिनिर्देशः अद्य ह्यः अभुक्ष्महि इति । अनद्यतने इति बहुव्रीहिनिर्देशः कर्तव्यः । अविद्यमानाद्यतने अनद्यतने इति । किम् प्रयोजनम् । अद्य ह्यः अभुक्ष्महि इति । अद्य च ह्यः च अभुक्ष्महि इति व्यामिश्रे लुङ् एव यथा स्यात् । यदि एवम् अद्यतने अपि लङ् प्राप्नोति । न हि अद्यतने अद्यतनः विद्यते । अद्यतने अपि अद्यतनः विद्यते । कथम् । व्यपदेशिवद्भावेन । परोक्षे च लोकविज्ञाते प्रयोक्तुः दर्शनविषये । परोक्षे च लोकविज्ञाते प्रयोक्तुः दर्शनविषये लङ् वक्तव्यः । अरुणत् यवनः साकेतम् । अरुणत् यवनः मधमिकाम् । परोक्षे इति किमर्थम् । उदगात् आदित्यः । लोकविज्ञते इति किमर्थम् । चकार कटम् देवदत्तः । प्रयोक्तुः दर्शनविषये इति किमर्थम् । जघान कंसम् किल वासुदेवः ।

KA II,118.22-119.7 Ro III,268-269 anadyatane iti bahuvrīhinirdeśaḥ adya hyaḥ abhukṣmahi iti . anadyatane iti bahuvrīhinirdeśaḥ kartavyaḥ . avidyamānādyatane anadyatane iti . kim prayojanam . adya hyaḥ abhukṣmahi iti . adya ca hyaḥ ca abhukṣmahi iti vyāmiśre luṅ eva yathā syāt . yadi evam adyatane api laṅ prāpnoti . na hi adyatane adyatanaḥ vidyate . adyatane api adyatanaḥ vidyate . katham . vyapadeśivadbhāvena . parokṣe ca lokavijñāte prayoktuḥ darśanaviṣaye . parokṣe ca lokavijñāte prayoktuḥ darśanaviṣaye laṅ vaktavyaḥ . aruṇat yavanaḥ sāketam . aruṇat yavanaḥ madhamikām . parokṣe iti kimartham . udagāt ādityaḥ . lokavijñate iti kimartham . cakāra kaṭam devadattaḥ . prayoktuḥ darśanaviṣaye iti kimartham . jaghāna kaṃsam kila vāsudevaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,११९।९-१७ रो इइइ,२६९-२७० किम् उदाहरणम् । तत्र सक्तून् पास्यामः । अभिजानासि देवदत्त तत्र सक्तून् अपिबाम । भवेत् पूर्वम् परम् आकाङ्क्षति इति साकाङ्क्षम् स्यात् । परम् तु कथम् साकाङ्क्षम् । परम् अपि साकाङ्क्षम् । कथम् अस्ति अस्मिन् आकाङ्क्षा इति अतः साकाङ्क्षम् । विभाषा साकाङ्क्षे सर्वत्र । विभाषा साकाङ्क्षे सर्वत्र इति वक्तव्यम् । क्व सर्वत्र । यदि च अयदि च । यदि तावत् । अभिजानासि देवदत्त यत् कश्मीरान् गमिष्यामः यत् कश्मीरान् अगच्छाम यत् तत्र ओदनम् भोक्ष्यामहे यत् तत्र ओदनम् अभुञ्ज्महि । अभिजानासि देवदत्त कश्मीरान् गमिष्यामः कश्मीरान् अगच्छाम तत्र ओदनम् भोक्ष्यामहे तत्र ओदनम् अभुञ्ज्महि ।

KA II,119.9-17 Ro III,269-270 kim udāharaṇam . tatra saktūn pāsyāmaḥ . abhijānāsi devadatta tatra saktūn apibāma . bhavet pūrvam param ākāṅkṣati iti sākāṅkṣam syāt . param tu katham sākāṅkṣam . param api sākāṅkṣam . katham asti asmin ākāṅkṣā iti ataḥ sākāṅkṣam . vibhāṣā sākāṅkṣe sarvatra . vibhāṣā sākāṅkṣe sarvatra iti vaktavyam . kva sarvatra . yadi ca ayadi ca . yadi tāvat . abhijānāsi devadatta yat kaśmīrān gamiṣyāmaḥ yat kaśmīrān agacchāma yat tatra odanam bhokṣyāmahe yat tatra odanam abhuñjmahi . abhijānāsi devadatta kaśmīrān gamiṣyāmaḥ kaśmīrān agacchāma tatra odanam bhokṣyāmahe tatra odanam abhuñjmahi .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,११९।१९-१२०।४ रो इइइ,२७०-२७१ परोक्षे इति उच्यते । किम् परोक्षम् नाम । परम् अक्ष्णः परोक्षम् । अक्षि पुनः किम् । अश्नोतेः अयम् औणादिकः करणसाधनः सि प्रत्ययः । अनुते अनेन इति अक्षि । यदि एवम् पराक्षम् इति प्राप्नोति । न एषः दोषः । परोभावः परस्य अक्षे परोक्षे लिटि दृश्यताम् । परशब्दस्य अक्षशब्दे उत्तरपदे परोभावः वक्तव्यः । उत्वम् वा आदेः परात् अक्ष्णः ।अथ वा परशब्दात् उत्तरस्य अक्षिशब्दस्य उत्वम् वक्तव्यम् । सिद्धम् वा अस्मात् निपातनात् ।

KA II,119.19-120.4 Ro III,270-271 parokṣe iti ucyate . kim parokṣam nāma . param akṣṇaḥ parokṣam . akṣi punaḥ kim . aśnoteḥ ayam auṇādikaḥ karaṇasādhanaḥ si pratyayaḥ . anute anena iti akṣi . yadi evam parākṣam iti prāpnoti . na eṣaḥ doṣaḥ . parobhāvaḥ parasya akṣe parokṣe liṭi dṛśyatām . paraśabdasya akṣaśabde uttarapade parobhāvaḥ vaktavyaḥ . utvam vā ādeḥ parāt akṣṇaḥ .atha vā paraśabdāt uttarasya akṣiśabdasya utvam vaktavyam . siddham vā asmāt nipātanāt .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१२०।५-२३ रो इइइ,२७१-२७३ कस्मिन् पुनः परोक्षे । काले । न वै कालाधिकारः अस्ति । एवम् तर्हि धातोः इति वर्तते । धातौ परोक्षे । धातुः वै शब्दः । न च शब्दस्य प्रत्यक्षपरोक्षतायाम् सम्भवः अस्ति । शब्दे असम्भवात् अर्थे कार्यम् विज्ञास्यते । परोक्षे धातौ परोक्षे धात्वर्थे इति । कः पुनः धात्वर्थः । क्रिया । क्रियायाम् परोक्षायाम् । यदि एवम् ह्यः अपचत् इति अत्र अपि लिट् प्राप्नोति । किम् कारणम् । क्रिया नाम इयम् अत्यन्तापरिदृष्टा अनुमानगम्या अशक्या पिण्डीभूता निदर्शयितुम् यथा गर्भः निर्लुठितः । एवम् तर्हि साधनेषु परोक्षेषु । साधनेषु च भवतः कः सम्प्रत्ययः । यदि सावद् गुणसमुदायः साधनम् साधनम् अपि अनुमानगम्यम् । अथ अन्यत् गुणेभ्यः साधनम् भवति प्र्तयक्षपरोक्षतायाम् सम्भवः । अथ यदा अनेन रथ्यायाम् तण्डुलोदकम् दृष्टम् कथम् तत्र भवितव्यम् । यदि तावत् साधनेषु परोक्षेषु पपाच इति भवितव्यम् । भवन्ति हि तस्य साधनानि परोक्षाणि । अथ ये एते क्रियाकृताः विशेषाः चीत्काराः फूत्काराः च तेषु परोक्षेषु एवम् अपि पपाच इति भवितव्यम् । कथञ्जातीयकम् पुनः परोक्षम् नाम । के चित् तावत् आहुः । वर्षशतवृत्तम् परोक्षम् इति । अपरे आहुः । कटान्तरितम् परोक्षम् इति । अपरे आहूः । द्व्यहवृत्तम् त्र्यह्वृत्तम् च इति । सर्वथा उत्तमः न सिध्यति । सुप्तमत्तोयोः इति वक्तव्यम् । सुप्तः अहम् किल विललाप । मत्तः अहम् किल विललाप । सुप्तः नु अहम् किल विललाप । मत्तः नु अहम् किल विललाप । अथ वा भवति वै कः चित् जागरत् अपि वर्तमानकालम् न उपलभते । तत् यथा वैयाकरणानाम् शाकटायनः रथमार्गे आसीनः शकटसाऋथम् यान्तम् न उपलभते । किम् पुनः कारणम् जागरत् अपि वर्तमानकालम् न उपलभते । मनसा संयुक्तानि इन्द्रियाणि उपलब्धौ कारणानि भवन्ति । मनसः असान्निध्यात् ।

KA II,120.5-23 Ro III,271-273 kasmin punaḥ parokṣe . kāle . na vai kālādhikāraḥ asti . evam tarhi dhātoḥ iti vartate . dhātau parokṣe . dhātuḥ vai śabdaḥ . na ca śabdasya pratyakṣaparokṣatāyām sambhavaḥ asti . śabde asambhavāt arthe kāryam vijñāsyate . parokṣe dhātau parokṣe dhātvarthe iti . kaḥ punaḥ dhātvarthaḥ . kriyā . kriyāyām parokṣāyām . yadi evam hyaḥ apacat iti atra api liṭ prāpnoti . kim kāraṇam . kriyā nāma iyam atyantāparidṛṣṭā anumānagamyā aśakyā piṇḍībhūtā nidarśayitum yathā garbhaḥ nirluṭhitaḥ . evam tarhi sādhaneṣu parokṣeṣu . sādhaneṣu ca bhavataḥ kaḥ sampratyayaḥ . yadi sāvad guṇasamudāyaḥ sādhanam sādhanam api anumānagamyam . atha anyat guṇebhyaḥ sādhanam bhavati prtayakṣaparokṣatāyām sambhavaḥ . atha yadā anena rathyāyām taṇḍulodakam dṛṣṭam katham tatra bhavitavyam . yadi tāvat sādhaneṣu parokṣeṣu papāca iti bhavitavyam . bhavanti hi tasya sādhanāni parokṣāṇi . atha ye ete kriyākṛtāḥ viśeṣāḥ cītkārāḥ phūtkārāḥ ca teṣu parokṣeṣu evam api papāca iti bhavitavyam . kathañjātīyakam punaḥ parokṣam nāma . ke cit tāvat āhuḥ . varṣaśatavṛttam parokṣam iti . apare āhuḥ . kaṭāntaritam parokṣam iti . apare āhūḥ . dvyahavṛttam tryahvṛttam ca iti . sarvathā uttamaḥ na sidhyati . suptamattoyoḥ iti vaktavyam . suptaḥ aham kila vilalāpa . mattaḥ aham kila vilalāpa . suptaḥ nu aham kila vilalāpa . mattaḥ nu aham kila vilalāpa . atha vā bhavati vai kaḥ cit jāgarat api vartamānakālam na upalabhate . tat yathā vaiyākaraṇānām śākaṭāyanaḥ rathamārge āsīnaḥ śakaṭasāṛtham yāntam na upalabhate . kim punaḥ kāraṇam jāgarat api vartamānakālam na upalabhate . manasā saṃyuktāni indriyāṇi upalabdhau kāraṇāni bhavanti . manasaḥ asānnidhyāt .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१२०।२४-२९ रो इइइ,२७४ परोक्षे लिट् अत्यन्ताअपह्नवे च । परोक्षे लिट् इति अत्र अत्यन्ताअपह्नवे च इति वक्तव्यम् । नो खण्डिकान् जगाम नो कलिङ्गान् जगाम । न कारिसोमम् प्रपौ । न दार्वजस्य प्रतिजग्राह । कः मे मनुष्यः प्रहरेत् वधाय । परोभावः परस्य अक्षे परोक्षे लिटि दृश्यताम् । उत्वम् वा आदेः परात् अक्ष्णः । सिद्धम् वा अस्मात् निपातनात् ।

KA II,120.24-29 Ro III,274 parokṣe liṭ atyantāapahnave ca . parokṣe liṭ iti atra atyantāapahnave ca iti vaktavyam . no khaṇḍikān jagāma no kaliṅgān jagāma . na kārisomam prapau . na dārvajasya pratijagrāha . kaḥ me manuṣyaḥ praharet vadhāya . parobhāvaḥ parasya akṣe parokṣe liṭi dṛśyatām . utvam vā ādeḥ parāt akṣṇaḥ . siddham vā asmāt nipātanāt .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१२१।२-१२२।३ रो इइइ,२७५-२७८ स्म पुरा भूतमात्रे न स्म पुरा अद्यतने । स्म पुरा भूतमात्रे न स्म पुरा अद्यतने इति वक्तव्यम् । किम् अयम् स्मादिविधिः पुरान्तः अविशेषेण भूतमात्रे भवति । तत्र वक्तव्यम् स्मलक्षणः पुरालक्षणः च अद्यतने न भवतः इति । आहोस्वित् स्मलक्षणः पुरालक्षणः च अविशेषेण भूतमात्रे भवतः इति । तत्र स्माद्यर्थम् न स्म पुरा अद्यतने इति वक्तव्यम् । किम् च अतः । स्मादिविधिः पुरान्तः यदि अविशेषेण किम् कृतम् भवति न स्म पुरा अद्यतने इति ब्रुवता कात्यायनेन इह । स्मादिविधिः पुरान्तः यदि अविशेषेण भवति किम् वार्त्तिककारः प्रतिषेधेन करोति न स्म पुरा अद्यतने इति । अनुवृत्तिः अनद्यतनस्य लात् स्मे इति तत्र न अस्ति नञ्कार्यम् । लट् स्मे इति अत्र अनद्यतने इति एतत् अनुवर्तिष्यते । अपरोक्षानद्यतनः ननौ च नन्वोः च निवृत्तौ न पुरा अद्यतने इति भवेत् एतत् वाच्यम् । तत्र एतावत् वक्तव्यम् स्यात् न पुरा अद्यतने इति । तत्र च अपि लङ्ग्रहणम् । तत्र च अपि लङ्ग्रहणम् ज्ञपकम् न पुरालक्षणः अद्यतने भवति इति । अथ बुद्धिः अविशेषाद् स्म पुरा हेतू । अथ बुद्धिः अविशेषेण स्म पुरा हेतू इति । तत्र च अपि श्र्णु भूयः । अपरोक्षे चे इति एषः प्राक् पुरिसंशब्दनात् अविनिवृत्तः सर्वत्र अनद्यतनः । तथा सति नञा किम् इह कार्यम् । स्मादौ अपरोक्षे च इति अकार्यम् इति शक्यम् एतत् अपि विद्धि । शक्यम् हि निवर्तयितुम् परोक्षे इति लात् स्मे इति अत्र । स्यात् एषा तव बुद्धिः । स्मलक्षणे अपि एवम् एव सिद्धम् इति । लट् स्मे इति भवेत् न अर्थः । तस्मात् कार्यम् परार्थम् तु । एवम् तर्हि ज्ञापयति आचार्यः स्मलक्षणः पुरालक्षणः च अनद्यतने भवतः इति ।

KA II,121.2-122.3 Ro III,275-278 sma purā bhūtamātre na sma purā adyatane . sma purā bhūtamātre na sma purā adyatane iti vaktavyam . kim ayam smādividhiḥ purāntaḥ aviśeṣeṇa bhūtamātre bhavati . tatra vaktavyam smalakṣaṇaḥ purālakṣaṇaḥ ca adyatane na bhavataḥ iti . āhosvit smalakṣaṇaḥ purālakṣaṇaḥ ca aviśeṣeṇa bhūtamātre bhavataḥ iti . tatra smādyartham na sma purā adyatane iti vaktavyam . kim ca ataḥ . smādividhiḥ purāntaḥ yadi aviśeṣeṇa kim kṛtam bhavati na sma purā adyatane iti bruvatā kātyāyanena iha . smādividhiḥ purāntaḥ yadi aviśeṣeṇa bhavati kim vārttikakāraḥ pratiṣedhena karoti na sma purā adyatane iti . anuvṛttiḥ anadyatanasya lāt sme iti tatra na asti nañkāryam . laṭ sme iti atra anadyatane iti etat anuvartiṣyate . aparokṣānadyatanaḥ nanau ca nanvoḥ ca nivṛttau na purā adyatane iti bhavet etat vācyam . tatra etāvat vaktavyam syāt na purā adyatane iti . tatra ca api laṅgrahaṇam . tatra ca api laṅgrahaṇam jñapakam na purālakṣaṇaḥ adyatane bhavati iti . atha buddhiḥ aviśeṣād sma purā hetū . atha buddhiḥ aviśeṣeṇa sma purā hetū iti . tatra ca api śrṇu bhūyaḥ . aparokṣe ce iti eṣaḥ prāk purisaṃśabdanāt avinivṛttaḥ sarvatra anadyatanaḥ . tathā sati nañā kim iha kāryam . smādau aparokṣe ca iti akāryam iti śakyam etat api viddhi . śakyam hi nivartayitum parokṣe iti lāt sme iti atra . syāt eṣā tava buddhiḥ . smalakṣaṇe api evam eva siddham iti . laṭ sme iti bhavet na arthaḥ . tasmāt kāryam parārtham tu . evam tarhi jñāpayati ācāryaḥ smalakṣaṇaḥ purālakṣaṇaḥ ca anadyatane bhavataḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१२२।५-१० रो इइइ,२७८ ननौ पृष्टप्रतिवचने इति अशिष्यम् क्रियासमाप्तेः विवक्षितत्वात् । ननौ पृष्टप्रतिवचने इति अशिष्यः लट् । किम् कारणम् । क्रियासमाप्तेः विवक्षितत्वात् । क्रियायाः अत्र असमाप्तिः विवक्षिता । एषः नाम न्याय्यः वर्तमानः कालः यत्र क्रियायाः असमाप्तिः भवत् । तत्र वर्तमाने लट् इति एव सिद्धम् । यदि वर्तमाने लट् इति एव लट् भवति शतृशानचौ अपि प्राप्नुतः । इष्येते शतृशानचौ : ननु माम् कुर्वन्तम् पश्य । ननु माम् कुर्वाणम् पश्य इति ।

KA II,122.5-10 Ro III,278 nanau pṛṣṭaprativacane iti aśiṣyam kriyāsamāpteḥ vivakṣitatvāt . nanau pṛṣṭaprativacane iti aśiṣyaḥ laṭ . kim kāraṇam . kriyāsamāpteḥ vivakṣitatvāt . kriyāyāḥ atra asamāptiḥ vivakṣitā . eṣaḥ nāma nyāyyaḥ vartamānaḥ kālaḥ yatra kriyāyāḥ asamāptiḥ bhavat . tatra vartamāne laṭ iti eva siddham . yadi vartamāne laṭ iti eva laṭ bhavati śatṛśānacau api prāpnutaḥ . iṣyete śatṛśānacau : nanu mām kurvantam paśya . nanu mām kurvāṇam paśya iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१२२।१२-२२ रो इइइ,२७८-२७९ हशश्वद्भ्याम् पुरा । हशश्वल्लक्षणात् पुरालक्षणः भवति विप्रतिषेधेन । हशश्वल्लक्षणस्य अवकाशः । इति ह अकरोत् । इह ह चकार । शश्वत् अकरोत् । शश्वत् चकार । पुरालक्षणस्य अवकाशः । रथेन अयम् पुरा याति । रथेन अयम् पुरा अयासीत् । इह उभयम् प्राप्नोति । रथेन ह शश्वत् पुरा याति । रथेन ह शश्वत् पुरा अयासीत् । पुरालक्षणः भवति विप्रतिषेधेन । स्मः सर्वेभ्यः विप्रतिषेधेन । स्मलक्षणः सर्वेभ्यः भवति विप्रतिषेधेन । हशश्वल्लक्षणात् पुरालक्षणात् च । हशश्वल्लक्षणस्य अवकाशः । इति ह अकरोत् । इह ह चकार । शश्वत् अकरोत् । शश्वत् चकार । पुरालक्षणस्य अवकाशः । रथेन अयम् पुरा याति । रथेन अयम् पुरा अयासीत् । स्मलक्षणस्य अवकाशः । धर्मेण स्म कुरवः युध्यन्ते । इह सर्वम् प्राप्नोति । न ह स्म वै पुरा शश्वत् अपरशुवृक्णम् दहति । स्मलक्षणः लट् भवति विप्रतिषेधेन ।

KA II,122.12-22 Ro III,278-279 haśaśvadbhyām purā . haśaśvallakṣaṇāt purālakṣaṇaḥ bhavati vipratiṣedhena . haśaśvallakṣaṇasya avakāśaḥ . iti ha akarot . iha ha cakāra . śaśvat akarot . śaśvat cakāra . purālakṣaṇasya avakāśaḥ . rathena ayam purā yāti . rathena ayam purā ayāsīt . iha ubhayam prāpnoti . rathena ha śaśvat purā yāti . rathena ha śaśvat purā ayāsīt . purālakṣaṇaḥ bhavati vipratiṣedhena . smaḥ sarvebhyaḥ vipratiṣedhena . smalakṣaṇaḥ sarvebhyaḥ bhavati vipratiṣedhena . haśaśvallakṣaṇāt purālakṣaṇāt ca . haśaśvallakṣaṇasya avakāśaḥ . iti ha akarot . iha ha cakāra . śaśvat akarot . śaśvat cakāra . purālakṣaṇasya avakāśaḥ . rathena ayam purā yāti . rathena ayam purā ayāsīt . smalakṣaṇasya avakāśaḥ . dharmeṇa sma kuravaḥ yudhyante . iha sarvam prāpnoti . na ha sma vai purā śaśvat aparaśuvṛkṇam dahati . smalakṣaṇaḥ laṭ bhavati vipratiṣedhena .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१२३।२-१२४।१३ रो इइइ,२७९-२८५ प्रवृत्तस्य अविरामे शिष्या भवन्ती अवर्तमानत्वात् । प्रवृत्तस्य अविरामे शिष्या भवन्ती । इह अधीमहे । इह वसामः । इह पुष्यमित्रम् याजयामः । किम् पुनः कारणम् न सिध्यति । अवर्तमानत्वात् । नित्यप्रवृत्ते च कालाविभागात् । नित्यप्रवृत्ते च शासितव्या भवन्ती । तिष्ठन्ति पर्वताः । स्रवन्ति नद्यः इति । किम् पुनः कारणम् न सिध्यति । कालाविभागात् । इह भूतभविष्यत्प्रतिद्वन्द्वः वर्तमानः कालः । न च अत्र भूतभविष्यन्तौ कालौ स्तः । न्याय्या तु आरम्भानपवर्गात् । न्याय्या तु एषा वर्तमानकालता । कुतः । आरम्भानपवर्गात् । आरम्भः अत्र अनपवृक्तः । एषः नाम् न्याय्यः वर्तमानः कालः यत्र आरम्भः अनपवृक्तः । अस्ति च मुक्तसंशये विरामः । यम् खलु अपि भवान् मुक्तसंशयम् वर्तमानम् कालम् न्याय्यम् मन्यते भुङ्क्ते देवदत्तः इति तेन एतत् तुल्यम् । सः अपि हि अवश्यम् भुञ्जानः हसति वा जल्पति वा पानीयम् वा पिबति । यदि अत्र युक्ता वर्तमानकालता दृश्यते इह अपि युक्ता दृश्यताम् । सन्ति च कालविभागाः । सन्ति खलु अपि कालविभागाः । तिष्ठन्ति पर्वताः । स्थास्यन्ति पर्वताः । तस्थुः पर्वताः । किम् शक्यन्ते एते शब्दाः प्रयोक्तुम् इति अतः सन्ति कालविभागाः । न अवश्यम् प्रयोगात् एव । इह भूतभविष्यद्वर्तमानानाम् राज्ञाम् याः क्रियाः ताः तिष्ठतेः अधिकरणम् । इह तावत् तिष्ठन्ति पर्वताः इति । सम्प्रति ये राजानः तेषाम् याः क्रियाः तासु वर्तमानासु । स्थास्यन्ति पर्वताः इति । इतः उत्तरम् ये राजानः भविष्यन्ति तेषाम् याः क्रियाः तासु भविष्यन्तीषु । तस्थुः पर्वताः इति । ये राजानः बभूवुः तेषाम् याः क्रियाः तासु व्भूतासु । अपरः आह : न अस्ति वर्तमानः कालः इति । अपि च अत्र श्लोकान् उदाहरन्ति : न वर्तते चक्रम् । इषुः न पात्यते । न स्यन्दन्ते सरितः सागराय । कूटस्थः अयम् लोकः न विचेष्टा अस्ति । यः हि एवम् पश्यति सः अपि अनन्धः । मीमांसकः मन्यमानः युवा मेधाविसम्मतः काकम् स्म इह अनुपृच्छति : किम् ते पतितलक्षणम् । अनागते न पतसि अतिक्रान्ते च काक न । यदि सम्प्रति पतसि सर्वः लोकः पतति अयम् । हिमवान् अपि गच्छति । अनागतम् अतिक्रान्तम् वर्तमानम् इति त्रयम् । सर्वत्र गतिः न अस्ति । गच्छति इति किम् उच्यते । क्रियाप्रवृत्तौ यः हेतुः तदर्थम् यत् विचेष्टितम् तत् समीक्ष्य प्रयुञ्जीत गच्छति इति अविचारयन् । अप्रः आह । अस्ति वर्तमानः कालः इति । आदित्यगतिवत् न उपलभ्यते । अपि च अत्र श्लोकम् उदाहरन्ति । बिसस्य वालाः इव दह्यमानाः न लक्ष्यते विकृतिः सन्निपाते । अस्ति इति ताम् वेदयन्ते त्रिभभावाः । सूक्ष्मः हि भावः अनुमितेन गम्यः ।

KA II,123.2-124.13 Ro III,279-285 pravṛttasya avirāme śiṣyā bhavantī avartamānatvāt . pravṛttasya avirāme śiṣyā bhavantī . iha adhīmahe . iha vasāmaḥ . iha puṣyamitram yājayāmaḥ . kim punaḥ kāraṇam na sidhyati . avartamānatvāt . nityapravṛtte ca kālāvibhāgāt . nityapravṛtte ca śāsitavyā bhavantī . tiṣṭhanti parvatāḥ . sravanti nadyaḥ iti . kim punaḥ kāraṇam na sidhyati . kālāvibhāgāt . iha bhūtabhaviṣyatpratidvandvaḥ vartamānaḥ kālaḥ . na ca atra bhūtabhaviṣyantau kālau staḥ . nyāyyā tu ārambhānapavargāt . nyāyyā tu eṣā vartamānakālatā . kutaḥ . ārambhānapavargāt . ārambhaḥ atra anapavṛktaḥ . eṣaḥ nām nyāyyaḥ vartamānaḥ kālaḥ yatra ārambhaḥ anapavṛktaḥ . asti ca muktasaṃśaye virāmaḥ . yam khalu api bhavān muktasaṃśayam vartamānam kālam nyāyyam manyate bhuṅkte devadattaḥ iti tena etat tulyam . saḥ api hi avaśyam bhuñjānaḥ hasati vā jalpati vā pānīyam vā pibati . yadi atra yuktā vartamānakālatā dṛśyate iha api yuktā dṛśyatām . santi ca kālavibhāgāḥ . santi khalu api kālavibhāgāḥ . tiṣṭhanti parvatāḥ . sthāsyanti parvatāḥ . tasthuḥ parvatāḥ . kim śakyante ete śabdāḥ prayoktum iti ataḥ santi kālavibhāgāḥ . na avaśyam prayogāt eva . iha bhūtabhaviṣyadvartamānānām rājñām yāḥ kriyāḥ tāḥ tiṣṭhateḥ adhikaraṇam . iha tāvat tiṣṭhanti parvatāḥ iti . samprati ye rājānaḥ teṣām yāḥ kriyāḥ tāsu vartamānāsu . sthāsyanti parvatāḥ iti . itaḥ uttaram ye rājānaḥ bhaviṣyanti teṣām yāḥ kriyāḥ tāsu bhaviṣyantīṣu . tasthuḥ parvatāḥ iti . ye rājānaḥ babhūvuḥ teṣām yāḥ kriyāḥ tāsu vbhūtāsu . aparaḥ āha : na asti vartamānaḥ kālaḥ iti . api ca atra ślokān udāharanti : na vartate cakram . iṣuḥ na pātyate . na syandante saritaḥ sāgarāya . kūṭasthaḥ ayam lokaḥ na viceṣṭā asti . yaḥ hi evam paśyati saḥ api anandhaḥ . mīmāṃsakaḥ manyamānaḥ yuvā medhāvisammataḥ kākam sma iha anupṛcchati : kim te patitalakṣaṇam . anāgate na patasi atikrānte ca kāka na . yadi samprati patasi sarvaḥ lokaḥ patati ayam . himavān api gacchati . anāgatam atikrāntam vartamānam iti trayam . sarvatra gatiḥ na asti . gacchati iti kim ucyate . kriyāpravṛttau yaḥ hetuḥ tadartham yat viceṣṭitam tat samīkṣya prayuñjīta gacchati iti avicārayan . apraḥ āha . asti vartamānaḥ kālaḥ iti . ādityagativat na upalabhyate . api ca atra ślokam udāharanti . bisasya vālāḥ iva dahyamānāḥ na lakṣyate vikṛtiḥ sannipāte . asti iti tām vedayante tribhabhāvāḥ . sūkṣmaḥ hi bhāvaḥ anumitena gamyaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१२५।२-२० रो इइइ,२८६-२८८ लस्य अप्रथमासमानाधिकरणेन अयोगात् अदेशानुपपत्तिः यथा अन्यत्र । लस्य अप्रथमासमानाधिकरणेन अयोगात् अदेशयोः नुपपत्तिः यथा अन्यत्र । तत् यथा अन्यत्र अपि लस्य अप्रथमासमानाधिकरणेन योगः न भवति । क्व अन्यत्र । लङि । अपचत् ओदनम् देवदत्तः इति । योगः इति चेत् अन्यत्र अपि योगः स्यात् । अथ मतम् एतत् भवति योगः इति अन्यत्र अपि योगः स्यात् । क्व अन्यत्र । लङि । अपचत् ओदनम् देवदत्तः इति । न क्व चित् योगः इति कृत्वा अतः सर्वत्र योगेन भवितव्यम् क्व चित् अयोगः इति कृत्वा सर्वत्र अयोगेन । तत् यथा । समानम् ईहमानानाम् च अधीयानानाम् च के चित् अर्थैः युज्यन्ते अपरे न । न च इदानीम् कः चित् अर्थवान् इति अतः सर्वैः अर्थवद्भिः शक्यम् भवितुम् कः चित् अनर्थकः इति सर्वैः अनर्थकैः । तत्र किम् अस्माभिः शक्यम् कर्तुम् । यत् लोटः अप्रथमासमानाधिकरणेन योगः भवति लङः न स्वाभाविकम् एतत् । अथ वा आदेशे सामानाधिकरण्यम् दृष्ट्वा अनुमानात् गन्तव्यम् प्रकृतेः अपि सामानाधिकरण्यम् भवति इति । तत् यथा धूमम् दृष्ट्वा अग्निः अत्र इति गम्यते त्रिविष्टब्धकम् दृष्ट्वा परिव्राजकः इति । विषमः उपन्यासः । प्रत्यक्षः तेन अग्निधूमयोः अभिसम्बन्धः कृतः भवति त्रिविष्टब्धकपरिव्राजकयोः च । सः तद्विदेशस्थम् अपि दृष्ट्वा जानाति अग्निः अत्र परिव्राजकः अत्र इति । भवति वै प्रत्यक्षात् अपि अनुमानबलीयस्त्वम् । तत् यथा अलातचक्रम् प्रत्यक्षम् दृश्यते अनुमानात् च गम्यते न एतत् अस्ति इति । कस्य चित् खलु अपि सकृत् कृतः अभिसम्बन्धः अत्यन्ताय कृतः भवति । तत् यथा वृक्षपर्णयोः अयम् वृक्षः इदम् पर्णम् इति । सः तद्विदेशस्थम् अपि दृष्ट्वा जानाति वृक्षस्य इदम् पर्णम् इति ।

KA II,125.2-20 Ro III,286-288 lasya aprathamāsamānādhikaraṇena ayogāt adeśānupapattiḥ yathā anyatra . lasya aprathamāsamānādhikaraṇena ayogāt adeśayoḥ nupapattiḥ yathā anyatra . tat yathā anyatra api lasya aprathamāsamānādhikaraṇena yogaḥ na bhavati . kva anyatra . laṅi . apacat odanam devadattaḥ iti . yogaḥ iti cet anyatra api yogaḥ syāt . atha matam etat bhavati yogaḥ iti anyatra api yogaḥ syāt . kva anyatra . laṅi . apacat odanam devadattaḥ iti . na kva cit yogaḥ iti kṛtvā ataḥ sarvatra yogena bhavitavyam kva cit ayogaḥ iti kṛtvā sarvatra ayogena . tat yathā . samānam īhamānānām ca adhīyānānām ca ke cit arthaiḥ yujyante apare na . na ca idānīm kaḥ cit arthavān iti ataḥ sarvaiḥ arthavadbhiḥ śakyam bhavitum kaḥ cit anarthakaḥ iti sarvaiḥ anarthakaiḥ . tatra kim asmābhiḥ śakyam kartum . yat loṭaḥ aprathamāsamānādhikaraṇena yogaḥ bhavati laṅaḥ na svābhāvikam etat . atha vā ādeśe sāmānādhikaraṇyam dṛṣṭvā anumānāt gantavyam prakṛteḥ api sāmānādhikaraṇyam bhavati iti . tat yathā dhūmam dṛṣṭvā agniḥ atra iti gamyate triviṣṭabdhakam dṛṣṭvā parivrājakaḥ iti . viṣamaḥ upanyāsaḥ . pratyakṣaḥ tena agnidhūmayoḥ abhisambandhaḥ kṛtaḥ bhavati triviṣṭabdhakaparivrājakayoḥ ca . saḥ tadvideśastham api dṛṣṭvā jānāti agniḥ atra parivrājakaḥ atra iti . bhavati vai pratyakṣāt api anumānabalīyastvam . tat yathā alātacakram pratyakṣam dṛśyate anumānāt ca gamyate na etat asti iti . kasya cit khalu api sakṛt kṛtaḥ abhisambandhaḥ atyantāya kṛtaḥ bhavati . tat yathā vṛkṣaparṇayoḥ ayam vṛkṣaḥ idam parṇam iti . saḥ tadvideśastham api dṛṣṭvā jānāti vṛkṣasya idam parṇam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१२५।२१-१२७।२४ रो इइइ,२९२ किम् पुनः अयम् पर्युदासः : यत् अन्यत् प्रथमासमानाधिकरणात् इति , आहोस्वित् प्रसज्यप्रतिषेधः : प्रथमासमानाधिकरणे न इति । कः च अत्र विशेषः । लटः शतृशानचौ अप्रथमासमानाधिकरणे इति चेत् प्रत्ययोत्तरपदयोः उपसङ्ख्यानम् । लटः शतृशानचौ अप्रथमासमानाधिकरणे इति चेत् प्रत्ययोत्तरपदयोः उपसङ्ख्यानम् कर्तव्यम् । कौर्वतः पाचतः कुर्वद्भक्तिः पचद्भक्तिः कुर्वाणभक्तिः पचमानभक्तिः । अस्तु तर्हि प्रसज्यप्रतिषेधः ।प्रथमासमानाधिकरणे न इति । प्रसज्यप्रतिषेधेउत्तरपदे आदेशानुपपत्तिः । प्रसज्यप्रतिषेधेउत्तरपदे आदेशयोः अनुपपत्तिः । कुर्वती च असौ भक्तिः च कुर्वद्भक्तिः पचभक्तिः कुर्वाणभक्तिः पचमानभक्तिः इति । ये च अपि एते समानाधिकरणवृत्तयः तद्धिताः तत्र च शतृशानचौ न प्राप्नुतः । कुर्वत्तरः पचत्तरः कुर्वाणतरः पचमानतरः कुर्वद्रूपः पचद्रूपः कुर्वाणरूपः पचमानरूपः कुर्वत्कल्पः पचत्कल्पः कुर्वाणकल्पः पचमानकल्पः इति । सिद्धम् तु प्रत्ययोत्तरपदयोः च इति वचनात् । सिद्धम् एतत् । कथम् । प्रत्ययोत्तरपदयोः च शतृशानचौ भवतः इति वक्तव्यम् । तत्र प्रत्ययस्य आदेशनिमित्तत्वात् अप्रसिद्धिः । तत्र प्रत्ययस्य आदेशनिमित्तत्वात् अप्रसिद्धिः । आदेशनिमित्तः प्रत्ययः प्रत्ययनिमित्तः च आदेशः । तत् एतत् इतरेतराश्रयम् भवति । इतरेतराश्रयाणि च न प्रक्ल्पन्ते । उत्तरपदस्य च सुबन्तनिमित्तत्वात् शतृशानचोः अप्रसिद्धिः । उत्तरपदस्य च सुबन्तनिमित्तत्वात् शतृशानचोः अप्रसिद्धिः । उत्तरपदनिमित्तः सुप् सुबन्तनिमित्तम् च उत्तरपदम् । तत् एतत् इतरेतराश्रयम् भवति । इतरेतराश्रयाणि च न प्रक्ल्पन्ते । न वा लकारस्य कृत्त्वात् प्रातिपदिकत्वम् तदाश्रयम् प्रत्ययविधानम् । न वा एषः दोषः । किम् कारणम् । लकारस्य कृत्त्वात् प्रातिपदिकत्वम् । लकारः कृत् कृत् प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा । तदाश्रयम् प्रत्ययविधानम् । प्रातिपदिकाश्रया स्वाद्युत्पत्तिः भविष्यति । तिङादेशात् सुबुत्पत्तिः । तिङादेशः क्रियताम् सुबुत्पत्तिः इति परत्वात् सुबुत्पत्तिः भविष्यति । तस्मात् उत्तरपदप्रसिद्धिः । तस्मात् उत्तरपदम् प्रसिद्धम् । उत्तरपदे प्रसिद्धे उत्तरपदे इति शतृशानचौ भविष्यतः । इह अपि तर्हि तिङादेशात् सुबुत्पत्तिः स्यात् पचति पठति इति । अस्ति अत्र विशेषः । नित्यः अत्र तिङादेशः । उत्पन्ने अपि सुपि प्राप्नोति अनुत्पन्ने अपि प्राप्नोति । नित्यत्वात् तिङादेशे कृते सुबुत्पत्तिः न भविष्यति । इह अपि तर्हि नित्यत्वात् तिङादेशः स्यात् कुर्वद्भक्तिः पचद्भक्तिः पचमानभक्तिः इति । अस्ति अत्र विशेषः । शतृशानचौ तिङपवादौ तौ च निमित्तवन्तौ । न च अपवादविषये उत्सर्गः अभिनिविशते । पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गः । प्रकल्प्य वा अपवादविषयम् ततः उत्सर्गः अभिनिविशते । न तावत् अत्र कदा चित् तिङ् भवति । अपवादौ शतृशानचौ प्रतीक्षते । तत् एतत् क्व सिद्धम् भवति । यत्र सामान्यात् उत्पत्तिः । यत्र हि विशेषात् अतः इञ् इति इतरेतराश्रयम् एव तत्र भवति । वीक्षमाणस्य अपत्यम् वैक्षमाणिः इति । इह च शतृशानचौ प्राप्नुतः । पचतितराम् जल्पतितराम् पचतिरूपम् जल्पतिरूपम् पचतिकल्पम् जल्पतिकल्पम् पचति पठति इति । तत् एतत् कथम् कृत्वा सिद्धम् भवति । शतृशानचौ यदि लटः वा । यदि शतृशानचौ यदि लटः वा भवतः व्यवस्थितविभाषा च । तेन इह च भविष्यतः कौर्वतः पाचतः कुर्वद्भक्तिः पचद्भक्तिः पचमानभक्तिः कुर्वत्तरः पचत्तरः पचमानतरः कुर्वद्रूपः पचद्रूपः पचमानरूपः कुर्वत्कल्पः पचत्कल्पः पचमानकल्पः पचन् पठन् इति च लटः शतृशानचौ । इह च न भविष्यतः पचतितराम् जल्पतितराम् पचतिरूपम् जल्पतिरूपम् पचतिकल्पम् जल्पतिकल्पम् पचति पठति इति च लटः शतृशानचौ । तत् तर्हि वावचनम् कर्तव्यम् । न कर्तव्यम् । प्रकृतम् अनुवर्तते । क्व प्रकृतम् । नन्वोः विभाषा इति । यदि तत् अनुवर्तते वर्तमाने लट इति लट् अपि विभाषा प्राप्नोति । सम्बन्धम् अनुवर्तिष्यते । नन्वोः विभाषा । पुरि लुङ् च अस्मे विभाषा । वर्तमाने लट्

KA II,125.21-127.24 Ro III,292 kim punaḥ ayam paryudāsaḥ : yat anyat prathamāsamānādhikaraṇāt iti , āhosvit prasajyapratiṣedhaḥ : prathamāsamānādhikaraṇe na iti . kaḥ ca atra viśeṣaḥ . laṭaḥ śatṛśānacau aprathamāsamānādhikaraṇe iti cet pratyayottarapadayoḥ upasaṅkhyānam . laṭaḥ śatṛśānacau aprathamāsamānādhikaraṇe iti cet pratyayottarapadayoḥ upasaṅkhyānam kartavyam . kaurvataḥ pācataḥ kurvadbhaktiḥ pacadbhaktiḥ kurvāṇabhaktiḥ pacamānabhaktiḥ . astu tarhi prasajyapratiṣedhaḥ .prathamāsamānādhikaraṇe na iti . prasajyapratiṣedheuttarapade ādeśānupapattiḥ . prasajyapratiṣedheuttarapade ādeśayoḥ anupapattiḥ . kurvatī ca asau bhaktiḥ ca kurvadbhaktiḥ pacabhaktiḥ kurvāṇabhaktiḥ pacamānabhaktiḥ iti . ye ca api ete samānādhikaraṇavṛttayaḥ taddhitāḥ tatra ca śatṛśānacau na prāpnutaḥ . kurvattaraḥ pacattaraḥ kurvāṇataraḥ pacamānataraḥ kurvadrūpaḥ pacadrūpaḥ kurvāṇarūpaḥ pacamānarūpaḥ kurvatkalpaḥ pacatkalpaḥ kurvāṇakalpaḥ pacamānakalpaḥ iti . siddham tu pratyayottarapadayoḥ ca iti vacanāt . siddham etat . katham . pratyayottarapadayoḥ ca śatṛśānacau bhavataḥ iti vaktavyam . tatra pratyayasya ādeśanimittatvāt aprasiddhiḥ . tatra pratyayasya ādeśanimittatvāt aprasiddhiḥ . ādeśanimittaḥ pratyayaḥ pratyayanimittaḥ ca ādeśaḥ . tat etat itaretarāśrayam bhavati . itaretarāśrayāṇi ca na praklpante . uttarapadasya ca subantanimittatvāt śatṛśānacoḥ aprasiddhiḥ . uttarapadasya ca subantanimittatvāt śatṛśānacoḥ aprasiddhiḥ . uttarapadanimittaḥ sup subantanimittam ca uttarapadam . tat etat itaretarāśrayam bhavati . itaretarāśrayāṇi ca na praklpante . na vā lakārasya kṛttvāt prātipadikatvam tadāśrayam pratyayavidhānam . na vā eṣaḥ doṣaḥ . kim kāraṇam . lakārasya kṛttvāt prātipadikatvam . lakāraḥ kṛt kṛt prātipadikam iti prātipadikasañjñā . tadāśrayam pratyayavidhānam . prātipadikāśrayā svādyutpattiḥ bhaviṣyati . tiṅādeśāt subutpattiḥ . tiṅādeśaḥ kriyatām subutpattiḥ iti paratvāt subutpattiḥ bhaviṣyati . tasmāt uttarapadaprasiddhiḥ . tasmāt uttarapadam prasiddham . uttarapade prasiddhe uttarapade iti śatṛśānacau bhaviṣyataḥ . iha api tarhi tiṅādeśāt subutpattiḥ syāt pacati paṭhati iti . asti atra viśeṣaḥ . nityaḥ atra tiṅādeśaḥ . utpanne api supi prāpnoti anutpanne api prāpnoti . nityatvāt tiṅādeśe kṛte subutpattiḥ na bhaviṣyati . iha api tarhi nityatvāt tiṅādeśaḥ syāt kurvadbhaktiḥ pacadbhaktiḥ pacamānabhaktiḥ iti . asti atra viśeṣaḥ . śatṛśānacau tiṅapavādau tau ca nimittavantau . na ca apavādaviṣaye utsargaḥ abhiniviśate . pūrvam hi apavādāḥ abhiniviśante paścāt utsargaḥ . prakalpya vā apavādaviṣayam tataḥ utsargaḥ abhiniviśate . na tāvat atra kadā cit tiṅ bhavati . apavādau śatṛśānacau pratīkṣate . tat etat kva siddham bhavati . yatra sāmānyāt utpattiḥ . yatra hi viśeṣāt ataḥ iñ iti itaretarāśrayam eva tatra bhavati . vīkṣamāṇasya apatyam vaikṣamāṇiḥ iti . iha ca śatṛśānacau prāpnutaḥ . pacatitarām jalpatitarām pacatirūpam jalpatirūpam pacatikalpam jalpatikalpam pacati paṭhati iti . tat etat katham kṛtvā siddham bhavati . śatṛśānacau yadi laṭaḥ vā . yadi śatṛśānacau yadi laṭaḥ vā bhavataḥ vyavasthitavibhāṣā ca . tena iha ca bhaviṣyataḥ kaurvataḥ pācataḥ kurvadbhaktiḥ pacadbhaktiḥ pacamānabhaktiḥ kurvattaraḥ pacattaraḥ pacamānataraḥ kurvadrūpaḥ pacadrūpaḥ pacamānarūpaḥ kurvatkalpaḥ pacatkalpaḥ pacamānakalpaḥ pacan paṭhan iti ca laṭaḥ śatṛśānacau . iha ca na bhaviṣyataḥ pacatitarām jalpatitarām pacatirūpam jalpatirūpam pacatikalpam jalpatikalpam pacati paṭhati iti ca laṭaḥ śatṛśānacau . tat tarhi vāvacanam kartavyam . na kartavyam . prakṛtam anuvartate . kva prakṛtam . nanvoḥ vibhāṣā iti . yadi tat anuvartate vartamāne laṭa iti laṭ api vibhāṣā prāpnoti . sambandham anuvartiṣyate . nanvoḥ vibhāṣā . puri luṅ ca asme vibhāṣā . vartamāne laṭ

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१२७।२६-१२८।२३ रो इइइ,२९२-२९४ लक्षणहेत्वोः क्रियायाः गुणे उपसङ्ख्यानम् । लक्षणहेत्वोः क्रियायाः गुणे उपसङ्ख्यानम् कर्तव्यम् । तिष्ठन् मूत्रयति । गच्छन् भक्षयति । कर्तुः च लक्षणयोः पर्यायेण अचयोगे । कर्तुः च लक्षणयोः पर्यायेण अचयोगे उपसङ्ख्यानम् कर्तव्यम् । यः अधीयानः आस्ते सः देवदत्त्तः । यः आसीनः अधीते सः देवदत्तः । अचयोगे इति किमर्थम् । यः आस्ते च अधीते च सः चैत्रः । तत्त्वान्वाख्याने च । तत्त्वान्वाख्याने च उपसङ्ख्यानम् कर्तव्यम् । शयाना वर्धते दूर्वा । आसीनम् वर्धते बिसम् इति । सदादयः च बहुलम् । सदादयः च बहुलम् इति वक्तव्यम् । सन् ब्राह्मणः अस्ति ब्राह्मणः । विद्यते ब्राह्मणः विद्यमानः ब्राह्मणः इति । इङ्जुहोत्योः वावचनम् । इङ्जुहोत्योः वा इति वक्तव्यम् । अधीते अधीयानः । जुहोति जुह्वत् । माङि आक्रोशे । माङि आक्रोशे इति वक्तव्यम् । मा पचन् । मा पचमानः । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । लक्षणहेत्वोः क्रियायाः इति एव सिद्धम् । इह तावत् तिष्ठन् मूत्रयति इति । तिष्ठतिक्रिया मूत्रयतिक्रियायाः लक्षणम् । गच्छन् भक्षयति इति । गच्छतिक्रिया भक्षयतिक्रियायाः लक्षणम् । यः अधीयानः आस्ते सः देवदत्त्तः इति । अध्ययनक्रिया आसनक्रियायाः लक्षणम् । यः आसीनः अधीते सः देवदत्तः इति । आसिक्रिया अध्ययनक्रियायाः लक्षणम् । इदम् तर्हि प्रयोजनम् । अचयोगे इति वक्ष्यामि इति । इह मा भूत् । यः आस्ते च अधीते च सः चैत्रः इति । एतत् अपि न अस्ति प्रयोजनम् । न एतत् क्रियायाः लक्षणम् । किम् तर्हि । कर्तृलक्षणम् एतत् । शयाना वर्धते दूर्वा इति । शेतिक्रिया वृद्धिक्रियायाः लक्षणम् । आसीनम् वर्धते बिसम् इति । आसिक्रिया वृद्धिक्रियायाः लक्षणम् । सदादयः च बहुलम् इङ्जुहोत्योः वा माङि आक्रोशे इति वक्तव्यम् एव।

KA II,127.26-128.23 Ro III,292-294 lakṣaṇahetvoḥ kriyāyāḥ guṇe upasaṅkhyānam . lakṣaṇahetvoḥ kriyāyāḥ guṇe upasaṅkhyānam kartavyam . tiṣṭhan mūtrayati . gacchan bhakṣayati . kartuḥ ca lakṣaṇayoḥ paryāyeṇa acayoge . kartuḥ ca lakṣaṇayoḥ paryāyeṇa acayoge upasaṅkhyānam kartavyam . yaḥ adhīyānaḥ āste saḥ devadatttaḥ . yaḥ āsīnaḥ adhīte saḥ devadattaḥ . acayoge iti kimartham . yaḥ āste ca adhīte ca saḥ caitraḥ . tattvānvākhyāne ca . tattvānvākhyāne ca upasaṅkhyānam kartavyam . śayānā vardhate dūrvā . āsīnam vardhate bisam iti . sadādayaḥ ca bahulam . sadādayaḥ ca bahulam iti vaktavyam . san brāhmaṇaḥ asti brāhmaṇaḥ . vidyate brāhmaṇaḥ vidyamānaḥ brāhmaṇaḥ iti . iṅjuhotyoḥ vāvacanam . iṅjuhotyoḥ vā iti vaktavyam . adhīte adhīyānaḥ . juhoti juhvat . māṅi ākrośe . māṅi ākrośe iti vaktavyam . mā pacan . mā pacamānaḥ . tat tarhi vaktavyam . na vaktavyam . lakṣaṇahetvoḥ kriyāyāḥ iti eva siddham . iha tāvat tiṣṭhan mūtrayati iti . tiṣṭhatikriyā mūtrayatikriyāyāḥ lakṣaṇam . gacchan bhakṣayati iti . gacchatikriyā bhakṣayatikriyāyāḥ lakṣaṇam . yaḥ adhīyānaḥ āste saḥ devadatttaḥ iti . adhyayanakriyā āsanakriyāyāḥ lakṣaṇam . yaḥ āsīnaḥ adhīte saḥ devadattaḥ iti . āsikriyā adhyayanakriyāyāḥ lakṣaṇam . idam tarhi prayojanam . acayoge iti vakṣyāmi iti . iha mā bhūt . yaḥ āste ca adhīte ca saḥ caitraḥ iti . etat api na asti prayojanam . na etat kriyāyāḥ lakṣaṇam . kim tarhi . kartṛlakṣaṇam etat . śayānā vardhate dūrvā iti . śetikriyā vṛddhikriyāyāḥ lakṣaṇam . āsīnam vardhate bisam iti . āsikriyā vṛddhikriyāyāḥ lakṣaṇam . sadādayaḥ ca bahulam iṅjuhotyoḥ vā māṅi ākrośe iti vaktavyam eva.

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१२८।२५-१२९।२३ रो इइइ,२९४-२९६ तौग्रहणम् किमर्थम् । शतृशानचौ प्रतिनिर्दिश्येते । न एतत् अस्ति प्रयोजनम् । प्रकृतौ शतृशानचौ अनुवर्तिष्येते । क्व प्रकृतौ । लटः शतृसानचौ अप्रथमासमानाधिकरणे इति । अतः उत्तरम् पठति । तौ सत् इति वचनम् असंसर्गार्थम् टौ ग्रहणम् क्रियते असंसर्गार्थम् । असंसक्तयोः एतैः विशेषैः शतृशानचोः सञ्ज्ञा यथा स्यात् । ननु च एते विशेषाः निवर्तेरन् । यदि अपि एते विशेषाः निवर्तन्ते अयम् तु खलु वर्तमानः कालः अवश्यम् उत्तरार्थः अनुवर्त्यः । तस्मिन् अनुवर्तमाने वर्तमानकालविहितयोः एव शतृशानचोः सत्स्ञ्ज्ञा स्यात् । भूतभविष्यकालविहितयोः न स्यात् । किम् पुनः भूतभविष्यकालविहितयोः सत्स्ञ्ज्ञावचने प्रयोजनम् । पूरणगुणसुहितसत् इति । ब्राह्मणस्य पक्ष्यन् । ब्राह्मणस्य पक्ष्यमाणः । अथ क्रियमाणे अपि तौग्रहणे कथम् एव असंसक्तयोः एतैः विशेषैः सञ्ज्ञा लभ्या । लभ्या इति आह । कथम् । तौ इति शब्दतः सत् इति योगे क्रियमाणे तौ ग्रहणम् योगाङ्गम् जायते । सति च योगाङ्गे योगविभागः करिष्यते । तौ । तौ एतौ शतृशानचौ धातुमात्रात् परस्य प्रत्ययस्य भवतः । ततः सत् । सत्स्ञ्ज्ञौ भवतौ शतृशानचौ । इह अपि तर्हि प्राप्नुतः । कारकः हारकः इति । अवधारणम् लृटि विधानम् । लृतः सत् वा इति एतत् नियमार्थम् भविष्यति । लृटः एव धातुमात्रात् परस्य न अन्यस्य इति । कैमर्थ्यक्यात् नियमः भवति । विधेयम् न अस्ति इति कृत्वा । इह च अस्ति विधेयम् । किम् । नित्यौ शतृशानचौ प्राप्तौ । तौ विभाषा विधेयौ । तत्र अपूर्वः विधिः अस्तु नियमः अस्तु इति अपूर्वः एव विधिः भविष्यति न नियमः । योगविभागतः च विहितम् सत् । एवम् तर्हि योगविभागः करिष्यते । लृटः सत् । लृटः सत्सञ्ज्ञौ भवतः । किमर्थम् इदम् । नियमार्थम् । लृटः एव धातुमात्रात् परस्य न अन्यस्य इति । ततः वा । वा च लृटः शतृशानचौ सत्सञ्ज्ञौ भवतः । तत्र अयम् अपि अर्थः । सद्विधिः नित्यम् अप्रथमासमानाधिकरणे इति वक्ष्यति । तत् न वक्तव्यम् भवति ।

KA II,128.25-129.23 Ro III,294-296 taugrahaṇam kimartham . śatṛśānacau pratinirdiśyete . na etat asti prayojanam . prakṛtau śatṛśānacau anuvartiṣyete . kva prakṛtau . laṭaḥ śatṛsānacau aprathamāsamānādhikaraṇe iti . ataḥ uttaram paṭhati . tau sat iti vacanam asaṃsargārtham ṭau grahaṇam kriyate asaṃsargārtham . asaṃsaktayoḥ etaiḥ viśeṣaiḥ śatṛśānacoḥ sañjñā yathā syāt . nanu ca ete viśeṣāḥ nivarteran . yadi api ete viśeṣāḥ nivartante ayam tu khalu vartamānaḥ kālaḥ avaśyam uttarārthaḥ anuvartyaḥ . tasmin anuvartamāne vartamānakālavihitayoḥ eva śatṛśānacoḥ satsñjñā syāt . bhūtabhaviṣyakālavihitayoḥ na syāt . kim punaḥ bhūtabhaviṣyakālavihitayoḥ satsñjñāvacane prayojanam . pūraṇaguṇasuhitasat iti . brāhmaṇasya pakṣyan . brāhmaṇasya pakṣyamāṇaḥ . atha kriyamāṇe api taugrahaṇe katham eva asaṃsaktayoḥ etaiḥ viśeṣaiḥ sañjñā labhyā . labhyā iti āha . katham . tau iti śabdataḥ sat iti yoge kriyamāṇe tau grahaṇam yogāṅgam jāyate . sati ca yogāṅge yogavibhāgaḥ kariṣyate . tau . tau etau śatṛśānacau dhātumātrāt parasya pratyayasya bhavataḥ . tataḥ sat . satsñjñau bhavatau śatṛśānacau . iha api tarhi prāpnutaḥ . kārakaḥ hārakaḥ iti . avadhāraṇam lṛṭi vidhānam . lṛtaḥ sat vā iti etat niyamārtham bhaviṣyati . lṛṭaḥ eva dhātumātrāt parasya na anyasya iti . kaimarthyakyāt niyamaḥ bhavati . vidheyam na asti iti kṛtvā . iha ca asti vidheyam . kim . nityau śatṛśānacau prāptau . tau vibhāṣā vidheyau . tatra apūrvaḥ vidhiḥ astu niyamaḥ astu iti apūrvaḥ eva vidhiḥ bhaviṣyati na niyamaḥ . yogavibhāgataḥ ca vihitam sat . evam tarhi yogavibhāgaḥ kariṣyate . lṛṭaḥ sat . lṛṭaḥ satsañjñau bhavataḥ . kimartham idam . niyamārtham . lṛṭaḥ eva dhātumātrāt parasya na anyasya iti . tataḥ vā . vā ca lṛṭaḥ śatṛśānacau satsañjñau bhavataḥ . tatra ayam api arthaḥ . sadvidhiḥ nityam aprathamāsamānādhikaraṇe iti vakṣyati . tat na vaktavyam bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१२९।२४-१३०।१९ रो इइइ,२९६-२९७ अथ यौ एतौ उत्तरौ शतानौ किम् एतौ लादेशौ आहोस्वित् अलादेशौ । कः च अत्र विशेषः । उत्तरयोः लादेशे वावचनम् । उत्तरयोः लादेशे वा इति वक्तव्यम् । पवमानः यजमानः । पवते यजते इति अपि यथा स्यात् । साधनाभिधानम् । साधनाभिधानम् च प्राप्नोति । लः कर्मणि च भावे च अकर्मकेभ्यः इति भावकर्मणोः अपि प्राप्नुतः । स्वरः । स्वरः च साध्यः । कति इह पवमानाः । अदुपदेशात् लसार्वधातुकम् अनुदात्तम् भवति इति एषः स्वरः प्राप्नोति । उपग्रहप्रतिषेधः च । उपग्रहस्य च प्रतिषेधः वक्तव्यः । कति इह निघ्नानाः । तङानौ आत्मनेपदम् इति आत्मनेपदसञ्ज्ञा प्राप्नोति । स्ताम् तर्हि अलादेशौ । अलादेशे षष्ठीप्रतिषेधः । अलादेशे षष्ठीप्रतिषेधः वक्तव्यः । सोमम् पवमानः । नडम् आघ्नानः । अधीयन् पारायणम् । लप्रयोगे न इति प्रतिषेधः न प्राप्नोति । मा भूत् एवम् । तृन् इति एव भविष्यति । कथम् । तृन् इति न इदम् प्रत्ययग्रहणम् । किम् तर्हि । प्रत्याहारग्रहणम् । क्व सन्निविष्टाणाम् प्रत्याहारः । लटः शतृ इति अतः आरभ्य आ तृनः नकारात् । यदि प्रत्याहारग्रहणम् चौरस्य द्विषन् वृषलस्य द्विषन् अत्र अपि प्राप्नोति । द्विषः शतुः वावचनम् । द्विषः शतुः वा इति वक्तव्यम् । तत् च अवश्यम् वक्तव्यम् प्रत्ययग्रहणे सति प्रतिषेधार्थम् । तत् एव प्रत्याहारग्रहणे सति विध्यर्थम् भविष्यति।

KA II,129.24-130.19 Ro III,296-297 atha yau etau uttarau śatānau kim etau lādeśau āhosvit alādeśau . kaḥ ca atra viśeṣaḥ . uttarayoḥ lādeśe vāvacanam . uttarayoḥ lādeśe vā iti vaktavyam . pavamānaḥ yajamānaḥ . pavate yajate iti api yathā syāt . sādhanābhidhānam . sādhanābhidhānam ca prāpnoti . laḥ karmaṇi ca bhāve ca akarmakebhyaḥ iti bhāvakarmaṇoḥ api prāpnutaḥ . svaraḥ . svaraḥ ca sādhyaḥ . kati iha pavamānāḥ . adupadeśāt lasārvadhātukam anudāttam bhavati iti eṣaḥ svaraḥ prāpnoti . upagrahapratiṣedhaḥ ca . upagrahasya ca pratiṣedhaḥ vaktavyaḥ . kati iha nighnānāḥ . taṅānau ātmanepadam iti ātmanepadasañjñā prāpnoti . stām tarhi alādeśau . alādeśe ṣaṣṭhīpratiṣedhaḥ . alādeśe ṣaṣṭhīpratiṣedhaḥ vaktavyaḥ . somam pavamānaḥ . naḍam āghnānaḥ . adhīyan pārāyaṇam . laprayoge na iti pratiṣedhaḥ na prāpnoti . mā bhūt evam . tṛn iti eva bhaviṣyati . katham . tṛn iti na idam pratyayagrahaṇam . kim tarhi . pratyāhāragrahaṇam . kva sanniviṣṭāṇām pratyāhāraḥ . laṭaḥ śatṛ iti ataḥ ārabhya ā tṛnaḥ nakārāt . yadi pratyāhāragrahaṇam caurasya dviṣan vṛṣalasya dviṣan atra api prāpnoti . dviṣaḥ śatuḥ vāvacanam . dviṣaḥ śatuḥ vā iti vaktavyam . tat ca avaśyam vaktavyam pratyayagrahaṇe sati pratiṣedhārtham . tat eva pratyāhāragrahaṇe sati vidhyartham bhaviṣyati.

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१३०।२१-१३१।१३ रो इइइ,२९८-३०० तृन्विधौ ऋत्विक्षु च अनुपसर्गस्य । तृन्विधौ ऋत्विक्षु च अनुपसर्गस्य इति वक्तव्यम् । होता पोता । अनुपसर्गस्य इति किमर्थम् । प्रशास्ता प्रतिहर्ता । नयतेः षुक् च । नयतेः षुक् वक्तव्यः । तृन् च प्रत्ययः वक्तव्यञ्। नेष्टा । न वा धात्वन्यत्वात् । न वा वक्तव्यम् । किम् कारणम् । धात्वन्यत्वात् । धात्वन्तरम् नेषतिः । कथम् ज्ञायते । नेषतु नेष्टात् इति दर्शनात् । नेषतु नेष्टात् इति प्रयोगः दृश्यते । इन्द्रः नः तेन नेषतु । गाः वः नेष्टात् । त्विषेः देवतायाम् अकारः च उपधायाः अनिट्वम् च । त्विषेः देवतायाम् तृन् वक्तव्यः अकारः च उपधायाः अनिट्वम् च इति । त्वष्टा । किम् पुनः इदम् त्विषेः एव अनिट्वम् । न इति आह । यत् च अनुक्रान्तम् यत् च अनुक्रंस्यते सर्वस्य एषः शेषः अनिट्वम् इति । क्षदेः च युक्ते । क्षदेः च युक्ते तृन् वक्तव्यः । क्षत्ता । छन्दसि तृच् च । छन्दसि तृच् च तृन् च वक्तव्यः । क्षत्तृभ्यः सङ्ग्रहीतृभ्यः । क्षत्तृभ्यः सङ्ग्रहीतृभ्यः ।

KA II,130.21-131.13 Ro III,298-300 tṛnvidhau ṛtvikṣu ca anupasargasya . tṛnvidhau ṛtvikṣu ca anupasargasya iti vaktavyam . hotā potā . anupasargasya iti kimartham . praśāstā pratihartā . nayateḥ ṣuk ca . nayateḥ ṣuk vaktavyaḥ . tṛn ca pratyayaḥ vaktavyañ. neṣṭā . na vā dhātvanyatvāt . na vā vaktavyam . kim kāraṇam . dhātvanyatvāt . dhātvantaram neṣatiḥ . katham jñāyate . neṣatu neṣṭāt iti darśanāt . neṣatu neṣṭāt iti prayogaḥ dṛśyate . indraḥ naḥ tena neṣatu . gāḥ vaḥ neṣṭāt . tviṣeḥ devatāyām akāraḥ ca upadhāyāḥ aniṭvam ca . tviṣeḥ devatāyām tṛn vaktavyaḥ akāraḥ ca upadhāyāḥ aniṭvam ca iti . tvaṣṭā . kim punaḥ idam tviṣeḥ eva aniṭvam . na iti āha . yat ca anukrāntam yat ca anukraṃsyate sarvasya eṣaḥ śeṣaḥ aniṭvam iti . kṣadeḥ ca yukte . kṣadeḥ ca yukte tṛn vaktavyaḥ . kṣattā . chandasi tṛc ca . chandasi tṛc ca tṛn ca vaktavyaḥ . kṣattṛbhyaḥ saṅgrahītṛbhyaḥ . kṣattṛbhyaḥ saṅgrahītṛbhyaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१३१।१५-१३२।२० रो इइइ,२९९-३०० स्नोः कित्त्वे स्थः ईकार्प्रतिषेधः । स्नोः कित्त्वे स्थः ईकार्प्रतिषेधः वक्तव्यः । स्थास्नुः इति । घुमास्थागापाजहातिसाम् हलि इति ईत्त्वम् प्राप्नोति । एवम् तर्हि न कित् करिष्यते । अकिति गुणप्रतिषेधः । यदि अकित् गुणप्रतिषेधः वक्तव्यः । जिष्णुः इति । भुवः इट्प्रतिषेधः च । भुवः इट्प्रतिषेधः च वक्तव्यः । किम् च अन्यत् । गुणप्रतिषेधः च । भूष्णुः इति । अस्तु तर्हि कित्। ननु च उक्तम् स्नोः कित्त्वे स्थः ईकार्प्रतिषेधः वक्तव्यः इति । न एषः दोषः । स्थादंशिभ्याम् स्नुः छन्दसि । स्थादंशिभ्याम् स्नुः छन्दसि वक्तव्यः । स्थास्नु जङ्गमम् । दङ्क्ष्णवः पशवः इति । सः इदानीम् स्थः अविशेषेण विधास्यते । सूत्रम् तर्हि भिद्यते । यथान्यासम् अस्तु। ननु च उक्तम् स्नोः कित्त्वे स्थः ईकार्प्रतिषेधः वक्तव्यः इति । एवम् तर्हि गित् करिष्यते । स्थोः गित्त्वात् न स्थः ईकारः । स्थोः गित्त्वात् स्थः ईकारः न भविष्यति । किम् कारणम् । क्ङितोः ईत्त्वशासनात् । क्ङितोः ईत्त्वम् शिष्यते । इह तर्हि जिष्णुः इति गुणः प्राप्नोति । गुणाभावः त्रिषु स्मार्यः । गुणाभावः त्रिषु स्मर्तव्यः । गिति किति ङिति इति । तत् गकारग्रहणम् कर्तव्यम् । न कर्तव्यम् । क्रियते न्यासे एव । ककारे गकारः चर्त्वभूतः निर्दिश्यते । क्क्ङिति च इति । इह तर्हि भूष्णुः इति श्र्युकः किति इति इट्प्रतिषेधः न प्राप्नोति । श्र्युको अनिट्त्वम् गकोः इतोः । श्र्युकः अनिट्त्वम् गकारककारयोः इति वक्तव्यम् । तत् गकारग्रहणम् कर्तव्यम् । न कर्तव्यम् । क्रियते न्यासः एव । ककारे गकारः चर्त्वभूतः निर्दिश्यते । श्र्युकः क्किति इति । यदि एवम् चर्त्वस्य असिद्धत्वात् हशि इति उत्त्वम् प्राप्नोति । सौत्रः निर्देशः । अथ वा असंहितया निर्देशः करिष्यते । श्र्युकः क्किति इति । स्थोः गित्त्वात् न स्थः ईकारः क्ङितोः ईत्त्वशासनात् । गुणाभावः त्रिषु स्मार्यः । श्र्युको अनिट्त्वम् गकोः इतोः ।

KA II,131.15-132.20 Ro III,299-300 snoḥ kittve sthaḥ īkārpratiṣedhaḥ . snoḥ kittve sthaḥ īkārpratiṣedhaḥ vaktavyaḥ . sthāsnuḥ iti . ghumāsthāgāpājahātisām hali iti īttvam prāpnoti . evam tarhi na kit kariṣyate . akiti guṇapratiṣedhaḥ . yadi akit guṇapratiṣedhaḥ vaktavyaḥ . jiṣṇuḥ iti . bhuvaḥ iṭpratiṣedhaḥ ca . bhuvaḥ iṭpratiṣedhaḥ ca vaktavyaḥ . kim ca anyat . guṇapratiṣedhaḥ ca . bhūṣṇuḥ iti . astu tarhi kit. nanu ca uktam snoḥ kittve sthaḥ īkārpratiṣedhaḥ vaktavyaḥ iti . na eṣaḥ doṣaḥ . sthādaṃśibhyām snuḥ chandasi . sthādaṃśibhyām snuḥ chandasi vaktavyaḥ . sthāsnu jaṅgamam . daṅkṣṇavaḥ paśavaḥ iti . saḥ idānīm sthaḥ aviśeṣeṇa vidhāsyate . sūtram tarhi bhidyate . yathānyāsam astu. nanu ca uktam snoḥ kittve sthaḥ īkārpratiṣedhaḥ vaktavyaḥ iti . evam tarhi git kariṣyate . sthoḥ gittvāt na sthaḥ īkāraḥ . sthoḥ gittvāt sthaḥ īkāraḥ na bhaviṣyati . kim kāraṇam . kṅitoḥ īttvaśāsanāt . kṅitoḥ īttvam śiṣyate . iha tarhi jiṣṇuḥ iti guṇaḥ prāpnoti . guṇābhāvaḥ triṣu smāryaḥ . guṇābhāvaḥ triṣu smartavyaḥ . giti kiti ṅiti iti . tat gakāragrahaṇam kartavyam . na kartavyam . kriyate nyāse eva . kakāre gakāraḥ cartvabhūtaḥ nirdiśyate . kkṅiti ca iti . iha tarhi bhūṣṇuḥ iti śryukaḥ kiti iti iṭpratiṣedhaḥ na prāpnoti . śryuko aniṭtvam gakoḥ itoḥ . śryukaḥ aniṭtvam gakārakakārayoḥ iti vaktavyam . tat gakāragrahaṇam kartavyam . na kartavyam . kriyate nyāsaḥ eva . kakāre gakāraḥ cartvabhūtaḥ nirdiśyate . śryukaḥ kkiti iti . yadi evam cartvasya asiddhatvāt haśi iti uttvam prāpnoti . sautraḥ nirdeśaḥ . atha vā asaṃhitayā nirdeśaḥ kariṣyate . śryukaḥ kkiti iti . sthoḥ gittvāt na sthaḥ īkāraḥ kṅitoḥ īttvaśāsanāt . guṇābhāvaḥ triṣu smāryaḥ . śryuko aniṭtvam gakoḥ itoḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१३२।२२-१३३।४ रो इइइ,३०१ घिनण् अयम् वक्तव्यः । घिनुणि हि सति शमिनौ शमिनः तमिनौ तमिनः उगिदचाम् सर्वनामस्थाने अधातोः इति नुम् प्रसज्येत । न एषः दोषः । झल्ग्रहणम् तत्र चोदयिष्यति । इह तर्हि : शमिनितरा शमिनीतरा तमिनितरा तमिनीतरा : उगितः घादिषु नद्याः अन्यतरस्याम् ह्रस्वः भवति इति अन्यरतस्याम् ह्रस्वत्वम् प्रसज्येत । इष्यते एव ह्रस्वत्वम् । घिनुण् अकर्मकाणाम् । घिनुण् अकर्मकाणाम् इति वक्तव्यम् । इह मा भूत् । सम्पृणक्ति शाकम् इति । उक्तम् वा । किम् उक्तम् । अनभिधानात् इति ।

KA II,132.22-133.4 Ro III,301 ghinaṇ ayam vaktavyaḥ . ghinuṇi hi sati śaminau śaminaḥ taminau taminaḥ ugidacām sarvanāmasthāne adhātoḥ iti num prasajyeta . na eṣaḥ doṣaḥ . jhalgrahaṇam tatra codayiṣyati . iha tarhi : śaminitarā śaminītarā taminitarā taminītarā : ugitaḥ ghādiṣu nadyāḥ anyatarasyām hrasvaḥ bhavati iti anyaratasyām hrasvatvam prasajyeta . iṣyate eva hrasvatvam . ghinuṇ akarmakāṇām . ghinuṇ akarmakāṇām iti vaktavyam . iha mā bhūt . sampṛṇakti śākam iti . uktam vā . kim uktam . anabhidhānāt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१३३।७-१९ रो इइइ,३०१-३०२ किमर्थम् निन्दादिभ्यः वुञ् विधीयते न ण्वुला एव सिद्धम् । न हि अस्ति विशेषः निन्दादिभ्यः ण्वुलः वा वुञः वा । तत् एव रूपम् सः एव स्वरः । वुञ्म् अनेकाचः । वुञ्म् अनेकाचः प्रयोजयन्ति । असूयकः । अथ ये अत्र एकाचः पठ्यन्ते तेषाम् ग्रहणम् किमर्थम् न तेषाम् ण्वुला एव सिद्धम् । न सिध्यति । अयम् तच्छीलादिषु तृन् विधीयते । सः विशेषविहितः सामान्यविहितम् ण्वुलम् बाधेत । वासरूपन्यायेन ण्वुल् अपि भविष्यति । अतः उत्तरम् पठति । निन्दादिभ्यः वुञ्वचनम् अन्येभ्यः ण्वुलः प्रतिषेधार्थम् । निन्दादिभ्यः वुञ्वचनम् क्रियते ज्ञापकार्थम् । किम् ज्ञाप्यम् । एतत् ज्ञापयति आचार्यः तच्छीलादिषु वासरूपन्यायेन अन्येभ्यः ण्वुल् न भवति इति । तृजादिप्रतिषेधाऋथम् वा । अथ वा एतत् ज्ञापयति आचार्यः । तच्छीलादिषु सर्वे एव तृजासयः वासरूपेण न भवन्ति इति ।

KA II,133.7-19 Ro III,301-302 kimartham nindādibhyaḥ vuñ vidhīyate na ṇvulā eva siddham . na hi asti viśeṣaḥ nindādibhyaḥ ṇvulaḥ vā vuñaḥ vā . tat eva rūpam saḥ eva svaraḥ . vuñm anekācaḥ . vuñm anekācaḥ prayojayanti . asūyakaḥ . atha ye atra ekācaḥ paṭhyante teṣām grahaṇam kimartham na teṣām ṇvulā eva siddham . na sidhyati . ayam tacchīlādiṣu tṛn vidhīyate . saḥ viśeṣavihitaḥ sāmānyavihitam ṇvulam bādheta . vāsarūpanyāyena ṇvul api bhaviṣyati . ataḥ uttaram paṭhati . nindādibhyaḥ vuñvacanam anyebhyaḥ ṇvulaḥ pratiṣedhārtham . nindādibhyaḥ vuñvacanam kriyate jñāpakārtham . kim jñāpyam . etat jñāpayati ācāryaḥ tacchīlādiṣu vāsarūpanyāyena anyebhyaḥ ṇvul na bhavati iti . tṛjādipratiṣedhāṛtham vā . atha vā etat jñāpayati ācāryaḥ . tacchīlādiṣu sarve eva tṛjāsayaḥ vāsarūpeṇa na bhavanti iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१३३।२१-१३४।९ रो इइइ,३०२-३०३ पदिग्रहणम् अनर्थकम् अनुदात्तेतः च हलादेः इति सिद्धत्वात् । पदिग्रहणम् अनर्थकम् । किम् कारणम् । अनुदात्तेतः च हलादेः इति एव अत्र युच् सिद्धः । न सिध्यति । अयम् पदेः उकञ् विधीयते लषपदपद्स्थाभूवृषहनकमगमशॄभ्यः उकञ् इति । सः विशेषविहितः सामान्यविहितम् युचम् बाधेत । वासरूपन्यायेन युच् अपि भविष्यति । असरूपनिवृत्त्यर्थम् तु । असरूपनिवृत्त्यर्थम् तर्हि पदिग्रहणम् क्रियते । एतत् ज्ञापयति आचार्यः ताच्छीलिकेषु ताच्छिलिकाः वासरूपेण न भवन्ति इति । यदि एतत् ज्ञाप्यते दूददीपदीक्षः च इति दीपग्रहणम् अनर्थकम् । अयम् दीपेः रः विधीयते । नमिकम्पिस्म्यजसहिंसदीपः रः इति । सः विशेषविहितः सामान्यविहितम् युचम् बाधिष्यते । एवम् तर्हि सिद्धे सति यत् दीपग्रहणम् करोति तत् ज्ञापयति आचार्यः भवति युचः रेण समावेशः इति । किम् एतस्य ज्ञापने प्रयोजनम् । कम्रा कन्या कमना कन्या इति एतत् सिद्धम् भवति ।

KA II,133.21-134.9 Ro III,302-303 padigrahaṇam anarthakam anudāttetaḥ ca halādeḥ iti siddhatvāt . padigrahaṇam anarthakam . kim kāraṇam . anudāttetaḥ ca halādeḥ iti eva atra yuc siddhaḥ . na sidhyati . ayam padeḥ ukañ vidhīyate laṣapadapadsthābhūvṛṣahanakamagamaśṝbhyaḥ ukañ iti . saḥ viśeṣavihitaḥ sāmānyavihitam yucam bādheta . vāsarūpanyāyena yuc api bhaviṣyati . asarūpanivṛttyartham tu . asarūpanivṛttyartham tarhi padigrahaṇam kriyate . etat jñāpayati ācāryaḥ tācchīlikeṣu tācchilikāḥ vāsarūpeṇa na bhavanti iti . yadi etat jñāpyate dūdadīpadīkṣaḥ ca iti dīpagrahaṇam anarthakam . ayam dīpeḥ raḥ vidhīyate . namikampismyajasahiṃsadīpaḥ raḥ iti . saḥ viśeṣavihitaḥ sāmānyavihitam yucam bādhiṣyate . evam tarhi siddhe sati yat dīpagrahaṇam karoti tat jñāpayati ācāryaḥ bhavati yucaḥ reṇa samāveśaḥ iti . kim etasya jñāpane prayojanam . kamrā kanyā kamanā kanyā iti etat siddham bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१३४।११-१६ रो इइइ,३०३-३०४ किमर्थम् आलुच् उच्यते न लुश् एव उच्येत । का रूपसिद्धिः : स्पृहयालुः गृहयालुः । शपि कृते अतः दीर्घः यञि इति दीर्घत्वम् भविष्यति । एवम् तर्हि सिद्धे सति यत् आलुचम् शास्ति तत् ज्ञापयति आचार्यः अन्येभ्यः अपि अयम् भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । आलुचि शीङ्ग्रहणम् चोदयिष्यति । तत् न कर्तव्यम् भवति । आलुचि शीङ्ग्रहणम् । आलुचि शीङ्ग्रहणम् कर्तव्यम् । शयालुः ।

KA II,134.11-16 Ro III,303-304 kimartham āluc ucyate na luś eva ucyeta . kā rūpasiddhiḥ : spṛhayāluḥ gṛhayāluḥ . śapi kṛte ataḥ dīrghaḥ yañi iti dīrghatvam bhaviṣyati . evam tarhi siddhe sati yat ālucam śāsti tat jñāpayati ācāryaḥ anyebhyaḥ api ayam bhavati iti . kim etasya jñāpane prayojanam . āluci śīṅgrahaṇam codayiṣyati . tat na kartavyam bhavati . āluci śīṅgrahaṇam . āluci śīṅgrahaṇam kartavyam . śayāluḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१३४।१८-१३५।१२ रो इइइ,३०४-३०५ किमर्थम् किकिनोः कित्त्वम् उच्यते न असंयोगात् लिट् कित् इति एव सिद्धम् । किकिनोः कित्त्वम् ॠकारगुणप्रतिषेधाऋथम् । किकिनोः कित्त्वम् क्रियते ॠकारगुणप्रतिषेधाऋथम् । अयम् ॠकारारान्तानाम् लिटि गुणः प्रतिषेधविषये आरभ्यते ऋच्छत्यॄत्राम् इति । सः यथा इह भवति आतस्तरतुः अतस्तरुः इति एवम् इह अपि प्रसज्येत मित्रावरुणौ ततुरिः दूरे हि अध्वा जगुरिः इति । सः पुनः कित्त्वे बाध्यते । उत्सर्गः छन्दसि सदादिभ्यः दर्शनात् । उत्सर्गः छन्दसि किकिनौ वक्तव्यौ । किम् प्रयोजनम् । सदादिभ्यः दर्शनात् । सदादिभ्यः हि किकिनौ दृश्येते । सदिमनिरमिनमिविचीनाम् सेदिः मेनिः रेमिः । नेमिः चक्रम् इव अभवत् । विविचिम् रत्नधातमम् । भाषायाम् धाञ्कृसृजनिनिमिभ्यः । भाषायाम् धाञ्कृसृजनिनिमिभ्यः किकिनौ वक्तव्यौ । धाञ् । दधिः । धाञ् । कृ । चक्रिः । कृ । सृ । सस्रिः । सृ । जनि । जज्ञिः । जनि । नमि । नेमिः । सासहिवावहिचाचलिपापतीनाम् निपातनम् । सासहिवावहिचाचलिपापतीनाम् निपातनम् कर्तव्यम् । वृषा सहमानम् सासहिः । वावहिः चाचलिः पापतिः । अपरः आह : सहिवहिचलिपतिभ्यः यङन्तेभ्यः किकिनौ वक्तव्यौ । एतानि एव उदाहरणानि ।

KA II,134.18-135.12 Ro III,304-305 kimartham kikinoḥ kittvam ucyate na asaṃyogāt liṭ kit iti eva siddham . kikinoḥ kittvam ṝkāraguṇapratiṣedhāṛtham . kikinoḥ kittvam kriyate ṝkāraguṇapratiṣedhāṛtham . ayam ṝkārārāntānām liṭi guṇaḥ pratiṣedhaviṣaye ārabhyate ṛcchatyṝtrām iti . saḥ yathā iha bhavati ātastaratuḥ atastaruḥ iti evam iha api prasajyeta mitrāvaruṇau taturiḥ dūre hi adhvā jaguriḥ iti . saḥ punaḥ kittve bādhyate . utsargaḥ chandasi sadādibhyaḥ darśanāt . utsargaḥ chandasi kikinau vaktavyau . kim prayojanam . sadādibhyaḥ darśanāt . sadādibhyaḥ hi kikinau dṛśyete . sadimaniraminamivicīnām sediḥ meniḥ remiḥ . nemiḥ cakram iva abhavat . vivicim ratnadhātamam . bhāṣāyām dhāñkṛsṛjaninimibhyaḥ . bhāṣāyām dhāñkṛsṛjaninimibhyaḥ kikinau vaktavyau . dhāñ . dadhiḥ . dhāñ . kṛ . cakriḥ . kṛ . sṛ . sasriḥ . sṛ . jani . jajñiḥ . jani . nami . nemiḥ . sāsahivāvahicācalipāpatīnām nipātanam . sāsahivāvahicācalipāpatīnām nipātanam kartavyam . vṛṣā sahamānam sāsahiḥ . vāvahiḥ cācaliḥ pāpatiḥ . aparaḥ āha : sahivahicalipatibhyaḥ yaṅantebhyaḥ kikinau vaktavyau . etāni eva udāharaṇāni .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१३५।१४ रो इइइ,३०५ भियः क्रुकन् अपि वक्तव्यः । भीरुकः ।

KA II,135.14 Ro III,305 bhiyaḥ krukan api vaktavyaḥ . bhīrukaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१३५।१६-१३६।४ रो इइइ,३०५-३०६ किमर्थम् इदम् उच्यते न क्विप् अन्येभ्यः अपि दृश्यते इति एव सिद्धम् । क्विब्विधिः अनुपपदार्थः । अनुपपदार्थः अयम् आरम्भः । पचेः पक् । भिदेः भित् । छिदेः छित् । अथ यः अत्र सोपसर्गः तस्य ग्रहणम् किमर्थम् न तेन एव सिद्धम् । न सिध्यति । इह के चित् आ क्वेः इति सूत्रम् पठन्ति के चित् प्राक् क्वेः इति । तत्र ये आ क्वेः इति पठन्ति तैः क्विप् अपि आक्षिप्तः भवति । तत्र तच्छीलादिषु अर्थेषु किव्प् यथा स्यात् । न एतत् अस्ति प्रयोजनम् । यः एव असौ अविशेषविहितः सः तच्छीलादिषु भविष्यति अन्यत्र च । न सिध्यति । अयम् तच्छीलादिषु तृन् विधीयते । सः विशेषविहितः सामान्यविहितम् ण्वुलम् बाधेत । वासरूपन्यायेन ण्वुल् अपि भविष्यति । न सिध्यति । इदानीम् एव हि उक्तम् तच्छीलादिषु वर्थेषु वासरूपेण तृजादयः न भवन्ति इति । क्विप् च अपि तृजादिः ।

KA II,135.16-136.4 Ro III,305-306 kimartham idam ucyate na kvip anyebhyaḥ api dṛśyate iti eva siddham . kvibvidhiḥ anupapadārthaḥ . anupapadārthaḥ ayam ārambhaḥ . paceḥ pak . bhideḥ bhit . chideḥ chit . atha yaḥ atra sopasargaḥ tasya grahaṇam kimartham na tena eva siddham . na sidhyati . iha ke cit ā kveḥ iti sūtram paṭhanti ke cit prāk kveḥ iti . tatra ye ā kveḥ iti paṭhanti taiḥ kvip api ākṣiptaḥ bhavati . tatra tacchīlādiṣu artheṣu kivp yathā syāt . na etat asti prayojanam . yaḥ eva asau aviśeṣavihitaḥ saḥ tacchīlādiṣu bhaviṣyati anyatra ca . na sidhyati . ayam tacchīlādiṣu tṛn vidhīyate . saḥ viśeṣavihitaḥ sāmānyavihitam ṇvulam bādheta . vāsarūpanyāyena ṇvul api bhaviṣyati . na sidhyati . idānīm eva hi uktam tacchīlādiṣu vartheṣu vāsarūpeṇa tṛjādayaḥ na bhavanti iti . kvip ca api tṛjādiḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१३६।४-२० रो इइइ,३०६-३०७ वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणाम् दीर्घः च । वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणाम् दीर्घत्वम् च वक्तव्यम् क्विप् च । वचि । वाक् । वचि । प्रच्छि । शब्दप्राट् प्रच्छि । आयतस्तु । आयतस्तूः । आयतस्तु । कटप्रु । कटप्रूः । कटप्रु । जु । जूः । जु । श्रि । श्रीः । अपरः आह : वचिप्रच्छ्योः असम्प्रसारणम् च इति वक्तव्यम् । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । दीर्घवचनसामर्थ्यात् सम्प्रसारणम् न भविष्यति । इदम् इह सम्प्रधार्यम् । दीर्घत्वम् क्रियताम् सम्प्रसारणम् इति । किम् अत्र कर्तव्यम् । परत्वात् सम्प्रसारणम् । अन्तरङ्गम् दीर्घत्वम् । का अन्तरङ्गता । प्रत्ययोत्पत्तिसन्नियोगेन दीर्घत्वम् उच्यते उत्पन्ने प्रत्यये सम्प्रसारणम् । तत्र अन्तरङ्गत्वात् दीर्घत्वे कृते सम्प्रसारणम् । प्रसारणपरपूर्वत्वे कृते कार्यकृतत्वात् पुनः दीर्घत्वम् न स्यात् । तस्मात् सुष्ठु उच्यते दीर्घवचनसामर्थ्यात् सम्प्रसारणम् न भविष्यति इति । द्युतिगमिजुहोतीनाम् द्वे च । द्युतिगमिजुहोतीनाम् द्वे च इति वक्तव्यम् । दिद्युत्। द्युति । गमि । जगत् । गमि । जुहोति । जुहोतेः दीर्घः च । जुहूः । दृणातेः ह्रस्वः च द्वे च क्विप् च इति वक्तव्यम् । ददृत् । जुहूः जुहोतेः ह्वयतेः वा । ददृत् दृणातेः दीर्यतेः वा । जूः ज्वरतेः जीर्यतेः वा । धायतेः सम्प्रसारणम् च । धायतेः सम्प्रसारणम् च क्विप् च वक्तव्यः । धीः ध्यायतेः वा दधातेः वा ।

KA II,136.4-20 Ro III,306-307 vacipracchyāyatastukaṭaprujuśrīṇām dīrghaḥ ca . vacipracchyāyatastukaṭaprujuśrīṇām dīrghatvam ca vaktavyam kvip ca . vaci . vāk . vaci . pracchi . śabdaprāṭ pracchi . āyatastu . āyatastūḥ . āyatastu . kaṭapru . kaṭaprūḥ . kaṭapru . ju . jūḥ . ju . śri . śrīḥ . aparaḥ āha : vacipracchyoḥ asamprasāraṇam ca iti vaktavyam . tat tarhi vaktavyam . na vaktavyam . dīrghavacanasāmarthyāt samprasāraṇam na bhaviṣyati . idam iha sampradhāryam . dīrghatvam kriyatām samprasāraṇam iti . kim atra kartavyam . paratvāt samprasāraṇam . antaraṅgam dīrghatvam . kā antaraṅgatā . pratyayotpattisanniyogena dīrghatvam ucyate utpanne pratyaye samprasāraṇam . tatra antaraṅgatvāt dīrghatve kṛte samprasāraṇam . prasāraṇaparapūrvatve kṛte kāryakṛtatvāt punaḥ dīrghatvam na syāt . tasmāt suṣṭhu ucyate dīrghavacanasāmarthyāt samprasāraṇam na bhaviṣyati iti . dyutigamijuhotīnām dve ca . dyutigamijuhotīnām dve ca iti vaktavyam . didyut. dyuti . gami . jagat . gami . juhoti . juhoteḥ dīrghaḥ ca . juhūḥ . dṛṇāteḥ hrasvaḥ ca dve ca kvip ca iti vaktavyam . dadṛt . juhūḥ juhoteḥ hvayateḥ vā . dadṛt dṛṇāteḥ dīryateḥ vā . jūḥ jvarateḥ jīryateḥ vā . dhāyateḥ samprasāraṇam ca . dhāyateḥ samprasāraṇam ca kvip ca vaktavyaḥ . dhīḥ dhyāyateḥ vā dadhāteḥ vā .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१३६।२१-१३७।२ रो इइइ,३०७-३०८ डुप्रकरणे मितद्र्वादिभ्यः उपसङ्ख्यानम् धातुविधितुक्प्रतिषेधार्थम् । डुप्रकरणे मितद्र्वादिभ्यः उपसङ्ख्यानम् कर्तव्यम् । किम् प्रयोजनम् । धातुविधितुक्प्रतिषेधार्थम् । धातुविधेः तुकः च प्रतिषेधः यथा स्यात् । मित्रद्रुः मितद्रू मितद्रवः । अचि श्नुधातुभ्रुवाम् इति उवङादेशः मा भूत् । इह च मितद्र्वा मितद्र्वे न ऊङ्धात्वोः इति प्रतिषेधः मा भूत् । तुग्विधिः । मितद्रुः । ह्रस्वस्य पिति कृति तुक् भवति इति तुक् मा भूत् ।

KA II,136.21-137.2 Ro III,307-308 ḍuprakaraṇe mitadrvādibhyaḥ upasaṅkhyānam dhātuvidhitukpratiṣedhārtham . ḍuprakaraṇe mitadrvādibhyaḥ upasaṅkhyānam kartavyam . kim prayojanam . dhātuvidhitukpratiṣedhārtham . dhātuvidheḥ tukaḥ ca pratiṣedhaḥ yathā syāt . mitradruḥ mitadrū mitadravaḥ . aci śnudhātubhruvām iti uvaṅādeśaḥ mā bhūt . iha ca mitadrvā mitadrve na ūṅdhātvoḥ iti pratiṣedhaḥ mā bhūt . tugvidhiḥ . mitadruḥ . hrasvasya piti kṛti tuk bhavati iti tuk mā bhūt .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१३७।४-८ रो इइइ,३०८ शीलितः रक्षितः क्षान्तः आक्रुष्टः जुष्टः इति अपि रुष्टः च रुषितः च उभौ अभिव्याहृतः इति अपि हृष्टतुष्टौ तथा कान्तः तथा उभौ संयोतोद्यतौ । कष्टम् भविष्यति इति आहुः । अमृताः पूर्ववत् स्मृताः । न म्रियन्ते अमृताः । (३।३।१) क्अ इइ,१३८।२ - २२ रो इइइ।३०९-३१२ बहुलवचनम् किमर्थम् । बाहुलकम् प्रकृतेः तनुदृष्टेः । तन्वीभ्यः प्रकृतिभ्यः उणादयः दृश्यन्ते । न सर्वाभ्यः दृश्यन्ते । प्रायसमुच्चयाद् अपि तेषाम् । प्रायेण खलु अपि ते समुच्चिताः न सर्वे समुच्चिताः । कार्यसशेषविधेः च तत् उक्तम् । कार्याणि खलु अपि सशेषाणि कृतानि न सर्वाणि लक्षणेन परिसमाप्तानि । किम् पुनः कारणम् तन्वीभ्यः प्रकृतिभ्यः उणादयः दृश्यन्ते न सर्वाभ्यः दृश्यन्ते । किम् च कारणम् प्रायेण समुच्चिताः न सर्वे समुच्चिताः । किम् च कारणम् कार्याणि सशेषाणि कृतानि न सर्वाणि लक्षणेन परिसमाप्तानि । नैगमरूडिभवम् हि सुसाधु । नैगमाः च रूढिभवाः च औणादिकाः सुसाधवः कथम् स्युः । नाम च धातुजम् आह निरुक्ते । नाम खलु अपि धातुजम् । एवम् आहुः नैरुक्ताः । व्याकरणे शकटस्य च तोकम् । वैयाकरणानाम् च शाकटायनः आह धातुजम् नाम इति । अथ यस्य विशेषपदार्थः न समुत्तितः कथम् तत्र भवितव्यम् । यत् न विशेषपदार्थसमुत्तम् प्रत्ययतः प्रकृतेः च तत् ऊह्यम् । प्रकृतिम् दृष्ट्वा प्रत्ययः ऊहितव्यः प्रत्ययम् च दृष्ट्वा प्रकृतिः ऊहितव्या । सञ्ज्ञासु धातुरूपाणि प्रत्ययाः च ततः परे कार्यात् विद्यात् अनुबन्धम् । एतत् शास्त्रम् उणादिषु ।

KA II,137.4-8 Ro III,308 śīlitaḥ rakṣitaḥ kṣāntaḥ ākruṣṭaḥ juṣṭaḥ iti api ruṣṭaḥ ca ruṣitaḥ ca ubhau abhivyāhṛtaḥ iti api hṛṣṭatuṣṭau tathā kāntaḥ tathā ubhau saṃyotodyatau . kaṣṭam bhaviṣyati iti āhuḥ . amṛtāḥ pūrvavat smṛtāḥ . na mriyante amṛtāḥ . (3.3.1) KA II,138.2 - 22 Ro III.309-312 bahulavacanam kimartham . bāhulakam prakṛteḥ tanudṛṣṭeḥ . tanvībhyaḥ prakṛtibhyaḥ uṇādayaḥ dṛśyante . na sarvābhyaḥ dṛśyante . prāyasamuccayād api teṣām . prāyeṇa khalu api te samuccitāḥ na sarve samuccitāḥ . kāryasaśeṣavidheḥ ca tat uktam . kāryāṇi khalu api saśeṣāṇi kṛtāni na sarvāṇi lakṣaṇena parisamāptāni . kim punaḥ kāraṇam tanvībhyaḥ prakṛtibhyaḥ uṇādayaḥ dṛśyante na sarvābhyaḥ dṛśyante . kim ca kāraṇam prāyeṇa samuccitāḥ na sarve samuccitāḥ . kim ca kāraṇam kāryāṇi saśeṣāṇi kṛtāni na sarvāṇi lakṣaṇena parisamāptāni . naigamarūḍibhavam hi susādhu . naigamāḥ ca rūḍhibhavāḥ ca auṇādikāḥ susādhavaḥ katham syuḥ . nāma ca dhātujam āha nirukte . nāma khalu api dhātujam . evam āhuḥ nairuktāḥ . vyākaraṇe śakaṭasya ca tokam . vaiyākaraṇānām ca śākaṭāyanaḥ āha dhātujam nāma iti . atha yasya viśeṣapadārthaḥ na samuttitaḥ katham tatra bhavitavyam . yat na viśeṣapadārthasamuttam pratyayataḥ prakṛteḥ ca tat ūhyam . prakṛtim dṛṣṭvā pratyayaḥ ūhitavyaḥ pratyayam ca dṛṣṭvā prakṛtiḥ ūhitavyā . sañjñāsu dhāturūpāṇi pratyayāḥ ca tataḥ pare kāryāt vidyāt anubandham . etat śāstram uṇādiṣu .

Sanskrit only: no published translation is held for this verse.