क्अ इइ,१८५।३-९ रो इइइ,४०९ हिन्योः उत्वप्रतिषेधः । हिन्योः उकारस्य प्रतिषेधः वक्तव्यः । लुनीहि लुनानि । एः उः इति उत्वम् प्राप्नोति । न वा उच्चारणसामर्थ्यात् । न वा वक्तव्यः । किम् कारणम् । उच्चारणसामर्थ्यात् अत्र उत्वम् न भविष्यति । अलघीयः च एव हि इकारोच्चारणम् उकारोच्चारणात् । इकारम् च उच्चारयति उकारम् च न उच्चारयति । तस्य एतत् प्रयोजनम् उत्वम् मा भूत् इति ।
KA II,185.3-9 Ro III,409 hinyoḥ utvapratiṣedhaḥ . hinyoḥ ukārasya pratiṣedhaḥ vaktavyaḥ . lunīhi lunāni . eḥ uḥ iti utvam prāpnoti . na vā uccāraṇasāmarthyāt . na vā vaktavyaḥ . kim kāraṇam . uccāraṇasāmarthyāt atra utvam na bhaviṣyati . alaghīyaḥ ca eva hi ikāroccāraṇam ukāroccāraṇāt . ikāram ca uccārayati ukāram ca na uccārayati . tasya etat prayojanam utvam mā bhūt iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.