Library·Patanjali: Vyakaranamahabhasya·4·4.1·4.1.18

Patanjali: Vyakaranamahabhasya 4.1.18

क्अ इइ,२१०।२-४ रो इइइ,४८२-४८३ सर्वत्रग्रहणम् किमर्थम् । प्राचाम् एव स्यात् । न एतत् अस्ति प्रयोजनम् । सिद्धम् प्राचाम् पूर्वेण । इदम् तर्हि प्रयोजनम् सर्वेषाम् यथा स्यात् । आवट्यायनी । चापम् बाधित्वा ष्फः यथा स्यात् ।

KA II,210.2-4 Ro III,482-483 sarvatragrahaṇam kimartham . prācām eva syāt . na etat asti prayojanam . siddham prācām pūrveṇa . idam tarhi prayojanam sarveṣām yathā syāt . āvaṭyāyanī . cāpam bādhitvā ṣphaḥ yathā syāt .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२१०।५-२४ रो इइइ,४८२-४८३-४८४ लोहितादिषु शाकल्यस्य उपसङ्ख्यानम् । लोहितादिषु शाकल्यस्य उपसङ्ख्यानम् कर्तव्यम् । शाकल्यायनी । यदि पुनः अयम् शकलशब्दः लोहितादिषु पठ्येत । न एवम् शक्यम् । इह हि शाकल्यस्य छात्राः शाकलाः कण्वादिभ्यः गोत्रे इति अण् न स्यात् । एवम् तर्हि । कण्वात् तु शकलः पूर्वः । कण्वशब्दात् शकलशब्दः पूर्वः पठितव्यः । कतात् उत्तरः इष्यते। कतशब्दात् शकलशब्दः उत्तरः पठितव्यः । पूर्वोत्तरौ तदन्तादी । पूर्वोत्तरौ गणौ तदन्तादी द्रष्टव्यौ । ये कण्वादयः ते शकलादयः । ये कतपर्यन्ताः ते शकलपर्यन्ताः । किम् प्रयोजनम् । ष्फाणौ तत्र प्रओय्जनम् । तत्र एवम् सति ष्फाणौ सिद्धौ भवतः । कण्वात् तु शकलः पूर्वः । कतात् उत्तरः इष्यते । पूर्वोत्तरौ तदन्तादी । ष्फाणौ तत्र प्रओय्जनम् ।

KA II,210.5-24 Ro III,482-483-484 lohitādiṣu śākalyasya upasaṅkhyānam . lohitādiṣu śākalyasya upasaṅkhyānam kartavyam . śākalyāyanī . yadi punaḥ ayam śakalaśabdaḥ lohitādiṣu paṭhyeta . na evam śakyam . iha hi śākalyasya chātrāḥ śākalāḥ kaṇvādibhyaḥ gotre iti aṇ na syāt . evam tarhi . kaṇvāt tu śakalaḥ pūrvaḥ . kaṇvaśabdāt śakalaśabdaḥ pūrvaḥ paṭhitavyaḥ . katāt uttaraḥ iṣyate. kataśabdāt śakalaśabdaḥ uttaraḥ paṭhitavyaḥ . pūrvottarau tadantādī . pūrvottarau gaṇau tadantādī draṣṭavyau . ye kaṇvādayaḥ te śakalādayaḥ . ye kataparyantāḥ te śakalaparyantāḥ . kim prayojanam . ṣphāṇau tatra praoyjanam . tatra evam sati ṣphāṇau siddhau bhavataḥ . kaṇvāt tu śakalaḥ pūrvaḥ . katāt uttaraḥ iṣyate . pūrvottarau tadantādī . ṣphāṇau tatra praoyjanam .

Sanskrit only: no published translation is held for this verse.