Library·Patanjali: Vyakaranamahabhasya·4·4.1

Patanjali: Vyakaranamahabhasya 4.1

क्अ इइ,१८९।२-१९१।७ रो इइइ,४१९-४२८ ङ्याप्प्रातिपदिकग्रहणम् किमर्थम् । ङ्याप्प्रातिपदिकात् यथा स्युः । धातोः मा भूवन् इति । न एतत् अस्ति प्रयोजनम् । धातोः तव्यादयः विधीयन्ते । ते अपवादत्वात् बाधकाः भविष्यन्ति । तिङन्तात् तर्हि मा भूवन् इति । एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते । ते च अत्र तिङा उक्ताः एकत्वादयः इति कृत्वा उक्तार्थत्वान् न भविष्यन्ति । टाबादयः तर्हि तिङन्तात् मा भूवन् इति । स्त्रियाम् टाबादयः विधीयन्ते । न च तिङन्तस्य स्त्रीत्वेन योगः अस्ति । अणादयः तर्हि तिङन्तात् मा भूवन् इति । अपत्यादिष्व् अर्थेषु अणादयः विधीयन्ते । न च तिङन्तस्य अपत्यादिभिः योगः अस्ति । अथ अपि कथम् चित् योगः स्यात् एवम् अपि न दोषः । आचार्यप्रवृत्तिः ज्ञापयति न तिङन्तात् अणादयः भवन्ति इति यत् अयम् क्व चित् तद्धितविधौ तिङ्ग्रहणम् करोति । अतिशायने तमबिष्ठनौ तिङः च इति । अतः उत्तरम् पठति । ङ्याप्प्रातिपदिकग्रहणम् अङ्गभपदसञ्ज्ञार्थम् । ङ्याप्प्रातिपदिकग्रहणम् क्रियते अङ्गभपदसञ्ज्ञार्थम् । अङ्गभपदसञ्ज्ञाः ङ्याप्प्रातिपदिकस्य यथा स्युः इति । क्व पुनः इह अङ्गभपदसञ्ज्ञार्थेन ङ्याप्प्रातिपदिकग्रहणेन अर्थः । टाबादिषु । न एतत् अस्ति प्रयोजनम् । ग्रहणवद्भ्यः टाबादयः विधीयन्ते । उगितः ङीप् भवति अतः टाप् भवति इति । यत् तत् शब्दस्वरूपम् गृह्यते तस्मात् तदुत्पत्तिः । तस्य एताः सञ्ज्ञाः भविष्यन्ति । अथ अपि कः चित् अग्रहणः एवम् अपि अदोषः । स्त्रियाम् टाबादयः विधीयन्ते । यत् तत् शब्दस्वरूपम् स्त्रियाम् वर्तते तस्मात् तदुत्पत्तिः । तस्य एताः सञ्ज्ञाः भविष्यन्ति । अणादिषु तर्हि । अणादयः अपि ग्रहणवद्भ्यः टाबादयः विधीयन्ते । गर्गादिभ्यः यञ् नडादिभ्यः फक् इति । यत् तत् शब्दस्वरूपम् गृह्यते तस्मात् तदुत्पत्तिः । तस्य एताः सञ्ज्ञाः भविष्यन्ति । अथ अपि कः चित् अग्रहणः एवम् अपि अदोषः । अपत्यादिषु अर्थेषु अणादयः विधीयन्ते । यत् तत् शब्दस्वरूपम् अपत्यादिषु अर्थेषु वर्तते तस्मात् तदुत्पत्तिः । तस्य एताः सञ्ज्ञाः भविष्यन्ति । स्वार्थिकेषु तर्हि । स्वार्थिकाः अपि ग्रहणवद्भ्यः विधीयन्ते । यावादिभ्यः कन् प्रज्ञाइद्भ्यः अण् इति । यत् तत् शब्दस्वरूपम् गृह्यते तस्मात् तदुत्पत्तिः । तस्य एताः सञ्ज्ञाः भविष्यन्ति । यः तर्हि अग्रहणः शुक्लतरः कृष्णतरः इति । अत्र अपि न यावत् शुक्लः तावत् शुक्लतरः । प्रकृष्टः शुक्लः शुक्लतरः । यत् तत् शब्दस्वरूपम् प्रकृष्टे वर्तते तस्मात् तदुत्पत्तिः । तस्य एताः सञ्ज्ञाः भविष्यन्ति । स्वादिषु तर्हि । एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते । यत् तत् शब्दस्वरूपम् एकत्वादिषु अर्थेषु वर्तते तस्मात् तदुत्पत्तिः । तस्य एताः सञ्ज्ञाः भविष्यन्ति । कथम् पुनः इह उच्यमानाः स्वादयः एकत्वादिषु अर्थेषु शक्या विज्ञातुम् । एकवाक्यत्वात् । एकम् वाक्यम् तत् च इदम् च । यदि एकम् वाक्यम् तत् च इदम् च किमर्थम् नानादेशस्थम् क्रियते । कौशलमात्रम् एतत् आचार्यः दर्शयति यत् एकम् वाक्यम् सत् नानादेशस्थम् करोति । अन्यत् अपि सङ्ग्रहीष्यामि इति । यच्छयोः च लुगर्थम् । यच्छयोः तर्हि लुगर्थम् ङ्याप्प्रातिपदिकग्रहणम् क्रियते । कंसीयपरशव्ययोः यञञौ लुक् च इति ङ्याप्प्रातिपदिकात् परस्य लुक् यथा स्यात् । अक्रियमाणे हि ङ्याप्प्रातिपदिकग्रहणे प्रकृतेः अपि लुक् प्रसज्येत । एतत् अपि न अस्ति प्रयोजनम् । यथा परिभाषितम् प्रत्ययस्य लुक्श्लुलुपः भवन्ति इति प्रत्ययस्य भविष्यति । एवम् अपि उकारसकारयोः प्रसज्येत । कमेः सः कंसः परान् श्र्णाति इति परशुः इति । उणादयः अव्युत्पन्नानि प्रातिपदिकानि । वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणे च प्रत्ययविधौ तत्सम्प्रत्ययार्थम् । वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणे तर्हि प्रत्ययविधौ तत्सम्प्रत्ययार्थम् ङ्याप्प्रातिपदिकग्रहणम् क्रियते । वृद्धात् अवृद्धात् अवर्णान्टात् अनुदात्तादेः द्व्यचः इति एतानि प्रातिपदिकविशेषणानि यथा स्युः इति । अथ अक्रियमाणे ङ्याप्प्रातिपदिकग्रहणे कस्य एतानि विशेषणानि स्युः । समर्थविशेषणानि । तत्र कः दोषः । उदीचाम् वृद्धात् अगोत्रात् इह च प्रसज्येत ज्ञानाम् ब्राह्मणानाम् अपत्यम् इति । एतत् हि समर्थम् वृद्धम् । इह च न स्यात् ज्ञयोः ब्राह्मणयोः अपत्यम् इति । एतत् हि समर्थम् अवृद्धम् । वृद्ध। अवृद्ध । प्राचाम् अवृद्धात् फिन् बहुलम् इह च प्रसज्येत ज्ञयोः ब्राह्मणयोः अपत्यम् इति । एतत् हि समर्थम् अवृद्धम् । इह च न स्यात् ज्ञानाम् ब्राह्मणानाम् अपत्यम् इति । एतत् हि समर्थम् वृद्धम् । अवृद्ध । अवर्ण । अत इञ् भवति इह

KA II,189.2-191.7 Ro III,419-428 ṅyāpprātipadikagrahaṇam kimartham . ṅyāpprātipadikāt yathā syuḥ . dhātoḥ mā bhūvan iti . na etat asti prayojanam . dhātoḥ tavyādayaḥ vidhīyante . te apavādatvāt bādhakāḥ bhaviṣyanti . tiṅantāt tarhi mā bhūvan iti . ekatvādiṣu artheṣu svādayaḥ vidhīyante . te ca atra tiṅā uktāḥ ekatvādayaḥ iti kṛtvā uktārthatvān na bhaviṣyanti . ṭābādayaḥ tarhi tiṅantāt mā bhūvan iti . striyām ṭābādayaḥ vidhīyante . na ca tiṅantasya strītvena yogaḥ asti . aṇādayaḥ tarhi tiṅantāt mā bhūvan iti . apatyādiṣv artheṣu aṇādayaḥ vidhīyante . na ca tiṅantasya apatyādibhiḥ yogaḥ asti . atha api katham cit yogaḥ syāt evam api na doṣaḥ . ācāryapravṛttiḥ jñāpayati na tiṅantāt aṇādayaḥ bhavanti iti yat ayam kva cit taddhitavidhau tiṅgrahaṇam karoti . atiśāyane tamabiṣṭhanau tiṅaḥ ca iti . ataḥ uttaram paṭhati . ṅyāpprātipadikagrahaṇam aṅgabhapadasañjñārtham . ṅyāpprātipadikagrahaṇam kriyate aṅgabhapadasañjñārtham . aṅgabhapadasañjñāḥ ṅyāpprātipadikasya yathā syuḥ iti . kva punaḥ iha aṅgabhapadasañjñārthena ṅyāpprātipadikagrahaṇena arthaḥ . ṭābādiṣu . na etat asti prayojanam . grahaṇavadbhyaḥ ṭābādayaḥ vidhīyante . ugitaḥ ṅīp bhavati ataḥ ṭāp bhavati iti . yat tat śabdasvarūpam gṛhyate tasmāt tadutpattiḥ . tasya etāḥ sañjñāḥ bhaviṣyanti . atha api kaḥ cit agrahaṇaḥ evam api adoṣaḥ . striyām ṭābādayaḥ vidhīyante . yat tat śabdasvarūpam striyām vartate tasmāt tadutpattiḥ . tasya etāḥ sañjñāḥ bhaviṣyanti . aṇādiṣu tarhi . aṇādayaḥ api grahaṇavadbhyaḥ ṭābādayaḥ vidhīyante . gargādibhyaḥ yañ naḍādibhyaḥ phak iti . yat tat śabdasvarūpam gṛhyate tasmāt tadutpattiḥ . tasya etāḥ sañjñāḥ bhaviṣyanti . atha api kaḥ cit agrahaṇaḥ evam api adoṣaḥ . apatyādiṣu artheṣu aṇādayaḥ vidhīyante . yat tat śabdasvarūpam apatyādiṣu artheṣu vartate tasmāt tadutpattiḥ . tasya etāḥ sañjñāḥ bhaviṣyanti . svārthikeṣu tarhi . svārthikāḥ api grahaṇavadbhyaḥ vidhīyante . yāvādibhyaḥ kan prajñāidbhyaḥ aṇ iti . yat tat śabdasvarūpam gṛhyate tasmāt tadutpattiḥ . tasya etāḥ sañjñāḥ bhaviṣyanti . yaḥ tarhi agrahaṇaḥ śuklataraḥ kṛṣṇataraḥ iti . atra api na yāvat śuklaḥ tāvat śuklataraḥ . prakṛṣṭaḥ śuklaḥ śuklataraḥ . yat tat śabdasvarūpam prakṛṣṭe vartate tasmāt tadutpattiḥ . tasya etāḥ sañjñāḥ bhaviṣyanti . svādiṣu tarhi . ekatvādiṣu artheṣu svādayaḥ vidhīyante . yat tat śabdasvarūpam ekatvādiṣu artheṣu vartate tasmāt tadutpattiḥ . tasya etāḥ sañjñāḥ bhaviṣyanti . katham punaḥ iha ucyamānāḥ svādayaḥ ekatvādiṣu artheṣu śakyā vijñātum . ekavākyatvāt . ekam vākyam tat ca idam ca . yadi ekam vākyam tat ca idam ca kimartham nānādeśastham kriyate . kauśalamātram etat ācāryaḥ darśayati yat ekam vākyam sat nānādeśastham karoti . anyat api saṅgrahīṣyāmi iti . yacchayoḥ ca lugartham . yacchayoḥ tarhi lugartham ṅyāpprātipadikagrahaṇam kriyate . kaṃsīyaparaśavyayoḥ yañañau luk ca iti ṅyāpprātipadikāt parasya luk yathā syāt . akriyamāṇe hi ṅyāpprātipadikagrahaṇe prakṛteḥ api luk prasajyeta . etat api na asti prayojanam . yathā paribhāṣitam pratyayasya lukślulupaḥ bhavanti iti pratyayasya bhaviṣyati . evam api ukārasakārayoḥ prasajyeta . kameḥ saḥ kaṃsaḥ parān śrṇāti iti paraśuḥ iti . uṇādayaḥ avyutpannāni prātipadikāni . vṛddhāvṛddhāvarṇasvaradvyajlakṣaṇe ca pratyayavidhau tatsampratyayārtham . vṛddhāvṛddhāvarṇasvaradvyajlakṣaṇe tarhi pratyayavidhau tatsampratyayārtham ṅyāpprātipadikagrahaṇam kriyate . vṛddhāt avṛddhāt avarṇānṭāt anudāttādeḥ dvyacaḥ iti etāni prātipadikaviśeṣaṇāni yathā syuḥ iti . atha akriyamāṇe ṅyāpprātipadikagrahaṇe kasya etāni viśeṣaṇāni syuḥ . samarthaviśeṣaṇāni . tatra kaḥ doṣaḥ . udīcām vṛddhāt agotrāt iha ca prasajyeta jñānām brāhmaṇānām apatyam iti . etat hi samartham vṛddham . iha ca na syāt jñayoḥ brāhmaṇayoḥ apatyam iti . etat hi samartham avṛddham . vṛddha. avṛddha . prācām avṛddhāt phin bahulam iha ca prasajyeta jñayoḥ brāhmaṇayoḥ apatyam iti . etat hi samartham avṛddham . iha ca na syāt jñānām brāhmaṇānām apatyam iti . etat hi samartham vṛddham . avṛddha . avarṇa . ata iñ bhavati iha

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१९१।१२-१९५।२३ रो इइइ,४२८-४३८ अथ ङ्याब्ग्रहणम् किमर्थम् न प्रातिपदिकात् इति एव सिद्धम् । न सिध्यति । अप्रत्ययः इति प्रातिपदिकसञ्ज्ञायाः प्रतिषेधः प्राप्नोति । यदि एषः ङ्याब्ग्रहणे हेतुः त्यूग्रहणम् अपि कर्तव्यम् । तौ अपि हि प्रत्ययौ । तिग्रहणे तावत् वार्त्तम् । तद्धितः प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा भविष्यति । ऊग्रहणे च अपि वार्त्तम् । उवर्णान्तात् ऊङ् विधीयते । तत्र एकादेशः । एकादेशे कृते अन्तादिवद्भावात् प्रातिपदिकसञ्ज्ञा भविष्यति । यदि एषः ऊङः अग्रहणे हेतुः आब्ग्रहणम् अपि न कर्तव्यम् । आप् अपि हि अकारान्तात् विधीयते । तत्र एकादेशः । एकादेशे कृते अन्तादिवद्भावात् प्रातिपदिकसञ्ज्ञा भविष्यति । यः तर्हि अनकारान्तात् । क्रुञ्चा उष्णिहा देवविशा इति । अत्र अपि अकारान्तात् वृत्तिः लक्ष्यते । क्रुञ्चान् आलभेत । उष्णिहककुभौ । देवविशम् च मनुष्यविशम् च इति । इह तावत् उष्णिहककुभौ इति । आपः एव एतत् औत्तरपदिकम् ह्रस्वत्वम् । इह खलु अपि देवविशम् च मनुष्यविशम् च इति । न अस्ति विशेषः अकारान्तात् उत्पत्तौ सत्याम् व्यञ्जनान्तात् वा इति । यत् तावत् उच्यते इह तावत् उष्णिहककुभौ इति । आपः एव एतत् औत्तरपदिकम् ह्रस्वत्वम् इति । सञ्ज्ञाच्छन्दसोः इति एवम् तत् । न च एषा सञ्ज्ञा न अपि इदम् छन्दः । यत् अपि उच्यते इह खलु अपि देवविशम् च मनुष्यविशम् च इति । न अस्ति विशेषः अकारान्तात् उत्पत्तौ सत्याम् व्यञ्जनान्तात् वा इति । स्वरे विशेषः । यदि अत्र व्यञ्जनान्तात् उत्पत्तिः स्यात् देवविशम् इति एवम् स्वरः प्रसज्येत । देवविशम् इति च इष्यते । तस्मात् कः एषः एवम्विषयः । इदम् तर्हि पादः अन्यतरस्याम् टाप् ऋचि इति । ऋचि इति उच्यते । तत्र छान्दसत्वात् भविष्यति । ऋचि इति न इदम् छन्दः विवक्षितम् काठकम् कापालकम् अमुदकम् पैप्पलादकम् वा । किम् तर्हि । प्रत्ययार्थविशेषणम् एतत् । ऋक् चेत् प्रत्ययार्थः भवति इति । एतत् अपि न अस्ति प्रयोजनम् पदशब्दः पादशब्दसमानार्थः अकारान्तः छन्दसि दृश्यते । तस्याः सप्ताक्षरम् एकम् पदम् एअकः पादः इति अर्थः । तस्मात् उत्पत्तिः भविष्यति । इदम् तर्हि डाप् उभाभ्याम् अन्यतरस्याम् इति । बहुराजा बहुराजे बहुराजाः । ङ्याब्ग्रहणम् अनर्थकम् प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणात् । ङ्याब्ग्रहणम् अनर्थकम् । किम् कारणम् । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणात् । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति एषा परिभाषा कर्तव्या । कः पुनः विशेषः एषा वा परिभाषा क्रियते आब्ग्रहणम् वा । अवश्यम् एषा परिभाषा कर्तव्या । बहूनि एतस्याः परिभाषायाः प्रयोजनानि । कानि । प्रयोजनम् सर्वनामस्वरसमासतद्धितविधिलुगलुगर्थम् । सर्वनामविधिः प्रयोजनम् । सर्वनाम्नः सुट् इह एव स्यात् तेषाम् येषाम् । तासाम् यासाम् इति अत्र न स्यात् । न एतत् अस्ति प्रयोजनम् । अवर्णान्तात् टाप् विधीयते । तत्र एकादेशः । एकादेशे कृते अन्तादिवद्भावात् सुट् भविष्यति । इदम् तर्हि प्रयोजनम् । सर्वनाम्नः तृतीया च इह एव स्यात् भवता हेतुना भवतः हेतोः इति । भवत्या हेतुना भवत्याः हेतोः इति अत्र न स्यात् । सर्वनाम । स्वर । कुशूलकूपकुम्भशालम् बिले इह एव स्यात् कुशूलबिलम् । कुशूलीबिलम् इति अत्र न स्यात् । स्वर । समास । द्वितीया श्रितादिभिः सह समस्यते इह एव स्यात् कष्टम् श्रितः कष्टश्रितः । कष्टम् श्रिता कष्टश्रिता इति अत्र न स्यात् । एतत् अपि न अस्ति प्रयोजनम् । श्रितशब्दः अकारान्तः । तत्र एकादेशः । एकादेशे कृते अन्तादिवद्भावात् भविष्यति । इदम् तर्हि । पूर्वसदृश इति इह एव स्यात् पित्रा सदृशः पितृसदृशः । पित्रा सदृशी पितृसदृशी इति अत्र न स्यात् । समासः । तद्धितविधि । अचित्तहिअस्तिधेनोः ठक् इह एव स्यात् हस्तिनाम् समूहः हास्तिकम् । हस्तिनीनाम् समूहः हास्तिकम् इति

KA II,191.12-195.23 Ro III,428-438 atha ṅyābgrahaṇam kimartham na prātipadikāt iti eva siddham . na sidhyati . apratyayaḥ iti prātipadikasañjñāyāḥ pratiṣedhaḥ prāpnoti . yadi eṣaḥ ṅyābgrahaṇe hetuḥ tyūgrahaṇam api kartavyam . tau api hi pratyayau . tigrahaṇe tāvat vārttam . taddhitaḥ prātipadikam iti prātipadikasañjñā bhaviṣyati . ūgrahaṇe ca api vārttam . uvarṇāntāt ūṅ vidhīyate . tatra ekādeśaḥ . ekādeśe kṛte antādivadbhāvāt prātipadikasañjñā bhaviṣyati . yadi eṣaḥ ūṅaḥ agrahaṇe hetuḥ ābgrahaṇam api na kartavyam . āp api hi akārāntāt vidhīyate . tatra ekādeśaḥ . ekādeśe kṛte antādivadbhāvāt prātipadikasañjñā bhaviṣyati . yaḥ tarhi anakārāntāt . kruñcā uṣṇihā devaviśā iti . atra api akārāntāt vṛttiḥ lakṣyate . kruñcān ālabheta . uṣṇihakakubhau . devaviśam ca manuṣyaviśam ca iti . iha tāvat uṣṇihakakubhau iti . āpaḥ eva etat auttarapadikam hrasvatvam . iha khalu api devaviśam ca manuṣyaviśam ca iti . na asti viśeṣaḥ akārāntāt utpattau satyām vyañjanāntāt vā iti . yat tāvat ucyate iha tāvat uṣṇihakakubhau iti . āpaḥ eva etat auttarapadikam hrasvatvam iti . sañjñācchandasoḥ iti evam tat . na ca eṣā sañjñā na api idam chandaḥ . yat api ucyate iha khalu api devaviśam ca manuṣyaviśam ca iti . na asti viśeṣaḥ akārāntāt utpattau satyām vyañjanāntāt vā iti . svare viśeṣaḥ . yadi atra vyañjanāntāt utpattiḥ syāt devaviśam iti evam svaraḥ prasajyeta . devaviśam iti ca iṣyate . tasmāt kaḥ eṣaḥ evamviṣayaḥ . idam tarhi pādaḥ anyatarasyām ṭāp ṛci iti . ṛci iti ucyate . tatra chāndasatvāt bhaviṣyati . ṛci iti na idam chandaḥ vivakṣitam kāṭhakam kāpālakam amudakam paippalādakam vā . kim tarhi . pratyayārthaviśeṣaṇam etat . ṛk cet pratyayārthaḥ bhavati iti . etat api na asti prayojanam padaśabdaḥ pādaśabdasamānārthaḥ akārāntaḥ chandasi dṛśyate . tasyāḥ saptākṣaram ekam padam eakaḥ pādaḥ iti arthaḥ . tasmāt utpattiḥ bhaviṣyati . idam tarhi ḍāp ubhābhyām anyatarasyām iti . bahurājā bahurāje bahurājāḥ . ṅyābgrahaṇam anarthakam prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇāt . ṅyābgrahaṇam anarthakam . kim kāraṇam . prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇāt . prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti eṣā paribhāṣā kartavyā . kaḥ punaḥ viśeṣaḥ eṣā vā paribhāṣā kriyate ābgrahaṇam vā . avaśyam eṣā paribhāṣā kartavyā . bahūni etasyāḥ paribhāṣāyāḥ prayojanāni . kāni . prayojanam sarvanāmasvarasamāsataddhitavidhilugalugartham . sarvanāmavidhiḥ prayojanam . sarvanāmnaḥ suṭ iha eva syāt teṣām yeṣām . tāsām yāsām iti atra na syāt . na etat asti prayojanam . avarṇāntāt ṭāp vidhīyate . tatra ekādeśaḥ . ekādeśe kṛte antādivadbhāvāt suṭ bhaviṣyati . idam tarhi prayojanam . sarvanāmnaḥ tṛtīyā ca iha eva syāt bhavatā hetunā bhavataḥ hetoḥ iti . bhavatyā hetunā bhavatyāḥ hetoḥ iti atra na syāt . sarvanāma . svara . kuśūlakūpakumbhaśālam bile iha eva syāt kuśūlabilam . kuśūlībilam iti atra na syāt . svara . samāsa . dvitīyā śritādibhiḥ saha samasyate iha eva syāt kaṣṭam śritaḥ kaṣṭaśritaḥ . kaṣṭam śritā kaṣṭaśritā iti atra na syāt . etat api na asti prayojanam . śritaśabdaḥ akārāntaḥ . tatra ekādeśaḥ . ekādeśe kṛte antādivadbhāvāt bhaviṣyati . idam tarhi . pūrvasadṛśa iti iha eva syāt pitrā sadṛśaḥ pitṛsadṛśaḥ . pitrā sadṛśī pitṛsadṛśī iti atra na syāt . samāsaḥ . taddhitavidhi . acittahiastidhenoḥ ṭhak iha eva syāt hastinām samūhaḥ hāstikam . hastinīnām samūhaḥ hāstikam iti

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१९५।२५-१९८।१९ रो इइइ,४३९-४५२ स्त्रियाम् इति उच्यते । का स्त्री नाम । लोकततः एते शब्दाः प्रसिद्धाः स्त्रीपुमान् नपुंसकम् इति । यत् लोके दृष्ट्वा एतत् अवसीयते इयम् स्त्री अयम् पुमान् इदम् नपुंसकम् इति सा स्त्रीसः पुमान् तत् नपुंसकम् इति । किम् पुनः लोके दृष्ट्वा एतत् अवसीयते इयम् स्त्री अयम् पुमान् इदम् नपुंसकम् इति । लिङ्गम् । किम् पुनः तत् । स्तनकेशवती स्त्री स्यात् । लोमशः पुरुषः स्मृतः । उभयोः अन्तरम् यत् च तदभावे नपुंसकम् । लिङ्गात् स्त्रीपुंसयोः ज्ञाने भ्रूकुंसे टाप् प्रसज्यते । लिङ्गात् स्त्रीपुंसयोः ज्ञाने भ्रूकुंसे टाप् प्राप्नोति । यत् हि लोके दृष्ट्वा एतत् अवसीयते इयम् स्त्री इति अस्ति तत् भ्रूकुंसे । नत्वम् खरकुटीः पश्य । इह चञ्चाः पश्य वध्रिकाः पश्य खरकुटीः पश्य इति तस्मात् शसः नः पुंसि इति नत्वम् प्राप्नोति । यत् हि दृष्ट्वा एतत् अवसीयते अयम् पुमान् इति अस्ति तत् वध्रिकादिषु । खट्वावृक्षौ न सिध्यतः । खट्वावृक्षयोः च लिङ्गम् न सिध्यति । यत् हि लोके दृष्ट्वा एतत् अवसीयते इयम् स्त्री अयम् पुमान् इति न तत् खट्वावृक्षयोः अस्ति । किम् तर्हि तयोः लिङ्गम् न्याय्यम् । नापुंसकम् भवेत् तस्मिन् । नपुंसकम् खट्वावृक्षयोः लिङ्गम् न्याय्यम् । किम् इदम् नापुंसकम् इति । नपुंसके भवम् नापुंसकम् । तदभावे नपुंसकम् । तदभावे स्त्रीपुंसलिङ्गाभावे नपुंसकलिङ्गम् न्याय्यम् । असत् तु मृगतृष्णावत् । असत् तु खट्वावृक्षयोः लिङ्गम् द्रष्टव्यम् । कथम् पुनः असत् नाम लिङ्गम् शक्यम् द्रष्टुम् । मृगतृष्णावत् । तत् यथा मृगाः तृषिताः अपाम् धाराः पश्यन्ति । न च ताः सन्ति । गन्धर्व्नगरम् यथा । यथा गन्धर्वनगराणि दूरतः दृश्यन्ते उपसृत्य च न उपलभ्यन्ते तद्वत् खट्वावृक्षयोः लिङ्गम् द्रष्टव्यम् । आदित्यगतिवत् सत् न । अथ व यथा आदित्यस्य गतिः सती न उपलभ्यते तद्वत् खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते । वस्त्रान्तर्हितवत् च तत् । यथा वस्त्रान्तर्हितानि द्रव्याणि न उपलभ्यन्ते तद्वत् खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते । विषमः उपन्यासः । वस्त्रान्तर्हितानि द्रव्याणि वस्त्रापाये उपलभ्यन्ते । खट्वावृक्षयोः पुनः ये अपि एते रथ्काराः वाशीवृक्षादनहस्ताः मूलात् प्रभृति आ अग्रात् वृक्षान् तक्ष्णुवन्ति ते अपि तयोः लिङ्गम् न उपलभन्ते । केन एतत् अवसीयते खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते इति । षड्भिः प्रकारैः सताम् भावानाम् अनुपलब्धिः भवति । सन्निकर्षात् अतिविप्रकर्षात् मूर्त्यन्तरव्यवधानात् तमसा आवृतत्वात् इन्द्रियदौर्बल्यात् अतिप्रमादात् इति । अतः अत्र कः चित् हेतुः द्रष्टव्यः येन खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते । केन एतत् अवसीयते खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते इति । तयोः तु तत्कृतम् दृष्ट्वा । स्त्रीकृतम् शब्दम् दृष्ट्वा स्त्री इति अवसीयते पुंस्कृतम् दृष्ट्वा पुमान् इति । यथा आकाशेन ज्योतिषः । तत् यथा आकाशम् दृष्ट्व ज्योतिः अत्र इति गम्यते । ज्योतिर्निमित्तम् हि आकाशम् । अन्योन्य्संश्रयम् तु एतत् । अन्योन्य्संश्रयम् तु एतत् भवति । स्त्रीकृतः शब्दः शब्दकृतम् च स्त्रीत्वम् । एतत् इतरेतराश्रयम् भवति । इतरेतराश्रयाणि च न प्रकल्पन्ते । प्रत्यक्षेण विरुध्यते । प्रत्यक्षेण खलु अपि सः विरुध्यते यः आह खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते इति । तत्र स्वेन्द्रियविरोधः कृतः भवति । न च नाम स्वेन्द्रियविरोधिना भवितव्यम् । तटे च सर्वलिङ्गानि दृष्ट्वा कः अध्यवसायति । तटे च खलु अपि सर्वाणि लिङ्गानि दृष्ट्वा तटः तटई तटम् इति कः अध्यवसातुम् अर्हति इयम् स्त्रीअयम् पुमान् इदम् नपुंसकम् इति । तस्मात् न वैयाकरणैः शक्यम् लौकिकम् लिङ्गम् आस्थातुम् । अवश्यम् च कः चित् स्वकृतान्तः आस्थेयः । कः असौ स्वकृतान्तः । संस्त्यानप्रसवौ लिङ्गम् आस्थेयौ स्वकृतान्ततः । संस्त्यानप्रसवौ लिङ्गम् आस्थेयौ । किम् इदम् संस्त्यानप्रसवौ इति । संस्त्याने स्त्यायतेः ड्रट् : स्त्री । सूतेः सप् प्रसवे पुमान् इति । ननु च लोके अपि स्त्यायतेः एव स्त्री सूतेः च पुमान् । अधिकरणसाधना लोके स्त्री : स्त्यायति अस्याम् गर्भः इति । कर्तृसाधनः च पुमान् : सूते पुमान् इति । इह पुनः उभयम् भावसाधनम् : स्त्यानम् स्त्री प्रवृत्तिः च पुमान् । कस्य पुनः स्त्यानम् स्त्री प्रवृत्तिः वा पुमान् । गुणानाम् । केषाम् । शब्सस्पर्शरूपरसगन्धानाम् । सर्वाः च पुनः मूर्तयः एवमात्मिकाः संस्त्यानप्रसवगुणाः शब्सस्पर्शरूपरसगन्धवत्यः । यत्र अल्पीयांसः गुणाः तत्र अवरतः त्रयः शब्दः स्पर्शः रूपम् इति । रसगन्धौ न सर्वत्र । प्रवृत्तिः खलु अपि नित्या । न हि इह कः चित् स्वस्मिन् आत्मनि मुहूर्तम् अपि अवतिष्ठते । वर्धते वा यावत् अनेन वर्धितव्यम् अपायेन वा युज्यते । तत् च उभयम् सर्वत्र । यदि उभयम् सर्वत्र कुतः व्यवस्था ।

KA II,195.25-198.19 Ro III,439-452 striyām iti ucyate . kā strī nāma . lokatataḥ ete śabdāḥ prasiddhāḥ strīpumān napuṃsakam iti . yat loke dṛṣṭvā etat avasīyate iyam strī ayam pumān idam napuṃsakam iti sā strīsaḥ pumān tat napuṃsakam iti . kim punaḥ loke dṛṣṭvā etat avasīyate iyam strī ayam pumān idam napuṃsakam iti . liṅgam . kim punaḥ tat . stanakeśavatī strī syāt . lomaśaḥ puruṣaḥ smṛtaḥ . ubhayoḥ antaram yat ca tadabhāve napuṃsakam . liṅgāt strīpuṃsayoḥ jñāne bhrūkuṃse ṭāP prasajyate . liṅgāt strīpuṃsayoḥ jñāne bhrūkuṃse ṭāp prāpnoti . yat hi loke dṛṣṭvā etat avasīyate iyam strī iti asti tat bhrūkuṃse . natvam kharakuṭīḥ paśya . iha cañcāḥ paśya vadhrikāḥ paśya kharakuṭīḥ paśya iti tasmāt śasaḥ naḥ puṃsi iti natvam prāpnoti . yat hi dṛṣṭvā etat avasīyate ayam pumān iti asti tat vadhrikādiṣu . khaṭvāvṛkṣau na sidhyataḥ . khaṭvāvṛkṣayoḥ ca liṅgam na sidhyati . yat hi loke dṛṣṭvā etat avasīyate iyam strī ayam pumān iti na tat khaṭvāvṛkṣayoḥ asti . kim tarhi tayoḥ liṅgam nyāyyam . nāpuṃsakam bhavet tasmin . napuṃsakam khaṭvāvṛkṣayoḥ liṅgam nyāyyam . kim idam nāpuṃsakam iti . napuṃsake bhavam nāpuṃsakam . tadabhāve napuṃsakam . tadabhāve strīpuṃsaliṅgābhāve napuṃsakaliṅgam nyāyyam . asat tu mṛgatṛṣṇāvat . asat tu khaṭvāvṛkṣayoḥ liṅgam draṣṭavyam . katham punaḥ asat nāma liṅgam śakyam draṣṭum . mṛgatṛṣṇāvat . tat yathā mṛgāḥ tṛṣitāḥ apām dhārāḥ paśyanti . na ca tāḥ santi . gandharvnagaram yathā . yathā gandharvanagarāṇi dūrataḥ dṛśyante upasṛtya ca na upalabhyante tadvat khaṭvāvṛkṣayoḥ liṅgam draṣṭavyam . ādityagativat sat na . atha va yathā ādityasya gatiḥ satī na upalabhyate tadvat khaṭvāvṛkṣayoḥ sat liṅgam na upalabhyate . vastrāntarhitavat ca tat . yathā vastrāntarhitāni dravyāṇi na upalabhyante tadvat khaṭvāvṛkṣayoḥ sat liṅgam na upalabhyate . viṣamaḥ upanyāsaḥ . vastrāntarhitāni dravyāṇi vastrāpāye upalabhyante . khaṭvāvṛkṣayoḥ punaḥ ye api ete rathkārāḥ vāśīvṛkṣādanahastāḥ mūlāt prabhṛti ā agrāt vṛkṣān takṣṇuvanti te api tayoḥ liṅgam na upalabhante . kena etat avasīyate khaṭvāvṛkṣayoḥ sat liṅgam na upalabhyate iti . ṣaḍbhiḥ prakāraiḥ satām bhāvānām anupalabdhiḥ bhavati . sannikarṣāt ativiprakarṣāt mūrtyantaravyavadhānāt tamasā āvṛtatvāt indriyadaurbalyāt atipramādāt iti . ataḥ atra kaḥ cit hetuḥ draṣṭavyaḥ yena khaṭvāvṛkṣayoḥ sat liṅgam na upalabhyate . kena etat avasīyate khaṭvāvṛkṣayoḥ sat liṅgam na upalabhyate iti . tayoḥ tu tatkṛtam dṛṣṭvā . strīkṛtam śabdam dṛṣṭvā strī iti avasīyate puṃskṛtam dṛṣṭvā pumān iti . yathā ākāśena jyotiṣaḥ . tat yathā ākāśam dṛṣṭva jyotiḥ atra iti gamyate . jyotirnimittam hi ākāśam . anyonysaṃśrayam tu etat . anyonysaṃśrayam tu etat bhavati . strīkṛtaḥ śabdaḥ śabdakṛtam ca strītvam . etat itaretarāśrayam bhavati . itaretarāśrayāṇi ca na prakalpante . pratyakṣeṇa virudhyate . pratyakṣeṇa khalu api saḥ virudhyate yaḥ āha khaṭvāvṛkṣayoḥ sat liṅgam na upalabhyate iti . tatra svendriyavirodhaḥ kṛtaḥ bhavati . na ca nāma svendriyavirodhinā bhavitavyam . taṭe ca sarvaliṅgāni dṛṣṭvā kaḥ adhyavasāyati . taṭe ca khalu api sarvāṇi liṅgāni dṛṣṭvā taṭaḥ taṭaī taṭam iti kaḥ adhyavasātum arhati iyam strīayam pumān idam napuṃsakam iti . tasmāt na vaiyākaraṇaiḥ śakyam laukikam liṅgam āsthātum . avaśyam ca kaḥ cit svakṛtāntaḥ āstheyaḥ . kaḥ asau svakṛtāntaḥ . saṃstyānaprasavau liṅgam āstheyau svakṛtāntataḥ . saṃstyānaprasavau liṅgam āstheyau . kim idam saṃstyānaprasavau iti . saṃstyāne styāyateḥ ḍraṭ : strī . sūteḥ sap prasave pumān iti . nanu ca loke api styāyateḥ eva strī sūteḥ ca pumān . adhikaraṇasādhanā loke strī : styāyati asyām garbhaḥ iti . kartṛsādhanaḥ ca pumān : sūte pumān iti . iha punaḥ ubhayam bhāvasādhanam : styānam strī pravṛttiḥ ca pumān . kasya punaḥ styānam strī pravṛttiḥ vā pumān . guṇānām . keṣām . śabsasparśarūparasagandhānām . sarvāḥ ca punaḥ mūrtayaḥ evamātmikāḥ saṃstyānaprasavaguṇāḥ śabsasparśarūparasagandhavatyaḥ . yatra alpīyāṃsaḥ guṇāḥ tatra avarataḥ trayaḥ śabdaḥ sparśaḥ rūpam iti . rasagandhau na sarvatra . pravṛttiḥ khalu api nityā . na hi iha kaḥ cit svasmin ātmani muhūrtam api avatiṣṭhate . vardhate vā yāvat anena vardhitavyam apāyena vā yujyate . tat ca ubhayam sarvatra . yadi ubhayam sarvatra kutaḥ vyavasthā .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१९८।२०-२००।२२ रो इइइ,४५२-४५८ कथम् पुनः इदम् विज्ञायते । स्त्रियाम् अभिधेयायाम् टाबादयः भवन्ति इति आहोस्वित् स्त्रीसमानाधिकरणात् प्रातिपदिकात् इति । कः च अत्र विशेषः । स्त्रियाम् इति स्त्र्यर्थाभिधाने चेत् टाबादयः द्विवचनबहुवचनानेकप्रत्ययानुपपत्तिः । स्त्रियाम् इति स्त्र्यर्थाभिधाने चेत् टाबादयः भवन्ति द्विवचनबहुवचनयोः अनुपपत्तिः । कुमार्यौ कुमार्यः किशोर्यौ किशोर्यः । किम् कारणम् । एकः अयम् अर्थः स्त्रीत्वम् नाम । तस्य एकत्वात् एकवचनम् एव प्राप्नोति । अनेकप्रत्ययानुपपत्तिः च । अनेकः च प्रत्ययः न उपपद्यते । गार्ग्यायणी कारीषगन्ध्या कालितरा इति । किम् कारणम् । एकत्वात् स्त्रीत्वस्य । एकः अयम् अर्थः स्त्रीत्वम् नाम । तस्य एकेन उक्तत्वात् द्वितीयस्य प्रयोगेण न भवितव्यम् । किम् कारणम् । उक्तार्थानाम् अप्रयोगः इति । स्त्र्यर्थस्य च प्रातिपदिकार्थत्वात् स्त्रियाम् इति लिङ्गानुपपत्तिः । स्त्र्यर्थस्य च प्रातिपदिकार्थत्वात् स्त्रियाम् इति अधिकारः न प्राप्नोति । अस्तु तर्हि स्त्रीसमानाधिकरणात् प्रातिपदिकात् इति । स्त्रीसमानाधिकरणात् इति चेत् भूतादिषु अतिप्रसङ्गः । स्त्रीसमानाधिकरणात् इति चेत् भूतादिषु अतिप्रसङ्गः भवति । भूतम् इयम् ब्राह्मणी । कारणम् इयम् ब्राह्मणी इति । आवपनम् इयम् उष्ट्रिका इति । स्त्र्यर्थाभिधाने पुनः टाबादिषु सत्सु इह तावत् भूतम् इयम् ब्राह्मणी इति न अत्र स्त्रीत्वम् विवक्षितम् । किम् तर्हि । पौतन्यम् । कारणम् इयम् ब्राह्मणी इति न अत्र स्त्रीत्वम् विवक्षितम् । किम् तर्हि । प्राधान्यम् । आवपनम् इयम् उष्ट्रिका इति न अत्र स्त्रीत्वम् विवक्षितम् । किम् तर्हि । सम्भवनम् । षट्सञ्ज्ञकेभ्यः च प्रतिषेधः । षट्सञ्ज्ञकेभ्यः च प्रतिषेधः वक्तव्यः । पञ्च ब्राह्मण्यः दश ब्राह्मण्यः । स्त्र्यर्थाभिधाने पुनः टाबादिषु सत्सु न अत्र स्त्रीत्वम् विवक्षितम् । किम् तर्हि भेदः विवक्षितः सङ्ख्या । इह च स्त्री : ईकारः न प्राप्नोति । न हि तेन एव तस्य सामानाधिकरण्यम् अस्ति । सिद्धम् तु स्त्रियाः प्रातिपदिकविशेषणत्वात् स्वार्थे टाबादयः । सिद्धम् एतत् । कथम् । स्त्रियाः प्रातिपदिकविशेषणत्वात् । प्रातिपदिकविशेषणम् स्त्रीग्रहणम् । स्वार्थिकाः टाबादयः । न एवम् विज्ञायते स्त्रियाम् अभिधेयायाम् इति न अपि स्त्रीसमानाधिकरणात् इति । कथम् तर्हि । स्त्रियाम् यत् प्रातिपदिकम् वर्तते तस्मात् टाबादयः भवन्ति । कस्मिन् अर्थे । स्वार्थे इति । अथ वा पुनः अस्तु स्त्रियाम् अभिधेयायाम् इति । ननु च उक्तम् स्त्रियाम् इति स्त्र्यर्थाभिधाने चेत् टाबादयः द्विवचनबहुवचनानेकप्रत्ययानुपपत्तिः । स्त्र्यर्थस्य च प्रातिपदिकार्थत्वात् स्त्रियाम् इति लिङ्गानुपपत्तिः । न एषः दोषः । यत् तावत् उच्यते द्विवचनबहुवचनयोः अनुपपत्तिः इति । गुणवचनस्य च आश्रयतः लिङ्गवचनभावात् । गुणवचनानाम् हि शब्दानाम् आश्रयतः लिङ्गवचनानि भवन्ति । तत् यथा शुक्लम् वस्त्रम् , शुक्ला शाटी शुक्लः कम्बलः शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति । यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति । एवम् इह अपि यत् अदः द्रव्यम् श्रितम् भवति स्त्रीत्वम् तस्य यत् लिङ्गम् वचनम् च तत् स्त्रीत्वस्य अपि भविष्यति । यत् अपि उच्यते अनेकप्रत्ययानुपपत्तिः इति । भावस्य च भावयुक्तत्वात् । भावः भावेन युज्यते । तत् यथ इषिः इषिणा निमन्त्रिः च निमन्त्रिणा । विषमः उपन्यासः । युक्तम् तत्र अन्यत्वम् साधनभेदात् कालभेदात् च । उक्तम् तत्र एकस्य बाह्यम् साधनम् सर्वकालः च प्रत्ययः अपरस्य आभ्यन्तरम् साधनम् वर्तमानकालः च प्रत्ययः इति । इह पुनः एकम् स्त्रीत्वम् । अथ एकम् उपलभ्यते । किम् च अतः यदि एकम् उपलभ्यते द्वितीयम् अपि उपलभ्यताम् । अथ एकम् अपि अनुमानगम्यम् द्व्तीयम् अपि अनुमानात् गम्यताम् । कस्य तावत् भवान् एवम् गुणम् न्याय्यम् मन्यते स्त्रीत्वम् नाम । द्रव्यस्य । द्रव्ये च भवतः कः सम्प्रत्ययः । यदि तावत् गुअणसमुदायः द्रव्यम् का गतिः ये एते भावाः कृदभिहिताः तद्धिताभिहिताः च । चिकीर्षा गोता इति । अथ मतम् एतत् कृदभिहितः भावः द्रव्यवत् भवति इति स्त्रीत्वम् अपि स्त्रीत्वेन अभिहितम् द्रव्यवत् भविष्यति । क्व च तावत् दोषः स्यात् । दृष्टस्य हि

KA II,198.20-200.22 Ro III,452-458 katham punaḥ idam vijñāyate . striyām abhidheyāyām ṭābādayaḥ bhavanti iti āhosvit strīsamānādhikaraṇāt prātipadikāt iti . kaḥ ca atra viśeṣaḥ . striyām iti stryarthābhidhāne cet ṭābādayaḥ dvivacanabahuvacanānekapratyayānupapattiḥ . striyām iti stryarthābhidhāne cet ṭābādayaḥ bhavanti dvivacanabahuvacanayoḥ anupapattiḥ . kumāryau kumāryaḥ kiśoryau kiśoryaḥ . kim kāraṇam . ekaḥ ayam arthaḥ strītvam nāma . tasya ekatvāt ekavacanam eva prāpnoti . anekapratyayānupapattiḥ ca . anekaḥ ca pratyayaḥ na upapadyate . gārgyāyaṇī kārīṣagandhyā kālitarā iti . kim kāraṇam . ekatvāt strītvasya . ekaḥ ayam arthaḥ strītvam nāma . tasya ekena uktatvāt dvitīyasya prayogeṇa na bhavitavyam . kim kāraṇam . uktārthānām aprayogaḥ iti . stryarthasya ca prātipadikārthatvāt striyām iti liṅgānupapattiḥ . stryarthasya ca prātipadikārthatvāt striyām iti adhikāraḥ na prāpnoti . astu tarhi strīsamānādhikaraṇāt prātipadikāt iti . strīsamānādhikaraṇāt iti cet bhūtādiṣu atiprasaṅgaḥ . strīsamānādhikaraṇāt iti cet bhūtādiṣu atiprasaṅgaḥ bhavati . bhūtam iyam brāhmaṇī . kāraṇam iyam brāhmaṇī iti . āvapanam iyam uṣṭrikā iti . stryarthābhidhāne punaḥ ṭābādiṣu satsu iha tāvat bhūtam iyam brāhmaṇī iti na atra strītvam vivakṣitam . kim tarhi . pautanyam . kāraṇam iyam brāhmaṇī iti na atra strītvam vivakṣitam . kim tarhi . prādhānyam . āvapanam iyam uṣṭrikā iti na atra strītvam vivakṣitam . kim tarhi . sambhavanam . ṣaṭsañjñakebhyaḥ ca pratiṣedhaḥ . ṣaṭsañjñakebhyaḥ ca pratiṣedhaḥ vaktavyaḥ . pañca brāhmaṇyaḥ daśa brāhmaṇyaḥ . stryarthābhidhāne punaḥ ṭābādiṣu satsu na atra strītvam vivakṣitam . kim tarhi bhedaḥ vivakṣitaḥ saṅkhyā . iha ca strī : īkāraḥ na prāpnoti . na hi tena eva tasya sāmānādhikaraṇyam asti . siddham tu striyāḥ prātipadikaviśeṣaṇatvāt svārthe ṭābādayaḥ . siddham etat . katham . striyāḥ prātipadikaviśeṣaṇatvāt . prātipadikaviśeṣaṇam strīgrahaṇam . svārthikāḥ ṭābādayaḥ . na evam vijñāyate striyām abhidheyāyām iti na api strīsamānādhikaraṇāt iti . katham tarhi . striyām yat prātipadikam vartate tasmāt ṭābādayaḥ bhavanti . kasmin arthe . svārthe iti . atha vā punaḥ astu striyām abhidheyāyām iti . nanu ca uktam striyām iti stryarthābhidhāne cet ṭābādayaḥ dvivacanabahuvacanānekapratyayānupapattiḥ . stryarthasya ca prātipadikārthatvāt striyām iti liṅgānupapattiḥ . na eṣaḥ doṣaḥ . yat tāvat ucyate dvivacanabahuvacanayoḥ anupapattiḥ iti . guṇavacanasya ca āśrayataḥ liṅgavacanabhāvāt . guṇavacanānām hi śabdānām āśrayataḥ liṅgavacanāni bhavanti . tat yathā śuklam vastram , śuklā śāṭī śuklaḥ kambalaḥ śuklau kambalau śuklāḥ kambalāḥ iti . yat asau dravyam śritaḥ bhavati guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api bhavati . evam iha api yat adaḥ dravyam śritam bhavati strītvam tasya yat liṅgam vacanam ca tat strītvasya api bhaviṣyati . yat api ucyate anekapratyayānupapattiḥ iti . bhāvasya ca bhāvayuktatvāt . bhāvaḥ bhāvena yujyate . tat yatha iṣiḥ iṣiṇā nimantriḥ ca nimantriṇā . viṣamaḥ upanyāsaḥ . yuktam tatra anyatvam sādhanabhedāt kālabhedāt ca . uktam tatra ekasya bāhyam sādhanam sarvakālaḥ ca pratyayaḥ aparasya ābhyantaram sādhanam vartamānakālaḥ ca pratyayaḥ iti . iha punaḥ ekam strītvam . atha ekam upalabhyate . kim ca ataḥ yadi ekam upalabhyate dvitīyam api upalabhyatām . atha ekam api anumānagamyam dvtīyam api anumānāt gamyatām . kasya tāvat bhavān evam guṇam nyāyyam manyate strītvam nāma . dravyasya . dravye ca bhavataḥ kaḥ sampratyayaḥ . yadi tāvat guaṇasamudāyaḥ dravyam kā gatiḥ ye ete bhāvāḥ kṛdabhihitāḥ taddhitābhihitāḥ ca . cikīrṣā gotā iti . atha matam etat kṛdabhihitaḥ bhāvaḥ dravyavat bhavati iti strītvam api strītvena abhihitam dravyavat bhaviṣyati . kva ca tāvat doṣaḥ syāt . dṛṣṭasya hi

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२००।२३-२०१।६ रो इइइ,४५८ स्त्रीविषये ङ्यापोः अप्रसिद्धिः अकारान्तादर्शनात् । स्त्रीविषये ङ्यापोः अप्रसिद्धिः । खट्वा माला । किम् कारणम् । अकारान्तादर्शनात् । न हि अकारान्तता दृश्यते । ननु च इयम् दृश्यते । अतिखट्वः अतिमालः इति । न एषा अकारान्तता । आपः एव एतत् ह्रस्वत्वम् । सर्वेषाम् तु स्वरवर्णानुपूर्वीज्ञानार्थः उपदेशः । सर्वेषाम् एव तु प्रातिपदिकानाम् स्वरवर्णानुपूर्वीज्ञानार्थः उपदेशः कर्तव्यः । शशः । षषः इति मा भूत् । पलाशः । पलाषः इति मा भूत् । मञ्चकः । मञ्जकः इति मा भूत् । तस्मात् सिद्धम् । तस्मात् सिद्धम् एतत् भवति । अथ वा इयम् अकारान्तता दृश्यते । पञ्चभिः खट्वाभिः क्रीतः पटः पञ्चखट्वः दशखट्वः ।

KA II,200.23-201.6 Ro III,458 strīviṣaye ṅyāpoḥ aprasiddhiḥ akārāntādarśanāt . strīviṣaye ṅyāpoḥ aprasiddhiḥ . khaṭvā mālā . kim kāraṇam . akārāntādarśanāt . na hi akārāntatā dṛśyate . nanu ca iyam dṛśyate . atikhaṭvaḥ atimālaḥ iti . na eṣā akārāntatā . āpaḥ eva etat hrasvatvam . sarveṣām tu svaravarṇānupūrvījñānārthaḥ upadeśaḥ . sarveṣām eva tu prātipadikānām svaravarṇānupūrvījñānārthaḥ upadeśaḥ kartavyaḥ . śaśaḥ . ṣaṣaḥ iti mā bhūt . palāśaḥ . palāṣaḥ iti mā bhūt . mañcakaḥ . mañjakaḥ iti mā bhūt . tasmāt siddham . tasmāt siddham etat bhavati . atha vā iyam akārāntatā dṛśyate . pañcabhiḥ khaṭvābhiḥ krītaḥ paṭaḥ pañcakhaṭvaḥ daśakhaṭvaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२०१।८-१७ रो इइइ,४५९-४६१ शूद्रा च अमहत्पूर्वा । शूद्रा च अमहत्पूर्वा इति वक्तव्यम् । शूद्रा । अमहत्पूर्वा इति किमर्थम् । महाशूद्री । जातिः । जातिः इति वक्तव्यम् । या हि मथती शूद्रा महाशूद्रा सा भवति । शूद्राशब्दः अजादिषु पठ्यते । तत्र कः प्रसङ्गः यत् महत्पूर्वात् स्यात् । न एव प्राप्नोति न अर्थः प्रतिषेधेन । तदन्तविधिना प्राप्नोति । ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते । एवम् तर्हि ज्ञापयति आचार्यः भवति इह तदन्तविधिः इति । किम् एतस्य ज्ञापने प्रयोजनम् । भवती , अतिभवती महती , अतिमहती : अत्र तदन्तविधिः सिद्धः भवति । जातिः इति च वक्ष्यामि । यदि एतत् ज्ञाप्यते पञ्चाजी दशाजी अत्र अपि प्राप्नोति । न एषः दोषः । अजादिभिः स्त्रियम् विशेषयिष्यामः । अद्जादीनाम् या स्त्री इति ।

KA II,201.8-17 Ro III,459-461 śūdrā ca amahatpūrvā . śūdrā ca amahatpūrvā iti vaktavyam . śūdrā . amahatpūrvā iti kimartham . mahāśūdrī . jātiḥ . jātiḥ iti vaktavyam . yā hi mathatī śūdrā mahāśūdrā sā bhavati . śūdrāśabdaḥ ajādiṣu paṭhyate . tatra kaḥ prasaṅgaḥ yat mahatpūrvāt syāt . na eva prāpnoti na arthaḥ pratiṣedhena . tadantavidhinā prāpnoti . grahaṇavatā prātipadikena tadantavidhiḥ pratiṣidhyate . evam tarhi jñāpayati ācāryaḥ bhavati iha tadantavidhiḥ iti . kim etasya jñāpane prayojanam . bhavatī , atibhavatī mahatī , atimahatī : atra tadantavidhiḥ siddhaḥ bhavati . jātiḥ iti ca vakṣyāmi . yadi etat jñāpyate pañcājī daśājī atra api prāpnoti . na eṣaḥ doṣaḥ . ajādibhiḥ striyam viśeṣayiṣyāmaḥ . adjādīnām yā strī iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२०१।१९-२०२।११ रो इइइ,४६१-४६३ कथम् इदम् विज्ञायते : उगितः प्रातिपदिकात् इति आहोस्वित् उगितन्तात् प्रातिपदिकात् इति । किम् च अतः । यदि विज्ञायते उगितः प्रातिपदिकात् इति सिद्धम् : भवती महती । अतिभवती , अतिमहती इति न सिध्यति । तदन्तविधिना भविष्यति । ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते । अथ विज्ञायते उगितन्तात् प्रातिपदिकात् इति सिद्धम् अतिभवती अतिमहती । भवती महती इति न सिध्यति । व्यपदेशिवद्भावेन भविष्यति । व्यपदेशिवद्भावः अप्रातिपदिकेन । उभयथा च निर्गोमती निर्यवमती इति न सिध्यति । किम् कारणम् । प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति । यथा इच्छसि तथा अस्तु । अस्तु तावत् उगितः प्रातिपदिकात् इति । कथम् अतिभवती अतिमहती इति । तदन्तविधिना भविष्यति । ननु च उक्तम् ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते । न एतत् प्रातिपदिकग्रहणम् । प्रातिपदिकाप्रातिपदिकयोः एतत् ग्रहणम् । अथ वा पुनः अस्तु उगितन्तात् प्रातिपदिकात् इति । कथम् भवती महती इति । व्यपदेशिवद्भावेन भविष्यति । ननु च उक्तम् व्यपदेशिवद्भावः अप्रातिपदिकेन इति । न एतत् प्रातिपदिकग्रहणम् । प्रातिपदिकाप्रातिपदिकयोः एतत् ग्रहणम् । यत् अपि उच्यते उभयथा च निर्गोमती निर्यवमती इति न सिध्यति । किम् कारणम् । प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति । न एतत् प्रत्ययग्रहणम् । प्रत्ययाप्रत्यययोः एतत् ग्रहणम् । कथम् । वर्णः अपि उगित् प्रत्ययः अपि उगित् प्रातिपदिकम् अपि उगित् ।

KA II,201.19-202.11 Ro III,461-463 katham idam vijñāyate : ugitaḥ prātipadikāt iti āhosvit ugitantāt prātipadikāt iti . kim ca ataḥ . yadi vijñāyate ugitaḥ prātipadikāt iti siddham : bhavatī mahatī . atibhavatī , atimahatī iti na sidhyati . tadantavidhinā bhaviṣyati . grahaṇavatā prātipadikena tadantavidhiḥ pratiṣidhyate . atha vijñāyate ugitantāt prātipadikāt iti siddham atibhavatī atimahatī . bhavatī mahatī iti na sidhyati . vyapadeśivadbhāvena bhaviṣyati . vyapadeśivadbhāvaḥ aprātipadikena . ubhayathā ca nirgomatī niryavamatī iti na sidhyati . kim kāraṇam . pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti . yathā icchasi tathā astu . astu tāvat ugitaḥ prātipadikāt iti . katham atibhavatī atimahatī iti . tadantavidhinā bhaviṣyati . nanu ca uktam grahaṇavatā prātipadikena tadantavidhiḥ pratiṣidhyate . na etat prātipadikagrahaṇam . prātipadikāprātipadikayoḥ etat grahaṇam . atha vā punaḥ astu ugitantāt prātipadikāt iti . katham bhavatī mahatī iti . vyapadeśivadbhāvena bhaviṣyati . nanu ca uktam vyapadeśivadbhāvaḥ aprātipadikena iti . na etat prātipadikagrahaṇam . prātipadikāprātipadikayoḥ etat grahaṇam . yat api ucyate ubhayathā ca nirgomatī niryavamatī iti na sidhyati . kim kāraṇam . pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti . na etat pratyayagrahaṇam . pratyayāpratyayayoḥ etat grahaṇam . katham . varṇaḥ api ugit pratyayaḥ api ugit prātipadikam api ugit .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२०२।१२-१८ रो इइइ,४६३-४६४ धातोः उगितः प्रतिषेधः । धातोः उगितः प्रतिषेधः वक्तव्यः । उखास्रात् ब्राह्मणी पर्णध्वत् ब्राह्मणी । अञ्चतेः च उपसङ्ख्यानम् । अञ्चतेः च उपसङ्ख्यानम् कर्तव्यम् । प्राची प्रतीची । उगिति अञ्चतिग्रहणात् सिद्धम् अधातोः । उगिति अञ्चतिग्रहणात् अधातोः सिद्धम् । अञ्चतिग्रहणम् नियमार्थम् भविष्यति । अञ्चतेः एव उगितः धातोः न अन्यस्य उगितः धातोः इति ।

KA II,202.12-18 Ro III,463-464 dhātoḥ ugitaḥ pratiṣedhaḥ . dhātoḥ ugitaḥ pratiṣedhaḥ vaktavyaḥ . ukhāsrāt brāhmaṇī parṇadhvat brāhmaṇī . añcateḥ ca upasaṅkhyānam . añcateḥ ca upasaṅkhyānam kartavyam . prācī pratīcī . ugiti añcatigrahaṇāt siddham adhātoḥ . ugiti añcatigrahaṇāt adhātoḥ siddham . añcatigrahaṇam niyamārtham bhaviṣyati . añcateḥ eva ugitaḥ dhātoḥ na anyasya ugitaḥ dhātoḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२०२।२०-२०३।१६ रो इइइ,४६४-४६६ इह कस्मात् न भवति । निःशूनी अतियूनी इति । अर्थवद्ग्रहणे न अनर्थकस्य इति । एवम् अपि मघोनी अत्र प्राप्नोति । मघवन्शब्दः अव्युत्पन्नम् प्रातिपदिकम् । वनः न हशः । वनः र च इति अत्र हशन्तात् न भवति इति वक्तव्यम् । इह मा भूत् । सहयुध्वा ब्राह्मणी इति । यदि न हशः इति उच्यते शर्वरी इति न सिध्यति । विहितविशेषणम् हश्ग्रहणम् । हशन्तात् यः विहितः इति । एवम् अपि प्रेर्त्वरी इति न सिध्यति । कथम् च अत्र तुगागमः । छान्दसत्वात् । ङीब्रौ अपि तर्हि छान्दसत्वात् एव भविष्यतः । बहुलम् छन्दसि ङीब्रौ वक्तव्यौ । यज्वरीः इषः यज्वनीः इषः । रविधाने बहुव्रीहेः उपसङ्ख्यानम् प्रतिषिद्धत्वात् । रविधाने बहुव्रीहेः उपसङ्ख्यानम् कर्तव्यम् । बहुधीवरी बहुपीवरी । किम् पुनः कारणम् न सिध्यति । प्रतिषिद्धत्वात् । अनः बहुव्रीहेः इति प्रतिषेधः प्राप्नोति । अनः बहुव्रीहिप्रतिषेधे वा उपधालोपिनः वावचनम् । अनः बहुव्रीहिप्रतिषेधे वा उपधालोपिनः वा इति वक्तव्यम् । अन्यथा कृत्वा चोदितम् अन्यथा कृत्वा परिहारः । यथा उपसङ्ख्यानम् चोदितम् तथा नित्याभ्याम् ङीब्राभ्याम् भवितव्यम् । यथा परिहारः तथा विभाषया भवितव्यम् । यथा उपसङ्ख्यानम् चोदितम् एवम् अपि विभाषया भवितव्यम् । । न हि अत्र ङीप् दुर्लभः । सिद्धः अत्र ङीप् अनः उपधालोपिनः अन्यतरस्याम् इति । ङीप्सन्नियोगेन रः उच्यमानः अन्येन सति न स्यात् इति एवमर्थम् उपसङ्ख्यानम् चोद्यते । किम् पुनः कारणम् ङीप्सन्नियोगेन रः उच्यते । इह मा भूत् सुपर्वा चारुपर्वा इति । तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् । न कर्तव्यम् । वक्ष्यति डाप् उभाभ्याम् अन्यतरस्याम् इति अत्र अन्यतरस्याङ्ग्रहणस्य प्रयोजनम् । डाप्प्रतिषेधाभ्याम् मुक्ते ङीब्रौ अपि यथा स्याताम् इति ।

KA II,202.20-203.16 Ro III,464-466 iha kasmāt na bhavati . niḥśūnī atiyūnī iti . arthavadgrahaṇe na anarthakasya iti . evam api maghonī atra prāpnoti . maghavanśabdaḥ avyutpannam prātipadikam . vanaḥ na haśaḥ . vanaḥ ra ca iti atra haśantāt na bhavati iti vaktavyam . iha mā bhūt . sahayudhvā brāhmaṇī iti . yadi na haśaḥ iti ucyate śarvarī iti na sidhyati . vihitaviśeṣaṇam haśgrahaṇam . haśantāt yaḥ vihitaḥ iti . evam api prertvarī iti na sidhyati . katham ca atra tugāgamaḥ . chāndasatvāt . ṅībrau api tarhi chāndasatvāt eva bhaviṣyataḥ . bahulam chandasi ṅībrau vaktavyau . yajvarīḥ iṣaḥ yajvanīḥ iṣaḥ . ravidhāne bahuvrīheḥ upasaṅkhyānam pratiṣiddhatvāt . ravidhāne bahuvrīheḥ upasaṅkhyānam kartavyam . bahudhīvarī bahupīvarī . kim punaḥ kāraṇam na sidhyati . pratiṣiddhatvāt . anaḥ bahuvrīheḥ iti pratiṣedhaḥ prāpnoti . anaḥ bahuvrīhipratiṣedhe vā upadhālopinaḥ vāvacanam . anaḥ bahuvrīhipratiṣedhe vā upadhālopinaḥ vā iti vaktavyam . anyathā kṛtvā coditam anyathā kṛtvā parihāraḥ . yathā upasaṅkhyānam coditam tathā nityābhyām ṅībrābhyām bhavitavyam . yathā parihāraḥ tathā vibhāṣayā bhavitavyam . yathā upasaṅkhyānam coditam evam api vibhāṣayā bhavitavyam . . na hi atra ṅīp durlabhaḥ . siddhaḥ atra ṅīp anaḥ upadhālopinaḥ anyatarasyām iti . ṅīpsanniyogena raḥ ucyamānaḥ anyena sati na syāt iti evamartham upasaṅkhyānam codyate . kim punaḥ kāraṇam ṅīpsanniyogena raḥ ucyate . iha mā bhūt suparvā cāruparvā iti . tat tarhi upasaṅkhyānam kartavyam . na kartavyam . vakṣyati ḍāp ubhābhyām anyatarasyām iti atra anyatarasyāṅgrahaṇasya prayojanam . ḍāppratiṣedhābhyām mukte ṅībrau api yathā syātām iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२०३।१८-२०४।८ रो इइइ,४६६-४६८ कस्य अयम् प्रतिषेधः । ङीप् अनन्तरः तस्य प्रतिषेधः । अथ इदानीम् ङीपि प्रतिषिद्धे षट्सञ्ज्ञानाम् अन्ते लुप्ते टाबुत्पत्तिः कस्मात् न स्यात् । अतः इति प्राप्नोति । असिद्धः नलोपः । तस्य असिद्धत्वात् न भविष्यति । परिगणितेषु कार्येषु नलोपः असिद्धः न च इदम् तत्र परिगण्यते । इदम् अपि तत्र परिगण्यते । प्रत्याहारात् चापा सिद्धम् । सुप् इति न इदम् प्रत्ययग्रहणम् । किम् तर्हि । प्रत्याहारग्रहणम् । क्व सन्निविष्टानाम् प्रत्याहारः । प्रथमैकवचनात् प्रभृति आ चापः पकारात् । यदि प्रत्याहारग्रहणम् दोषः तु इत्त्वे । इत्त्वे दोषः भवति । बहुचर्मिका । प्रत्ययस्थात् कात् पूर्वस्य आतः इति इत्त्वम् न प्राप्नोति । तस्मात् न उभौ । तस्मात् षट्सञ्ज्ञकेभ्यः उभौ न भवतः इति वक्तव्यम् । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । स्त्रियाम् इति वर्तते । स्त्रियाम् यत् प्राप्नोति तस्य प्रतिषेधः ।

KA II,203.18-204.8 Ro III,466-468 kasya ayam pratiṣedhaḥ . ṅīp anantaraḥ tasya pratiṣedhaḥ . atha idānīm ṅīpi pratiṣiddhe ṣaṭsañjñānām ante lupte ṭābutpattiḥ kasmāt na syāt . ataḥ iti prāpnoti . asiddhaḥ nalopaḥ . tasya asiddhatvāt na bhaviṣyati . parigaṇiteṣu kāryeṣu nalopaḥ asiddhaḥ na ca idam tatra parigaṇyate . idam api tatra parigaṇyate . pratyāhārāt cāpā siddham . sup iti na idam pratyayagrahaṇam . kim tarhi . pratyāhāragrahaṇam . kva sanniviṣṭānām pratyāhāraḥ . prathamaikavacanāt prabhṛti ā cāpaḥ pakārāt . yadi pratyāhāragrahaṇam doṣaḥ tu ittve . ittve doṣaḥ bhavati . bahucarmikā . pratyayasthāt kāt pūrvasya ātaḥ iti ittvam na prāpnoti . tasmāt na ubhau . tasmāt ṣaṭsañjñakebhyaḥ ubhau na bhavataḥ iti vaktavyam . tat tarhi vaktavyam . na vaktavyam . striyām iti vartate . striyām yat prāpnoti tasya pratiṣedhaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२०४।१०-२२ रो इइइ,४६८-४६९ किमर्थम् उभाभ्याम् इति उच्यते । उभाभ्याम् योगाभ्याम् डाप् यथा स्यात् मनन्तात् अनन्तात् च बहुव्रीहेः । न एतत् अस्ति प्रयोजनम् । प्रकृतम् उभयम् अनुवर्तते । अथ अन्यतरस्याङ्ग्रहणम् किमर्थम् । अन्यतरस्याम् डाप् यथा स्यात् । डापा मुक्ते प्रतिषेधः अपि यथा स्यात् इति । न एतत् अस्ति प्रयोजनम् । इह डाप् अपि उच्यते प्रतिषेधः अपि । तौ उभौ वचनात् भविष्यतः । इदम् तर्हि प्रयोजनम् । डाप्प्रतिषेधाभ्याम् मुक्ते ङीप् अपि यथा स्यात् । सिद्धः अत्र ङीप् अनः उपधालोपिनः अन्यतरस्याम् इति । अथ तत् अन्यतरस्याङ्ग्रहणम् शक्यम् अकर्तुम् । बाढम् शक्यम् । कथम् । इह डाप् अपि उच्यते प्रतिषेधः अपि ङीप् अपि । तत् सर्वम् वचनात् भविष्यति । न एवम् शक्यम् विज्ञातुम् । अक्रियमाणे हि तत्र अन्यतरस्याङ्ग्रहणे अनवकाशः ङीप् डाप्प्रतिषेधौ बाधेत । डाप्प्रतिषेधौ अपि अनवकाशौ । तौ वचनात् भविष्यतः । सावकाशौ डाप्प्रतिषेधौ । कः अवकाशः । सुपर्वा चारुपर्वा इति । तस्मात् तत् अन्यतरस्याङ्ग्रहणम् कर्तव्यम् । इदम् तु खलु अन्यतरस्याङ्ग्रहणम् शक्यम् अकर्तुम् । इदम् अपि अवश्यम् कर्तव्यम् । किम् प्रयोजनम् । डाप्प्रतिषेधाभ्याम् मुक्ते ङीब्रौ यथा स्याताम् इति । रविधाने बहुव्रीहेः उपसङ्ख्यानम् चोदितम् । तत् न वक्तव्यम् भवति ।

KA II,204.10-22 Ro III,468-469 kimartham ubhābhyām iti ucyate . ubhābhyām yogābhyām ḍāp yathā syāt manantāt anantāt ca bahuvrīheḥ . na etat asti prayojanam . prakṛtam ubhayam anuvartate . atha anyatarasyāṅgrahaṇam kimartham . anyatarasyām ḍāp yathā syāt . ḍāpā mukte pratiṣedhaḥ api yathā syāt iti . na etat asti prayojanam . iha ḍāp api ucyate pratiṣedhaḥ api . tau ubhau vacanāt bhaviṣyataḥ . idam tarhi prayojanam . ḍāppratiṣedhābhyām mukte ṅīp api yathā syāt . siddhaḥ atra ṅīp anaḥ upadhālopinaḥ anyatarasyām iti . atha tat anyatarasyāṅgrahaṇam śakyam akartum . bāḍham śakyam . katham . iha ḍāp api ucyate pratiṣedhaḥ api ṅīp api . tat sarvam vacanāt bhaviṣyati . na evam śakyam vijñātum . akriyamāṇe hi tatra anyatarasyāṅgrahaṇe anavakāśaḥ ṅīp ḍāppratiṣedhau bādheta . ḍāppratiṣedhau api anavakāśau . tau vacanāt bhaviṣyataḥ . sāvakāśau ḍāppratiṣedhau . kaḥ avakāśaḥ . suparvā cāruparvā iti . tasmāt tat anyatarasyāṅgrahaṇam kartavyam . idam tu khalu anyatarasyāṅgrahaṇam śakyam akartum . idam api avaśyam kartavyam . kim prayojanam . ḍāppratiṣedhābhyām mukte ṅībrau yathā syātām iti . ravidhāne bahuvrīheḥ upasaṅkhyānam coditam . tat na vaktavyam bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२०४।२३-२०५।५ रो इइइ,४६९-४७० अथ इह कथम् भवितव्यम् । बहवः श्वानः अस्याम् रथ्यायाम् बहवः श्वानः अस्याम् शालायाम् इति । बह्शूका बहुयूका इति भवितव्यम् ।का रूपसिद्धिः । डाप् टिलोपः प्रसारणम् प्रसारणपरपूर्वत्वम् नदृतः च इति कप् । कपा तावत् न भवितव्यम् । किम् कारणम् । नद्यन्तानाम् यः बहुव्रीहिः इति एवम् तत् विज्ञायते । न च एषः नद्यन्तानाम् बहुव्रीहिः । प्रसारणेन अपि न भवितव्यम् । वक्ष्यति एतत् । श्वादीनाम् प्रसारणे नकारान्तग्रहणम् अनकारान्तप्रतिषेधार्थम् इति । परपूर्वत्वेन अपि न भवितव्यम् । वक्ष्यति एतत् । सम्प्रसारणपूर्वत्वे समानाङ्गग्रहणम् असमानाङ्गप्रतिषेधात्थम् इति । तस्मात् बहुश्वा बहुयुवा इति भवितव्यम् ।

KA II,204.23-205.5 Ro III,469-470 atha iha katham bhavitavyam . bahavaḥ śvānaḥ asyām rathyāyām bahavaḥ śvānaḥ asyām śālāyām iti . bahśūkā bahuyūkā iti bhavitavyam .kā rūpasiddhiḥ . ḍāp ṭilopaḥ prasāraṇam prasāraṇaparapūrvatvam nadṛtaḥ ca iti kap . kapā tāvat na bhavitavyam . kim kāraṇam . nadyantānām yaḥ bahuvrīhiḥ iti evam tat vijñāyate . na ca eṣaḥ nadyantānām bahuvrīhiḥ . prasāraṇena api na bhavitavyam . vakṣyati etat . śvādīnām prasāraṇe nakārāntagrahaṇam anakārāntapratiṣedhārtham iti . parapūrvatvena api na bhavitavyam . vakṣyati etat . samprasāraṇapūrvatve samānāṅgagrahaṇam asamānāṅgapratiṣedhāttham iti . tasmāt bahuśvā bahuyuvā iti bhavitavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२०५।७-२०७।४ रो इइइ,४७१-४७७ अनुपसर्जनात् इति किमर्थम् । बहुकुरुचरा मथुरा प्रियकुरुचरा मथुरा । न एतत् अस्ति प्रयोजनम् । कुरुचरशब्दात् प्रययः विधीयते । तत्र कः प्रसङ्गः यत् बहुकुरुचरशब्दात् स्यात् । न एव प्राप्नोति न अर्थः प्रतिषेधेन । तदन्तविधिना प्राप्नोति । अतः उत्तरम् पठति । अनुपसर्जनग्रहणम् अनर्थकम् प्रातिपदिकेन तदन्तविधिप्रतिषेधात् । अनुपसर्जनग्रहणम् अनर्थकम् । किम् कारणम् । प्रातिपदिकेन तदन्तविधिप्रतिषेधात् । ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते । ज्ञापकम् तु पूर्वत्र तदन्ताप्रतिषेधस्य । एवम् तर्हि ज्ञापयति आचार्यः पूर्वत्र तदन्ताप्रतिषेधः न भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । भवती अतिभवती महती अतिमहती इति अत्र तदन्तविधिः सिद्धः भवति । न एतत् अस्ति प्रयोजनम् । उक्तम् एतत् वर्णः अपि उगित् प्रत्ययः अपि उगित् प्रातिपदिकम् अपि उगित् इति । इदम् तर्हि । बहुधीवरी बहुपीवरी इति । एतत् अपि न अस्ति प्रयोजनम् । अत्र अपि उक्तम् रविधाने बहुव्रीहेः उपसङ्ख्यानम् प्रतिषिद्धत्वात् इति । इदम् तर्हि अतिधीवरी अतिपीवरी । पूर्वसूत्रनिर्देशः वा आपिशलम् अधीते इति । पूर्वसूत्रनिर्देशः वा पुनः अयम् द्रष्टव्यः । पूर्वसूत्रे अप्रधानस्य उपसर्जनम् इति सञ्ज्ञा क्रियते । यावत् ब्रूयात् प्रधानात् उत्पत्तव्यम् अप्रधानात् न इति तावत् अनुपसर्जनात् इति । किम् प्रयोजनम् । आपिशलम् अधीते इति । आपिशलम् अधीते ब्राह्मणी आपिशला ब्राह्मणी । अणन्तात् इति ईकारः मा भूत् इति । अथ अनुपसर्जनात् इति उच्यमाने कस्मात् एव अत्र न भवति । अणन्तम् हि एतत् अनुपसर्जनम् । न अनुपसर्जनग्रहणेन अणन्तम् विशेष्यते । अणन्तात् अनुपसर्जनात् इति । किम् तर्हि । अण् एव विशेष्यते । अण् यः अनुपसर्जनम् इति । जातिशब्देभ्यः तु अतिप्रसङ्गः । जातिशब्देभ्यः तु अतिप्रसङ्गः भवति । कुन्ती गान्धारी । सिद्धम् तु जातेः अनुपसर्जनत्वात् । सिद्धम् एतत् । कथम् । अनुपसर्जनात् इति उच्यते । न च जातिः उपसर्जनम् । एतत् अपि न अस्ति प्रयोजनम् । स्त्रियाम् इति वर्तते । तेन अणम् विशेषयिष्यामः । स्त्रियाम् यः अण् विहितः इति । एवम् अपि काशकृत्स्निना प्रोक्तम् मामांसा काशकृत्स्नीम् काशकृत्स्नीम् अधीते काशकृत्स्ना ब्राह्मणी अत्र प्राप्नोति । न एषः दोषः । अधेत्र्याम् अभिधेयायाम् अणः ईकारेण भवितव्यम् । यः च अत्र अधेत्र्याम् अभिधेयायाम् अण् उक्तः लुप्तः सः यः च श्रूयते उत्पन्नः तस्मात् ईकारः इति कृत्वा पुनः न भविष्यति । इदम् तर्हि प्रयोजनम् तदन्तविधिः यथा स्यात् । कुम्भकारी नगरकारी । अत्र हि प्रत्ययग्रहणे यस्मात् सः विहितः तदादेः ग्रहणम् भवति इति अवयवात् उत्पत्तिः प्राप्नोति । कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् भवति इति सङ्घातात् उत्पत्तिः भविष्यति । कृद्ग्रहणे इति उच्यते । न च एतत् कृद्ग्रहणम् । कृदकृद्ग्रहणम् एतत् । कृत् अपि अयम् अण् तद्धितः अपि । एवम् तर्हि ईकारान्तेन समासः भविष्यति । यदि एवम् लभ्येत कृतम् स्यात् तत् तु न लभ्यम् । किम् कारणम् । अत्र हि गतिकारकोपपदानाम् कृद्भिः सह समासः भवति इति समासः एव तावत् भवति । समासे कृते अवयवात् उत्पत्तिः प्राप्नोति । अवयवात् उत्पत्तौ कः सत्याम् दोषः । कौम्भकारेयः न सिध्यति । अव्ययवस्य वृद्धिस्वरौ स्याताम् । तस्मात् अनुपसर्जनाधिकारः । अनुपसर्जनाधिकारे जातेः ङीष्विधाने सुपर्ण्याः उपसङ्ख्यानम् । अनुपसर्जनाधिकारे जातेः ङीष्विधाने सुपर्ण्याः उपसङ्ख्यानम् कर्तव्यम् । सुपर्णी । न वा समासस्य अनुपसर्जनत्वात् जातिवाचकत्वात् च शब्दस्य सामान्येन ङीष्विधानम् । न वा एषः दोषः । किम् कारणम् । समासस्य अनुपसर्जनत्वात् । समासः अत्र अनुपसर्जनम् । सः च जातिवाचकः । समासस्य अनुपसर्जनत्वात् तस्य च जातिवाचकत्वात् च शब्दस्य सामान्येन ङीष् भविष्यति जातेः अस्त्रीविषयात् अयोपधात् इति । कथम् कृत्वा चोदितम् कथम् कृत्वा परिहारः । बहुव्रीहिः इति कृत्वा चोदितम् तत्पुरुषः इति कृत्वा परिहारः ।

KA II,205.7-207.4 Ro III,471-477 anupasarjanāt iti kimartham . bahukurucarā mathurā priyakurucarā mathurā . na etat asti prayojanam . kurucaraśabdāt prayayaḥ vidhīyate . tatra kaḥ prasaṅgaḥ yat bahukurucaraśabdāt syāt . na eva prāpnoti na arthaḥ pratiṣedhena . tadantavidhinā prāpnoti . ataḥ uttaram paṭhati . anupasarjanagrahaṇam anarthakam prātipadikena tadantavidhipratiṣedhāt . anupasarjanagrahaṇam anarthakam . kim kāraṇam . prātipadikena tadantavidhipratiṣedhāt . grahaṇavatā prātipadikena tadantavidhiḥ pratiṣidhyate . jñāpakam tu pūrvatra tadantāpratiṣedhasya . evam tarhi jñāpayati ācāryaḥ pūrvatra tadantāpratiṣedhaḥ na bhavati iti . kim etasya jñāpane prayojanam . bhavatī atibhavatī mahatī atimahatī iti atra tadantavidhiḥ siddhaḥ bhavati . na etat asti prayojanam . uktam etat varṇaḥ api ugit pratyayaḥ api ugit prātipadikam api ugit iti . idam tarhi . bahudhīvarī bahupīvarī iti . etat api na asti prayojanam . atra api uktam ravidhāne bahuvrīheḥ upasaṅkhyānam pratiṣiddhatvāt iti . idam tarhi atidhīvarī atipīvarī . pūrvasūtranirdeśaḥ vā āpiśalam adhīte iti . pūrvasūtranirdeśaḥ vā punaḥ ayam draṣṭavyaḥ . pūrvasūtre apradhānasya upasarjanam iti sañjñā kriyate . yāvat brūyāt pradhānāt utpattavyam apradhānāt na iti tāvat anupasarjanāt iti . kim prayojanam . āpiśalam adhīte iti . āpiśalam adhīte brāhmaṇī āpiśalā brāhmaṇī . aṇantāt iti īkāraḥ mā bhūt iti . atha anupasarjanāt iti ucyamāne kasmāt eva atra na bhavati . aṇantam hi etat anupasarjanam . na anupasarjanagrahaṇena aṇantam viśeṣyate . aṇantāt anupasarjanāt iti . kim tarhi . aṇ eva viśeṣyate . aṇ yaḥ anupasarjanam iti . jātiśabdebhyaḥ tu atiprasaṅgaḥ . jātiśabdebhyaḥ tu atiprasaṅgaḥ bhavati . kuntī gāndhārī . siddham tu jāteḥ anupasarjanatvāt . siddham etat . katham . anupasarjanāt iti ucyate . na ca jātiḥ upasarjanam . etat api na asti prayojanam . striyām iti vartate . tena aṇam viśeṣayiṣyāmaḥ . striyām yaḥ aṇ vihitaḥ iti . evam api kāśakṛtsninā proktam māmāṃsā kāśakṛtsnīm kāśakṛtsnīm adhīte kāśakṛtsnā brāhmaṇī atra prāpnoti . na eṣaḥ doṣaḥ . adhetryām abhidheyāyām aṇaḥ īkāreṇa bhavitavyam . yaḥ ca atra adhetryām abhidheyāyām aṇ uktaḥ luptaḥ saḥ yaḥ ca śrūyate utpannaḥ tasmāt īkāraḥ iti kṛtvā punaḥ na bhaviṣyati . idam tarhi prayojanam tadantavidhiḥ yathā syāt . kumbhakārī nagarakārī . atra hi pratyayagrahaṇe yasmāt saḥ vihitaḥ tadādeḥ grahaṇam bhavati iti avayavāt utpattiḥ prāpnoti . kṛdgrahaṇe gatikārakapūrvasya api grahaṇam bhavati iti saṅghātāt utpattiḥ bhaviṣyati . kṛdgrahaṇe iti ucyate . na ca etat kṛdgrahaṇam . kṛdakṛdgrahaṇam etat . kṛt api ayam aṇ taddhitaḥ api . evam tarhi īkārāntena samāsaḥ bhaviṣyati . yadi evam labhyeta kṛtam syāt tat tu na labhyam . kim kāraṇam . atra hi gatikārakopapadānām kṛdbhiḥ saha samāsaḥ bhavati iti samāsaḥ eva tāvat bhavati . samāse kṛte avayavāt utpattiḥ prāpnoti . avayavāt utpattau kaḥ satyām doṣaḥ . kaumbhakāreyaḥ na sidhyati . avyayavasya vṛddhisvarau syātām . tasmāt anupasarjanādhikāraḥ . anupasarjanādhikāre jāteḥ ṅīṣvidhāne suparṇyāḥ upasaṅkhyānam . anupasarjanādhikāre jāteḥ ṅīṣvidhāne suparṇyāḥ upasaṅkhyānam kartavyam . suparṇī . na vā samāsasya anupasarjanatvāt jātivācakatvāt ca śabdasya sāmānyena ṅīṣvidhānam . na vā eṣaḥ doṣaḥ . kim kāraṇam . samāsasya anupasarjanatvāt . samāsaḥ atra anupasarjanam . saḥ ca jātivācakaḥ . samāsasya anupasarjanatvāt tasya ca jātivācakatvāt ca śabdasya sāmānyena ṅīṣ bhaviṣyati jāteḥ astrīviṣayāt ayopadhāt iti . katham kṛtvā coditam katham kṛtvā parihāraḥ . bahuvrīhiḥ iti kṛtvā coditam tatpuruṣaḥ iti kṛtvā parihāraḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२०८।२-१७ रो इइइ,४७८-४७९ ढग्रहणे सानुबन्धकस्य उपसङ्ख्यानम् । ढग्रहणे सानुबन्धकस्य उपसङ्ख्यानम् कर्तव्यम् । कारिकेयी हारिकेयी । किम् पुनः कारणम् न सिध्यति । अननुबन्धकग्रहणे हि न सानुबन्धकस्य । अननुबन्धकग्रहणे हि सानुबन्धकस्य ग्रहणम् न भवति इति एषा परिभाषा कर्तव्या । कानि एतस्याः परिभाषायाः प्रयोजनानि । तव्यग्रहणे तव्यद्ग्रहणम् मा भूत् । दिव्ग्रहणे दिवुग्रहणम् मा भूत् । ननु च इयम् अपि कर्तव्या तदनुबन्धकग्रहणे अतदनुबन्धकस्य ने इति । कानि एतस्याः परिभाषायाः प्रयोजनानि । यद्ग्रहणे ण्यद्ग्रहणम् मा भूत् । अङ्ग्रहणे चङ्ग्रहणम् मा भूत् । अज्ग्रहणे ण्यज्ग्रहणम् मा भूत् । तत् द्वे एते परिभाषे कर्तव्ये । न कर्तव्ये । आचार्यप्रवृत्तिः ज्ञापयति भवतः एते परिभाषे यत् अयम् वामदेवात् ड्यड्ड्यौ इति ययतौ डितौ करोति । तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् । न कर्तव्यम् । अननुबन्धकः ढशब्दः स्त्रियाम् न अस्ति इति कृत्वा सानुबन्धकस्य ग्रहणम् विज्ञास्यते । ननु च अयम् अस्ति शिलायाः ढः इति । न एषः स्त्रियाम् वर्तते । अयम् तर्हि सभायाः ढः छन्दसि इति । एषः अपि न स्त्रियाम् वर्तते । किम् कारणम् । तत्र साधुः इति वर्तते । कथम् स्त्री नाम सभायाम् साध्वी स्यात् ।

KA II,208.2-17 Ro III,478-479 ḍhagrahaṇe sānubandhakasya upasaṅkhyānam . ḍhagrahaṇe sānubandhakasya upasaṅkhyānam kartavyam . kārikeyī hārikeyī . kim punaḥ kāraṇam na sidhyati . ananubandhakagrahaṇe hi na sānubandhakasya . ananubandhakagrahaṇe hi sānubandhakasya grahaṇam na bhavati iti eṣā paribhāṣā kartavyā . kāni etasyāḥ paribhāṣāyāḥ prayojanāni . tavyagrahaṇe tavyadgrahaṇam mā bhūt . divgrahaṇe divugrahaṇam mā bhūt . nanu ca iyam api kartavyā tadanubandhakagrahaṇe atadanubandhakasya ne iti . kāni etasyāḥ paribhāṣāyāḥ prayojanāni . yadgrahaṇe ṇyadgrahaṇam mā bhūt . aṅgrahaṇe caṅgrahaṇam mā bhūt . ajgrahaṇe ṇyajgrahaṇam mā bhūt . tat dve ete paribhāṣe kartavye . na kartavye . ācāryapravṛttiḥ jñāpayati bhavataḥ ete paribhāṣe yat ayam vāmadevāt ḍyaḍḍyau iti yayatau ḍitau karoti . tat tarhi upasaṅkhyānam kartavyam . na kartavyam . ananubandhakaḥ ḍhaśabdaḥ striyām na asti iti kṛtvā sānubandhakasya grahaṇam vijñāsyate . nanu ca ayam asti śilāyāḥ ḍhaḥ iti . na eṣaḥ striyām vartate . ayam tarhi sabhāyāḥ ḍhaḥ chandasi iti . eṣaḥ api na striyām vartate . kim kāraṇam . tatra sādhuḥ iti vartate . katham strī nāma sabhāyām sādhvī syāt .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२०८।१८-२०९।५ रो इइइ,४७९-४८० अञ्ग्रहणम् अनर्थकम् तदन्तात् हि ङीन्विधानम् । अञ्ग्रहणम् अनर्थकम् । किम् कारणम् । तदन्तात् हि ङीन्विधानम् । तदन्तात् हि अञन्तात् ङीन् विधीयते । शार्ङ्गरवाद्यञः ङीन् इति । न च अस्ति विशेषः अञन्तात् ङीनः वा ङीपः वा । तत् एव रूपम् सः एव स्वरः । न वा जात्यधिकारात् । न वा अनर्थकम् । किम् कारणम् । जात्यधिकारात् । जातेः इति तत्र अनुवर्तते । अजात्यर्थः अयम् आरम्भः । औत्सी औदपानी । तत् च अवश्यम् जातिग्रहणम् अनुवर्त्यम् । अनधिकारे हि पुंयोगात् आख्यायाम् ङीन्प्रसङ्गः । अननुवर्तमाने हि जातिग्रहणे पुंयोगात् आख्यायाम् ङीन् प्रसज्येत : बैदस्य स्त्री बैदी । यदि तर्हि अस्य निबन्धनम् अस्ति इदम् एव कर्तव्यम् । तत् न कर्तव्यम् । तत् अपि अवश्यम् कर्तव्यम् । अक्रियमाणे हि तस्मिन् बैदस्य भगिनी बैदी परत्वात् जातिलक्षणः ङीष् ङीपम् बाधेत । ङीनि पुनः सति परत्वात् ङीन् ङीषम् बाधेत ।

KA II,208.18-209.5 Ro III,479-480 añgrahaṇam anarthakam tadantāt hi ṅīnvidhānam . añgrahaṇam anarthakam . kim kāraṇam . tadantāt hi ṅīnvidhānam . tadantāt hi añantāt ṅīn vidhīyate . śārṅgaravādyañaḥ ṅīn iti . na ca asti viśeṣaḥ añantāt ṅīnaḥ vā ṅīpaḥ vā . tat eva rūpam saḥ eva svaraḥ . na vā jātyadhikārāt . na vā anarthakam . kim kāraṇam . jātyadhikārāt . jāteḥ iti tatra anuvartate . ajātyarthaḥ ayam ārambhaḥ . autsī audapānī . tat ca avaśyam jātigrahaṇam anuvartyam . anadhikāre hi puṃyogāt ākhyāyām ṅīnprasaṅgaḥ . ananuvartamāne hi jātigrahaṇe puṃyogāt ākhyāyām ṅīn prasajyeta : baidasya strī baidī . yadi tarhi asya nibandhanam asti idam eva kartavyam . tat na kartavyam . tat api avaśyam kartavyam . akriyamāṇe hi tasmin baidasya bhaginī baidī paratvāt jātilakṣaṇaḥ ṅīṣ ṅīpam bādheta . ṅīni punaḥ sati paratvāt ṅīn ṅīṣam bādheta .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२०९।६-११ रो इइइ,४८०-४८१ ख्युनः उपसङ्ख्यानम् । ख्युनः उपसङ्ख्यानम् कर्तव्यम् । आढ्यङ्करणी सुभगङ्करणी । अत्यल्पम् इदम् उच्यते : ख्युनः इति । नञ्स्नञीकख्युंस्तरुणतलुनानाम् उपसङ्ख्यानम् । नञ्स्नञीकख्युंस्तरुणतलुनानाम् उपसङ्ख्यानम् कर्तव्यम् । नञ् स्नञ् : स्त्रैणी पौंस्नी । ईकक् : शाक्तीकी याष्टीकी । ख्युन् : आढ्यङ्करणी सुभगङ्करणी । तरुण तलुन : तरुणी तलुनी ।

KA II,209.6-11 Ro III,480-481 khyunaḥ upasaṅkhyānam . khyunaḥ upasaṅkhyānam kartavyam . āḍhyaṅkaraṇī subhagaṅkaraṇī . atyalpam idam ucyate : khyunaḥ iti . nañsnañīkakhyuṃstaruṇatalunānām upasaṅkhyānam . nañsnañīkakhyuṃstaruṇatalunānām upasaṅkhyānam kartavyam . nañ snañ : straiṇī pauṃsnī . īkak : śāktīkī yāṣṭīkī . khyun : āḍhyaṅkaraṇī subhagaṅkaraṇī . taruṇa taluna : taruṇī talunī .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२०९।१३-१५ रो इइइ,४८१ आपत्यग्रहणम् कर्तव्यम् द्वीपात् यञः प्रतिषेधार्थम् । इह मा भूत् द्वैप्या इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । न एवम् विज्ञायते कञ्क्वरपः यञः च इति । कथम् तर्है कञ्क्वरपः अयञः च इति ।

KA II,209.13-15 Ro III,481 āpatyagrahaṇam kartavyam dvīpāt yañaḥ pratiṣedhārtham . iha mā bhūt dvaipyā iti . tat tarhi vaktavyam . na vaktavyam . na evam vijñāyate kañkvarapaḥ yañaḥ ca iti . katham tarhai kañkvarapaḥ ayañaḥ ca iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२०९।१७-२३ रो इइइ,४८२ तद्धितवचनम् किमर्थम् । तद्धितवचनम् षितः प्रातिपदिकात् ईकारार्थम् । तद्धितवचनम् क्रियते षितः प्रातिपदिकात् ईकारः यथा स्यात् । न एतत् अस्ति प्रयोजनम् । षित्करणसामर्थ्यात् एव अत्र ईकारः भविष्यति । यथा एव तर्हि षित्करणसामर्थ्यात् अप्रातिपदिकात् ईकारः भवति एवम् प्रातिपदिकात् इति अस्य अनुवर्तनसामार्थ्यात् अषितः अपि प्रातिपदिकात् ईकारः स्यात् । अस्ति अन्यत् प्रातिपदिकानुवृत्तौ प्रयोजनम् । किम् । उत्तरार्थम् । अतः इञ् दाक्षिः ।

KA II,209.17-23 Ro III,482 taddhitavacanam kimartham . taddhitavacanam ṣitaḥ prātipadikāt īkārārtham . taddhitavacanam kriyate ṣitaḥ prātipadikāt īkāraḥ yathā syāt . na etat asti prayojanam . ṣitkaraṇasāmarthyāt eva atra īkāraḥ bhaviṣyati . yathā eva tarhi ṣitkaraṇasāmarthyāt aprātipadikāt īkāraḥ bhavati evam prātipadikāt iti asya anuvartanasāmārthyāt aṣitaḥ api prātipadikāt īkāraḥ syāt . asti anyat prātipadikānuvṛttau prayojanam . kim . uttarārtham . ataḥ iñ dākṣiḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२१०।२-४ रो इइइ,४८२-४८३ सर्वत्रग्रहणम् किमर्थम् । प्राचाम् एव स्यात् । न एतत् अस्ति प्रयोजनम् । सिद्धम् प्राचाम् पूर्वेण । इदम् तर्हि प्रयोजनम् सर्वेषाम् यथा स्यात् । आवट्यायनी । चापम् बाधित्वा ष्फः यथा स्यात् ।

KA II,210.2-4 Ro III,482-483 sarvatragrahaṇam kimartham . prācām eva syāt . na etat asti prayojanam . siddham prācām pūrveṇa . idam tarhi prayojanam sarveṣām yathā syāt . āvaṭyāyanī . cāpam bādhitvā ṣphaḥ yathā syāt .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२१०।५-२४ रो इइइ,४८२-४८३-४८४ लोहितादिषु शाकल्यस्य उपसङ्ख्यानम् । लोहितादिषु शाकल्यस्य उपसङ्ख्यानम् कर्तव्यम् । शाकल्यायनी । यदि पुनः अयम् शकलशब्दः लोहितादिषु पठ्येत । न एवम् शक्यम् । इह हि शाकल्यस्य छात्राः शाकलाः कण्वादिभ्यः गोत्रे इति अण् न स्यात् । एवम् तर्हि । कण्वात् तु शकलः पूर्वः । कण्वशब्दात् शकलशब्दः पूर्वः पठितव्यः । कतात् उत्तरः इष्यते। कतशब्दात् शकलशब्दः उत्तरः पठितव्यः । पूर्वोत्तरौ तदन्तादी । पूर्वोत्तरौ गणौ तदन्तादी द्रष्टव्यौ । ये कण्वादयः ते शकलादयः । ये कतपर्यन्ताः ते शकलपर्यन्ताः । किम् प्रयोजनम् । ष्फाणौ तत्र प्रओय्जनम् । तत्र एवम् सति ष्फाणौ सिद्धौ भवतः । कण्वात् तु शकलः पूर्वः । कतात् उत्तरः इष्यते । पूर्वोत्तरौ तदन्तादी । ष्फाणौ तत्र प्रओय्जनम् ।

KA II,210.5-24 Ro III,482-483-484 lohitādiṣu śākalyasya upasaṅkhyānam . lohitādiṣu śākalyasya upasaṅkhyānam kartavyam . śākalyāyanī . yadi punaḥ ayam śakalaśabdaḥ lohitādiṣu paṭhyeta . na evam śakyam . iha hi śākalyasya chātrāḥ śākalāḥ kaṇvādibhyaḥ gotre iti aṇ na syāt . evam tarhi . kaṇvāt tu śakalaḥ pūrvaḥ . kaṇvaśabdāt śakalaśabdaḥ pūrvaḥ paṭhitavyaḥ . katāt uttaraḥ iṣyate. kataśabdāt śakalaśabdaḥ uttaraḥ paṭhitavyaḥ . pūrvottarau tadantādī . pūrvottarau gaṇau tadantādī draṣṭavyau . ye kaṇvādayaḥ te śakalādayaḥ . ye kataparyantāḥ te śakalaparyantāḥ . kim prayojanam . ṣphāṇau tatra praoyjanam . tatra evam sati ṣphāṇau siddhau bhavataḥ . kaṇvāt tu śakalaḥ pūrvaḥ . katāt uttaraḥ iṣyate . pūrvottarau tadantādī . ṣphāṇau tatra praoyjanam .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२१०।२६-२११।३ रो इइइ,४८४ कौरव्यमाण्डूकयोः आसुरेः उपसङ्ख्यानम् । कौरव्यमाण्डूकयोः आसुरेः उपसङ्ख्यानम् कर्तव्यम् । आसुरायणी । छः च । छः च इति वक्तव्यम् । आसुरीयः कल्पः ।

KA II,210.26-211.3 Ro III,484 kauravyamāṇḍūkayoḥ āsureḥ upasaṅkhyānam . kauravyamāṇḍūkayoḥ āsureḥ upasaṅkhyānam kartavyam . āsurāyaṇī . chaḥ ca . chaḥ ca iti vaktavyam . āsurīyaḥ kalpaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२११।४-१४ रो इइइ,४८४-४८६ वयसि अचरमे इति वक्तव्यम् इह अपि यथा स्यात् । वधूटी चिरण्टी इति । इह कस्मात् न भवति । उत्तानशया लोहितपादिका द्विवर्षा त्रिवर्षा इति । न एतानि वयोवाचीनि । कथम् तर्हि वयः गम्यते । सम्बन्धात् । यदि तर्हि यत्र सम्बन्धात् वयः गम्यते तत्र न भवति इह अपि न प्राप्नोति । कुमारी इति । अत्र अपि सम्बन्धात् वयः गम्यते । कः असु सम्बन्धः । यः असु पुंसा असम्प्रयोगः । सम्बन्धात् एव अत्र वयः गम्यते । इह पुनः सम्बन्धसम्बन्धात् । इह तावत् उत्तानशया इति । यदा कर्तृत्वम् विशेषितम् भवति ततः उत्तरकालम् वयः गम्यते । यदि लोहितपादिका इति । यदा बहुव्रीह्यर्थः विशेषितः ततः उत्तरकालम् वयः गम्यते । द्विवर्षा त्रिवर्षा इति । यदा द्विगुअर्थः विशेषितः ततः उत्तरकालम् वयः गम्यते । यदि तर्हि यत्र सम्बन्धात् एव वयः गम्यते तत्र भवति इह अपि तरि प्रप्नोति । कन्या इति । निपातनात् एतत् सिद्धम् । किम् निपातनम्। कन्यायाः कनीन च इति ।

KA II,211.4-14 Ro III,484-486 vayasi acarame iti vaktavyam iha api yathā syāt . vadhūṭī ciraṇṭī iti . iha kasmāt na bhavati . uttānaśayā lohitapādikā dvivarṣā trivarṣā iti . na etāni vayovācīni . katham tarhi vayaḥ gamyate . sambandhāt . yadi tarhi yatra sambandhāt vayaḥ gamyate tatra na bhavati iha api na prāpnoti . kumārī iti . atra api sambandhāt vayaḥ gamyate . kaḥ asu sambandhaḥ . yaḥ asu puṃsā asamprayogaḥ . sambandhāt eva atra vayaḥ gamyate . iha punaḥ sambandhasambandhāt . iha tāvat uttānaśayā iti . yadā kartṛtvam viśeṣitam bhavati tataḥ uttarakālam vayaḥ gamyate . yadi lohitapādikā iti . yadā bahuvrīhyarthaḥ viśeṣitaḥ tataḥ uttarakālam vayaḥ gamyate . dvivarṣā trivarṣā iti . yadā dviguarthaḥ viśeṣitaḥ tataḥ uttarakālam vayaḥ gamyate . yadi tarhi yatra sambandhāt eva vayaḥ gamyate tatra bhavati iha api tari prapnoti . kanyā iti . nipātanāt etat siddham . kim nipātanam. kanyāyāḥ kanīna ca iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२११।१६-१९ रो इइइ,४८६ इमौ द्वौ प्रतिषेधौ उच्येते । तत्र एकः शक्यः अवक्तुम् । कथम् । एवम् वक्ष्यामि । परिमाणान्तात् तद्धितलुकि ङीप् भवति इति । तत् नियमार्थम् भविष्यति । परिमाणान्तात् एव तद्धितलुकि ङीप् भवति न अन्यतः इति । ततः विस्ताचितकम्बल्येभ्यः न इति । तद्धितलुकि इति एव ।

KA II,211.16-19 Ro III,486 imau dvau pratiṣedhau ucyete . tatra ekaḥ śakyaḥ avaktum . katham . evam vakṣyāmi . parimāṇāntāt taddhitaluki ṅīp bhavati iti . tat niyamārtham bhaviṣyati . parimāṇāntāt eva taddhitaluki ṅīp bhavati na anyataḥ iti . tataḥ vistācitakambalyebhyaḥ na iti . taddhitaluki iti eva .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२११।२१-२१२।१२ रो इइइ,४८६-४८८ ऊधसः नकारः लिङ्गाधिकारे । ऊधसः नकारः लिङ्गाधिकारे कर्तव्यः । इह मा भूत् । महोधाः पर्जन्यः इति । न वा समासान्ताधिकारे स्त्रीग्रहणात् । न वा लिङ्गाधिकारे नकारः कर्तव्यः । किम् कारणम् । समासान्ताधिकारे स्त्रीग्रहणात् । समासान्ताधिकारे स्त्रीग्रहणम् कर्तव्यम् । इतरथा हि कब्विधिप्रसङ्गः । इतरथा हि कब्विधिः प्रसज्येत । कस्याम् पुनः अवस्थायाम् कप् प्राप्नोति । प्राक् ङीषुत्पत्तेः । प्राक् तावत् न प्राप्नोति । किम् कारणम् । न हि ङीष् विभाषा । लुत्क्पन्ने तर्हि ङीषि प्राप्नोति । उत्पन्ने च अपि न प्राप्नोति । किम् कारणम् । नद्यन्तानाम् यः बहुव्रीहिः इति एवम् तत् । न च एषः नद्यन्तानाम् बहुव्रीहिः । प्राक् एव तर्हि प्राप्नोति । ननु च उक्तम् न हि ङीष् विभाषा इति । यदि अपि न ङीष् विभाषा कप् तु विभाषा । कपः अवकाशः अन्यः बहुव्रीहिः । अयवकः अव्रीहिकः । ङीषः अवकाशः । विभाषा कप् । यदा न कप् सः अवकाशः । कुण्डोध्नी घटोध्नी । कप्प्रसङ्गे लुभयम् प्राप्नोति । परत्वात् कप् स्यात् । तस्मात् सुष्थु उच्यते न वा समासान्ताधिकारे स्त्रीग्रहणात् । इतरथा हि कब्विधिप्रसङ्गः इति ।

KA II,211.21-212.12 Ro III,486-488 ūdhasaḥ nakāraḥ liṅgādhikāre . ūdhasaḥ nakāraḥ liṅgādhikāre kartavyaḥ . iha mā bhūt . mahodhāḥ parjanyaḥ iti . na vā samāsāntādhikāre strīgrahaṇāt . na vā liṅgādhikāre nakāraḥ kartavyaḥ . kim kāraṇam . samāsāntādhikāre strīgrahaṇāt . samāsāntādhikāre strīgrahaṇam kartavyam . itarathā hi kabvidhiprasaṅgaḥ . itarathā hi kabvidhiḥ prasajyeta . kasyām punaḥ avasthāyām kap prāpnoti . prāk ṅīṣutpatteḥ . prāk tāvat na prāpnoti . kim kāraṇam . na hi ṅīṣ vibhāṣā . lutkpanne tarhi ṅīṣi prāpnoti . utpanne ca api na prāpnoti . kim kāraṇam . nadyantānām yaḥ bahuvrīhiḥ iti evam tat . na ca eṣaḥ nadyantānām bahuvrīhiḥ . prāk eva tarhi prāpnoti . nanu ca uktam na hi ṅīṣ vibhāṣā iti . yadi api na ṅīṣ vibhāṣā kap tu vibhāṣā . kapaḥ avakāśaḥ anyaḥ bahuvrīhiḥ . ayavakaḥ avrīhikaḥ . ṅīṣaḥ avakāśaḥ . vibhāṣā kap . yadā na kap saḥ avakāśaḥ . kuṇḍodhnī ghaṭodhnī . kapprasaṅge lubhayam prāpnoti . paratvāt kap syāt . tasmāt suṣthu ucyate na vā samāsāntādhikāre strīgrahaṇāt . itarathā hi kabvidhiprasaṅgaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२१२।१४-२१३।२ रो इइइ,४८८-४८९ दामहायनान्तात् सङ्ख्यादेः । दामहायनान्तात् सङ्ख्यादेः इति वक्तव्यम् । इह मा भूत् । उद्दामा वडवा इति । तत्पुरुषविज्ञानात् वा सिद्धम् । बहुव्रीहेः इति वर्तते । तत्पुरुषः च अयम् । उत्क्रान्ता दाम्नः उत्दामा । भवेत् सिद्धम् यदा तत्पुरुषः । यदा तु खलु बहुव्रीहिः तदा न सिध्यति । उत्क्रान्तम् दाम अस्याः इति । ननु च चेतनावतः एतत् भवति उत्क्रमणम् वा अपक्रमणम् वा दाम च अचेतनम् । अचेतनेषु अपि चेतनावतुपचारः दृश्यते । तत् यथा । स्रस्तानि अस्याः बन्धनानि । स्रस्यन्ते अस्याः बन्धनानि इति । तत् तर्हि सङ्ख्यादेः इति वक्तव्यम् । न वक्तव्यम् । प्रकृतम् अनुवर्तते । न वक्तव्यम् । प्रकृतम् अनुवर्तते । क्व प्रकृतम् । सङ्ख्याव्ययादेः ङीप् इति । यदि तत् अनुवर्तते अव्ययादेः अपि वर्तते । न एषः दोषः । सङ्ख्यादेः इति अनुवर्तते । अव्ययादेः इति निवृत्तम् । कथम् पुनः एकयोगनिर्दिष्टयोः एकदेशः अनुवर्तते एकदेशः न । एकयोगनिर्दिष्टानाम् अपि एकदेशानुवृत्तिः भवति । तत् यथा तस्य पादमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ । पक्षात् तिः इति अत्र मूले इति अनुवर्तते पाक इति निवृत्तम् ।

KA II,212.14-213.2 Ro III,488-489 dāmahāyanāntāt saṅkhyādeḥ . dāmahāyanāntāt saṅkhyādeḥ iti vaktavyam . iha mā bhūt . uddāmā vaḍavā iti . tatpuruṣavijñānāt vā siddham . bahuvrīheḥ iti vartate . tatpuruṣaḥ ca ayam . utkrāntā dāmnaḥ utdāmā . bhavet siddham yadā tatpuruṣaḥ . yadā tu khalu bahuvrīhiḥ tadā na sidhyati . utkrāntam dāma asyāḥ iti . nanu ca cetanāvataḥ etat bhavati utkramaṇam vā apakramaṇam vā dāma ca acetanam . acetaneṣu api cetanāvatupacāraḥ dṛśyate . tat yathā . srastāni asyāḥ bandhanāni . srasyante asyāḥ bandhanāni iti . tat tarhi saṅkhyādeḥ iti vaktavyam . na vaktavyam . prakṛtam anuvartate . na vaktavyam . prakṛtam anuvartate . kva prakṛtam . saṅkhyāvyayādeḥ ṅīp iti . yadi tat anuvartate avyayādeḥ api vartate . na eṣaḥ doṣaḥ . saṅkhyādeḥ iti anuvartate . avyayādeḥ iti nivṛttam . katham punaḥ ekayoganirdiṣṭayoḥ ekadeśaḥ anuvartate ekadeśaḥ na . ekayoganirdiṣṭānām api ekadeśānuvṛttiḥ bhavati . tat yathā tasya pādamūle pīlvādikarṇādibhyaḥ kuṇabjāhacau . pakṣāt tiḥ iti atra mūle iti anuvartate pāka iti nivṛttam .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२१३।३-६ रो इइइ,४८९ अथ इह कथम् भवितव्यम् । द्वौ हायनौ अस्याः शालायाः । द्विहायना त्रिहायना इति । हायनः वयसि स्मृतः । वयोवाचिनः हायनशब्दस्य ग्रहणम् । न च एषः वयोवाची । अथ णत्वम् कस्मात् न भवति । णत्वम् अपि वयोवाचिनः एव ।

KA II,213.3-6 Ro III,489 atha iha katham bhavitavyam . dvau hāyanau asyāḥ śālāyāḥ . dvihāyanā trihāyanā iti . hāyanaḥ vayasi smṛtaḥ . vayovācinaḥ hāyanaśabdasya grahaṇam . na ca eṣaḥ vayovācī . atha ṇatvam kasmāt na bhavati . ṇatvam api vayovācinaḥ eva .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२१३।९-१० रो इइइ,४८९ मामकग्रहणम् किमर्थम् न अणन्तात् इति एवम् सिद्धम् । नियमाऋथः अयम् आरम्भः । मामकशब्दात् सञ्ज्ञाच्छन्दसोः एव । क्व मा भूत् । मामिका बुद्धिः इति ।

KA II,213.9-10 Ro III,489 māmakagrahaṇam kimartham na aṇantāt iti evam siddham . niyamāṛthaḥ ayam ārambhaḥ . māmakaśabdāt sañjñācchandasoḥ eva . kva mā bhūt . māmikā buddhiḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२१३।१२-१३ रो इइइ,४९० अजसादिषु इति वक्तव्यम् । इह अपि यथा स्यात् । रात्रिम् रात्रिम् स्मरिष्यन्तः । रात्रिम् रात्रिम् अजानतः । सर्वाम् रात्रिम् सह उषित्वा । वृत्त्याम् एकान्तरात्रिम् ।

KA II,213.12-13 Ro III,490 ajasādiṣu iti vaktavyam . iha api yathā syāt . rātrim rātrim smariṣyantaḥ . rātrim rātrim ajānataḥ . sarvām rātrim saha uṣitvā . vṛttyām ekāntarātrim .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२१३।१५-२१४।८ रो इइइ,४९०-४९१ अन्तर्वत् पतिवत् इति गर्भभर्तृसंयोगे । अन्तर्वत् पतिवत् इति गर्भभर्तृसंयोगे इति वक्तव्यम् । इह मा भूत् । प्रथते त्वया पतिमती पृथिवी इति । अथ अन्तःशब्दस्य अगर्भसंयोगे किम् प्रत्युदाह्रियते । अन्तः अस्याम् शालायाम् अस्ति इति । किम् पुनः कारणम् वाक्यम् एव प्रत्युदाह्रियते न पुनः मतुप् । अस्तिसामानाधिकरण्ये मतुप् विधीयते । न च अत्र अस्तिसामानाधिकरण्यम् । इह अपि तर्हि न प्राप्नोति । अन्तर्वत्नी इति । एवम् तर्हि अन्तर्वत्पतिवतोः तु मतुब्वत्वे निपातनात् । अन्तर्वत् इति मतुप् निपात्यते । वत्वम् सिद्धम् । पतिवत् इति वत्वम् निपात्यते । मतुप् सिद्धः । किम् अविशेषेण । न इति आह । गर्भिण्याम् जीवपत्याम् च । एतस्मिन् विषये । वा च छन्दसि नुक् भवेत् । वा च छन्दसि नुक् वक्तव्यः । सा अन्तर्वती देवान् उपैत् । सा अन्तर्वत्नी देवान् उपैत् । पतिवती तरुणवत्सा । पतिवत्नी तरुणवत्सा ।

KA II,213.15-214.8 Ro III,490-491 antarvat pativat iti garbhabhartṛsaṃyoge . antarvat pativat iti garbhabhartṛsaṃyoge iti vaktavyam . iha mā bhūt . prathate tvayā patimatī pṛthivī iti . atha antaḥśabdasya agarbhasaṃyoge kim pratyudāhriyate . antaḥ asyām śālāyām asti iti . kim punaḥ kāraṇam vākyam eva pratyudāhriyate na punaḥ matup . astisāmānādhikaraṇye matup vidhīyate . na ca atra astisāmānādhikaraṇyam . iha api tarhi na prāpnoti . antarvatnī iti . evam tarhi antarvatpativatoḥ tu matubvatve nipātanāt . antarvat iti matup nipātyate . vatvam siddham . pativat iti vatvam nipātyate . matup siddhaḥ . kim aviśeṣeṇa . na iti āha . garbhiṇyām jīvapatyām ca . etasmin viṣaye . vā ca chandasi nuk bhavet . vā ca chandasi nuk vaktavyaḥ . sā antarvatī devān upait . sā antarvatnī devān upait . pativatī taruṇavatsā . pativatnī taruṇavatsā .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२१४।१०-१४ रो इइइ,४८४९१-४९२ यज्ञ्संयोगे इति उच्यते । तत्र इदम् न सिध्यति । इयम् अस्ति पत्नी । क्व तर्हि स्यात् । पत्नीसंयाजः इति यत्र यज्ञसंयोगः । न एषः दोषः । पतिशब्दः अयम् ऐश्वर्यवाची । सर्वेण च गृहस्थेन पञ्च महायज्ञाः निवर्त्याः । यत् च अदः सायम् प्रातः होमचरुपुरोडाशान् निर्वपति तस्य असौ ईष्टे । एवम् अपि तुषजकस्य पत्नी इति न सिध्यति । उपमानात् सिद्धम् । पत्नी इव पत्नी इति ।

KA II,214.10-14 Ro III,48491-492 yajñsaṃyoge iti ucyate . tatra idam na sidhyati . iyam asti patnī . kva tarhi syāt . patnīsaṃyājaḥ iti yatra yajñasaṃyogaḥ . na eṣaḥ doṣaḥ . patiśabdaḥ ayam aiśvaryavācī . sarveṇa ca gṛhasthena pañca mahāyajñāḥ nivartyāḥ . yat ca adaḥ sāyam prātaḥ homacarupuroḍāśān nirvapati tasya asau īṣṭe . evam api tuṣajakasya patnī iti na sidhyati . upamānāt siddham . patnī iva patnī iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२१४।१६-२१५।२ रो इइइ,४९२-४९३ पत्युः सपूर्वात् उपसर्जनसमासे उपसङ्क्न्ह्यानम् । पत्युः सपूर्वात् उपसर्जनसमासे उपसङ्क्न्ह्यानम् कर्तव्यम् । वृद्धपतिः वृद्धपत्नी स्थूलपतिः स्थूलपत्नी । वचनात् भविष्यति । अस्ति वचने प्रयोजनम् । किम् । आशापतिः आसापत्नी । सिद्धम् तु पत्युः प्रातिपदिकविशेषणत्वात् । सिद्धम् एतत् । कथम् । पत्युः प्रातिपदिकविशेषणत्वात् । न एवम् विज्ञायते । अस्ति अस्मात् पतिशब्दात् पूर्वः सः अयम् सपूर्वः । सपूर्वात् पतिशब्दात् अनुपसर्जनात् इति । कथम् तर्हि । अस्ति अस्मिन् प्रातिपदिके पूर्वः तत् इदम् सपूर्वम् । सपूर्वात् प्रातिपदिकात् पत्यन्तात् अनुपसर्जनात् इति ।

KA II,214.16-215.2 Ro III,492-493 patyuḥ sapūrvāt upasarjanasamāse upasaṅknhyānam . patyuḥ sapūrvāt upasarjanasamāse upasaṅknhyānam kartavyam . vṛddhapatiḥ vṛddhapatnī sthūlapatiḥ sthūlapatnī . vacanāt bhaviṣyati . asti vacane prayojanam . kim . āśāpatiḥ āsāpatnī . siddham tu patyuḥ prātipadikaviśeṣaṇatvāt . siddham etat . katham . patyuḥ prātipadikaviśeṣaṇatvāt . na evam vijñāyate . asti asmāt patiśabdāt pūrvaḥ saḥ ayam sapūrvaḥ . sapūrvāt patiśabdāt anupasarjanāt iti . katham tarhi . asti asmin prātipadike pūrvaḥ tat idam sapūrvam . sapūrvāt prātipadikāt patyantāt anupasarjanāt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२१५।४-२१६।२ रो इइइ,४९३-४९५ पूतक्रत्वादीनाम् पुंयोगप्रकरणे वचनम् । पूतक्रत्वादयः पुंयोगप्रकरणे वक्तव्याः । पूतक्रतोः स्त्री पूतक्रतायी । यया हि पूताः क्रतवः पूतक्रतुः सा भवति ।

KA II,215.4-216.2 Ro III,493-495 pūtakratvādīnām puṃyogaprakaraṇe vacanam . pūtakratvādayaḥ puṃyogaprakaraṇe vaktavyāḥ . pūtakratoḥ strī pūtakratāyī . yayā hi pūtāḥ kratavaḥ pūtakratuḥ sā bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२१५।७-२१६।२ रो इइइ,४९३-४९५ लिङ्गसन्निगोयेन सर्वत्र आगमादेशानाम् वचने लिङ्गलुकि तत्कृतप्रसङ्गः । लिङ्गसन्निगोयेन सर्वत्र आगमादेशानाम् वचने लिङ्गलुकि तत्कृतम् प्राप्नोति । पञ्चेन्द्राण्यः देवताः अस्य पञ्चेन्द्रः पञ्चाग्निः दशाग्निः । किम् उच्यते सर्वत्र इति । अन्यत्र अपि न अवश्यम् इह एव । क्व अन्यत्र । पञ्चभिः धीवरीभिः क्रीतः पञ्चधीवा दशधीवा इति । लिङ्गग्रहणे न अर्थः । सर्वत्र आगमादेशानाम् वचने लुकि तत्कृतप्रसङ्गः इति एव । इदम् अपि सिद्धम् भवति । पञ्चमेन गृह्णाति पञ्चकः । न एतत् अस्ति । मट् अयम् परादिः । स टतः ग्रहणेन ग्रहीष्यते । इदम् तर्हि प्रयोजनम् । षष्ठेन गृह्णाति षट्कः इति । सिद्धम् तु आगमादेशानाम् अङ्गतः स्त्रीप्रकरणे वचनात् । सिद्धम् एतत् । कथम् । आगमादेशाः ये इह स्त्रीप्रकरणे उच्यन्ते ते अङ्गाधिकारे वक्तव्याः । स्त्रीप्रकरणग्रहणेन न अर्थः । सिद्धम् तु आगमादेशानाम् अङ्गतः वचनात् इति एव । इदम् अपि सिद्धम् भवति । षष्ठेन गृह्णाति षट्कः इति । लिङ्गलुकि वा प्रकृतिप्रत्यापत्तिवचनम् । अथ वा लिङ्गलुकि एव प्रकृतिप्रत्यापत्तिः वक्तव्या । लिङ्गग्रहणेन न अर्थः । लुकि वा प्रकृतिप्रत्यापत्तिवचनम् इति एव । इदम् अपि सिद्धम् भवति । षष्ठेन गृह्णाति षट्कः इति । किम् पुनः अत्र ज्यायः । लुकि प्रकृतिप्रत्यापत्तिवचनम् इति एव ज्यायः । इदम् अपि सिद्धम् भवति । पञ्चभिः पट्वीभिः क्रीतः पञ्चपटुः दशपटुः । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । सन्नियोगशिष्टानाम् अन्यतरापाये उभयोः अपि अभावः । तत् यथा । देवदत्तयज्ञदत्ताभ्याम् इदम् कर्म कर्तव्यम् । देवदत्तापाये यज्ञदत्तः अपि न करोति ।

KA II,215.7-216.2 Ro III,493-495 liṅgasannigoyena sarvatra āgamādeśānām vacane liṅgaluki tatkṛtaprasaṅgaḥ . liṅgasannigoyena sarvatra āgamādeśānām vacane liṅgaluki tatkṛtam prāpnoti . pañcendrāṇyaḥ devatāḥ asya pañcendraḥ pañcāgniḥ daśāgniḥ . kim ucyate sarvatra iti . anyatra api na avaśyam iha eva . kva anyatra . pañcabhiḥ dhīvarībhiḥ krītaḥ pañcadhīvā daśadhīvā iti . liṅgagrahaṇe na arthaḥ . sarvatra āgamādeśānām vacane luki tatkṛtaprasaṅgaḥ iti eva . idam api siddham bhavati . pañcamena gṛhṇāti pañcakaḥ . na etat asti . maṭ ayam parādiḥ . sa ṭataḥ grahaṇena grahīṣyate . idam tarhi prayojanam . ṣaṣṭhena gṛhṇāti ṣaṭkaḥ iti . siddham tu āgamādeśānām aṅgataḥ strīprakaraṇe vacanāt . siddham etat . katham . āgamādeśāḥ ye iha strīprakaraṇe ucyante te aṅgādhikāre vaktavyāḥ . strīprakaraṇagrahaṇena na arthaḥ . siddham tu āgamādeśānām aṅgataḥ vacanāt iti eva . idam api siddham bhavati . ṣaṣṭhena gṛhṇāti ṣaṭkaḥ iti . liṅgaluki vā prakṛtipratyāpattivacanam . atha vā liṅgaluki eva prakṛtipratyāpattiḥ vaktavyā . liṅgagrahaṇena na arthaḥ . luki vā prakṛtipratyāpattivacanam iti eva . idam api siddham bhavati . ṣaṣṭhena gṛhṇāti ṣaṭkaḥ iti . kim punaḥ atra jyāyaḥ . luki prakṛtipratyāpattivacanam iti eva jyāyaḥ . idam api siddham bhavati . pañcabhiḥ paṭvībhiḥ krītaḥ pañcapaṭuḥ daśapaṭuḥ . tat tarhi vaktavyam . na vaktavyam . sanniyogaśiṣṭānām anyatarāpāye ubhayoḥ api abhāvaḥ . tat yathā . devadattayajñadattābhyām idam karma kartavyam . devadattāpāye yajñadattaḥ api na karoti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२१६।४-९ रो इइइ,४९६ असितपलितयोः प्रतिषेधः । असितपलितयोः प्रतिषेधः वक्तयः । असिता पलिता । छन्दसि क्नम् एके । छन्दसि क्नम् एके इच्छन्ति : असिक्नी असि ओषधे । पलिक्नीः इत् युवतयः भवन्ति । वर्णात् ङीब्विधाने पिशङ्गात् उपसङ्ख्यानम् । वर्णात् ङीब्विधाने पिशङ्गात् उपसङ्ख्यानम् कर्तव्यम् । पिशङ्गी ।

KA II,216.4-9 Ro III,496 asitapalitayoḥ pratiṣedhaḥ . asitapalitayoḥ pratiṣedhaḥ vaktayaḥ . asitā palitā . chandasi knam eke . chandasi knam eke icchanti : asiknī asi oṣadhe . paliknīḥ it yuvatayaḥ bhavanti . varṇāt ṅībvidhāne piśaṅgāt upasaṅkhyānam . varṇāt ṅībvidhāne piśaṅgāt upasaṅkhyānam kartavyam . piśaṅgī .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२१६।१३-१८ रो इइइ,४९६-४९७ नीलात् ओषधौ । नीलात् ओषधौ इति वक्तव्यम् । नीली ओषधिः । प्राणिनि च । प्राणिनि च इति वक्तव्यम् । नीली गौः नीली वडवा । वा सञ्ज्ञायाम् । वा सञ्ज्ञायाम् इति वक्तव्यम् । नीली नीला ।

KA II,216.13-18 Ro III,496-497 nīlāt oṣadhau . nīlāt oṣadhau iti vaktavyam . nīlī oṣadhiḥ . prāṇini ca . prāṇini ca iti vaktavyam . nīlī gauḥ nīlī vaḍavā . vā sañjñāyām . vā sañjñāyām iti vaktavyam . nīlī nīlā .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२१६।२०-२१७।१० रो इइइ,४९७-४९९ गुणवचनात् इति उच्यते । कः गुणः नाम । सत्त्वे निविशते अपैति पृथग्जातिषु दृश्यते आधेयः च अक्रियाजः च सः असत्त्वप्रकृतिः गुणः । अपरः आह : उपैति अन्यत् । जहाति अन्यत् । दृष्टः द्रव्यान्तरेषु अपि । वाचकः सर्वलिङ्गानाम् द्रव्यात् अन्यः गुणः स्मृतः । गुणवचनात् ङीप् आद्युदात्तार्थम् । गुणवचनात् ङीप् वक्तव्यः । किम् प्रयोजनम् । आद्युदात्तार्थम् । आद्युदात्ताः प्रयोजयन्ति । वस्वी । खरुसंयोगोपधप्रतिषेधः च ।

KA II,216.20-217.10 Ro III,497-499 guṇavacanāt iti ucyate . kaḥ guṇaḥ nāma . sattve niviśate apaiti pṛthagjātiṣu dṛśyate ādheyaḥ ca akriyājaḥ ca saḥ asattvaprakṛtiḥ guṇaḥ . aparaḥ āha : upaiti anyat . jahāti anyat . dṛṣṭaḥ dravyāntareṣu api . vācakaḥ sarvaliṅgānām dravyāt anyaḥ guṇaḥ smṛtaḥ . guṇavacanāt ṅīP ādyudāttārtham . guṇavacanāt ṅīp vaktavyaḥ . kim prayojanam . ādyudāttārtham . ādyudāttāḥ prayojayanti . vasvī . kharusaṃyogopadhapratiṣedhaḥ ca .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२१७।१२-२२०।११ रो इइइ,५००-५०९ गोपालिकादीनाम् प्रतिषेधः वक्तव्यः : गोपालिका पशुपालिका । किम् पुनः इह उदाहरणम् । प्रष्ट्ःई प्रचरी । कथम् पुनः अयम् प्रष्ठशब्दः अकारान्तः स्त्रियाम् वर्तते । तस्य इदम् इति अनेन अभिसम्बन्धेन । यथा एव हि असौ तत्कृतान् स्नानोद्वर्तनपरिषेकान् लभते एवम् प्रष्ठशब्दम् अपि लभते । यदि एवम् पुंयोगात् आख्यायाम् तद्धितलुग्वचनम् । पुंयोगात् आख्यायाम् तद्धितस्य लुक् वक्तव्यः । तस्य इदम् इति प्राप्नोति । न तर्हि इदानीम् इदम् भवति : प्राष्थ्यः इमाः प्राचर्यः इमाः इति । भवति च । विभाषा लुक् वक्तव्यः । यदा लुक् तदा प्रष्ठी । यदा न लुक् तदा प्राष्ठी । यदि एवम् न अर्थः लुका । विभाषा तद्धितोत्पत्तिः । यदा तद्धितोत्पत्तिः तदा प्राष्ठी । यदा न तद्धितोत्पत्तिः तदा प्रष्ठी । एवम् अपि लुक् वक्तव्यः । न हि अन्तरेण तद्धितस्य लुकम् परार्थे शब्दः वर्तते । यदि पुनः तस्याम् एव प्रष्ठशब्दः वर्तेत । कथम् पुनः तस्याम् अप्रतिष्ठमानायाम् प्रष्ठशब्दः वर्तेत । यथा एव हि असौ अकुर्वती किम् चित् पापम् तत्कृतान् वधबन्दनपरिक्लेशान् लभते एवम् प्रष्ठशब्दम् अपि लभते । सुबन्तसमासवचनात् च अकारान्तानुपपत्तिः । सुबन्तसमासवचनात् च अकारान्तता न उपपद्यते । सुबन्तानाम् समासः । तत्र अन्तरङ्गत्वात् टाप् । टपि उत्पन्ने समासः । स्थाशब्दः समस्येत । तत्र पुंयोगात् आख्यायाम् अकारान्तात् इति ईकारः न प्राप्नोति । सिद्धम् तु स्त्रियाः पुंशब्देन अभिधानात् । सिद्धम् एतत् । कथम् । स्त्रियाः पुंशब्देन अभिधानात् । स्त्री पुंशब्देन अभिधीयते । ननु च उक्तम् पुंयोगात् आख्यायाम् तद्धितलुग्वचनम् इति । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति न अतः तद्धितोत्पत्तिः भवति इति यत् अयम् पुंयोगात् आख्यायाम् ईकारम् शास्ति । न एतत् अस्ति ज्ञापकम् । अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् । ये अनीकाराः स्त्रीप्रत्ययाः तदर्थम् एतत् स्यात् । यत् तर्हि आख्याग्रहणम् करोति । न हि तद्धितान्तम् आख्या भवति । अथ वा पुनः अस्तु तस्य इदम् इति अनेन अभिसम्बन्धेन । ननु च उक्तम् पुंयोगात् आख्यायाम् तद्धितलुग्वचनम् इति । न एषः दोषः । न अवश्यम् अयम् एव अभिसम्बन्धः भवति तस्य इदम् इति । अयम् अपि अभिसम्बन्धः अस्ति सः अयम् इति । कथम् पुनः अतस्मिन् सः इति एतत् भवति । चतुर्भिः प्रकारैः अतस्मिन् सः इति एतत् भवति तात्स्थ्यात् ताद्धर्म्यात् तत्सामीप्यात् तत्साहचर्यात् इति । तात्स्थ्यात् तावत् । मञ्चाः हसन्ति । गिरिः दह्यते । ताद्धर्म्यात् । जटिनम् यान्तम् ब्रह्मदत्तः इति आह । ब्रह्मदत्ते यानि कार्याणि जटिनि अपि तानि क्रियन्ते इति अतः जटि ब्रह्मदत्तः इति उच्यते । तत्सामीप्यात् । गङ्गायाम् घोषः । कूपे गर्गकुलम् । तत्साहचर्यात् । कुन्तान् प्रवेशय । यष्टीः प्रवेशय इति । अथ वा पुनः अस्तु तस्याम् एव प्रष्ठशब्दः । ननु च उक्तम् सुबन्तसमासवचनात् च अकारान्तानुपपत्तिः इति । न एषः दोषः । गतिकारकोपपदानाम् कृद्भिः सह समासवचनम् । गतिकारकोपपदानाम् कृद्भिः सह समासः भवति इति एषा परिभाषा कर्तव्या । कानि एतस्याः परिभाषायाः प्रयोजनानि । प्रयोजनम् क्तात् अल्पाख्यायाम् । अभ्रविलिप्तीसूपविलिप्ति । सुबन्तानाम् समासः । तत्र अन्तरङ्गत्वात् टाप् । टपि उत्पन्ने समासः । विलिप्ताशब्दः समस्येत । तत्र क्तात् अल्पाख्यायाम् अकारान्तात् इति ङीष् न प्राप्नोति । जातेः ङीष्विधाने । जातेः ङीष्विधाने प्रयोजनम् । व्याघ्री कच्छपी । सुबन्तानाम् समासः । तत्र अन्तरङ्गत्वात् टाप् । टपि उत्पन्ने समासः । घ्राशब्दः समस्येत । तत्र जातेः अस्त्रीविषयात् अयोपधात् अकारान्तात् इति ङीष् न प्राप्नोति । समासान्तस्य णत्वे । समासान्तस्य णत्वे प्रयोजनम् । वक्ष्यति प्रातिपदिकान्तस्य णत्वे समासान्तग्रहणम् असमासान्तप्रतिषेधार्थम् इति । तस्मिन् क्रियमाणे माषवापिणी व्रीहिवापिणी सुबन्तानाम् समासः । तत्र अन्तरङ्गत्वात् नकारान्तत्वात् ङीप् । ङीपि उत्पन्ने समासः । वापिनी शब्दः समस्येत । तत्र समासान्तस्य इति णत्वम् न प्राप्नोति । कृदन्तात् तद्धिते वृद्धिस्वरौ च । कृदन्तात् तद्धिते वृद्धिस्वरौ च प्रयोजनम् : साङ्कुटिनम् व्यावक्रोशी । अत्र अवयवात् उत्पत्तिः प्रसज्येत । गतिकारकोपपदानाम् कृद्भिः सह समासः भवति इति न दोषः भवति । सत्याम् अपि एतस्याम् परिभाषायाम् अवयवात् उत्पत्तिः प्राप्नोति । किम् कारणम् । प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति । कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् भवति इति सङ्घातात् उत्पत्तिः भविष्यति । यदि तर्हि एषा परिभाषा अस्ति न एतस्याः परिभाषायाः

KA II,217.12-220.11 Ro III,500-509 gopālikādīnām pratiṣedhaḥ vaktavyaḥ : gopālikā paśupālikā . kim punaḥ iha udāharaṇam . praṣṭḥī pracarī . katham punaḥ ayam praṣṭhaśabdaḥ akārāntaḥ striyām vartate . tasya idam iti anena abhisambandhena . yathā eva hi asau tatkṛtān snānodvartanapariṣekān labhate evam praṣṭhaśabdam api labhate . yadi evam puṃyogāt ākhyāyām taddhitalugvacanam . puṃyogāt ākhyāyām taddhitasya luk vaktavyaḥ . tasya idam iti prāpnoti . na tarhi idānīm idam bhavati : prāṣthyaḥ imāḥ prācaryaḥ imāḥ iti . bhavati ca . vibhāṣā luk vaktavyaḥ . yadā luk tadā praṣṭhī . yadā na luk tadā prāṣṭhī . yadi evam na arthaḥ lukā . vibhāṣā taddhitotpattiḥ . yadā taddhitotpattiḥ tadā prāṣṭhī . yadā na taddhitotpattiḥ tadā praṣṭhī . evam api luk vaktavyaḥ . na hi antareṇa taddhitasya lukam parārthe śabdaḥ vartate . yadi punaḥ tasyām eva praṣṭhaśabdaḥ varteta . katham punaḥ tasyām apratiṣṭhamānāyām praṣṭhaśabdaḥ varteta . yathā eva hi asau akurvatī kim cit pāpam tatkṛtān vadhabandanaparikleśān labhate evam praṣṭhaśabdam api labhate . subantasamāsavacanāt ca akārāntānupapattiḥ . subantasamāsavacanāt ca akārāntatā na upapadyate . subantānām samāsaḥ . tatra antaraṅgatvāt ṭāp . ṭapi utpanne samāsaḥ . sthāśabdaḥ samasyeta . tatra puṃyogāt ākhyāyām akārāntāt iti īkāraḥ na prāpnoti . siddham tu striyāḥ puṃśabdena abhidhānāt . siddham etat . katham . striyāḥ puṃśabdena abhidhānāt . strī puṃśabdena abhidhīyate . nanu ca uktam puṃyogāt ākhyāyām taddhitalugvacanam iti . na eṣaḥ doṣaḥ . ācāryapravṛttiḥ jñāpayati na ataḥ taddhitotpattiḥ bhavati iti yat ayam puṃyogāt ākhyāyām īkāram śāsti . na etat asti jñāpakam . asti hi anyat etasya vacane prayojanam . ye anīkārāḥ strīpratyayāḥ tadartham etat syāt . yat tarhi ākhyāgrahaṇam karoti . na hi taddhitāntam ākhyā bhavati . atha vā punaḥ astu tasya idam iti anena abhisambandhena . nanu ca uktam puṃyogāt ākhyāyām taddhitalugvacanam iti . na eṣaḥ doṣaḥ . na avaśyam ayam eva abhisambandhaḥ bhavati tasya idam iti . ayam api abhisambandhaḥ asti saḥ ayam iti . katham punaḥ atasmin saḥ iti etat bhavati . caturbhiḥ prakāraiḥ atasmin saḥ iti etat bhavati tātsthyāt tāddharmyāt tatsāmīpyāt tatsāhacaryāt iti . tātsthyāt tāvat . mañcāḥ hasanti . giriḥ dahyate . tāddharmyāt . jaṭinam yāntam brahmadattaḥ iti āha . brahmadatte yāni kāryāṇi jaṭini api tāni kriyante iti ataḥ jaṭi brahmadattaḥ iti ucyate . tatsāmīpyāt . gaṅgāyām ghoṣaḥ . kūpe gargakulam . tatsāhacaryāt . kuntān praveśaya . yaṣṭīḥ praveśaya iti . atha vā punaḥ astu tasyām eva praṣṭhaśabdaḥ . nanu ca uktam subantasamāsavacanāt ca akārāntānupapattiḥ iti . na eṣaḥ doṣaḥ . gatikārakopapadānām kṛdbhiḥ saha samāsavacanam . gatikārakopapadānām kṛdbhiḥ saha samāsaḥ bhavati iti eṣā paribhāṣā kartavyā . kāni etasyāḥ paribhāṣāyāḥ prayojanāni . prayojanam ktāt alpākhyāyām . abhraviliptīsūpavilipti . subantānām samāsaḥ . tatra antaraṅgatvāt ṭāp . ṭapi utpanne samāsaḥ . viliptāśabdaḥ samasyeta . tatra ktāt alpākhyāyām akārāntāt iti ṅīṣ na prāpnoti . jāteḥ ṅīṣvidhāne . jāteḥ ṅīṣvidhāne prayojanam . vyāghrī kacchapī . subantānām samāsaḥ . tatra antaraṅgatvāt ṭāp . ṭapi utpanne samāsaḥ . ghrāśabdaḥ samasyeta . tatra jāteḥ astrīviṣayāt ayopadhāt akārāntāt iti ṅīṣ na prāpnoti . samāsāntasya ṇatve . samāsāntasya ṇatve prayojanam . vakṣyati prātipadikāntasya ṇatve samāsāntagrahaṇam asamāsāntapratiṣedhārtham iti . tasmin kriyamāṇe māṣavāpiṇī vrīhivāpiṇī subantānām samāsaḥ . tatra antaraṅgatvāt nakārāntatvāt ṅīp . ṅīpi utpanne samāsaḥ . vāpinī śabdaḥ samasyeta . tatra samāsāntasya iti ṇatvam na prāpnoti . kṛdantāt taddhite vṛddhisvarau ca . kṛdantāt taddhite vṛddhisvarau ca prayojanam : sāṅkuṭinam vyāvakrośī . atra avayavāt utpattiḥ prasajyeta . gatikārakopapadānām kṛdbhiḥ saha samāsaḥ bhavati iti na doṣaḥ bhavati . satyām api etasyām paribhāṣāyām avayavāt utpattiḥ prāpnoti . kim kāraṇam . pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti . kṛdgrahaṇe gatikārakapūrvasya api grahaṇam bhavati iti saṅghātāt utpattiḥ bhaviṣyati . yadi tarhi eṣā paribhāṣā asti na etasyāḥ paribhāṣāyāḥ

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२२०।१४-२२१।४ रो इइइ,५१०-५११ हिमारण्ययोः महत्त्वे । हिमारण्ययोः महत्त्वे इति वक्तव्यम् । महत् हिमम् हिमानी । महत् अरण्यम् अरण्यानी । यवात् दोषे । यवात् दोषे इति वक्तव्यम् । दुष्टः यवः यवानी । यवनात् लिप्याम् । यवनात् लिप्याम् इति वक्तव्यम् । यवनानी लिपिः । उपाध्यायमातुलाभ्याम् वा । उपाध्यायमातुलाभ्याम् वा इति वक्तव्यम् । उपाध्यायी उपाध्यायानी । मातुली मातुलानी । मुद्गलात् छन्दसि लित् च । मुद्गलात् छन्दसि लित् च इति वक्तव्यम् । रथीः अभूत् मुद्गलानी । आचार्यात् अणत्वम् च । आचार्यात् अणत्वम् च इति वक्तव्यम् । आचार्यानी । आर्यक्षत्रियाभ्याम् वा । आर्यक्षत्रियाभ्याम् वा इति वक्तव्यम् । आर्या आर्याणी । क्षत्रिया क्षत्रियाणी ।

KA II,220.14-221.4 Ro III,510-511 himāraṇyayoḥ mahattve . himāraṇyayoḥ mahattve iti vaktavyam . mahat himam himānī . mahat araṇyam araṇyānī . yavāt doṣe . yavāt doṣe iti vaktavyam . duṣṭaḥ yavaḥ yavānī . yavanāt lipyām . yavanāt lipyām iti vaktavyam . yavanānī lipiḥ . upādhyāyamātulābhyām vā . upādhyāyamātulābhyām vā iti vaktavyam . upādhyāyī upādhyāyānī . mātulī mātulānī . mudgalāt chandasi lit ca . mudgalāt chandasi lit ca iti vaktavyam . rathīḥ abhūt mudgalānī . ācāryāt aṇatvam ca . ācāryāt aṇatvam ca iti vaktavyam . ācāryānī . āryakṣatriyābhyām vā . āryakṣatriyābhyām vā iti vaktavyam . āryā āryāṇī . kṣatriyā kṣatriyāṇī .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२२१।६-१२ रो इइइ,५११ करणपूर्वात् इति किमर्थम् । गवात् क्रीता । अश्वेन क्रीता । करणपूर्वात् इति उच्यमाने अपि अत्र प्राप्नोति । एषः अपि हि क्रीतशब्दः करणपूर्वः । विभक्त्या व्यवहितत्वात् न भविष्यति । यदि तर्हि विभक्तिः अपि ववधायिका भविष्यति मनसाक्रीती इति न सिध्यति । एवम् तर्हि न एवम् विज्ञायते । करणम् पूर्वम् अस्मात् क्रीतशब्दात् सः अयम् करणपूर्वः तस्मात् करणपूर्वात् क्रीतशब्दात् अनुपसर्जनात् इति । कथम् तर्हि । करणम् अस्मिन् प्रातिपदिके पूर्वम् तत् इदम् करणपूर्वम् तस्मात् करणपूर्वात् प्रातिपदिकात् क्रीतान्तात् अनुपसर्जनात् इति ।

KA II,221.6-12 Ro III,511 karaṇapūrvāt iti kimartham . gavāt krītā . aśvena krītā . karaṇapūrvāt iti ucyamāne api atra prāpnoti . eṣaḥ api hi krītaśabdaḥ karaṇapūrvaḥ . vibhaktyā vyavahitatvāt na bhaviṣyati . yadi tarhi vibhaktiḥ api vavadhāyikā bhaviṣyati manasākrītī iti na sidhyati . evam tarhi na evam vijñāyate . karaṇam pūrvam asmāt krītaśabdāt saḥ ayam karaṇapūrvaḥ tasmāt karaṇapūrvāt krītaśabdāt anupasarjanāt iti . katham tarhi . karaṇam asmin prātipadike pūrvam tat idam karaṇapūrvam tasmāt karaṇapūrvāt prātipadikāt krītāntāt anupasarjanāt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२२१।१४-२२२।६ रो इइइ,५१२-५१३ अन्तोदात्ते जातप्रतिषेधः । अन्तोदात्ते जातस्य प्रतिषेधः वक्तव्यः । दन्तजाता स्तनजाता । पाणिगृहीत्यादीनाम् विशेषे । पाणिगृहीत्यादीनाम् विशेषे इति वक्तव्यम् । पाणिन्गृहीती इति भार्या । यस्य यथा कथम् चित् पाणिः गृह्यते पाणिगृहीता सा भवति । बहुलम् तणि । बहुलम् तणि इति वक्तव्यम् । किम् इदम् तणि इति । सञ्ज्ञाच्छन्दसोः ग्रहणम् । किम् प्रयोजनम् । प्रबद्धविलूनाद्यर्थम् । प्रबद्धविलूनी प्रबद्धविलूना । अन्तोदात्तात् अबहुनञ्सुकालसुखादिपूर्वात् । अन्तोदात्तात् अबहुनञ्सुकालसुखादिपूर्वात् इति वक्तव्यम् । बहु । बहुकृता । नञ् । अकृता । सु । सुकृता । काल । मासजाता संवत्सरजाता । सुखादि । सुखजाता दुःखजाता । जातिपूर्वात् वा । अथ वा जातिपूर्वात् इति वक्तव्यम् ।

KA II,221.14-222.6 Ro III,512-513 antodātte jātapratiṣedhaḥ . antodātte jātasya pratiṣedhaḥ vaktavyaḥ . dantajātā stanajātā . pāṇigṛhītyādīnām viśeṣe . pāṇigṛhītyādīnām viśeṣe iti vaktavyam . pāṇingṛhītī iti bhāryā . yasya yathā katham cit pāṇiḥ gṛhyate pāṇigṛhītā sā bhavati . bahulam taṇi . bahulam taṇi iti vaktavyam . kim idam taṇi iti . sañjñācchandasoḥ grahaṇam . kim prayojanam . prabaddhavilūnādyartham . prabaddhavilūnī prabaddhavilūnā . antodāttāt abahunañsukālasukhādipūrvāt . antodāttāt abahunañsukālasukhādipūrvāt iti vaktavyam . bahu . bahukṛtā . nañ . akṛtā . su . sukṛtā . kāla . māsajātā saṃvatsarajātā . sukhādi . sukhajātā duḥkhajātā . jātipūrvāt vā . atha vā jātipūrvāt iti vaktavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२२२।८-१८ रो इइइ,५१३-५१३ स्वाङ्गात् च उपसर्जनात् इति उच्यते । किम् स्वाङ्गम् नाम । अद्रवम् मूर्तिमत् स्वाङ्गम् प्राणिस्थम् अविकारजम् अतत्स्थम् तत्र दृष्टम् च तस्य चेत् तत् तथा युतम् । अप्राणिनः अपि स्वाङ्गम् । अद्रवम् इति किमर्थम् । बहुलोहिता । न एतत् अस्ति । बह्वचः न इति प्रतिषेधः भविष्यति । इदम् तर्हि बहुकफा । मूर्तिमत् इति किमर्थम् । बहुबुद्धिः बहुमनाः । न एतत् अस्ति । अतः इति वर्तते । इदम् तर्हि । बहुज्ञाना । प्राणिस्थम् इति किमर्थम् । श्लक्ष्णमुखा शाला । अविकारजम् इति किमर्थम् । बहुगडुः बहुपटिका । न एतत् अस्ति । इह तावत् बहुगडुः इति अतः इति वर्तते । बहुपटिका इति बह्वचः न इति प्रतिषेधः भविष्यति । इदम् तर्हि बहुशोफा । अतत्स्थम् तत्र दृष्टम् च । अप्राणिस्थम् प्राणिनि दृष्टम् च स्वाङ्गसञ्ज्ञम् भवति । दीर्घकेशी रथ्या इति । तस्य चेत् तत् तथा युतम् अप्राणिनः अपि स्वाङ्गसञ्ज्ञम् भवति । दीर्घनासिकी अर्चा तुङ्गनासिकी अर्चा ।

KA II,222.8-18 Ro III,513-513 svāṅgāt ca upasarjanāt iti ucyate . kim svāṅgam nāma . adravam mūrtimat svāṅgam prāṇistham avikārajam atatstham tatra dṛṣṭam ca tasya cet tat tathā yutam . aprāṇinaḥ api svāṅgam . adravam iti kimartham . bahulohitā . na etat asti . bahvacaḥ na iti pratiṣedhaḥ bhaviṣyati . idam tarhi bahukaphā . mūrtimat iti kimartham . bahubuddhiḥ bahumanāḥ . na etat asti . ataḥ iti vartate . idam tarhi . bahujñānā . prāṇistham iti kimartham . ślakṣṇamukhā śālā . avikārajam iti kimartham . bahugaḍuḥ bahupaṭikā . na etat asti . iha tāvat bahugaḍuḥ iti ataḥ iti vartate . bahupaṭikā iti bahvacaḥ na iti pratiṣedhaḥ bhaviṣyati . idam tarhi bahuśophā . atatstham tatra dṛṣṭam ca . aprāṇistham prāṇini dṛṣṭam ca svāṅgasañjñam bhavati . dīrghakeśī rathyā iti . tasya cet tat tathā yutam aprāṇinaḥ api svāṅgasañjñam bhavati . dīrghanāsikī arcā tuṅganāsikī arcā .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२२२।१९-२२३।२३ रो इइइ,५१४-५१६ अथ उपसर्जनग्रहणम् किमर्थम् । इह मा भूत् । शिखा । उपसर्जनग्रहणम् अनर्थकम् बहुव्रीह्यधिकारात् । उपसर्जनग्रहणम् अनर्थकम् । किम् कारणम् । बहुव्रीह्यधिकारात् । बहुव्रीहेः इति वर्तते । क्व प्रकृतम् । बहुव्रीहेः च अन्तोदात्तात् इति । बह्वजर्थम् तर्हि उपसर्जनग्रहणम् कर्तव्यम् । बह्वचः न इति प्रतिषेधम् वक्ष्यति । तत् बह्वज्ग्रहणम् उपसर्जनविशेषणम् यथा विज्ञायेत । बह्वचः उपसर्जनात् न इति । अथ अक्रियमाणे उपसर्जनग्रहणे कस्य बह्वज्ग्रहणम् विशेषणम् स्यात् । बहुर्वीहेः इति वर्तते । बहुव्रीहिविशेषणम् विज्ञायेत । अस्ति च इदानीम् कः चित् अबह्वच् बहुव्रीहिः यदर्थः विधिः स्यात् । अस्ति इति आह : स्वडा स्वडी इति । बह्वजर्थम् इति चेत् स्वाङ्गग्रहणात् सिद्धम् । स्वाङ्गग्रहणम् क्रियते । तत् बह्वज्ग्रहणेन विशेषयिष्यामः । स्वाङ्गात् बह्वचः न इति । एवम् तर्हि अन्तोदादात्तात् इति वर्तते । अन्तोदात्तार्थः अयम् आरम्भः । अन्तोदात्तार्थम् इति चेत् सहादिकृतत्वात् सिद्धम् । यत् अयम् सहनञ्विद्यमानपूर्वात् च इति प्रत्षेधम् शास्ति तत् ज्ञापयति आचार्यः अन्तोदात्तात् अपि भवति इति । स्वाङ्गसमुदायप्रतिषेधार्थम् तु । स्वाङ्गसमुदायप्रतिषेधार्थम् तर्हि उपसर्जनग्रहणम् कर्तव्यम् । श्वाङ्गात् यथा स्यात् । स्वाङ्गसमुदायात् मा भूत् । कल्याणपाणिपादा । अथ क्रियमाणे अपि उपसर्जनग्रहणे कस्मात् एव अत्र न भवति । स्वाङ्गम् हि एतत् उपसर्जनम् । न स्वाङ्गसमुदायः स्वाङ्गग्रहणेन गृह्यते यथा जनपदसमुदायः जनपदग्रहणेन न गृह्यते । काशिकोसलीया इति जनपदतदवध्योः इति वुञ् न भवति । एतत् अपि न अस्ति प्रयोजनम् । अस्वाङ्गपूर्वपदात् इति वर्तते । तेन स्वाङ्गम् विशेषयिष्यामः । अस्वाङ्गपूर्वपदात् परम् यत् स्वाङ्गम् तदन्तात् बहुव्रीहेः इति । यत् च अत्र अस्वाङ्गपूर्वपदात् परम् न तदन्तः बहुव्रीहिः यदन्तः च बहुव्रीहिः न तत् अस्वाङ्गपूर्वपदात् परम् स्वाङ्गम् । ननु च तत् पूर्वस्मिन् योगे बहुव्रीहिविशेषणम् । न इति आह । पूर्वपदविशेषणम् । न स्वाङ्गम् अस्वाङ्गम् पूर्वम् पदम् पूर्वपदम् अस्वाङ्गम् पूर्वपदम् अस्वाङ्गपूर्वपदम् अस्वाङ्गपूर्वपदात् इति । यदि एवम् पूर्वस्मिन् योगे बहुव्रीहिः अविशेषितः भवति । बहुव्रीहिः च विशेषितः । कथम् । क्तात् इति वर्तते । तेन बहुव्रीहिम् विशेषयिष्यामः । अस्वाङ्गात् पूर्वपदात् परम् यत् क्तान्तम् तदन्तात् बहुव्रीहेः इति । इदम् तर्हि प्रयोजनम् । बहुव्रीहेः इति वर्तते उपसर्जनमात्रात् यथा स्यात् । निष्केशी यूका । अतिकेशी माला ।

KA II,222.19-223.23 Ro III,514-516 atha upasarjanagrahaṇam kimartham . iha mā bhūt . śikhā . upasarjanagrahaṇam anarthakam bahuvrīhyadhikārāt . upasarjanagrahaṇam anarthakam . kim kāraṇam . bahuvrīhyadhikārāt . bahuvrīheḥ iti vartate . kva prakṛtam . bahuvrīheḥ ca antodāttāt iti . bahvajartham tarhi upasarjanagrahaṇam kartavyam . bahvacaḥ na iti pratiṣedham vakṣyati . tat bahvajgrahaṇam upasarjanaviśeṣaṇam yathā vijñāyeta . bahvacaḥ upasarjanāt na iti . atha akriyamāṇe upasarjanagrahaṇe kasya bahvajgrahaṇam viśeṣaṇam syāt . bahurvīheḥ iti vartate . bahuvrīhiviśeṣaṇam vijñāyeta . asti ca idānīm kaḥ cit abahvac bahuvrīhiḥ yadarthaḥ vidhiḥ syāt . asti iti āha : svaḍā svaḍī iti . bahvajartham iti cet svāṅgagrahaṇāt siddham . svāṅgagrahaṇam kriyate . tat bahvajgrahaṇena viśeṣayiṣyāmaḥ . svāṅgāt bahvacaḥ na iti . evam tarhi antodādāttāt iti vartate . antodāttārthaḥ ayam ārambhaḥ . antodāttārtham iti cet sahādikṛtatvāt siddham . yat ayam sahanañvidyamānapūrvāt ca iti pratṣedham śāsti tat jñāpayati ācāryaḥ antodāttāt api bhavati iti . svāṅgasamudāyapratiṣedhārtham tu . svāṅgasamudāyapratiṣedhārtham tarhi upasarjanagrahaṇam kartavyam . śvāṅgāt yathā syāt . svāṅgasamudāyāt mā bhūt . kalyāṇapāṇipādā . atha kriyamāṇe api upasarjanagrahaṇe kasmāt eva atra na bhavati . svāṅgam hi etat upasarjanam . na svāṅgasamudāyaḥ svāṅgagrahaṇena gṛhyate yathā janapadasamudāyaḥ janapadagrahaṇena na gṛhyate . kāśikosalīyā iti janapadatadavadhyoḥ iti vuñ na bhavati . etat api na asti prayojanam . asvāṅgapūrvapadāt iti vartate . tena svāṅgam viśeṣayiṣyāmaḥ . asvāṅgapūrvapadāt param yat svāṅgam tadantāt bahuvrīheḥ iti . yat ca atra asvāṅgapūrvapadāt param na tadantaḥ bahuvrīhiḥ yadantaḥ ca bahuvrīhiḥ na tat asvāṅgapūrvapadāt param svāṅgam . nanu ca tat pūrvasmin yoge bahuvrīhiviśeṣaṇam . na iti āha . pūrvapadaviśeṣaṇam . na svāṅgam asvāṅgam pūrvam padam pūrvapadam asvāṅgam pūrvapadam asvāṅgapūrvapadam asvāṅgapūrvapadāt iti . yadi evam pūrvasmin yoge bahuvrīhiḥ aviśeṣitaḥ bhavati . bahuvrīhiḥ ca viśeṣitaḥ . katham . ktāt iti vartate . tena bahuvrīhim viśeṣayiṣyāmaḥ . asvāṅgāt pūrvapadāt param yat ktāntam tadantāt bahuvrīheḥ iti . idam tarhi prayojanam . bahuvrīheḥ iti vartate upasarjanamātrāt yathā syāt . niṣkeśī yūkā . atikeśī mālā .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२२३।२५-२२४।५ रो इइइ,५१७ नासिकादीनाम् विभाषायाम् पुच्छात् च । नासिकादीनाम् विभाषायाम् पुच्छात् च इति वक्तव्यम् । कल्याणपुच्छी कल्याणपुच्छा । कबरमणिविषशरेभ्यः नित्यम् । कबरमणिविषशरेभ्यः नित्यम् इति वक्तव्यम् । कबरपुच्छी मणिपुच्छी विषपुच्छी शरपुच्छी । उपमानात् पक्षात् च । उपमानात् पक्षात् च पुच्छात् च इति वक्तव्यम् । उलूकपक्षी शाला उलूकपक्षी सेना इति ।

KA II,223.25-224.5 Ro III,517 nāsikādīnām vibhāṣāyām pucchāt ca . nāsikādīnām vibhāṣāyām pucchāt ca iti vaktavyam . kalyāṇapucchī kalyāṇapucchā . kabaramaṇiviṣaśarebhyaḥ nityam . kabaramaṇiviṣaśarebhyaḥ nityam iti vaktavyam . kabarapucchī maṇipucchī viṣapucchī śarapucchī . upamānāt pakṣāt ca . upamānāt pakṣāt ca pucchāt ca iti vaktavyam . ulūkapakṣī śālā ulūkapakṣī senā iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२२४।६-२१ रो इइइ,५१७-५१८ नासिकादिभ्यः विभाषायाः सहनञ्विद्यमानपूर्वेभ्यः प्रतिषेधः विप्रतिषेधेन । नासिकादिभ्यः विभाषायाः सहनञ्विद्यमानपूर्वेभ्यः प्रतिषेधः भवति विप्रतिषेधेन । नासिकादिभ्यः विभाषायाः अवकाशः कल्याणनासिकी कल्याणनासिका । सहनञ्विद्यमानपूर्वलक्षणस्य प्रतिषेधस्य अवकाशः समुखा अमुखा विद्यमान्मुखा इति । इह उभयम् प्राप्नोति । सनासिका अनासिका विद्यमाननासिका इति । सहनञ्विद्यमानपूर्वेभ्यः प्रतिषेधः भवति विप्रतिषेधेन । न एषः युक्तः विप्रतिषेधः । अयम् विधिः सः प्रतिषेधः । विधिप्रतिषेधयोः च अयुक्तः विप्रतिषेधः । अयम् अपि विधिः न मृदूनाम् इव कर्पासानाम् कृतः प्रतिषेधविषये आरभ्यते । सः यथा एव बह्वज्लक्षणम् संयोगोपधलक्षणम् च प्रतिषेधम् बाधते एवम् सहनञ्विद्यमानपूर्वलक्षणम् अपि बाधेत । का तर्हि गतिः । इह तावत् नासिकोदर इति बह्वज्लक्षणः च प्रतिषेधः प्राप्नोति सहनञ्विद्यमानपूर्वलक्षणः च । पुरस्तात् अपवादाः अनन्तरान् विधीन् भादन्ते इति एवम् इयम् विभाषा बह्वज्लक्षणम् प्रतिषेधम् बाधिष्यते । सहनञ्विद्यमानपूर्वलक्षणम् न बाधिष्यते । ओष्ठजङ्घादन्तकर्णश्र्ङ्गात् च इति संयोगलक्षणः प्रतिषेधः प्राप्नोति सहनञ्विद्यमानपूर्वलक्षणः च । मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् इयम् विभाषा संयोगलक्षणम् प्रतिषेधम् बाधिष्यते । सहनञ्विद्यमानपूर्वलक्षणम् न बाधिष्यते ।

KA II,224.6-21 Ro III,517-518 nāsikādibhyaḥ vibhāṣāyāḥ sahanañvidyamānapūrvebhyaḥ pratiṣedhaḥ vipratiṣedhena . nāsikādibhyaḥ vibhāṣāyāḥ sahanañvidyamānapūrvebhyaḥ pratiṣedhaḥ bhavati vipratiṣedhena . nāsikādibhyaḥ vibhāṣāyāḥ avakāśaḥ kalyāṇanāsikī kalyāṇanāsikā . sahanañvidyamānapūrvalakṣaṇasya pratiṣedhasya avakāśaḥ samukhā amukhā vidyamānmukhā iti . iha ubhayam prāpnoti . sanāsikā anāsikā vidyamānanāsikā iti . sahanañvidyamānapūrvebhyaḥ pratiṣedhaḥ bhavati vipratiṣedhena . na eṣaḥ yuktaḥ vipratiṣedhaḥ . ayam vidhiḥ saḥ pratiṣedhaḥ . vidhipratiṣedhayoḥ ca ayuktaḥ vipratiṣedhaḥ . ayam api vidhiḥ na mṛdūnām iva karpāsānām kṛtaḥ pratiṣedhaviṣaye ārabhyate . saḥ yathā eva bahvajlakṣaṇam saṃyogopadhalakṣaṇam ca pratiṣedham bādhate evam sahanañvidyamānapūrvalakṣaṇam api bādheta . kā tarhi gatiḥ . iha tāvat nāsikodara iti bahvajlakṣaṇaḥ ca pratiṣedhaḥ prāpnoti sahanañvidyamānapūrvalakṣaṇaḥ ca . purastāt apavādāḥ anantarān vidhīn bhādante iti evam iyam vibhāṣā bahvajlakṣaṇam pratiṣedham bādhiṣyate . sahanañvidyamānapūrvalakṣaṇam na bādhiṣyate . oṣṭhajaṅghādantakarṇaśrṅgāt ca iti saṃyogalakṣaṇaḥ pratiṣedhaḥ prāpnoti sahanañvidyamānapūrvalakṣaṇaḥ ca . madhye apavādāḥ pūrvān vidhīn bādhante iti evam iyam vibhāṣā saṃyogalakṣaṇam pratiṣedham bādhiṣyate . sahanañvidyamānapūrvalakṣaṇam na bādhiṣyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२२४। २३-२२५।११ रो इइइ,५१८-५१९ दिक्पूर्वपदात् ङीषः अनुदात्तत्वम् । दिक्पूर्वपदात् ङीषः अनुदात्तत्वम् वक्तव्यम् । प्राङ्मुखी प्रत्यङ्मुक्ःई । ङीब्विधाने हि अन्यत्र अपि ङीष्विषयान् ङीप्प्रसङ्गः । ङीब्विधाने हि सति अन्यत्र अपि ङीष्विषयान् ङीप् प्रसज्येत । प्राग्गुल्फा प्रत्यग्ललाटा । ननु च एते विशेषाः अनुवर्तेरन् असंयोगोपधात् बह्वचः न इति । यदि अपि एते विशेषाः अनुवर्तेरन् असंयोगोपधात् बह्वचः न इति एवम् अपि दिक्पूर्वपदात् ङीपा मुक्ते ङीष् प्रसज्येत । न एषः दोषः । उक्तम् एतत् यत्रोत्सर्गापवादम् विभाषा तत्र अपवादेन मुक्ते उत्सर्गः न भवति इति । अथ वा ङीषः आदेशः ङीप् करिष्यते । तत् तर्हि ङीषः ग्रहणम् कर्तव्यम् । न कर्तव्यम् । प्रकृतम् अनुवर्तते । क्व प्रकृतम् । अन्यतः ङीष् इति । तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः । दिक्पूर्वपदात् इति एषा पञ्चमी ङीष् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति । प्रत्ययविधिः अयम् न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति । न अयम् प्रत्ययविधिः । विहितः प्रत्ययः प्रकृतः च अनुवर्तते।

KA II,224. 23-225.11 Ro III,518-519 dikpūrvapadāt ṅīṣaḥ anudāttatvam . dikpūrvapadāt ṅīṣaḥ anudāttatvam vaktavyam . prāṅmukhī pratyaṅmukḥī . ṅībvidhāne hi anyatra api ṅīṣviṣayān ṅīpprasaṅgaḥ . ṅībvidhāne hi sati anyatra api ṅīṣviṣayān ṅīp prasajyeta . prāggulphā pratyaglalāṭā . nanu ca ete viśeṣāḥ anuvarteran asaṃyogopadhāt bahvacaḥ na iti . yadi api ete viśeṣāḥ anuvarteran asaṃyogopadhāt bahvacaḥ na iti evam api dikpūrvapadāt ṅīpā mukte ṅīṣ prasajyeta . na eṣaḥ doṣaḥ . uktam etat yatrotsargāpavādam vibhāṣā tatra apavādena mukte utsargaḥ na bhavati iti . atha vā ṅīṣaḥ ādeśaḥ ṅīp kariṣyate . tat tarhi ṅīṣaḥ grahaṇam kartavyam . na kartavyam . prakṛtam anuvartate . kva prakṛtam . anyataḥ ṅīṣ iti . tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . dikpūrvapadāt iti eṣā pañcamī ṅīṣ iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti . pratyayavidhiḥ ayam na ca pratyayavidhau pañcamyaḥ prakalpikāḥ bhavanti . na ayam pratyayavidhiḥ . vihitaḥ pratyayaḥ prakṛtaḥ ca anuvartate.

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२२५।१३-२१ रो इइइ,५१९-५२१ जातेः इति उच्यते । का जातिः नाम । आकृतिग्रहणा जातिः लिङ्गानाम् च न सर्वभाक् सकृताख्यातनिर्ग्राह्या गोत्रम् च चरणैः सह । अपरः आह : प्रादुर्भावविनाशाभ्याम् सत्त्वस्य युगपत् गुणैः असर्वलिङ्गाम् बह्वर्थाम् ताम् जातिम् कवयः विदुः । गोत्रम् च चरणानि च । कः पुनः एतयोः जातिलक्षणयोः विशेषः । यथा पूर्वम् जातिलक्षणम् तथा कुमारीभार्यः इति भवितव्यम् । यथा उत्तरम् तथा कुमारभार्यः इति भवितव्यम् ।

KA II,225.13-21 Ro III,519-521 jāteḥ iti ucyate . kā jātiḥ nāma . ākṛtigrahaṇā jātiḥ liṅgānām ca na sarvabhāk sakṛtākhyātanirgrāhyā gotram ca caraṇaiḥ saha . aparaḥ āha : prādurbhāvavināśābhyām sattvasya yugapat guṇaiḥ asarvaliṅgām bahvarthām tām jātim kavayaḥ viduḥ . gotram ca caraṇāni ca . kaḥ punaḥ etayoḥ jātilakṣaṇayoḥ viśeṣaḥ . yathā pūrvam jātilakṣaṇam tathā kumārībhāryaḥ iti bhavitavyam . yathā uttaram tathā kumārabhāryaḥ iti bhavitavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२२५।२२-२६ रो इइइ,५२२ अथ अस्त्रीविषयात् इति कथम् इदम् विज्ञायते । समानायाम् आकृतौ यत् अस्त्रीविषयम् इति आहोस्वित् क्व चित् यत् अस्त्रीविषयम् इति । किम् च अतः । यदि विज्ञायते समानायाम् आकृतौ यत् अस्त्रीविषयम् इति द्रोणी कुटी पात्री इति न सिध्यति । अथ विज्ञायते क्व चित् यत् अस्त्रीविषयम् इति माला बलाका अत्र अपि प्राप्नोति । अस्तु क्व चित् यत् अस्त्रीविषयम् इति । कथम् माला बलाका इति । अजादिषु पाठः करिष्यते ।

KA II,225.22-26 Ro III,522 atha astrīviṣayāt iti katham idam vijñāyate . samānāyām ākṛtau yat astrīviṣayam iti āhosvit kva cit yat astrīviṣayam iti . kim ca ataḥ . yadi vijñāyate samānāyām ākṛtau yat astrīviṣayam iti droṇī kuṭī pātrī iti na sidhyati . atha vijñāyate kva cit yat astrīviṣayam iti mālā balākā atra api prāpnoti . astu kva cit yat astrīviṣayam iti . katham mālā balākā iti . ajādiṣu pāṭhaḥ kariṣyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२२५।२७-२२६।६ रो इइइ,५२२-५२३ अयोपधात् इति किमर्थम् । इभ्या क्षत्रिया । अत्यल्पम् इदम् उच्यते अयोपधात् इति । अकोपधात् इति अपि वक्तव्यम् इह अपि यथा : स्यात् । चटका मूषिका इति । यदि अकोपधात् इति उच्यते काकी कोकी शुकी इति न सिध्यति । अस्तु तर्हि अयोपधात् इति एव । कथम् चटका मूषिका इति । अजादिषु पाठः कर्तव्यः ।

KA II,225.27-226.6 Ro III,522-523 ayopadhāt iti kimartham . ibhyā kṣatriyā . atyalpam idam ucyate ayopadhāt iti . akopadhāt iti api vaktavyam iha api yathā : syāt . caṭakā mūṣikā iti . yadi akopadhāt iti ucyate kākī kokī śukī iti na sidhyati . astu tarhi ayopadhāt iti eva . katham caṭakā mūṣikā iti . ajādiṣu pāṭhaḥ kartavyaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२२६।८-१९ रो इइइ,५२३ सदक्काण्डप्रान्तशतैकेभ्यः पुष्पात् प्रतिषेधः । सदक्काण्डप्रान्तशतैकेभ्यः पुष्पात् प्रतिषेधः वक्तव्यः । सत्पुष्पा प्राक्पुष्पा काण्डपुष्पा प्रान्तपुष्पा शतपुष्पा अकपुष्पा । सम्भस्त्राजिनशणपिण्डेभ्यः फलात् । सम्भस्त्रात्जिनशणपिण्डेभ्यः फलात् प्रतिषेधः वक्तव्यः । सम् । सम्फला । सम् । भस्त्रा । भस्त्राफला । भस्त्रा । अजिन । अजिनफला । अजिन । पिण्ड । पिण्डफला । पिण्ड । शण । शणफला । शण । श्वेतात् च इति वक्तव्यम् । श्वेतफला । त्रेः च । त्रेः च प्रतिषेधः वक्तव्यः । त्रिफला । मुलात् नञः ।

KA II,226.8-19 Ro III,523 sadakkāṇḍaprāntaśataikebhyaḥ puṣpāt pratiṣedhaḥ . sadakkāṇḍaprāntaśataikebhyaḥ puṣpāt pratiṣedhaḥ vaktavyaḥ . satpuṣpā prākpuṣpā kāṇḍapuṣpā prāntapuṣpā śatapuṣpā akapuṣpā . sambhastrājinaśaṇapiṇḍebhyaḥ phalāt . sambhastrātjinaśaṇapiṇḍebhyaḥ phalāt pratiṣedhaḥ vaktavyaḥ . sam . samphalā . sam . bhastrā . bhastrāphalā . bhastrā . ajina . ajinaphalā . ajina . piṇḍa . piṇḍaphalā . piṇḍa . śaṇa . śaṇaphalā . śaṇa . śvetāt ca iti vaktavyam . śvetaphalā . treḥ ca . treḥ ca pratiṣedhaḥ vaktavyaḥ . triphalā . mulāt nañaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२२६।१-२२७।२ रो इइइ,५२४ जातेः इति वर्तमाने पुनः जातिग्रहणम् किमर्थम् । अयोपधात् इति वर्तते । योपधात् अपि यथा स्यात् । औदमेयी । इतः मनुष्यजातेः इञः उपसङ्ख्यानम् । इतः मनुष्यजातेः इञः उपसङ्ख्यानम् कर्तव्यम् । सौतङ्गमी मौनिचिती ।

KA II,226.1-227.2 Ro III,524 jāteḥ iti vartamāne punaḥ jātigrahaṇam kimartham . ayopadhāt iti vartate . yopadhāt api yathā syāt . audameyī . itaḥ manuṣyajāteḥ iñaḥ upasaṅkhyānam . itaḥ manuṣyajāteḥ iñaḥ upasaṅkhyānam kartavyam . sautaṅgamī maunicitī .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२२७।४-१६ रो इइइ,५२४-५२५ किमर्थः ङकारः । विशेषणाऋथः । क्व विशेषणाऋथेन अर्थः । न ऊङ्धात्वोः इति । न ऊधात्वोः इति उच्यमाने यवाग्वा यवाग्वै इति अत्र अपि प्रसज्येत । अथ दीर्घोच्चारणम् किमर्थम् न ऊङ् उतः इति एव उच्येत । का रूपसिद्धिः : ब्रह्मबन्धूः , धीवबन्धूः इति । सवर्णदीर्घत्वेन सिद्धम् । न सिध्यति । गोस्त्रियोः उपसर्जनस्य इति ह्रस्वत्वम् प्रसज्येत । इह च ब्रह्मबन्धूछत्रम् ब्रह्मबन्धूच्छत्रम् षत्वतुकोः असिद्धः इति एकादेशस्य असिद्धत्वात् नित्यः तुक् प्रसज्येत । इह च ब्रह्मबन्धूः , धीवबन्धूः नद्यृतः कप् इति कप् प्रसज्येत । न एषः दोषः । यत् तावत् उच्यते ब्रह्मबन्धूः , धीवबन्धूः इति गोस्त्रियोः उपसर्जनस्य इति ह्रस्वत्वम् प्रसज्येत इति । उभयतः आश्रये न अन्तादिवत् । यत् अपि उच्यते ब्रह्मबन्धूछत्रम् ब्रह्मबन्धूच्छत्रम् षत्वतुकोः असिद्धः इति एकादेशस्य असिद्धत्वात् नित्यः तुक् प्रसज्येत इति । पदान्तपदाद्योः एकादेशः असिद्धः न च एषः पदान्तपदाद्योः एकादेशः । यत् अपि उच्यते इह च ब्रह्मबन्धूः धीवबन्धूः नद्यृतः कप् इति कप् प्रसज्येत इति । नद्यन्तानाम् यः बहुव्रीहिः इति एवम् तत् न च एषः नद्यन्तानाम् यः बहुव्रीहिः । शेषलक्षणः तर्हि कप् प्राप्नोति । तस्मात् दीर्घोच्चारणम् कर्तव्यम् ।

KA II,227.4-16 Ro III,524-525 kimarthaḥ ṅakāraḥ . viśeṣaṇāṛthaḥ . kva viśeṣaṇāṛthena arthaḥ . na ūṅdhātvoḥ iti . na ūdhātvoḥ iti ucyamāne yavāgvā yavāgvai iti atra api prasajyeta . atha dīrghoccāraṇam kimartham na ūṅ utaḥ iti eva ucyeta . kā rūpasiddhiḥ : brahmabandhūḥ , dhīvabandhūḥ iti . savarṇadīrghatvena siddham . na sidhyati . gostriyoḥ upasarjanasya iti hrasvatvam prasajyeta . iha ca brahmabandhūchatram brahmabandhūcchatram ṣatvatukoḥ asiddhaḥ iti ekādeśasya asiddhatvāt nityaḥ tuk prasajyeta . iha ca brahmabandhūḥ , dhīvabandhūḥ nadyṛtaḥ kap iti kap prasajyeta . na eṣaḥ doṣaḥ . yat tāvat ucyate brahmabandhūḥ , dhīvabandhūḥ iti gostriyoḥ upasarjanasya iti hrasvatvam prasajyeta iti . ubhayataḥ āśraye na antādivat . yat api ucyate brahmabandhūchatram brahmabandhūcchatram ṣatvatukoḥ asiddhaḥ iti ekādeśasya asiddhatvāt nityaḥ tuk prasajyeta iti . padāntapadādyoḥ ekādeśaḥ asiddhaḥ na ca eṣaḥ padāntapadādyoḥ ekādeśaḥ . yat api ucyate iha ca brahmabandhūḥ dhīvabandhūḥ nadyṛtaḥ kap iti kap prasajyeta iti . nadyantānām yaḥ bahuvrīhiḥ iti evam tat na ca eṣaḥ nadyantānām yaḥ bahuvrīhiḥ . śeṣalakṣaṇaḥ tarhi kap prāpnoti . tasmāt dīrghoccāraṇam kartavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२२७।१७-१९ रो इइइ,५२५ ऊङ्प्रकरणे अप्राणिजातेः च अरज्ज्वादीनाम् । ऊङ्प्रकरणे अप्राणिजातेः च अरज्ज्वादीनाम् इति वक्तव्यम् । अलाबूः कर्कन्धूः । अप्राणिजातेः इति किमर्थम् । कृकवाकुः । अरज्ज्वादीनाम् इति किमर्थम् । रज्जुः हनुः ।

KA II,227.17-19 Ro III,525 ūṅprakaraṇe aprāṇijāteḥ ca arajjvādīnām . ūṅprakaraṇe aprāṇijāteḥ ca arajjvādīnām iti vaktavyam . alābūḥ karkandhūḥ . aprāṇijāteḥ iti kimartham . kṛkavākuḥ . arajjvādīnām iti kimartham . rajjuḥ hanuḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२२७।२१ रो इइइ,५२६ सहितसह्हाभ्याम् च इति वक्तव्यम् । सहितोरूः सहोरूः ।

KA II,227.21 Ro III,526 sahitasahhābhyām ca iti vaktavyam . sahitorūḥ sahorūḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२२७।२३-२४ रो इइइ,५२६ अत्यल्पम् इदम् उच्यते कद्रुकमण्डव्ल्वोः इति । कद्रुकमण्डलुगुग्गुलुमधुजतुपतयालूणाम् इति वक्तव्यम् : कद्रूः , कमण्डलूः , गुग्गुलूः , मधूः , जतूः , पतयालूः ।

KA II,227.23-24 Ro III,526 atyalpam idam ucyate kadrukamaṇḍavlvoḥ iti . kadrukamaṇḍaluguggulumadhujatupatayālūṇām iti vaktavyam : kadrūḥ , kamaṇḍalūḥ , guggulūḥ , madhūḥ , jatūḥ , patayālūḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२२८।२-६ रो इइइ,५२६ षात् च यञः चाप् । षात् च यञः चाप् वक्तव्यः । शार्कराक्ष्या पौतिमाष्या । तत्र अयम् अपि अर्थः । गौकक्ष्यशब्दः क्रौड्यादिषु पठ्यते । सः न पठितव्यः भवति । यदि न पठ्यते गौक्षीपुत्रः इति सम्प्रसारणम् न प्राप्नोति । इष्टम् एव एतत् सङ्गृहीतम् । गौक्ष्यापुत्रः इति एव भवितव्यम् । एवम् हि सौनागाः पठन्ति । ष्यङः सम्प्रसारणे गौकक्ष्यायाः प्रतिषेधः इति ।

KA II,228.2-6 Ro III,526 ṣāt ca yañaḥ cāp . ṣāt ca yañaḥ cāp vaktavyaḥ . śārkarākṣyā pautimāṣyā . tatra ayam api arthaḥ . gaukakṣyaśabdaḥ krauḍyādiṣu paṭhyate . saḥ na paṭhitavyaḥ bhavati . yadi na paṭhyate gaukṣīputraḥ iti samprasāraṇam na prāpnoti . iṣṭam eva etat saṅgṛhītam . gaukṣyāputraḥ iti eva bhavitavyam . evam hi saunāgāḥ paṭhanti . ṣyaṅaḥ samprasāraṇe gaukakṣyāyāḥ pratiṣedhaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२२८।८-२४ रो इइइ,५२७-५२८ अनः उपधालोपिनः ऊधसः ङीष् पूर्वविप्रतिषिद्धम् । अनः उपधालोपिनः अन्यतरस्याम् इति एतस्मात् ऊधसः ङीष् भवति पूर्वविप्रतिषेधेन । अतः उपधालोपिनः अन्यतरस्याम् इति एतस्य अवकाशः बहुराज्ञी बहुतक्ष्णी । ऊधसः ङीष् भवति इति अस्य अवकाशः । विभाषा ङीप् । यदा न ङीप् सः अवकाशः । ङीप्प्रसङ्गे उभयम् प्राप्नोति । ऊधसः ङीष् भवति पूर्वविप्रतिषेधेन । सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः । न वक्तव्यः । अनः उपधालोपिनः अन्यतरस्याम् इति अत्र ऊधसः ङीष् भवति इति एतत् अनुवर्तिष्यते । आवट्यात् यञः ष्फः चापः । आवट्यात् यञः ष्फः चापः भवति पूर्वविप्रतिषेधेन । आवट्यात् यञः चापः अवकाशः उदीचाम् । आवट्या । ष्फस्य अवकाशः अन्यानि यञन्तानि । गार्ग्यायणी वात्स्यायनी । आवट्यशब्दात् प्राचाम् उभयम् प्राप्नोति । आवट्यायनी । ष्फः भवति पूर्वविप्रतिषेधेन । आवट्यग्रहणेन न अर्थः । यञः ष्फः चापः इति एव । इदम् अपि सिद्धम् भवति । शार्कराक्ष्यायणी पौतिमाष्यायणी । यञ्ग्रहणेन न अर्थः । ष्फः चापः इति एव । गौकक्ष्यशब्दः क्रौड्यादिषु पठ्यते । इदम् अपि सिद्धम् भवति गौकक्ष्यायणी । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । एवम् वक्ष्यामि । प्राचाम् ष्फः तद्धितः सर्वत्र । क्व सर्वत्र । यत्र ष्फः च अन्यः च प्राप्नोति ष्फः एव तत्र भवति इति । ततः लोहिताइद्कतन्तेभ्यः सर्वत्र । क्व सर्वत्र । प्राचाम् च उदीचाम् च ।

KA II,228.8-24 Ro III,527-528 anaḥ upadhālopinaḥ ūdhasaḥ ṅīṣ pūrvavipratiṣiddham . anaḥ upadhālopinaḥ anyatarasyām iti etasmāt ūdhasaḥ ṅīṣ bhavati pūrvavipratiṣedhena . ataḥ upadhālopinaḥ anyatarasyām iti etasya avakāśaḥ bahurājñī bahutakṣṇī . ūdhasaḥ ṅīṣ bhavati iti asya avakāśaḥ . vibhāṣā ṅīp . yadā na ṅīp saḥ avakāśaḥ . ṅīpprasaṅge ubhayam prāpnoti . ūdhasaḥ ṅīṣ bhavati pūrvavipratiṣedhena . saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . anaḥ upadhālopinaḥ anyatarasyām iti atra ūdhasaḥ ṅīṣ bhavati iti etat anuvartiṣyate . āvaṭyāt yañaḥ ṣphaḥ cāpaḥ . āvaṭyāt yañaḥ ṣphaḥ cāpaḥ bhavati pūrvavipratiṣedhena . āvaṭyāt yañaḥ cāpaḥ avakāśaḥ udīcām . āvaṭyā . ṣphasya avakāśaḥ anyāni yañantāni . gārgyāyaṇī vātsyāyanī . āvaṭyaśabdāt prācām ubhayam prāpnoti . āvaṭyāyanī . ṣphaḥ bhavati pūrvavipratiṣedhena . āvaṭyagrahaṇena na arthaḥ . yañaḥ ṣphaḥ cāpaḥ iti eva . idam api siddham bhavati . śārkarākṣyāyaṇī pautimāṣyāyaṇī . yañgrahaṇena na arthaḥ . ṣphaḥ cāpaḥ iti eva . gaukakṣyaśabdaḥ krauḍyādiṣu paṭhyate . idam api siddham bhavati gaukakṣyāyaṇī . tat tarhi vaktavyam . na vaktavyam . evam vakṣyāmi . prācām ṣphaḥ taddhitaḥ sarvatra . kva sarvatra . yatra ṣphaḥ ca anyaḥ ca prāpnoti ṣphaḥ eva tatra bhavati iti . tataḥ lohitāidkatantebhyaḥ sarvatra . kva sarvatra . prācām ca udīcām ca .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२२९।२-२२ रो इइइ,५२८-५३० इह कस्मात् न भवति । दाक्षी प्लाक्षी इति । अतिशायिकेन अयम् तमशब्देन निर्देशः क्रियते । सः च त्रिप्रभृतिषु वर्तते । त्रिप्रभृतीनाम् अभावात् । यदि एवम् प्रकर्षे चेत् तमम् कृत्वा दाक्ष्याः न उपोत्तमम् गुरु आम्विधिः केन ते न स्यात् प्रकर्षे यदि अयम् तमः । प्रकर्षे चेत् तमम् कृत्वा दाक्ष्याः न उपोत्तमम् गुरु इति उच्यते आम्विधिः केन तव न स्यात् । अव्ययघात् इति प्राप्नोति । प्रकर्षे यदि अयम् तमः । यदि अयम् तमः प्रकर्षे वर्तते । उद्गतस्य प्रकर्षः अयम् । गतशब्दः अत्र लुप्यते ।उद्गतस्य अयम् प्रकर्षः । गतशब्दस्य अत्र लोपः भवति । नाव्ययार्थप्रकर्षः अस्ति । धात्वर्थः अत्र प्रकृष्यते । नाव्ययस्य अर्थस्य प्रकर्षः । कस्य तर्हि । धात्वर्थस्य । उद्गतः अपेक्षते किम् चित् । त्रयाणाम् द्वौ किल उद्गतौ । अनुद्गतम् अपेक्ष्य उद्गतः इति एतत् भवति । त्रयाणाम् द्वौ किल उद्गतौ । त्रयाणाम् किल द्वौ उद्गतौ भवतः । चतुष्प्रभृतिकर्तव्यः वाराह्यायाम् न सिध्यति । चतुष्प्रभृतिषु ष्यङ् वक्तव्यः वाराह्यायाम् न सिध्यति । वाराह्यायाम् न प्राप्नोति । किम् कारणम् । चतुष्प्रभृतीनाम् अभावात् । भिद्यते अस्य स्वरः तेन विधिः च आमः न लक्ष्यते । भिद्यते खलु अस्य स्वरः तेन आतिशायिकेन शब्देन उत्तमस्य । विधिः च आमः न लक्ष्यते । विधिः च आमः न क्व चित् अपि लक्ष्यते । शब्दान्तरम् इदम् विध्यात् दृष्टम् अभ्यन्तरम् त्रिषु । एवम् तर्हि अन्यः अयम् आतिशायिकेन समानार्थः तमः त्रिप्रभृतिषु वर्तते ।

KA II,229.2-22 Ro III,528-530 iha kasmāt na bhavati . dākṣī plākṣī iti . atiśāyikena ayam tamaśabdena nirdeśaḥ kriyate . saḥ ca triprabhṛtiṣu vartate . triprabhṛtīnām abhāvāt . yadi evam prakarṣe cet tamam kṛtvā dākṣyāḥ na upottamam guru āmvidhiḥ kena te na syāt prakarṣe yadi ayam tamaḥ . prakarṣe cet tamam kṛtvā dākṣyāḥ na upottamam guru iti ucyate āmvidhiḥ kena tava na syāt . avyayaghāt iti prāpnoti . prakarṣe yadi ayam tamaḥ . yadi ayam tamaḥ prakarṣe vartate . udgatasya prakarṣaḥ ayam . gataśabdaḥ atra lupyate .udgatasya ayam prakarṣaḥ . gataśabdasya atra lopaḥ bhavati . nāvyayārthaprakarṣaḥ asti . dhātvarthaḥ atra prakṛṣyate . nāvyayasya arthasya prakarṣaḥ . kasya tarhi . dhātvarthasya . udgataḥ apekṣate kim cit . trayāṇām dvau kila udgatau . anudgatam apekṣya udgataḥ iti etat bhavati . trayāṇām dvau kila udgatau . trayāṇām kila dvau udgatau bhavataḥ . catuṣprabhṛtikartavyaḥ vārāhyāyām na sidhyati . catuṣprabhṛtiṣu ṣyaṅ vaktavyaḥ vārāhyāyām na sidhyati . vārāhyāyām na prāpnoti . kim kāraṇam . catuṣprabhṛtīnām abhāvāt . bhidyate asya svaraḥ tena vidhiḥ ca āmaḥ na lakṣyate . bhidyate khalu asya svaraḥ tena ātiśāyikena śabdena uttamasya . vidhiḥ ca āmaḥ na lakṣyate . vidhiḥ ca āmaḥ na kva cit api lakṣyate . śabdāntaram idam vidhyāt dṛṣṭam abhyantaram triṣu . evam tarhi anyaḥ ayam ātiśāyikena samānārthaḥ tamaḥ triprabhṛtiṣu vartate .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२२९।२३-२३३।१ रो इइइ, ५३०-५३८ किम् पुनः अयम् अणिञोः आदेशः आहोस्वित् अणिञ्भ्याम् परः । कः च अत्र विशेषः । ष्यङि अनादेशे यलोपवचनम् । ष्यङि अनादेशे यलोपः वक्तव्यः । औदमेघ्यायाः छात्राः औदमेघाः । द्विः अण्विधिः । द्विः च अण् विधेयः । औदमेघ्यायाः छात्राः औदमेघाः । औदमेघ्यानाम् सङ्घः औदमेघः । इञः इति अण् न प्राप्नोति । अस्तु तर्हि आदेशः । आदेशे नलोपवचनम् । यदि आदेशः नलोपः वक्तव्यः । औडुलोम्या शारलोम्या इति । ये च अभावकर्मणोः इति प्रकृतिभावः प्रसज्येत । न वा ष्यङः लोपनिमित्तत्वात् । न वा एषः दोषः । किम् कारणम् । ष्यङः लोपनिमित्तत्वात् । लोपनिमित्तः ष्यङ् । न अकृते लोपे ष्यङ् प्राप्नोति । किम् कारणम् । गुरूपोत्तमयोः इति उच्यते न च अकृते लोपे गुरूपोत्तमम् भवति । अथ वा पुनः अस्तु परः । ननु च उक्तम् ष्यङि अनादेशे यलोपवचनम् द्विः अण्विधिः इति । न एषः दोषः । यत् तावत् उच्यते यलोपवचनम् इति अदोषः एषः । किम् कारणम् । पुंवद्भावात् यजादौ तद्धिते । यजादौ तद्धिते पुंवद्भावः भविष्यति भस्य अढे तद्धिते पुंवत् भवति इति । अयम् तर्हि दोषः द्विः अण्विधिः इति । न एषः दोषः । सिद्धः च प्रत्ययविधौ । सः च सिद्धः प्रत्ययविधौ । उभयम् इदम् उक्तम् आदेशः परः इति च । किम् अत्र न्याय्यम् । अदेशः इति एतत् न्याय्यम् । कुतः एतत् । एवम् च एव हि कृत्वा आचार्येण सूत्रम् पठितम् षष्ठ्या च निर्देशः कृतः । अतः एषः पक्षः निर्दोषः । ननु च परस्मिन् अपि सति ये दोषाः ते परिहृताः । पुंवद्भावेन यलोपः परिहृतः । स च पुंवद्भावः अडे भवति । तत्र औदमेघेयः न सिध्यति । अनुबन्धौ त्वया कार्यौ । यस्य आदेशः अनुबन्धौ तेन कर्तव्यौ । एकः सामान्यग्रहणाऋथः अपरः सामान्यग्रहणाविघातार्थः । क्व सामान्यग्रहणाऋथेन अर्थः । यङः चाप् इति । अथ सामान्यग्रहणाविघातार्थेन क्व अर्थः । अत्र एव । किम् प्रयोजनम् । चापर्थम् । चाप् यथा स्यात् । तव कथम् चाप् । टाब्विधिः मम । टापा मम सिद्धम् । ननु च मम अपि टापा सिद्धम् । न सिध्यति । अणः इति इञः इति च ईकारः प्राप्नोति । न एषः दोषः । न एवम् विज्ञायते अणन्तात् अकारान्तात् इञन्तात् इकारान्तात् इति । कथम् तर्हि । अण् यः अकारः इञ् यः इकारः इति । स्वरार्थः तर्हि त्वया चाप् वक्तव्यः । ञ्निति इति आद्युदात्तत्वम् मा भूत् चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् इति । तव अपि तर्हि ष्यङा उक्तत्वात् स्त्रीत्वस्य टाप् न प्राप्नोति । उक्ते अपि हि भवन्ति एते । उक्ते अपि हि स्त्रीत्वे भवन्ति एते टाबादयः । उक्तम् एतत् स्वाऋथिकाः टाबादयः इति । मम अपि तर्हि सानुबन्धकस्य आदेशः इत्कार्यम् न इति । तेन ञित् न भविष्यति । अस्थानिवत्त्वे दोषः ते वृद्धिः अत्र न सिध्यति । अस्थानिवत्त्वे दोषः । वृद्धिः ते न प्राप्नोति । औडुलोम्या शारलोम्या । न च इदानीम् अर्धजरतीयम् लभ्यम् वृद्धिः मे भविष्यति स्वरः न इति । तत् यथा अर्धम् जरत्याः कामयते अर्धम् न इति । त्वया अपि अत्र विशेषार्थम् कर्तव्यम् स्यात् विशेषणम् । त्वया अपि अत्र विशेषार्थः अनुबन्धः कर्तव्यः । क्व विशेषणार्थेन अर्थः । ष्यङः सम्प्रसारणम् इति । अक्रिया एव विशेषः अत्र सानुबन्धः विशेषवान् । अक्रिया एव मम विशेषः सानुबन्धः तु विशेषवान् । पाश्यायाम् ते कथम् न स्यात् । पाश्यापुत्रः इति अत्र कस्मात् न भवति । एकः मे स्यात् विशेषणम् । एकः मम विशेषणाऋथः । त्वया पुनः द्वौ कर्तव्यौ । अथ एकस्मिन् अपि सति कः करिष्यते । किम् च अतः । अन्यस्मिन् सूत्रभेदः स्यात् । यदि एताभ्याम् अन्यः क्रियते सूत्रभेदः कृतः भवति । षिति लिङ्गम् प्रसज्येत । अथ षित् क्रियते षितः इति ईकारः प्राप्नोति । ङिति चेक्रीयिते दोषः । अथ ङित् क्रियते चेक्रीयिते दोषः भवति । लोलूयापुत्रः लोलूयापतिः इति । व्यवधानात् न दुष्यति । अकारेण व्यवहितत्वात् न दोषः भवति । यः अनन्तरः न धातुः सः । धातोः इति वर्तते यः च अत्र अनन्तरः न असौ धातुः । यः धातुः सः अननन्तरः । यः च धातुः स असौ अनन्तरः । न चेत् उभयतः साम्यम् उभयत्र प्रसज्येत ।

KA II,229.23-233.1 Ro III, 530-538 kim punaḥ ayam aṇiñoḥ ādeśaḥ āhosvit aṇiñbhyām paraḥ . kaḥ ca atra viśeṣaḥ . ṣyaṅi anādeśe yalopavacanam . ṣyaṅi anādeśe yalopaḥ vaktavyaḥ . audameghyāyāḥ chātrāḥ audameghāḥ . dviḥ aṇvidhiḥ . dviḥ ca aṇ vidheyaḥ . audameghyāyāḥ chātrāḥ audameghāḥ . audameghyānām saṅghaḥ audameghaḥ . iñaḥ iti aṇ na prāpnoti . astu tarhi ādeśaḥ . ādeśe nalopavacanam . yadi ādeśaḥ nalopaḥ vaktavyaḥ . auḍulomyā śāralomyā iti . ye ca abhāvakarmaṇoḥ iti prakṛtibhāvaḥ prasajyeta . na vā ṣyaṅaḥ lopanimittatvāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . ṣyaṅaḥ lopanimittatvāt . lopanimittaḥ ṣyaṅ . na akṛte lope ṣyaṅ prāpnoti . kim kāraṇam . gurūpottamayoḥ iti ucyate na ca akṛte lope gurūpottamam bhavati . atha vā punaḥ astu paraḥ . nanu ca uktam ṣyaṅi anādeśe yalopavacanam dviḥ aṇvidhiḥ iti . na eṣaḥ doṣaḥ . yat tāvat ucyate yalopavacanam iti adoṣaḥ eṣaḥ . kim kāraṇam . puṃvadbhāvāt yajādau taddhite . yajādau taddhite puṃvadbhāvaḥ bhaviṣyati bhasya aḍhe taddhite puṃvat bhavati iti . ayam tarhi doṣaḥ dviḥ aṇvidhiḥ iti . na eṣaḥ doṣaḥ . siddhaḥ ca pratyayavidhau . saḥ ca siddhaḥ pratyayavidhau . ubhayam idam uktam ādeśaḥ paraḥ iti ca . kim atra nyāyyam . adeśaḥ iti etat nyāyyam . kutaḥ etat . evam ca eva hi kṛtvā ācāryeṇa sūtram paṭhitam ṣaṣṭhyā ca nirdeśaḥ kṛtaḥ . ataḥ eṣaḥ pakṣaḥ nirdoṣaḥ . nanu ca parasmin api sati ye doṣāḥ te parihṛtāḥ . puṃvadbhāvena yalopaḥ parihṛtaḥ . sa ca puṃvadbhāvaḥ aḍe bhavati . tatra audamegheyaḥ na sidhyati . anubandhau tvayā kāryau . yasya ādeśaḥ anubandhau tena kartavyau . ekaḥ sāmānyagrahaṇāṛthaḥ aparaḥ sāmānyagrahaṇāvighātārthaḥ . kva sāmānyagrahaṇāṛthena arthaḥ . yaṅaḥ cāp iti . atha sāmānyagrahaṇāvighātārthena kva arthaḥ . atra eva . kim prayojanam . cāpartham . cāp yathā syāt . tava katham cāp . ṭābvidhiḥ mama . ṭāpā mama siddham . nanu ca mama api ṭāpā siddham . na sidhyati . aṇaḥ iti iñaḥ iti ca īkāraḥ prāpnoti . na eṣaḥ doṣaḥ . na evam vijñāyate aṇantāt akārāntāt iñantāt ikārāntāt iti . katham tarhi . aṇ yaḥ akāraḥ iñ yaḥ ikāraḥ iti . svarārthaḥ tarhi tvayā cāp vaktavyaḥ . ñniti iti ādyudāttatvam mā bhūt citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt iti . tava api tarhi ṣyaṅā uktatvāt strītvasya ṭāp na prāpnoti . ukte api hi bhavanti ete . ukte api hi strītve bhavanti ete ṭābādayaḥ . uktam etat svāṛthikāḥ ṭābādayaḥ iti . mama api tarhi sānubandhakasya ādeśaḥ itkāryam na iti . tena ñit na bhaviṣyati . asthānivattve doṣaḥ te vṛddhiḥ atra na sidhyati . asthānivattve doṣaḥ . vṛddhiḥ te na prāpnoti . auḍulomyā śāralomyā . na ca idānīm ardhajaratīyam labhyam vṛddhiḥ me bhaviṣyati svaraḥ na iti . tat yathā ardham jaratyāḥ kāmayate ardham na iti . tvayā api atra viśeṣārtham kartavyam syāt viśeṣaṇam . tvayā api atra viśeṣārthaḥ anubandhaḥ kartavyaḥ . kva viśeṣaṇārthena arthaḥ . ṣyaṅaḥ samprasāraṇam iti . akriyā eva viśeṣaḥ atra sānubandhaḥ viśeṣavān . akriyā eva mama viśeṣaḥ sānubandhaḥ tu viśeṣavān . pāśyāyām te katham na syāt . pāśyāputraḥ iti atra kasmāt na bhavati . ekaḥ me syāt viśeṣaṇam . ekaḥ mama viśeṣaṇāṛthaḥ . tvayā punaḥ dvau kartavyau . atha ekasmin api sati kaḥ kariṣyate . kim ca ataḥ . anyasmin sūtrabhedaḥ syāt . yadi etābhyām anyaḥ kriyate sūtrabhedaḥ kṛtaḥ bhavati . ṣiti liṅgam prasajyeta . atha ṣit kriyate ṣitaḥ iti īkāraḥ prāpnoti . ṅiti cekrīyite doṣaḥ . atha ṅit kriyate cekrīyite doṣaḥ bhavati . lolūyāputraḥ lolūyāpatiḥ iti . vyavadhānāt na duṣyati . akāreṇa vyavahitatvāt na doṣaḥ bhavati . yaḥ anantaraḥ na dhātuḥ saḥ . dhātoḥ iti vartate yaḥ ca atra anantaraḥ na asau dhātuḥ . yaḥ dhātuḥ saḥ ananantaraḥ . yaḥ ca dhātuḥ sa asau anantaraḥ . na cet ubhayataḥ sāmyam ubhayatra prasajyeta .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२३३।३-२२ रो इइइ,५३८-५४० किमर्थम् इदम् उच्यते । गोत्रावयवात् अगोत्रार्थम् । गोत्रावयवात् इति उच्यते । अगोत्रार्थः अयम् आरम्भः । गोत्रावयवात् अगोत्रार्थम् इति चेत् तत् अनिष्टम् । गोत्रावयवात् अगोत्रार्थम् इति चेत् तत् अनिष्टम् प्राप्नोति । इह अपि प्राप्नोति आहिच्छत्री कान्यकुब्जी । एवम् तर्हि गोत्रात् एव गोत्रावयवात् । गोत्रात् इति चेत् वचनानर्थक्यम् । गोत्रात् इति चेत् वचनम् अनर्थकम् । सिद्धम् गोत्रे पुर्वेण एव । इदम् तर्हि प्रयोजनम् । गुरूपोत्तमयोः इति उच्यते । अगुरूपोत्तमाऋथः अयम् आरम्भः । अगुरूपोत्तमाऋथम् इति चेत् सर्वेषाम् अवयवत्वात् सर्वप्रसङ्गः । अगुरूपोत्तमाऋथम् इति चेत् सर्वेषाम् अवयवत्वात् सर्वत्र प्राप्नोति : अष्टाशीतिः सहस्राणि ऊर्ध्वरेतसाम् ऋषीणाम् बभूवुः । तत्र अगस्त्याष्टमैः ऋषिभिः प्रजनः अभ्युपगतः । तत्रभवताम् यत् अपत्यम् तानि गोत्राणि । अतः अन्ये गोत्रावयवाः । तत्र उत्पत्तिः प्राप्नोति । तत् च अनिष्टम् । तस्मात् न अर्थः अनेन योगेन । कथम् येभ्यः अगुरूपोत्तमेभ्यः इष्यते । सिद्धम् तु रौढ्यादिषु उपसङ्ख्यानात् । सिद्धम् एतत् । कथम् । रौढ्यादिषु उपसङ्ख्यानात् । रौढ्यादिषु उपसङ्ख्यानम् कर्तव्यम् । के पुनः रौढ्यादयः । ये क्रौड्यादयः । भारद्वाजीयाः पठन्ति सिद्धम् तु कुलाख्येभ्यः लोके गोत्राभिमताभ्यः इति । सिद्धम् एतत् । कथम् । कुलाख्याः लोके गोत्रावयवाः इति उच्यन्ते । अथ वा गोत्रावयवः कः भवतुम् अर्हति । गोत्रात् अवयुतः । कः च गोत्रात् अवयुतः । यः अनन्तरः । दैवदत्त्या याज्ञदत्त्या इति ।

KA II,233.3-22 Ro III,538-540 kimartham idam ucyate . gotrāvayavāt agotrārtham . gotrāvayavāt iti ucyate . agotrārthaḥ ayam ārambhaḥ . gotrāvayavāt agotrārtham iti cet tat aniṣṭam . gotrāvayavāt agotrārtham iti cet tat aniṣṭam prāpnoti . iha api prāpnoti āhicchatrī kānyakubjī . evam tarhi gotrāt eva gotrāvayavāt . gotrāt iti cet vacanānarthakyam . gotrāt iti cet vacanam anarthakam . siddham gotre purveṇa eva . idam tarhi prayojanam . gurūpottamayoḥ iti ucyate . agurūpottamāṛthaḥ ayam ārambhaḥ . agurūpottamāṛtham iti cet sarveṣām avayavatvāt sarvaprasaṅgaḥ . agurūpottamāṛtham iti cet sarveṣām avayavatvāt sarvatra prāpnoti : aṣṭāśītiḥ sahasrāṇi ūrdhvaretasām ṛṣīṇām babhūvuḥ . tatra agastyāṣṭamaiḥ ṛṣibhiḥ prajanaḥ abhyupagataḥ . tatrabhavatām yat apatyam tāni gotrāṇi . ataḥ anye gotrāvayavāḥ . tatra utpattiḥ prāpnoti . tat ca aniṣṭam . tasmāt na arthaḥ anena yogena . katham yebhyaḥ agurūpottamebhyaḥ iṣyate . siddham tu rauḍhyādiṣu upasaṅkhyānāt . siddham etat . katham . rauḍhyādiṣu upasaṅkhyānāt . rauḍhyādiṣu upasaṅkhyānam kartavyam . ke punaḥ rauḍhyādayaḥ . ye krauḍyādayaḥ . bhāradvājīyāḥ paṭhanti siddham tu kulākhyebhyaḥ loke gotrābhimatābhyaḥ iti . siddham etat . katham . kulākhyāḥ loke gotrāvayavāḥ iti ucyante . atha vā gotrāvayavaḥ kaḥ bhavatum arhati . gotrāt avayutaḥ . kaḥ ca gotrāt avayutaḥ . yaḥ anantaraḥ . daivadattyā yājñadattyā iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२३४।२-२३ रो इइइ,५४१-५४३ समर्थवचनम् किमर्थम् । समर्थात् उत्पत्तिः यथा स्यात् : उपगोः अपत्यम् । असमर्थात् मा भूत् इति : कम्बलः उपगोः अपत्यम् देवदत्तस्य इति । समर्थवचनम् अनर्थकम् । न हि असमर्थेन अर्थाभिधानम् । समर्थवचनम् अनर्थकम् । किम् कारणम् । न हि असमर्थेन अर्थाभिधानम् । न हि असमर्थात् उत्पद्यमानेन प्रत्ययेन अर्थाभिधानम् स्यात् । अनभिधानात् ततः उत्पत्तिः न भविष्यति । अथ प्रथमवचनम् किमर्थम् । प्रथमवचनम् प्रकृतिविशेषणार्थम् । प्रथमात् प्रत्ययोत्पत्तिः यथा स्यात् । अप्रथमात् मा भूत् । उपगोः अपत्यम् इति अपत्यशब्दात् । प्रथमवचनम् अनर्थकम् । न हि अप्रथमेन अर्थाभिधानम् । प्रथमवचनम् अनर्थकम् । किम् कारणम् । न हि अप्रथमेन अर्थाभिधानम् । न हि अप्रथमात् उत्पद्यमानेन प्रत्ययेन अर्थाभिधानम् स्यात् । अनभिधानात् ततः उत्पत्तिः न भविष्यति । अथ वावचनम् किमर्थम् । वाक्यम् अपि यथात् स्यात् । उपगोः अपत्यम् इति । वावचने च उक्तम् । किम् उक्तम् । तत्र तावत् उक्तम् । वावचनानर्थक्यम् च तत्र नित्यत्वात् सनः इति । इह अपि वावचनम् अनर्थकम् । किम् कारणम् । तत्र नित्यत्वात् प्रत्ययस्य । इह द्वौ पक्षौ वृत्तिपक्षः च अवृत्तिपक्षः च । स्वभाव्तः च एतत् भवति वाक्यम् च वृत्तिः च । तत्र स्वाभाविके वृत्तिविषये नित्ये प्रत्यये प्राप्ते वावचनेन् किम् अन्यत् शक्यम् अभिसम्बन्धुम् अन्यत् अतः सञ्ज्ञायाः । न च सञ्ज्ञायाः भावाभावौ इष्येते । तस्मात् न अर्थः वावचनेन । अथ एतत् समर्थग्रहणम् न एव कर्तव्यम् । कर्तव्यम् च । किम् प्रयोजनम् । समर्थात् उत्पत्तिः यथा स्यात् । असमर्थात् मा भूत् । किम् पुनः समर्थम् । अर्थाभिधाने यत् समर्थम् । किम् पुनः तत् । कृतवर्णानुपूर्वीकम् पदम् । सौत्थितिः वैक्षमाणिः इति । अथ तत् वावचनम् न एव कर्तव्यम् । कर्तव्यम् च । किम् प्रयोजनम् । नित्याः शब्दाः । नित्येषु शब्देषु वाक्यस्य अनेन साधुत्वम् अन्वाख्यायते ।

KA II,234.2-23 Ro III,541-543 samarthavacanam kimartham . samarthāt utpattiḥ yathā syāt : upagoḥ apatyam . asamarthāt mā bhūt iti : kambalaḥ upagoḥ apatyam devadattasya iti . samarthavacanam anarthakam . na hi asamarthena arthābhidhānam . samarthavacanam anarthakam . kim kāraṇam . na hi asamarthena arthābhidhānam . na hi asamarthāt utpadyamānena pratyayena arthābhidhānam syāt . anabhidhānāt tataḥ utpattiḥ na bhaviṣyati . atha prathamavacanam kimartham . prathamavacanam prakṛtiviśeṣaṇārtham . prathamāt pratyayotpattiḥ yathā syāt . aprathamāt mā bhūt . upagoḥ apatyam iti apatyaśabdāt . prathamavacanam anarthakam . na hi aprathamena arthābhidhānam . prathamavacanam anarthakam . kim kāraṇam . na hi aprathamena arthābhidhānam . na hi aprathamāt utpadyamānena pratyayena arthābhidhānam syāt . anabhidhānāt tataḥ utpattiḥ na bhaviṣyati . atha vāvacanam kimartham . vākyam api yathāt syāt . upagoḥ apatyam iti . vāvacane ca uktam . kim uktam . tatra tāvat uktam . vāvacanānarthakyam ca tatra nityatvāt sanaḥ iti . iha api vāvacanam anarthakam . kim kāraṇam . tatra nityatvāt pratyayasya . iha dvau pakṣau vṛttipakṣaḥ ca avṛttipakṣaḥ ca . svabhāvtaḥ ca etat bhavati vākyam ca vṛttiḥ ca . tatra svābhāvike vṛttiviṣaye nitye pratyaye prāpte vāvacanen kim anyat śakyam abhisambandhum anyat ataḥ sañjñāyāḥ . na ca sañjñāyāḥ bhāvābhāvau iṣyete . tasmāt na arthaḥ vāvacanena . atha etat samarthagrahaṇam na eva kartavyam . kartavyam ca . kim prayojanam . samarthāt utpattiḥ yathā syāt . asamarthāt mā bhūt . kim punaḥ samartham . arthābhidhāne yat samartham . kim punaḥ tat . kṛtavarṇānupūrvīkam padam . sautthitiḥ vaikṣamāṇiḥ iti . atha tat vāvacanam na eva kartavyam . kartavyam ca . kim prayojanam . nityāḥ śabdāḥ . nityeṣu śabdeṣu vākyasya anena sādhutvam anvākhyāyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२३५।२-८ रो इइइ,५४४-५४५ अयुक्तः अयम् निर्देशः । न हि तत्र कः चित् दीव्यच्छब्दः पठ्यते । कः तर्हि । दीव्यतिशब्दः । कथम् तर्हि निर्देशः कर्तव्यः । प्राक् दीव्यतेः इति । सः तर्हि तथा निर्देशः कर्तव्यः प्राक् दीव्यतेः इति । न कर्तव्यः । दीव्यतिशब्दे दीव्यच्छब्दः अस्ति । तस्मात् एषा पञ्चमी । किम् पुनः कारणम् विकृतनिर्देशः क्रियते । एतत् ज्ञापयति आचार्यः । भवति एषा परिभाषा : एकदेशविकृतम् अनन्यवत् भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । एकदेशविक्र्टेषु उपसङ्ख्यानम् चोदितम् । तत् न कर्तव्यम् भवति । अथ वा प्राक्शब्दः अयम् दिक्शब्दः । दिक्शब्दैः च योगे पञ्चमी भवति । तत्र अप्रथमासमानाधिकरणे इति शता भविष्यति ।

KA II,235.2-8 Ro III,544-545 ayuktaḥ ayam nirdeśaḥ . na hi tatra kaḥ cit dīvyacchabdaḥ paṭhyate . kaḥ tarhi . dīvyatiśabdaḥ . katham tarhi nirdeśaḥ kartavyaḥ . prāk dīvyateḥ iti . saḥ tarhi tathā nirdeśaḥ kartavyaḥ prāk dīvyateḥ iti . na kartavyaḥ . dīvyatiśabde dīvyacchabdaḥ asti . tasmāt eṣā pañcamī . kim punaḥ kāraṇam vikṛtanirdeśaḥ kriyate . etat jñāpayati ācāryaḥ . bhavati eṣā paribhāṣā : ekadeśavikṛtam ananyavat bhavati iti . kim etasya jñāpane prayojanam . ekadeśavikrṭeṣu upasaṅkhyānam coditam . tat na kartavyam bhavati . atha vā prākśabdaḥ ayam dikśabdaḥ . dikśabdaiḥ ca yoge pañcamī bhavati . tatra aprathamāsamānādhikaraṇe iti śatā bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२३५।९-१८ रो इइइ,५४५ अथ प्राग्वचनम् किमर्थम् । प्राग्वचनम् सकृद्विधानार्थम् । प्राग्वचनम् क्रियते सकृद्विधानार्थम् । सकृद्विहितः प्रत्ययः विहितः यथा स्यात् । योगे योगे तस्य ग्रहणम् मा कार्षम् इति । न एतत् अस्ति प्रयोजनम् । अधिकारात् अपि एतत् सिद्धम् । अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति योगे योगे उपतिष्ठते । अधिकारात् सिद्धम् इति चेत् अपवादविषये अण्प्रसङ्गः । अधिकारात् सिद्धम् इति चेत् अपवादविषये अण् प्राप्नोति । अतः इञ् अण् च इति अण् अपि प्राप्नोति । तस्मात् प्राग्वचनम् । तस्मात् प्राग्वचनम् कर्तव्यम् ।

KA II,235.9-18 Ro III,545 atha prāgvacanam kimartham . prāgvacanam sakṛdvidhānārtham . prāgvacanam kriyate sakṛdvidhānārtham . sakṛdvihitaḥ pratyayaḥ vihitaḥ yathā syāt . yoge yoge tasya grahaṇam mā kārṣam iti . na etat asti prayojanam . adhikārāt api etat siddham . adhikāraḥ pratiyogam tasya anirdeśārthaḥ iti yoge yoge upatiṣṭhate . adhikārāt siddham iti cet apavādaviṣaye aṇprasaṅgaḥ . adhikārāt siddham iti cet apavādaviṣaye aṇ prāpnoti . ataḥ iñ aṇ ca iti aṇ api prāpnoti . tasmāt prāgvacanam . tasmāt prāgvacanam kartavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२३५।२३५।१८-२३६।८ रो इइइ,५४५-५४७ अथ क्रियमाणे अपि प्राग्वचने कथम् इदम् विज्ञायते । प्राक् दीव्यतः याः प्रकृतयः आहोस्वित् प्राक् दीव्यतः ये अर्थाः इति । किम् च अतः । यदि विज्ञायते प्राक् दीव्यतः याः प्रकृतयः इति सः एव दोषः अपवादविषये अण्प्रसङ्गः इति । अथ विज्ञायते प्राक् दीव्यतः ये अर्थाः इति न दोषः भवति । समाने अर्थे प्रकृतिविशेषात् उत्पद्यमानः इञ् अणम् भाधते । यथा न दोषः तथा अस्तु । प्राक् दीव्यतः ये अर्थाः इति विज्ञायते । कुतः एतत् । तथा हि अयम् प्राधान्येन अर्थम् प्रतिनिर्दिशति । इतरथा बह्व्यः प्रकृतयः पठ्यन्ते । ततः याम् काम् चित् एवम् निमित्तत्वेन उपाददीत । अथ वा पुनः अस्तु प्राक् दीव्यतः याः प्रकृतयः इति । ननु च उक्तम् अपवादविषये अण्प्रसङ्गः इति । न वा क्व चित् वावचनात् । न वा एषः दोषः । किम् कारणम् । क्व चित् वावचनात् । यत् अयम् वावचनम् करोति पीलायाः वा उदश्वितः अन्यतरस्याम् इति तत् ज्ञापयति आचार्यः न अपवादविषये अण् भवति इति । यदि एतत् ज्ञाप्यते न अर्थः प्राग्वचनेन । अधिकारात् सिद्धम् । ननु च उक्तम् अधिकारात् सिद्धम् इति चेत् अपवादविषये अण्प्रसङ्गः इति । न एषः दोषः । परिहृतम् एतत् न वा क्व चित् वावचनात् इति । किम् पुनः कारणम् इयान् अवधिः गृह्यते । न प्राक् ठकः इति एव उच्येत । एतत् ज्ञापयति अर्थेषु अयम् भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । प्रकृतिविशेषात् उपद्यमानः इञ् अणम् बाधते ।

KA II,235.235.18-236.8 Ro III,545-547 atha kriyamāṇe api prāgvacane katham idam vijñāyate . prāk dīvyataḥ yāḥ prakṛtayaḥ āhosvit prāk dīvyataḥ ye arthāḥ iti . kim ca ataḥ . yadi vijñāyate prāk dīvyataḥ yāḥ prakṛtayaḥ iti saḥ eva doṣaḥ apavādaviṣaye aṇprasaṅgaḥ iti . atha vijñāyate prāk dīvyataḥ ye arthāḥ iti na doṣaḥ bhavati . samāne arthe prakṛtiviśeṣāt utpadyamānaḥ iñ aṇam bhādhate . yathā na doṣaḥ tathā astu . prāk dīvyataḥ ye arthāḥ iti vijñāyate . kutaḥ etat . tathā hi ayam prādhānyena artham pratinirdiśati . itarathā bahvyaḥ prakṛtayaḥ paṭhyante . tataḥ yām kām cit evam nimittatvena upādadīta . atha vā punaḥ astu prāk dīvyataḥ yāḥ prakṛtayaḥ iti . nanu ca uktam apavādaviṣaye aṇprasaṅgaḥ iti . na vā kva cit vāvacanāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . kva cit vāvacanāt . yat ayam vāvacanam karoti pīlāyāḥ vā udaśvitaḥ anyatarasyām iti tat jñāpayati ācāryaḥ na apavādaviṣaye aṇ bhavati iti . yadi etat jñāpyate na arthaḥ prāgvacanena . adhikārāt siddham . nanu ca uktam adhikārāt siddham iti cet apavādaviṣaye aṇprasaṅgaḥ iti . na eṣaḥ doṣaḥ . parihṛtam etat na vā kva cit vāvacanāt iti . kim punaḥ kāraṇam iyān avadhiḥ gṛhyate . na prāk ṭhakaḥ iti eva ucyeta . etat jñāpayati artheṣu ayam bhavati iti . kim etasya jñāpane prayojanam . prakṛtiviśeṣāt upadyamānaḥ iñ aṇam bādhate .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२३६।१०-२३७।८ रो इइइ,५४७-५४९ वाङ्मतिपितृमताम् छन्दसि उपसङ्ख्यानम् । वाङ्मतिपितृमताम् छन्दसि उपसङ्ख्यानम् कर्तव्यम् । वाक् । वाच्यः । वाक् । मति । मात्यः । मति । पितृमत् । पैतृमत्यः । पृथिव्याः ञाञौ । पृथिव्याः ञाञौ वक्तव्यौ । पार्थिवा पार्थिवी । देवस्य यञञौ । देवस्य यञञौ वक्तव्यौ । दैव्यम् दैवम् ।बहिषः टिलोपः च यञ् च । बहिषः टिलोपः च यञ् च वक्तव्यः । बहिर्भवः बाह्यः । ईकक् च । ईकक् च वक्तव्यः । बाहीकः । ईकञ् छन्दसि । ईकञ् छन्दसि वक्तव्यः । बाहीकम् अस्तु भद्रम् वः । स्थाम्नः अकारः । स्थाम्नः अकारः वक्तव्यः । अश्वत्थामः । लोम्नः अपत्येषु बहुषु । लोम्नः अपत्येषु बहुषु अकारः वक्तव्यः ।उडुलोमाः शरलोमाः । बहुषु इति किमर्थम् । औडलोमिः शारलोमिः । सर्वत्र गोः अजादिप्रसङ्गे यत् । सर्वत्र गोः अजादिप्रसङ्गे यत् वक्तव्यः । गवि भवम् गव्यम् । गोः इदम् गव्यम् । गोः स्वम् गव्यम् । गौः देवता अस्य स्थालीपाकस्य गव्यः स्थालीपाकः ।

KA II,236.10-237.8 Ro III,547-549 vāṅmatipitṛmatām chandasi upasaṅkhyānam . vāṅmatipitṛmatām chandasi upasaṅkhyānam kartavyam . vāk . vācyaḥ . vāk . mati . mātyaḥ . mati . pitṛmat . paitṛmatyaḥ . pṛthivyāḥ ñāñau . pṛthivyāḥ ñāñau vaktavyau . pārthivā pārthivī . devasya yañañau . devasya yañañau vaktavyau . daivyam daivam .bahiṣaḥ ṭilopaḥ ca yañ ca . bahiṣaḥ ṭilopaḥ ca yañ ca vaktavyaḥ . bahirbhavaḥ bāhyaḥ . īkak ca . īkak ca vaktavyaḥ . bāhīkaḥ . īkañ chandasi . īkañ chandasi vaktavyaḥ . bāhīkam astu bhadram vaḥ . sthāmnaḥ akāraḥ . sthāmnaḥ akāraḥ vaktavyaḥ . aśvatthāmaḥ . lomnaḥ apatyeṣu bahuṣu . lomnaḥ apatyeṣu bahuṣu akāraḥ vaktavyaḥ .uḍulomāḥ śaralomāḥ . bahuṣu iti kimartham . auḍalomiḥ śāralomiḥ . sarvatra goḥ ajādiprasaṅge yat . sarvatra goḥ ajādiprasaṅge yat vaktavyaḥ . gavi bhavam gavyam . goḥ idam gavyam . goḥ svam gavyam . gauḥ devatā asya sthālīpākasya gavyaḥ sthālīpākaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२३७।९-१७ रो इइइ,५४९ ण्यादयः अर्थविशेषलक्षणात् अणपवादात् पूर्वविप्रतिषेद्धम् । ण्यादयः अर्थविशेषलक्षणात् अणपवादात् भवन्ति पूर्वविप्रतिषेधेन । ण्यादीनाम् अवकाशः । दितिः देवता अस्य दैत्यः । अथविशेषलक्षणस्य अणपवादस्य अवकाशः । दुलेः अपत्यम् दौलेयः बालेयः । इह उभयम् प्राप्नोति । दितेः अपत्यम् दैत्यः । अपरस्य अथविशेषलक्षणस्य अणपवादस्य अवकाशः । अचित्तहस्तिधेनोः ठक् । आपूपिकम् शाष्कुलिकम् । ण्यादीनाम् अवकाशः । बार्हस्पत्यम् प्राजापत्यम् । इह उभयम् प्राप्नोति । वनस्पतीनाम् समूहः वानस्पत्यम् । ण्यादयः भवन्ति पूर्वविप्रतिषेधेन । सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः । न वक्तव्यः । इष्टवाचीपरशब्दः । विप्रतिषेधे यत् इष्टम् तत् भवति । दितिवनस्पतिभ्याम् अपत्यसमूहयोः ।

KA II,237.9-17 Ro III,549 ṇyādayaḥ arthaviśeṣalakṣaṇāt aṇapavādāt pūrvavipratiṣeddham . ṇyādayaḥ arthaviśeṣalakṣaṇāt aṇapavādāt bhavanti pūrvavipratiṣedhena . ṇyādīnām avakāśaḥ . ditiḥ devatā asya daityaḥ . athaviśeṣalakṣaṇasya aṇapavādasya avakāśaḥ . duleḥ apatyam dauleyaḥ bāleyaḥ . iha ubhayam prāpnoti . diteḥ apatyam daityaḥ . aparasya athaviśeṣalakṣaṇasya aṇapavādasya avakāśaḥ . acittahastidhenoḥ ṭhak . āpūpikam śāṣkulikam . ṇyādīnām avakāśaḥ . bārhaspatyam prājāpatyam . iha ubhayam prāpnoti . vanaspatīnām samūhaḥ vānaspatyam . ṇyādayaḥ bhavanti pūrvavipratiṣedhena . saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . iṣṭavācīparaśabdaḥ . vipratiṣedhe yat iṣṭam tat bhavati . ditivanaspatibhyām apatyasamūhayoḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२३७।१९-२३ रो इइइ,५५० अञ्प्रकरणे ग्रीष्मात् अच्छन्दसि । अञ्प्रकरणे ग्रीष्मात् अच्छन्दसि इति वक्तव्यम् । ग्रैष्मम् । अच्छन्दसि इति किम् । त्रिष्टुप् ग्रैष्मी । यदि अच्छन्दसि इति उच्यते ग्रैष्मौ एतौ मासौ अत्र न प्राप्नोति । अच्छन्दसि इति उच्यते । न एतत् छन्दः समीक्षितम् काठकम् कापालकम् मौदकम् पप्पलादकम् वा । किम् तर्हि । प्रत्ययार्थविशेषणम् एत । न चेत् छन्दः प्रत्ययार्थः भवति इति ।

KA II,237.19-23 Ro III,550 añprakaraṇe grīṣmāt acchandasi . añprakaraṇe grīṣmāt acchandasi iti vaktavyam . graiṣmam . acchandasi iti kim . triṣṭup graiṣmī . yadi acchandasi iti ucyate graiṣmau etau māsau atra na prāpnoti . acchandasi iti ucyate . na etat chandaḥ samīkṣitam kāṭhakam kāpālakam maudakam pappalādakam vā . kim tarhi . pratyayārthaviśeṣaṇam eta . na cet chandaḥ pratyayārthaḥ bhavati iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२३८।२-१३ रो इइइ,५५०-५५१ किमर्थम् नञ्स्नञौ उच्येते न नञ् एव उच्येत । का रूपसिद्धिः : पौंस्नम् । पुंस् इति सकारान्तः नकारशब्दः च प्रत्ययः । न सिध्यति । संयोगान्तस्य लोपः इति लोपः प्राप्नोति । एवम् तर्हि न एव अर्थः नञा न अपि स्नञा । अञ् प्रकृतः । सः अनुवर्तिष्यते नकारः च आगमः वक्तव्यः । अथ नकारागमे सति किम् पूर्वान्तः करिष्यते आहोस्वित् परादिः । किम् च अतः । यदि पूर्वान्तः स्त्रैणाः बहुषु लोपः प्राप्नोति । स्त्रैणानाम् सङ्घः सङ्घाङ्कलक्षणेषु अञ्यञिञाम् अण् इति अण् प्राप्नोति । अथ परादिः पौंसम् सः एव दोषः संयोगान्तलोपः प्राप्नोति । अस्तु पूर्वान्तः । कथम् स्त्रैणाः स्त्रैणानाम् सङ्घः इति । उभयत्र लौकिकस्य गोत्रस्य ग्रहणम् । न च इदम् लौकिकम् गोत्रम् । ईकारः तर्हि प्राप्नोति । इष्टम् एव एतत् सङ्गृहीतम् । स्त्रैणी पौंसी इति एव भवितव्यम् । एवम् हि सौनागाः पठन्ति नञ्स्नञीकक्खुंस्तरुणतलुनानाम् उपसङ्ख्यानम् इति । टिलोपः तर्हि प्राप्नोति । नुग्वचनात् न भविष्यति । भवेत् इह नुग्वचनात् न स्यात् स्त्रैणम् इति । इह तु खलु पऊम्सम् इति नुग्वचनात् एव प्राप्नोति । तस्मात् नञ्स्नञौ वक्तव्यौ ।

KA II,238.2-13 Ro III,550-551 kimartham nañsnañau ucyete na nañ eva ucyeta . kā rūpasiddhiḥ : pauṃsnam . puṃs iti sakārāntaḥ nakāraśabdaḥ ca pratyayaḥ . na sidhyati . saṃyogāntasya lopaḥ iti lopaḥ prāpnoti . evam tarhi na eva arthaḥ nañā na api snañā . añ prakṛtaḥ . saḥ anuvartiṣyate nakāraḥ ca āgamaḥ vaktavyaḥ . atha nakārāgame sati kim pūrvāntaḥ kariṣyate āhosvit parādiḥ . kim ca ataḥ . yadi pūrvāntaḥ straiṇāḥ bahuṣu lopaḥ prāpnoti . straiṇānām saṅghaḥ saṅghāṅkalakṣaṇeṣu añyañiñām aṇ iti aṇ prāpnoti . atha parādiḥ pauṃsam saḥ eva doṣaḥ saṃyogāntalopaḥ prāpnoti . astu pūrvāntaḥ . katham straiṇāḥ straiṇānām saṅghaḥ iti . ubhayatra laukikasya gotrasya grahaṇam . na ca idam laukikam gotram . īkāraḥ tarhi prāpnoti . iṣṭam eva etat saṅgṛhītam . straiṇī pauṃsī iti eva bhavitavyam . evam hi saunāgāḥ paṭhanti nañsnañīkakkhuṃstaruṇatalunānām upasaṅkhyānam iti . ṭilopaḥ tarhi prāpnoti . nugvacanāt na bhaviṣyati . bhavet iha nugvacanāt na syāt straiṇam iti . iha tu khalu paūmsam iti nugvacanāt eva prāpnoti . tasmāt nañsnañau vaktavyau .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२३८।१४-२५ रो इइइ,५५२ अथ इमौ नञ्स्नञौ प्राक् भवनात् आहोस्वित् प्राक् वतेः । कः च अत्र विशेषः । नञ्स्नञौ भवनात् इति चेत् वत्यर्थे प्रतिषेधः । नञ्स्नञौ भवनात् इति चेत् वत्यर्थे प्रतिषेधः वक्तव्यः । स्त्रीवत् पुंवत् इति । किम् पुनः कारणम् न सिध्यति । इम नञ्स्नञौ प्राक् भवनात् इति उच्येते । तौ विशेषविहितौ सामान्यविहितम् वतिम् बाधेयाताम् । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । वतेः प्राक् इति वक्ष्यामि । वतेः प्राक् इति चेत् भावे उपसङ्ख्यानम् । वतेः प्राक् इति चेत् भावे उपसङ्ख्यानम् कर्तव्यम् । स्त्रीभावः स्त्रैणम् पुम्भावः पौंस्नम् इति । सूत्रम् च भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् नञ्स्नञौ भवनात् इति चेत् वत्यर्थे प्रतिषेधः इति । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति न वत्यर्थे नञ्स्नञौ भवतः इति यत् अयम् स्त्रियाः पुंवत् इति निर्देशम् करोति । एवम् अपि स्त्रीवत् इति न सिध्यति । योगापेक्षम् ज्ञापकम् ।

KA II,238.14-25 Ro III,552 atha imau nañsnañau prāk bhavanāt āhosvit prāk vateḥ . kaḥ ca atra viśeṣaḥ . nañsnañau bhavanāt iti cet vatyarthe pratiṣedhaḥ . nañsnañau bhavanāt iti cet vatyarthe pratiṣedhaḥ vaktavyaḥ . strīvat puṃvat iti . kim punaḥ kāraṇam na sidhyati . ima nañsnañau prāk bhavanāt iti ucyete . tau viśeṣavihitau sāmānyavihitam vatim bādheyātām . tat tarhi vaktavyam . na vaktavyam . vateḥ prāk iti vakṣyāmi . vateḥ prāk iti cet bhāve upasaṅkhyānam . vateḥ prāk iti cet bhāve upasaṅkhyānam kartavyam . strībhāvaḥ straiṇam pumbhāvaḥ pauṃsnam iti . sūtram ca bhidyate . yathānyāsam eva astu . nanu ca uktam nañsnañau bhavanāt iti cet vatyarthe pratiṣedhaḥ iti . na eṣaḥ doṣaḥ . ācāryapravṛttiḥ jñāpayati na vatyarthe nañsnañau bhavataḥ iti yat ayam striyāḥ puṃvat iti nirdeśam karoti . evam api strīvat iti na sidhyati . yogāpekṣam jñāpakam .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२३९।९-२४०।६ रो इइइ,५५४-५५६ द्विगोः लुकि तन्निमित्तग्रहणम् । द्विगोः लुकि तन्निमित्तग्रहणम् कर्तव्यम् । द्विगुनिमित्तम् यः तद्धितः तस्य लुक् भवति इति वक्तव्यम् । इह मा भूत् । पञ्चकपालस्य इदम् खण्डम् पाञ्चकपालम् इति । अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि । अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति वक्तव्यम् । किम् प्रयोजनम् । पञ्चसु कपालेषु संस्कृतः पञ्चकपालः । पन्चकपाल्याम् संस्क्र्तः इति अपि विगृह्य पञ्चकपालः इति एव यथा स्यात् । अथ क्रियमाणे अपि तन्निमित्तग्रहणे कथम् इदम् विज्ञायते । तस्य निमित्तम् तन्निमित्तम् तन्निमित्तात् इति आहोस्वित् सः निमित्तम् अस्य सः अयम् तन्निमित्तः तन्निमित्तात् इति । किम् च अतः । यदि विज्ञायते तस्य निमित्तम् तन्निमित्तम् तन्निमित्तात् इति क्रियमाणे अपि तन्निमित्तग्रहणे अत्र प्राप्नोति पञ्चकपालस्य इदम् खण्डम् इति । अथ विज्ञायते सः निमित्तम् अस्य सः अयम् तन्निमित्तः तन्निमित्तात् इति न दोषः भवति । यथ न दोषः तथा अस्तु । सः निमित्तम् अस्य सः अयम् तन्निमित्तः तन्निमित्तात् इति विज्ञायते । कुतः एतत् । यत् अयम् आह अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति । तत् तर्हि तन्निमित्तग्रहणम् कर्तव्यम् । न कर्तव्यम् । द्विगोः इति न एषा पञ्चमी । का तर्हि । सम्बन्धषष्ठी । द्विगोः तद्धितस्य लुक् भवति । किम् च द्विगोः तद्धितः । निमित्तम् । यस्मिन् द्विगुः इति एतत् भवति । कस्मिन् च एतत् भवति । प्रत्यये । इदम् तर्हि वक्तव्यम् अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति । एतत् च न वक्तव्यम् । इह अस्माभिः त्रैशब्द्यम् साध्यम् । पञ्चसु कपालेषु संस्कृतः पञ्चकपाल्याम् संस्कृतः पञ्चकपालः दशकपालः इति । तत्र द्वयोः शब्दयोः समानार्थयोः एकेन विग्रहः अपरस्मात् उत्पत्तिः भविष्यति अविरविकन्यायेन । तत् यथा । अवेः मांसम् इति विगृह्य अविकशब्दात् उत्पत्तिः भवति । एवम् पञ्चसु कपालेषु संस्कृतः इति विगृह्य पञ्चकपालः इति भविष्यति । पञ्चकपाल्याम् संस्कृतः इति विगृह्य वाक्यम् एव । त्रैशब्द्यम् च इह साध्यम् । तत् च एवम् सति सिद्धम् भवति ।

KA II,239.9-240.6 Ro III,554-556 dvigoḥ luki tannimittagrahaṇam . dvigoḥ luki tannimittagrahaṇam kartavyam . dvigunimittam yaḥ taddhitaḥ tasya luk bhavati iti vaktavyam . iha mā bhūt . pañcakapālasya idam khaṇḍam pāñcakapālam iti . arthaviśeṣāsampratyaye atannimittāt api . arthaviśeṣāsampratyaye atannimittāt api iti vaktavyam . kim prayojanam . pañcasu kapāleṣu saṃskṛtaḥ pañcakapālaḥ . pancakapālyām saṃskrtaḥ iti api vigṛhya pañcakapālaḥ iti eva yathā syāt . atha kriyamāṇe api tannimittagrahaṇe katham idam vijñāyate . tasya nimittam tannimittam tannimittāt iti āhosvit saḥ nimittam asya saḥ ayam tannimittaḥ tannimittāt iti . kim ca ataḥ . yadi vijñāyate tasya nimittam tannimittam tannimittāt iti kriyamāṇe api tannimittagrahaṇe atra prāpnoti pañcakapālasya idam khaṇḍam iti . atha vijñāyate saḥ nimittam asya saḥ ayam tannimittaḥ tannimittāt iti na doṣaḥ bhavati . yatha na doṣaḥ tathā astu . saḥ nimittam asya saḥ ayam tannimittaḥ tannimittāt iti vijñāyate . kutaḥ etat . yat ayam āha arthaviśeṣāsampratyaye atannimittāt api iti . tat tarhi tannimittagrahaṇam kartavyam . na kartavyam . dvigoḥ iti na eṣā pañcamī . kā tarhi . sambandhaṣaṣṭhī . dvigoḥ taddhitasya luk bhavati . kim ca dvigoḥ taddhitaḥ . nimittam . yasmin dviguḥ iti etat bhavati . kasmin ca etat bhavati . pratyaye . idam tarhi vaktavyam arthaviśeṣāsampratyaye atannimittāt api iti . etat ca na vaktavyam . iha asmābhiḥ traiśabdyam sādhyam . pañcasu kapāleṣu saṃskṛtaḥ pañcakapālyām saṃskṛtaḥ pañcakapālaḥ daśakapālaḥ iti . tatra dvayoḥ śabdayoḥ samānārthayoḥ ekena vigrahaḥ aparasmāt utpattiḥ bhaviṣyati aviravikanyāyena . tat yathā . aveḥ māṃsam iti vigṛhya avikaśabdāt utpattiḥ bhavati . evam pañcasu kapāleṣu saṃskṛtaḥ iti vigṛhya pañcakapālaḥ iti bhaviṣyati . pañcakapālyām saṃskṛtaḥ iti vigṛhya vākyam eva . traiśabdyam ca iha sādhyam . tat ca evam sati siddham bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२४०।८-२४१।३ रो इइइ,५५६-५५७ गोत्रे अलुक् अचि इति चेत् इतरेतराश्रयत्वात् अप्रसिद्धिः । गोत्रे अलुक् अचि इति चेत् इतरेतराश्रयत्वात् अप्रसिद्धिः । का इतरेतराश्रयता । अलुग्निमित्तः अजादिः अजादिनिमित्तः च अलुक् । तत् इतरेतराश्रयम् भवति । इतरेतराश्रयाणि च न प्रकल्पन्ते । विप्रतिषेधात् तु लुकः छविधानम् । विप्रतिषेधात् तु लुकः छः भविष्यति । लुकः अवकाशः गर्गाः वत्साः बिदाः उर्वाः । छस्य अवकाशः शालीयः मालीयः गार्गीयः वात्सीयः । इह उभयम् प्राप्नोति । गर्गाणाम् छात्राः गार्गीयाः वात्सीयः । छः भवति विप्रतिषेधेन । न एषः युक्तः विप्रतिषेधः । भूम्नि च लुक् प्राप्तः बाह्ये च अर्थे विधीयते अजादिः । बहिरङ्गम् अन्तरङ्गात् । विप्रतिषेधात् अयुक्तम् स्यात् । भूम्नि प्राप्तस्य लुकः यत् अजादौ तद्धिते अलुकम् शास्ति एतत् ब्रवीति कूर्वन् समानकालौ अलुक् लुक् च । यत् अयम् भूम्नि प्राप्तस्य लुकः अजादौ तद्धिते अलुकम् शास्ति तत् ज्ञापयति आचार्यः समानकालौ एतौ अलुग्लुकौ इति । यदि वा लुकः प्रसङ्गे भवति अलुक् छः तथा प्रसिद्धः अस्य । यदि वा लुकः प्रसङ्गे भवति अलुक् भवति तथा अस्य छः प्रसिद्धः अस्य । पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गाः । लुक् वा अलुकः प्रसङ्गम् प्रतीक्षते छे अलुक् अस्य तथा । लुक् वा पुनः अलुकः प्रसङ्गम् यदि प्रतीक्षते तथा अस्य छे अलुक् सिद्धः भवति । प्रकल्प्य वा अपवादविषयम् ततः उत्सर्गः अभिनिविशते ।

KA II,240.8-241.3 Ro III,556-557 gotre aluk aci iti cet itaretarāśrayatvāt aprasiddhiḥ . gotre aluk aci iti cet itaretarāśrayatvāt aprasiddhiḥ . kā itaretarāśrayatā . alugnimittaḥ ajādiḥ ajādinimittaḥ ca aluk . tat itaretarāśrayam bhavati . itaretarāśrayāṇi ca na prakalpante . vipratiṣedhāt tu lukaḥ chavidhānam . vipratiṣedhāt tu lukaḥ chaḥ bhaviṣyati . lukaḥ avakāśaḥ gargāḥ vatsāḥ bidāḥ urvāḥ . chasya avakāśaḥ śālīyaḥ mālīyaḥ gārgīyaḥ vātsīyaḥ . iha ubhayam prāpnoti . gargāṇām chātrāḥ gārgīyāḥ vātsīyaḥ . chaḥ bhavati vipratiṣedhena . na eṣaḥ yuktaḥ vipratiṣedhaḥ . bhūmni ca luk prāptaḥ bāhye ca arthe vidhīyate ajādiḥ . bahiraṅgam antaraṅgāt . vipratiṣedhāt ayuktam syāt . bhūmni prāptasya lukaḥ yat ajādau taddhite alukam śāsti etat bravīti kūrvan samānakālau aluk luk ca . yat ayam bhūmni prāptasya lukaḥ ajādau taddhite alukam śāsti tat jñāpayati ācāryaḥ samānakālau etau aluglukau iti . yadi vā lukaḥ prasaṅge bhavati aluk chaḥ tathā prasiddhaḥ asya . yadi vā lukaḥ prasaṅge bhavati aluk bhavati tathā asya chaḥ prasiddhaḥ asya . pūrvam hi apavādāḥ abhiniviśante paścāt utsargāḥ . luk vā alukaḥ prasaṅgam pratīkṣate che aluk asya tathā . luk vā punaḥ alukaḥ prasaṅgam yadi pratīkṣate tathā asya che aluk siddhaḥ bhavati . prakalpya vā apavādaviṣayam tataḥ utsargaḥ abhiniviśate .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२४१।४-२४२।१३ रो इइइ,५५८-५६२ गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् । गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् वक्तव्यः । बिदानाम् अपत्यम् माणवकः बैदः बैदौ । किमर्थम् इदम् न अचि इति एव अलुक् सिद्धः । अचि इति उच्यते । न च अत्र अजादिम् पश्यामः । प्रत्ययलक्षणेन । वर्णाश्रये न अस्ति प्रत्ययलक्षणम् । एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि । एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि वक्तव्यः । बैदस्य अपत्यम् बहवः माणवकाः बिदाः । बैदयोः बिदाः । अञ् यः बहुषु यञ् यः बहुषु इति उच्यमानः लुक् न प्राप्नोति । मा भूत् एवम् अञ् यः बहुषु यञ् यः बहुषु इति । अञन्तम् यद् बहुषु यञन्तम् यत् बहुषु इति भविष्यति । न एवम् शक्यम् । इह हि दोषः स्यात् । काश्यपप्रतिकृतयः काश्यपाः इति । न एषः दोषः । यत् तावत् उच्यते गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् वक्तव्यः इति । न वक्तव्यः । अचि इति एव अलुक् सिद्धः । अचि इति उच्यते । न च अत्र अजादिम् पश्यामः । प्रत्ययलक्षणेन । ननु च उक्तम् वर्णाश्रये न अस्ति प्रत्ययलक्षणम् इति । यदि वा कानि चित् वर्णाश्रयाणि अपि प्रत्ययलक्षणेन भवन्ति तथा च इदम् अपि भविष्यति । अथ वा अविशेषेण अलुकम् उक्त्वा हलि न इति वक्ष्यामि । यदि अविशेषेण अलुकम् उक्त्वा हलि न इति उच्यते बिदानाम् अपत्यम् बहवः माणवकाः बिदाः अत्र अपि प्राप्नोति । अस्तु । पुनः अस्य युवबहुत्वे वर्तमानस्य लुक् भविष्यति । पुनः अलुक् कस्मात् न भवति । समर्थानाम् प्रथमस्य गोत्रप्रत्ययान्तस्य अलुक् उच्यते । न च एतत् समर्थानाम् प्रथमम् गोत्रप्रत्ययान्तम् । किम् तर्हि । द्वितीयम् अर्थम् उपसङ्क्रान्तम् । अवश्यम् च एतत् एवम् विज्ञेयम् अत्रिभरवाजिका वसिष्ठकश्यपिका भृग्वङ्गिरसिकाकुत्सकुशिकिका इति एवमर्थम् । गर्गभार्गविकाग्रहणम् वा नियमार्थम् । अथ वा गर्गभार्गविकाग्रहणम् नियमार्थम् भविष्यति । एतस्य एव द्वितीयम् अर्थम् उपसङ्क्रान्तस्य अलुक् भवति न अन्यस्य इति । यत् अपि उच्यते एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि वक्तव्यः । अञ् यः बहुषु यञ् यः बहुषु इति उच्यमानः लुक् न प्राप्नोति । मा भूत् एवम् अञ् यः बहुषु यञ् यः बहुषु इति । अञन्तम् यद् बहुषु यञन्तम् यत् बहुषु इति भविष्यति । ननु च उक्तम् न एवम् शक्यम् । इह हि दोषः स्यात् । काश्यपप्रतिकृतयः काश्यपाः इति । न एषः दोषः । लौकिकस्य तत्र गोत्रस्य ग्रहणम् न च एतत् लौकिकम् गोत्रम् । यदि अञन्तम् यद् बहुषु यञन्तम् यत् बहुषु इति एवम् उच्यते बिदानाम् अपत्यम् माणवकः बैदः बैदौ अत्र अपि प्राप्नोति । अलुक् अत्र लिकम् बाधिष्यति । अलुकि च कृते पुनः लुकः निमित्तम् न अस्ति इति कृत्वा पुनः लुक् न भविष्यति । उक्तम् वा । किम् उक्तम् । आपत्यः वा गोत्रम् । परमप्रकृतेः च आपत्यः । आपत्यात् जीवद्वंश्यात् स्वार्थे द्वितीयः युवसञ्ज्ञः । सः च अस्त्रियाम् । एकगोत्रग्रहणानर्थक्यम् च । बहुवचनलोपिषु च सिद्धम् इति । तत्र बिदानाम् अपत्यम् माणवकः इति विगृह्य बिदशब्दात् द्व्येकयोः उत्पत्तिः भविष्यति । बैदः बैदौ । बैदस्य अपत्यम् बहवः माणवकाः इति विगृह्य बिदशब्दात् बहुषु उत्पत्तिः भविष्यति । बिदा इति अविरविकन्यायेन ।

KA II,241.4-242.13 Ro III,558-562 gotrasya bahuṣu lopinaḥ bahuvacanāntasya pravṛttau dvyekayoḥ aluk . gotrasya bahuṣu lopinaḥ bahuvacanāntasya pravṛttau dvyekayoḥ aluk vaktavyaḥ . bidānām apatyam māṇavakaḥ baidaḥ baidau . kimartham idam na aci iti eva aluk siddhaḥ . aci iti ucyate . na ca atra ajādim paśyāmaḥ . pratyayalakṣaṇena . varṇāśraye na asti pratyayalakṣaṇam . ekavacanadvivacanāntasya pravṛttau bahuṣu lopaḥ yūni . ekavacanadvivacanāntasya pravṛttau bahuṣu lopaḥ yūni vaktavyaḥ . baidasya apatyam bahavaḥ māṇavakāḥ bidāḥ . baidayoḥ bidāḥ . añ yaḥ bahuṣu yañ yaḥ bahuṣu iti ucyamānaḥ luk na prāpnoti . mā bhūt evam añ yaḥ bahuṣu yañ yaḥ bahuṣu iti . añantam yad bahuṣu yañantam yat bahuṣu iti bhaviṣyati . na evam śakyam . iha hi doṣaḥ syāt . kāśyapapratikṛtayaḥ kāśyapāḥ iti . na eṣaḥ doṣaḥ . yat tāvat ucyate gotrasya bahuṣu lopinaḥ bahuvacanāntasya pravṛttau dvyekayoḥ aluk vaktavyaḥ iti . na vaktavyaḥ . aci iti eva aluk siddhaḥ . aci iti ucyate . na ca atra ajādim paśyāmaḥ . pratyayalakṣaṇena . nanu ca uktam varṇāśraye na asti pratyayalakṣaṇam iti . yadi vā kāni cit varṇāśrayāṇi api pratyayalakṣaṇena bhavanti tathā ca idam api bhaviṣyati . atha vā aviśeṣeṇa alukam uktvā hali na iti vakṣyāmi . yadi aviśeṣeṇa alukam uktvā hali na iti ucyate bidānām apatyam bahavaḥ māṇavakāḥ bidāḥ atra api prāpnoti . astu . punaḥ asya yuvabahutve vartamānasya luk bhaviṣyati . punaḥ aluk kasmāt na bhavati . samarthānām prathamasya gotrapratyayāntasya aluk ucyate . na ca etat samarthānām prathamam gotrapratyayāntam . kim tarhi . dvitīyam artham upasaṅkrāntam . avaśyam ca etat evam vijñeyam atribharavājikā vasiṣṭhakaśyapikā bhṛgvaṅgirasikākutsakuśikikā iti evamartham . gargabhārgavikāgrahaṇam vā niyamārtham . atha vā gargabhārgavikāgrahaṇam niyamārtham bhaviṣyati . etasya eva dvitīyam artham upasaṅkrāntasya aluk bhavati na anyasya iti . yat api ucyate ekavacanadvivacanāntasya pravṛttau bahuṣu lopaḥ yūni vaktavyaḥ . añ yaḥ bahuṣu yañ yaḥ bahuṣu iti ucyamānaḥ luk na prāpnoti . mā bhūt evam añ yaḥ bahuṣu yañ yaḥ bahuṣu iti . añantam yad bahuṣu yañantam yat bahuṣu iti bhaviṣyati . nanu ca uktam na evam śakyam . iha hi doṣaḥ syāt . kāśyapapratikṛtayaḥ kāśyapāḥ iti . na eṣaḥ doṣaḥ . laukikasya tatra gotrasya grahaṇam na ca etat laukikam gotram . yadi añantam yad bahuṣu yañantam yat bahuṣu iti evam ucyate bidānām apatyam māṇavakaḥ baidaḥ baidau atra api prāpnoti . aluk atra likam bādhiṣyati . aluki ca kṛte punaḥ lukaḥ nimittam na asti iti kṛtvā punaḥ luk na bhaviṣyati . uktam vā . kim uktam . āpatyaḥ vā gotram . paramaprakṛteḥ ca āpatyaḥ . āpatyāt jīvadvaṃśyāt svārthe dvitīyaḥ yuvasañjñaḥ . saḥ ca astriyām . ekagotragrahaṇānarthakyam ca . bahuvacanalopiṣu ca siddham iti . tatra bidānām apatyam māṇavakaḥ iti vigṛhya bidaśabdāt dvyekayoḥ utpattiḥ bhaviṣyati . baidaḥ baidau . baidasya apatyam bahavaḥ māṇavakāḥ iti vigṛhya bidaśabdāt bahuṣu utpattiḥ bhaviṣyati . bidā iti aviravikanyāyena .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२४२।१५-२३ रो इइइ,५६२-५६३ यूनि लुक् अचि इति चेत् प्रत्ययस्य अयथेष्टप्रसङ्गः । यूनि लुक् अचि इति चेत् प्रत्ययस्य अयथेष्टम् प्राप्नोति । अनिष्टे प्रत्यये अवस्थिते लुक् । अनिष्टप्रत्ययस्य श्रवणम् प्रस्ज्येत । सिद्धम् तु अविशेषेण लुग्वचनम् हलि च प्रतिषेधः । सिद्धम् एतत् । कथम् । अविशेषेण लुकम् उक्त्वा हलि न इति वक्ष्यामि । सिध्यति । सूत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् यूनि लुक् अचि इति चेत् प्रत्ययस्य अयथेष्टप्रसङ्गः इति । न एषः दोषः। अचि इति न एषा परसप्तमी । का तर्हि । विषयसप्तमी । अजादौ विषये इति । तत्र अचि विषये लुके कृते यः यतः प्रत्ययः प्राप्नोति सः ततः भविष्यति ।

KA II,242.15-23 Ro III,562-563 yūni luk aci iti cet pratyayasya ayatheṣṭaprasaṅgaḥ . yūni luk aci iti cet pratyayasya ayatheṣṭam prāpnoti . aniṣṭe pratyaye avasthite luk . aniṣṭapratyayasya śravaṇam prasjyeta . siddham tu aviśeṣeṇa lugvacanam hali ca pratiṣedhaḥ . siddham etat . katham . aviśeṣeṇa lukam uktvā hali na iti vakṣyāmi . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam yūni luk aci iti cet pratyayasya ayatheṣṭaprasaṅgaḥ iti . na eṣaḥ doṣaḥ. aci iti na eṣā parasaptamī . kā tarhi . viṣayasaptamī . ajādau viṣaye iti . tatra aci viṣaye luke kṛte yaḥ yataḥ pratyayaḥ prāpnoti saḥ tataḥ bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२४२।२४-२४३।१९ रो इइइ,५६३-५६५ कानि पुनः अस्य योगस्य प्रयोजनानि । प्रयोजनम् सौवीरगोत्रेभ्यः णठक्छाः । ण । फाण्टाहृतेः अपत्यम् माणवकः फाण्टाहृतः । फाण्टहृतस्य यूनः छात्राः फाण्टाहृताः । ण । ठक् । भागवित्तेः अपत्यम् माणवकः भागवित्तिकः । भागवित्तिकस्य यूनः छात्राः भागवित्ताः । ठक् । तैलायनेः अपत्यम् माणवकः तैलायनीयः । तैलायनीय यूनः छात्राः तैलायनीयाः । इञ्ण्यौ सर्वत्र । इञ्ण्यौ सर्वत्र प्रयोजनम् । औपगवेः यूनः छात्राः औपगवीयाः । वृद्धवदतिदेशे सति इञः गोत्रे इति अण् प्राप्नोति । न एषः दोषः । प्रत्याख्यायते असौ अतिदेशः । कथम् यानि प्रयोजनानि । तानि ज्ञापकेन सिद्धानि । यत्खच्छान्तात् तर्हि इञः प्रयोजनम् । यत् । श्वशुरस्य अपत्यम् श्वशुर्यः । श्वशुर्यस्य अपत्यम् श्वाशुरिः । श्वाशुरेः यूनः छात्राः श्वाशुराः । यत् । ख । कुलस्य अपत्यम् कुलीनः । कुलीनस्य अपत्यम् कौलीनिः । कौलीनेः यूनः छात्राः कौलीनाः । ख । छ । स्वसुः अपत्यम् स्वस्रीयः । स्वस्रीयस्य अपत्यम् स्वास्रीयिः । स्वास्रीयेः यूनः छात्राः स्वास्रीयाः । एतानि अपि हि न सन्ति प्रयोजनानि । अत्र अपि यूनि श्वशुर्यः कुलीनः स्वस्रीयः इति एव भवितव्यम् । उक्तम् एतत् अणिञोः लुकि अब्राह्मणगोत्रमात्रात् युवप्रत्ययस्य उपसङ्ख्यानम् इति । अब्राह्मणगोत्रमात्रात् इति उच्यते । न च एतत् अब्राह्मणगोत्रमात्रम् । अब्राह्मणगोत्रमात्रात् इति न अयम् पर्युदासः यत् अन्यत् ब्राह्मणगोत्रमात्रात् इति । किम् तर्हि प्रसज्य अयम् प्रतिषेधः ब्राह्मणगोत्रमात्रात् न इति । अवश्यम् च एतत् एवम् विज्ञेयम् मायुरिः कापोतिः कापिञ्जलिः इति एवमर्थम् । एवम् तर्हि अण्ण्यौ सर्वत्र प्रयोजनम् । अण् । ग्लुचुकायनेः अपत्यम् माणवकः ग्लौचुकायनः । ग्लौचुकायनस्य यूनः छात्राः ग्लौचुकायनाः । ण्यः च कापिञ्जलाद्यर्थम् । कापिञ्जलेः अपत्यम् माणवकः कापिञ्जलाद्यः । तस्य यूनः छात्राः कापिञ्जलादाः ।

KA II,242.24-243.19 Ro III,563-565 kāni punaḥ asya yogasya prayojanāni . prayojanam sauvīragotrebhyaḥ ṇaṭhakchāḥ . ṇa . phāṇṭāhṛteḥ apatyam māṇavakaḥ phāṇṭāhṛtaḥ . phāṇṭahṛtasya yūnaḥ chātrāḥ phāṇṭāhṛtāḥ . ṇa . ṭhak . bhāgavitteḥ apatyam māṇavakaḥ bhāgavittikaḥ . bhāgavittikasya yūnaḥ chātrāḥ bhāgavittāḥ . ṭhak . tailāyaneḥ apatyam māṇavakaḥ tailāyanīyaḥ . tailāyanīya yūnaḥ chātrāḥ tailāyanīyāḥ . iñṇyau sarvatra . iñṇyau sarvatra prayojanam . aupagaveḥ yūnaḥ chātrāḥ aupagavīyāḥ . vṛddhavadatideśe sati iñaḥ gotre iti aṇ prāpnoti . na eṣaḥ doṣaḥ . pratyākhyāyate asau atideśaḥ . katham yāni prayojanāni . tāni jñāpakena siddhāni . yatkhacchāntāt tarhi iñaḥ prayojanam . yat . śvaśurasya apatyam śvaśuryaḥ . śvaśuryasya apatyam śvāśuriḥ . śvāśureḥ yūnaḥ chātrāḥ śvāśurāḥ . yat . kha . kulasya apatyam kulīnaḥ . kulīnasya apatyam kaulīniḥ . kaulīneḥ yūnaḥ chātrāḥ kaulīnāḥ . kha . cha . svasuḥ apatyam svasrīyaḥ . svasrīyasya apatyam svāsrīyiḥ . svāsrīyeḥ yūnaḥ chātrāḥ svāsrīyāḥ . etāni api hi na santi prayojanāni . atra api yūni śvaśuryaḥ kulīnaḥ svasrīyaḥ iti eva bhavitavyam . uktam etat aṇiñoḥ luki abrāhmaṇagotramātrāt yuvapratyayasya upasaṅkhyānam iti . abrāhmaṇagotramātrāt iti ucyate . na ca etat abrāhmaṇagotramātram . abrāhmaṇagotramātrāt iti na ayam paryudāsaḥ yat anyat brāhmaṇagotramātrāt iti . kim tarhi prasajya ayam pratiṣedhaḥ brāhmaṇagotramātrāt na iti . avaśyam ca etat evam vijñeyam māyuriḥ kāpotiḥ kāpiñjaliḥ iti evamartham . evam tarhi aṇṇyau sarvatra prayojanam . aṇ . glucukāyaneḥ apatyam māṇavakaḥ glaucukāyanaḥ . glaucukāyanasya yūnaḥ chātrāḥ glaucukāyanāḥ . ṇyaḥ ca kāpiñjalādyartham . kāpiñjaleḥ apatyam māṇavakaḥ kāpiñjalādyaḥ . tasya yūnaḥ chātrāḥ kāpiñjalādāḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२४३।२०-२४४।२७ रो इइइ,५६५-५६९ प्राग्दीव्यतोधिकारे यूनः वृद्धवदतिदेशः । प्राग्दीव्यतोधिकारे यूनः वृद्धवदतिदेशः कर्तव्यः । युवा वृद्धवत् भवति इति वक्तव्यम् । गार्ग्यायणानाम् समूहः गार्ग्याणकम् । गार्ग्यायणानाम् किम् चित् गार्ग्याणकम् । गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः । गोत्राश्रयः वुञ् यथा स्यात् । यदि वृद्धवदतिदेशः क्रियते औपगवेः यूनः छात्राः औपगवीयाः इति इञः गोत्रे इति अण् प्राप्नोति । यदि पुनः युवा वृद्धवत् इति अनेन अनुत्पत्तिः अतिदिश्येत । कथम् पुनः युवा वृद्धवत् इति अनेन अनुत्पत्तिः शक्या अतिदेष्टुम् । वतिनिर्देशः अयम् कामचारः च वतिनिर्देशे वाक्यशेषम् समर्थयितुम् । तत् यथा : उशीनरवत् मद्रेषु यवाः । सन्ति न सन्ति इति । मातृवत् अस्याः कलाः । सन्ति न सन्ति इति । एवम् इह अपि युवा वृद्धवत् भवति वृद्धवत् न भवति इति एवम् वाक्यशेषम् समर्थयिष्यामहे । यथ गोत्रे युवप्रत्ययः न भवति एवम् प्राग्दीव्यतोधिकारे यूनि अपि न भवति इति । तत् वक्तव्यम् । यदि अपि एतत् उच्यते अथ वा एतर्हि यूनि लुक् इति एतत् न क्रियते । कथम् तर्हि फक्फिञोः अन्यतरस्याम् इति । फक्फिञ्वर्ती युवा वा वृद्धवत् भवति इति वक्ष्यामि । यदा तर्हि न वृद्धवत् तदा गार्ग्यायणानाम् समूहः गार्ग्याणकम् गार्ग्यायणानाम् किम् चित् गार्ग्याणकम् गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः गोत्राश्रयः वुञ् न प्राप्नोति । यदि पुनः युवा वृद्धवत् इति अनेन अर्थः अतिदिश्येत । प्राग्दीव्यतोधिकारेयूनः वृद्धवत् अर्थः भवति इति । तत् वक्तव्यम् । यदि अपि एतत् उच्यते अथ वा एतर्हि यूनि लुक् इति एतत् न करिष्यते । कथम् तर्हि फक्फिञोः अन्यतरस्याम् इति । फक्फिञ्वर्ती युवार्थः वा वृद्धवत् भवति इति वक्ष्यामि । यदा तर्हि न वृद्धवत् तदा गार्ग्यायणानाम् समूहः गार्ग्याणकम् गार्ग्यायणानाम् किम् चित् गार्ग्याणकम् गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः गोत्राश्रयः वुञ् न प्राप्नोति । एवम् तर्हि राजन्यात् वुञ् मनुष्यात् च ज्ञापकम् लौकिकम् परम् । यत् अयम् वुञ्विधौ राजन्यमनुष्ययोः ग्रहणम् करोति तत् ज्ञापयति आचार्यः लौकिकम् परम् गोत्रग्रहणम् इति । युवा च लोके गोत्रम् इति उपचर्यते । किङ्गोत्रः असि माणवकः । गार्ग्यायणः । किङ्गोत्रः असि माणवकः । वात्स्यायनः । यदि एतत् ज्ञाप्यते औपगवेः यूनः छात्राः औपगवीयाः गोत्राश्रयः इञः गोत्रे इति अण् प्राप्नोति । सामुहिकेषु ज्ञापकम् । यदि सामुहिकेषु ज्ञापकम् गार्ग्यायणानाम् किम् चित् गार्ग्याणकम् गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः गोत्राश्रयः वुञ् न प्राप्नोति । वुञ्विधौ ज्ञापकम् । वुञ्विधौ ज्ञापकम् शालङ्केः यूनः छात्राः शालङ्काः इञः गोत्रे इति अण् न प्राप्नोति । अस्तु तर्हि अविशेषेण । कथम् औपगवेः यूनः छात्राः औपगवीयाः ।गोत्रेण इञम् विशेषयिष्यामः । गोत्रे यः इञ् विहितः इति ।

KA II,243.20-244.27 Ro III,565-569 prāgdīvyatodhikāre yūnaḥ vṛddhavadatideśaḥ . prāgdīvyatodhikāre yūnaḥ vṛddhavadatideśaḥ kartavyaḥ . yuvā vṛddhavat bhavati iti vaktavyam . gārgyāyaṇānām samūhaḥ gārgyāṇakam . gārgyāyaṇānām kim cit gārgyāṇakam . gārgyāyaṇaḥ bhaktiḥ asya gārgyāyaṇakaḥ . gotrāśrayaḥ vuñ yathā syāt . yadi vṛddhavadatideśaḥ kriyate aupagaveḥ yūnaḥ chātrāḥ aupagavīyāḥ iti iñaḥ gotre iti aṇ prāpnoti . yadi punaḥ yuvā vṛddhavat iti anena anutpattiḥ atidiśyeta . katham punaḥ yuvā vṛddhavat iti anena anutpattiḥ śakyā atideṣṭum . vatinirdeśaḥ ayam kāmacāraḥ ca vatinirdeśe vākyaśeṣam samarthayitum . tat yathā : uśīnaravat madreṣu yavāḥ . santi na santi iti . mātṛvat asyāḥ kalāḥ . santi na santi iti . evam iha api yuvā vṛddhavat bhavati vṛddhavat na bhavati iti evam vākyaśeṣam samarthayiṣyāmahe . yatha gotre yuvapratyayaḥ na bhavati evam prāgdīvyatodhikāre yūni api na bhavati iti . tat vaktavyam . yadi api etat ucyate atha vā etarhi yūni luk iti etat na kriyate . katham tarhi phakphiñoḥ anyatarasyām iti . phakphiñvartī yuvā vā vṛddhavat bhavati iti vakṣyāmi . yadā tarhi na vṛddhavat tadā gārgyāyaṇānām samūhaḥ gārgyāṇakam gārgyāyaṇānām kim cit gārgyāṇakam gārgyāyaṇaḥ bhaktiḥ asya gārgyāyaṇakaḥ gotrāśrayaḥ vuñ na prāpnoti . yadi punaḥ yuvā vṛddhavat iti anena arthaḥ atidiśyeta . prāgdīvyatodhikāreyūnaḥ vṛddhavat arthaḥ bhavati iti . tat vaktavyam . yadi api etat ucyate atha vā etarhi yūni luk iti etat na kariṣyate . katham tarhi phakphiñoḥ anyatarasyām iti . phakphiñvartī yuvārthaḥ vā vṛddhavat bhavati iti vakṣyāmi . yadā tarhi na vṛddhavat tadā gārgyāyaṇānām samūhaḥ gārgyāṇakam gārgyāyaṇānām kim cit gārgyāṇakam gārgyāyaṇaḥ bhaktiḥ asya gārgyāyaṇakaḥ gotrāśrayaḥ vuñ na prāpnoti . evam tarhi rājanyāt vuñ manuṣyāt ca jñāpakam laukikam param . yat ayam vuñvidhau rājanyamanuṣyayoḥ grahaṇam karoti tat jñāpayati ācāryaḥ laukikam param gotragrahaṇam iti . yuvā ca loke gotram iti upacaryate . kiṅgotraḥ asi māṇavakaḥ . gārgyāyaṇaḥ . kiṅgotraḥ asi māṇavakaḥ . vātsyāyanaḥ . yadi etat jñāpyate aupagaveḥ yūnaḥ chātrāḥ aupagavīyāḥ gotrāśrayaḥ iñaḥ gotre iti aṇ prāpnoti . sāmuhikeṣu jñāpakam . yadi sāmuhikeṣu jñāpakam gārgyāyaṇānām kim cit gārgyāṇakam gārgyāyaṇaḥ bhaktiḥ asya gārgyāyaṇakaḥ gotrāśrayaḥ vuñ na prāpnoti . vuñvidhau jñāpakam . vuñvidhau jñāpakam śālaṅkeḥ yūnaḥ chātrāḥ śālaṅkāḥ iñaḥ gotre iti aṇ na prāpnoti . astu tarhi aviśeṣeṇa . katham aupagaveḥ yūnaḥ chātrāḥ aupagavīyāḥ .gotreṇa iñam viśeṣayiṣyāmaḥ . gotre yaḥ iñ vihitaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२४५।२-१५ रो इइइ,५६९-५७० तस्य इदम् इति अपत्ये अपि । तस्य इदम् इति अपत्ये अपि अण् सिद्धः । तस्येदंविशेषाः हि एते अपत्यम् समूहः विकारः तस्य निवासः इति । किम् अर्थम् तर्हि इदम् उच्यते । बाधनार्थम् कृतम् भवेत् । ये तस्य बाधकाः तद्बाधनार्थम् । कथम् पुनः अशैषिकः शैषिकम् बाधेत । उत्सर्गः शेषः एव असौ । यः हि उत्सर्गः सः अपि शेषः एव । अथ एतस्मिन् बाधकबाधने सति किम् प्रयोजनम् । वृद्धानि अस्य प्रयोजनम् । वृद्धानि प्रयोजयन्ति । भानोः अपत्यम् भानवः । श्यामगोः अपत्यम् श्यामगवः । कथम् पुनः इच्छता अपि अपवादः प्राप्नुवन् शक्यः बाधितुम् । तस्यग्रहणसामर्थ्यात् । किम् इदम् भवान् अध्यारुह्य तस्यग्रहणस्य एव प्रयोजनम् आह न पुनः सर्वस्य एव योगस्य । अवश्यम् उत्तराथम् अर्थनिर्देशः कर्तव्यः । समर्थविभक्तिः अपि तर्हि अवश्यम् उत्तरार्थम् प्रतिनिर्देष्टव्या । एवम् तर्हि योगविभागकरणसामर्थ्यात् । इतरथा हि तस्य अपत्यम् अतः इञ् भवति इति एव ब्रूयात् ।

KA II,245.2-15 Ro III,569-570 tasya idam iti apatye api . tasya idam iti apatye api aṇ siddhaḥ . tasyedaṃviśeṣāḥ hi ete apatyam samūhaḥ vikāraḥ tasya nivāsaḥ iti . kim artham tarhi idam ucyate . bādhanārtham kṛtam bhavet . ye tasya bādhakāḥ tadbādhanārtham . katham punaḥ aśaiṣikaḥ śaiṣikam bādheta . utsargaḥ śeṣaḥ eva asau . yaḥ hi utsargaḥ saḥ api śeṣaḥ eva . atha etasmin bādhakabādhane sati kim prayojanam . vṛddhāni asya prayojanam . vṛddhāni prayojayanti . bhānoḥ apatyam bhānavaḥ . śyāmagoḥ apatyam śyāmagavaḥ . katham punaḥ icchatā api apavādaḥ prāpnuvan śakyaḥ bādhitum . tasyagrahaṇasāmarthyāt . kim idam bhavān adhyāruhya tasyagrahaṇasya eva prayojanam āha na punaḥ sarvasya eva yogasya . avaśyam uttarātham arthanirdeśaḥ kartavyaḥ . samarthavibhaktiḥ api tarhi avaśyam uttarārtham pratinirdeṣṭavyā . evam tarhi yogavibhāgakaraṇasāmarthyāt . itarathā hi tasya apatyam ataḥ iñ bhavati iti eva brūyāt .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२४५।१६-२४६।२७ रो इइइ,५७१-५७३ पुंलिङ्गेन अयम् निर्देशः क्रियते एकवचनान्तेन च । तेन पुंलिङ्गात् एव उत्पत्तिः स्यात् एकवचनान्तात् च । स्त्रीनपुंसकलिङ्गात् द्विवचनबहुवचनान्तात् च इदम् न स्यात् । तद्धितार्थनिर्देशे लिङ्गवचनम् अप्रमाणम् तस्य अविवक्षितत्वात् । तद्धितार्थनिर्देशे लिङ्गवचनम् अप्रमाणम् । किम् कारणम् । तस्य अविवक्षितत्वात् । न अत्र निर्देशः तन्त्रम् । कथम् पुनः तेन एव च नाम निर्देशः क्रियते तत् च अतन्त्रम् स्यात् । तत्कारी च भवान् तद्द्वेषी च । नान्तरीयकत्वात् अत्र पुंलिङ्गेन निर्देशः क्रियते एकवचनान्तेन च। अवश्यम् कया चित् विभक्त्या केन चित् वचनेन निर्देशः कर्तव्य इति । तत् यथा । कः चित् अन्नार्थी शालिकलापम् सपलालम् सतुषम् आहरति नान्तयीयकत्वात् । सः यावत् आदेयम् तावत् आदाय तुषपलालानि उत्सृजति । तथा कः चित् मांसार्थी मत्स्यान् सकण्टकान् सशकलान् आहरति नान्तयीयकत्वात् । सः यावत् आदेयम् तावत् आदाय शकलकण्टकान् उत्सृजति । एवम् इह अपि नान्तरीयकत्वात् पुंलिङ्गेन निर्देशः क्रियते एकवचनान्तेन च। न हि अत्र निर्देशः तन्त्रम् । सर्वनामनिर्देशे विशेषासम्प्रत्ययः सामान्यनिर्देशात् । सर्वनामनिर्देशे विशेषस्य असम्प्रत्ययः । किम् कारणम् । सामान्यनिर्देशात् । सर्वनाम्ना अयम् निर्देशः क्रियते । सरनाम च सामान्यवाचि । तेन सामान्यवाचिनः एव उत्पत्तिः स्यात् । विशेषवाचिनः न स्यात् । सामान्यचोदनाः तु विशेषेषु । सामान्यचोदनाः तु विशेषेषु अवतिष्ठन्ते । तत् यथा : गौः अनूबध्यः अजः अग्नीषोमीयः इति आकृतौ चोदितायाम् द्रव्ये आरम्भणालम्भनप्रोक्षणविशसनादीनि क्रियन्ते । विषमः उपन्यासः । अस्ति कारणम् येन एतत् एवम् भवति । किम् कारणम् । असम्भवात् । आकृतौ आरम्भणादीनाम् सम्भवः न अस्ति इति कृत्वा आकृतिसहचरिते द्रव्ये आरम्भणादीनि क्रियन्ते । इदम् अपि एवञ्जातीयकम् एव । असम्भवात् सामान्यवाचिनः उत्पत्तौ विशेषवाचिनः उत्पत्तिः भविष्यति । अपत्याभिधाने स्त्रीपुंलिङ्गस्य अप्रसिद्धिः नपुंसकत्वात् । अपत्याभिधाने स्त्रीपुंलिङ्गस्य अप्रसिद्धिः । किम् कारणम् । नपुंसकलिङ्गत्वात् । अपत्यम् नपुंसकलिङ्गम् । तेन नपुंसकलिङ्गस्य एव अभिधानम् स्यात् । स्त्रीपुंलिङ्गस्य न स्यात् । ननु च इदम् पुरस्तात् एव चोदितम् परिहृतम् च । उत्पत्तिः तत्र चोद्यते । इह पुनः उत्पन्नेन अभिधानम् चोद्यते । सिद्धम् तु प्रजनस्य विवक्षितत्वात् । सिद्धम् एतत् । कथम् । प्रजनस्य विवक्षितत्वात् । प्रजनः अत्र विवक्षितः सः च सर्वलिङ्गः । किम् पुनः कारणम् समानायाम् प्रवृत्तौ अपत्यम् नपुंसकलिङ्गम् प्रजनः सर्वलिङ्गः । एकार्थे शब्दान्यत्वात् दृष्टम् लिङ्गान्यत्वम् । एकार्थे शब्दान्यत्वात् लिङ्गान्यत्वम् दृश्यते । तत् यथा पुष्यः तारकाः नक्षत्रम् । गेहम् कुटी मठः इति । अवयवान्यत्वात् च । अवयवान्यत्वात् च लिङ्गान्यत्वम् दृश्यते । तत् यथा कुटी कुटीरः शमी शमीरः शुण्डा शुण्डारः । अवयवान्यत्वात् किल लिङ्गान्यत्वम् स्यात् किम् पुनः यत्र शब्दान्यत्वम् अपि ।

KA II,245.16-246.27 Ro III,571-573 puṃliṅgena ayam nirdeśaḥ kriyate ekavacanāntena ca . tena puṃliṅgāt eva utpattiḥ syāt ekavacanāntāt ca . strīnapuṃsakaliṅgāt dvivacanabahuvacanāntāt ca idam na syāt . taddhitārthanirdeśe liṅgavacanam apramāṇam tasya avivakṣitatvāt . taddhitārthanirdeśe liṅgavacanam apramāṇam . kim kāraṇam . tasya avivakṣitatvāt . na atra nirdeśaḥ tantram . katham punaḥ tena eva ca nāma nirdeśaḥ kriyate tat ca atantram syāt . tatkārī ca bhavān taddveṣī ca . nāntarīyakatvāt atra puṃliṅgena nirdeśaḥ kriyate ekavacanāntena ca. avaśyam kayā cit vibhaktyā kena cit vacanena nirdeśaḥ kartavya iti . tat yathā . kaḥ cit annārthī śālikalāpam sapalālam satuṣam āharati nāntayīyakatvāt . saḥ yāvat ādeyam tāvat ādāya tuṣapalālāni utsṛjati . tathā kaḥ cit māṃsārthī matsyān sakaṇṭakān saśakalān āharati nāntayīyakatvāt . saḥ yāvat ādeyam tāvat ādāya śakalakaṇṭakān utsṛjati . evam iha api nāntarīyakatvāt puṃliṅgena nirdeśaḥ kriyate ekavacanāntena ca. na hi atra nirdeśaḥ tantram . sarvanāmanirdeśe viśeṣāsampratyayaḥ sāmānyanirdeśāt . sarvanāmanirdeśe viśeṣasya asampratyayaḥ . kim kāraṇam . sāmānyanirdeśāt . sarvanāmnā ayam nirdeśaḥ kriyate . saranāma ca sāmānyavāci . tena sāmānyavācinaḥ eva utpattiḥ syāt . viśeṣavācinaḥ na syāt . sāmānyacodanāḥ tu viśeṣeṣu . sāmānyacodanāḥ tu viśeṣeṣu avatiṣṭhante . tat yathā : gauḥ anūbadhyaḥ ajaḥ agnīṣomīyaḥ iti ākṛtau coditāyām dravye ārambhaṇālambhanaprokṣaṇaviśasanādīni kriyante . viṣamaḥ upanyāsaḥ . asti kāraṇam yena etat evam bhavati . kim kāraṇam . asambhavāt . ākṛtau ārambhaṇādīnām sambhavaḥ na asti iti kṛtvā ākṛtisahacarite dravye ārambhaṇādīni kriyante . idam api evañjātīyakam eva . asambhavāt sāmānyavācinaḥ utpattau viśeṣavācinaḥ utpattiḥ bhaviṣyati . apatyābhidhāne strīpuṃliṅgasya aprasiddhiḥ napuṃsakatvāt . apatyābhidhāne strīpuṃliṅgasya aprasiddhiḥ . kim kāraṇam . napuṃsakaliṅgatvāt . apatyam napuṃsakaliṅgam . tena napuṃsakaliṅgasya eva abhidhānam syāt . strīpuṃliṅgasya na syāt . nanu ca idam purastāt eva coditam parihṛtam ca . utpattiḥ tatra codyate . iha punaḥ utpannena abhidhānam codyate . siddham tu prajanasya vivakṣitatvāt . siddham etat . katham . prajanasya vivakṣitatvāt . prajanaḥ atra vivakṣitaḥ saḥ ca sarvaliṅgaḥ . kim punaḥ kāraṇam samānāyām pravṛttau apatyam napuṃsakaliṅgam prajanaḥ sarvaliṅgaḥ . ekārthe śabdānyatvāt dṛṣṭam liṅgānyatvam . ekārthe śabdānyatvāt liṅgānyatvam dṛśyate . tat yathā puṣyaḥ tārakāḥ nakṣatram . geham kuṭī maṭhaḥ iti . avayavānyatvāt ca . avayavānyatvāt ca liṅgānyatvam dṛśyate . tat yathā kuṭī kuṭīraḥ śamī śamīraḥ śuṇḍā śuṇḍāraḥ . avayavānyatvāt kila liṅgānyatvam syāt kim punaḥ yatra śabdānyatvam api .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२४७।२-२५१।११ रो इइइ,५७४-५९० किमर्थम् इदम् उच्यते । उत्पादयितारम् प्रति अपत्ययोगात् तस्य च विवक्षितत्वात् एकवचनम् गोत्रे । उत्पादयिता उत्पादयिता अपत्येन युज्यते । तस्य च विवक्षितत्वात् । उत्पादयितुः सः च अभिसम्बन्धः विवक्षितः । उत्पादयितारम् प्रति अपत्ययोगात् तस्य च अभिसम्बन्धस्य विवक्षितत्वात् उत्पादयितुः उत्पादयितुः अपत्याभिधाने अनेकः प्रत्ययः प्राप्नोति । इष्यते च एकः एव स्यात् इति । तत् च अन्तरेण यत्नम् न सिध्यति इति एकवचनम् गोत्रे । एवमर्थम् इदम् उच्यते । कथम् पुनः ज्ञायते उत्पादयिता उत्पादयिता अपत्येन युज्यते इति । एवम् हि दृश्यते लोके । पितामहस्य उत्सङ्गे दारकम् आसीनम् कः चित् पृच्छति कस्य अयम् इति । सः आह देवदत्तस्य यज्ञदत्तस्य वा इति । उत्पादयितारम् व्यपदिशति न आत्मानम् । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति । तत्र प्रत्ययान्तात् गोत्रे प्रतिषेधः गोत्रे नियतत्वात् । तत्र प्रत्ययान्तात् गोत्रे प्रतिषेधः वक्तव्यः । औपगवस्य अपत्यम् इति । किम् कारणम् । गोत्रे नियतत्वात् । गोत्रे हि अयम् नियमः क्रियते । तेन यः च असौ यथाजातीयकः च गोत्रप्रत्ययः प्राप्नोति सः एकः स्यात् । कः च प्राप्नोति । यः प्रत्ययान्तात् । परमप्रकृतेः च उत्पत्तिः । परमप्रकृतेः च उत्पत्तिः वक्तव्या । अयोगात् हि न प्राप्नोति । एतयोः च एव परिहारः पठिष्यति हि आचार्यः यूनि च अन्तर्हिते अप्राप्तिः इति तस्य च यथा तत्प्रत्ययान्तम् । यथा तत् एव विकारावयवप्रत्ययान्तम् द्वितीयम् च तृतीयम् च विकारम् सङ्क्रामति एवम् इह अपि तत् एव अपत्यप्रत्ययान्तम् द्वितीयम् च तृतीयम् च अपत्यम् सङ्क्रमिष्यति । भवेत् सिद्धम् औपगवस्य अपत्यम् औपगवः यत्र सः एव अनन्तरः इष्यते सः एव गोत्रे । इदम् तु खलु न सिध्यति गर्गस्य अपत्यम् गार्ग्यः इति । अत्र हि अन्यः अनन्तरः इष्यते अन्यः गोत्रे । स्त्रियाम् च अनियमः । स्त्रियाम् च युवत्याम् नियमः न प्राप्नोति । औपगवी माणवकी । नियमात् हि स्त्री पर्युदस्यते एकः गोत्रे गोत्रात् यूनि अस्त्रियाम् इति । कतरस्मिन् पक्षे अयम् दोषः । उत्पादयितरि अपत्ययुक्ते । उत्पादयितरि तावत् अपत्ययुक्ते न दोषः । उत्पादयितरि हि अपत्ययुक्ते न सर्वतः उत्पत्त्या भवितव्यम् । तत्र नियमः न उपपद्यते । असति नियमे न एषः दोषः । सर्वेषु तर्हि अपत्ययुक्तेषु अयम् दोषः । सर्वेषु हि अपत्ययुक्तेषु सर्वतः उत्पत्त्या भवितव्यम् । तत्र नियमः उपपन्नः भवति । सति नियमे एषः दोषः । उत्पादयितरि च अपत्ययुक्ते स्त्रिया युवत्या अभिधानम् न प्राप्नोति । किम् कारणम् । गोत्रसञ्ज्ञा युवसञाम् बाधते । गोत्रात् यूनि च अस्त्रियाम् प्रत्ययः विधीयते । यूनि च अन्तर्हिते अप्राप्तिः । यूनि च अन्तर्हिते नियमस्य अप्राप्तिः । गार्ग्यायणस्य अपत्यम् इति । कतरस्मिन् पक्षे अयम् दोषः । सर्वेषु अपत्ययुक्तेषु । सर्वेषु अपत्ययुक्तेषु तावत् न दोषः । सर्वेषु हि अपत्ययुक्तेषु सर्वतः उत्पत्त्या भवतिव्यम् । तत्र नियमः उपपन्नः भवति । सति नियमे न एषः दोषः । उत्पादयितरि तर्हि अपत्ययुक्ते अयम् दोषः । उत्पादयितरि हि अपत्ययुक्ते परमप्रकृतेः अनन्तरात् गोत्रात् च अयोगात् न प्राप्नोति । यूनः च न प्राप्नोति । किम् कारणम् । गोत्रात् इति नियमात् । सन्तु तर्हि कथम् पुनः ज्ञायते सर्वे अपत्ययुक्ताः इति । एवम् हि याज्ञिकाः पठन्ति । दशपुरुषानूकम् यस्य गृहे शूद्राः न विद्येरन् सः सोमम् पिबेत् इति । यदि च सर्वे अपत्ययुक्ताः भवन्ति ततः एतत् उपपन्नम् भवति । कथम् यत् उक्तम् पितामहस्य उत्सङ्गे दारकम् आसीनम् कः चित् पृच्छति कस्य अयम् इति । सः आह देवदत्तस्य यज्ञदत्तस्य वा इति । उत्पादयितारम् व्यपदिशति न आत्मानम् इति । उत्पत्तिः तस्य विवक्षिता । सर्वेषाम् न इदम् अपत्यम् । देवदत्तः तु अस्य उत्पादयिता इति । अथ सर्वेषु अपत्ययुक्तेषु किम् अनेन क्रियते एकः गोत्रे इति । सर्वेषाम् अपत्ययोगात् प्रत्ययान्तात् गोत्रे प्रतिषेधार्थम् एकः गोत्रे । सर्वेषाम् अपत्ययोगात् प्रत्ययान्तात् गोत्रे प्रतिषेधार्थम् एकः गोत्रे इति उच्यते । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति । न तु ज्ञायते कः एकः भवति यः वा परमप्रकृतेः यः वा अनन्तरात् इति । नियमानुपपत्तिः च । नियमः च न उपपद्यते । किम् कारणम् । न हि एकस्मिन् अपत्ये अनेकप्रत्ययप्राप्तिः । न हि एकस्मिन् अपत्ये अनेकप्रत्ययः प्राप्नोति । किम् तर्हि । अपत्यान्तरे शब्दान्तरात् प्रत्ययान्तरप्राप्तिः । अपत्यान्तरे अपत्यान्तर शब्दान्तरात् शब्दान्तरात् प्रत्ययान्तरम् प्रत्ययान्तरम् प्राप्नोति । फकन्तात् इञ् इञन्तात् फक् इति फगिञोः दाशतयी प्रत्ययमाला प्राप्नोति । कतरस्मिन् पक्षे अयम् दोषः । सर्वेषु अपत्ययुक्तेषु । सर्वेषु अपत्ययुक्तेषु तावत् न दोषः । सर्वेषु हि अपत्ययुक्तेषु सर्वतः उत्पत्त्या भवतिव्यम् । तत्र नियमः उपपन्नः भवति । सति नियमे न एषः दोषः ।

KA II,247.2-251.11 Ro III,574-590 kimartham idam ucyate . utpādayitāram prati apatyayogāt tasya ca vivakṣitatvāt ekavacanam gotre . utpādayitā utpādayitā apatyena yujyate . tasya ca vivakṣitatvāt . utpādayituḥ saḥ ca abhisambandhaḥ vivakṣitaḥ . utpādayitāram prati apatyayogāt tasya ca abhisambandhasya vivakṣitatvāt utpādayituḥ utpādayituḥ apatyābhidhāne anekaḥ pratyayaḥ prāpnoti . iṣyate ca ekaḥ eva syāt iti . tat ca antareṇa yatnam na sidhyati iti ekavacanam gotre . evamartham idam ucyate . katham punaḥ jñāyate utpādayitā utpādayitā apatyena yujyate iti . evam hi dṛśyate loke . pitāmahasya utsaṅge dārakam āsīnam kaḥ cit pṛcchati kasya ayam iti . saḥ āha devadattasya yajñadattasya vā iti . utpādayitāram vyapadiśati na ātmānam . asti prayojanam etat . kim tarhi iti . tatra pratyayāntāt gotre pratiṣedhaḥ gotre niyatatvāt . tatra pratyayāntāt gotre pratiṣedhaḥ vaktavyaḥ . aupagavasya apatyam iti . kim kāraṇam . gotre niyatatvāt . gotre hi ayam niyamaḥ kriyate . tena yaḥ ca asau yathājātīyakaḥ ca gotrapratyayaḥ prāpnoti saḥ ekaḥ syāt . kaḥ ca prāpnoti . yaḥ pratyayāntāt . paramaprakṛteḥ ca utpattiḥ . paramaprakṛteḥ ca utpattiḥ vaktavyā . ayogāt hi na prāpnoti . etayoḥ ca eva parihāraḥ paṭhiṣyati hi ācāryaḥ yūni ca antarhite aprāptiḥ iti tasya ca yathā tatpratyayāntam . yathā tat eva vikārāvayavapratyayāntam dvitīyam ca tṛtīyam ca vikāram saṅkrāmati evam iha api tat eva apatyapratyayāntam dvitīyam ca tṛtīyam ca apatyam saṅkramiṣyati . bhavet siddham aupagavasya apatyam aupagavaḥ yatra saḥ eva anantaraḥ iṣyate saḥ eva gotre . idam tu khalu na sidhyati gargasya apatyam gārgyaḥ iti . atra hi anyaḥ anantaraḥ iṣyate anyaḥ gotre . striyām ca aniyamaḥ . striyām ca yuvatyām niyamaḥ na prāpnoti . aupagavī māṇavakī . niyamāt hi strī paryudasyate ekaḥ gotre gotrāt yūni astriyām iti . katarasmin pakṣe ayam doṣaḥ . utpādayitari apatyayukte . utpādayitari tāvat apatyayukte na doṣaḥ . utpādayitari hi apatyayukte na sarvataḥ utpattyā bhavitavyam . tatra niyamaḥ na upapadyate . asati niyame na eṣaḥ doṣaḥ . sarveṣu tarhi apatyayukteṣu ayam doṣaḥ . sarveṣu hi apatyayukteṣu sarvataḥ utpattyā bhavitavyam . tatra niyamaḥ upapannaḥ bhavati . sati niyame eṣaḥ doṣaḥ . utpādayitari ca apatyayukte striyā yuvatyā abhidhānam na prāpnoti . kim kāraṇam . gotrasañjñā yuvasañām bādhate . gotrāt yūni ca astriyām pratyayaḥ vidhīyate . yūni ca antarhite aprāptiḥ . yūni ca antarhite niyamasya aprāptiḥ . gārgyāyaṇasya apatyam iti . katarasmin pakṣe ayam doṣaḥ . sarveṣu apatyayukteṣu . sarveṣu apatyayukteṣu tāvat na doṣaḥ . sarveṣu hi apatyayukteṣu sarvataḥ utpattyā bhavativyam . tatra niyamaḥ upapannaḥ bhavati . sati niyame na eṣaḥ doṣaḥ . utpādayitari tarhi apatyayukte ayam doṣaḥ . utpādayitari hi apatyayukte paramaprakṛteḥ anantarāt gotrāt ca ayogāt na prāpnoti . yūnaḥ ca na prāpnoti . kim kāraṇam . gotrāt iti niyamāt . santu tarhi katham punaḥ jñāyate sarve apatyayuktāḥ iti . evam hi yājñikāḥ paṭhanti . daśapuruṣānūkam yasya gṛhe śūdrāḥ na vidyeran saḥ somam pibet iti . yadi ca sarve apatyayuktāḥ bhavanti tataḥ etat upapannam bhavati . katham yat uktam pitāmahasya utsaṅge dārakam āsīnam kaḥ cit pṛcchati kasya ayam iti . saḥ āha devadattasya yajñadattasya vā iti . utpādayitāram vyapadiśati na ātmānam iti . utpattiḥ tasya vivakṣitā . sarveṣām na idam apatyam . devadattaḥ tu asya utpādayitā iti . atha sarveṣu apatyayukteṣu kim anena kriyate ekaḥ gotre iti . sarveṣām apatyayogāt pratyayāntāt gotre pratiṣedhārtham ekaḥ gotre . sarveṣām apatyayogāt pratyayāntāt gotre pratiṣedhārtham ekaḥ gotre iti ucyate . asti prayojanam etat . kim tarhi iti . na tu jñāyate kaḥ ekaḥ bhavati yaḥ vā paramaprakṛteḥ yaḥ vā anantarāt iti . niyamānupapattiḥ ca . niyamaḥ ca na upapadyate . kim kāraṇam . na hi ekasmin apatye anekapratyayaprāptiḥ . na hi ekasmin apatye anekapratyayaḥ prāpnoti . kim tarhi . apatyāntare śabdāntarāt pratyayāntaraprāptiḥ . apatyāntare apatyāntara śabdāntarāt śabdāntarāt pratyayāntaram pratyayāntaram prāpnoti . phakantāt iñ iñantāt phak iti phagiñoḥ dāśatayī pratyayamālā prāpnoti . katarasmin pakṣe ayam doṣaḥ . sarveṣu apatyayukteṣu . sarveṣu apatyayukteṣu tāvat na doṣaḥ . sarveṣu hi apatyayukteṣu sarvataḥ utpattyā bhavativyam . tatra niyamaḥ upapannaḥ bhavati . sati niyame na eṣaḥ doṣaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२५२।२-१० रो इइइ,५९०-५९१ इञः वृद्धावृद्धाभ्याम् फिञ्फिनौ विप्रतिषेधेन । इञः वृद्धावृद्धाभ्याम् फिञ्फिनौ भवतः विप्रतिषेधेन । इञः अवकाशः दाक्षिः प्लाक्षिः । फिञः अवकाशः तादायनिः यादायनिः । इह उभयम् प्राप्नोति तापसायनिः साम्मितिकायनिः । फिनः अवकाशः त्वचायनिः स्रुचायनिः । इञः सः एव । इह उभयम् प्राप्नोति ग्लुचुकायनिः मुलुचुकायनिः । फिञ्फिनौ भवतः विप्रतिषेधेन । इह कस्मात् न भवति दाक्षिः प्लाक्षिः । बहुलवचनात् । तद्राजः च । तद्राजः च इञः भवति विप्रतिषेधेन । तद्राजसय अवकाशः ऐक्ष्वकः । इञः सः एव । इह उभयम् प्राप्नोति पाञ्चालः वैदेहः वैदर्भः । तद्राजः भवति विप्रतिषेधेन ।

KA II,252.2-10 Ro III,590-591 iñaḥ vṛddhāvṛddhābhyām phiñphinau vipratiṣedhena . iñaḥ vṛddhāvṛddhābhyām phiñphinau bhavataḥ vipratiṣedhena . iñaḥ avakāśaḥ dākṣiḥ plākṣiḥ . phiñaḥ avakāśaḥ tādāyaniḥ yādāyaniḥ . iha ubhayam prāpnoti tāpasāyaniḥ sāmmitikāyaniḥ . phinaḥ avakāśaḥ tvacāyaniḥ srucāyaniḥ . iñaḥ saḥ eva . iha ubhayam prāpnoti glucukāyaniḥ mulucukāyaniḥ . phiñphinau bhavataḥ vipratiṣedhena . iha kasmāt na bhavati dākṣiḥ plākṣiḥ . bahulavacanāt . tadrājaḥ ca . tadrājaḥ ca iñaḥ bhavati vipratiṣedhena . tadrājasaya avakāśaḥ aikṣvakaḥ . iñaḥ saḥ eva . iha ubhayam prāpnoti pāñcālaḥ vaidehaḥ vaidarbhaḥ . tadrājaḥ bhavati vipratiṣedhena .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२५२।१२-२१ रो इइइ,५९१-५९२ बाह्वादिप्रभृतिषु येषाम् दर्शनम् गोत्रभावे लौकिके ततः अन्यत्र तेषाम् प्रतिषेधः । बाह्वादिप्रभृतिषु येषाम् दर्शनम् गोत्रभावे लौकिके ततः अन्यत्र तेषाम् प्रतिषेधः वक्तव्यः । बाहोः अपत्यम् बाहिः । यः हि बाहुः नाम बाहवः तस्य भवति । नडस्य अपत्यम् नाडायनः । यः हि नडः नाम नाडिः तस्य भवति । सम्बन्धिशब्दप्रत्ययानाम् तत्सदृशात् प्रतिषेधः । सम्बन्धिशब्दप्रत्ययानाम् च तत्सदृशात् प्रतिषेधः वक्तव्यः । श्वशुरस्य अपत्यम् श्वशुर्यः । यः हि श्वशुरः नाम श्वाशुरिः तस्य भवति । प्रत्ययग्रहणेन न अर्थः । सम्बन्धिशब्दानाम् तत्सदृशात् प्रतिषेधः इति एव । इदम् अपि सिद्धम् भवति । मातृपितृभ्याम् स्वसा । मातृष्वसा । अन्या मातृस्वसा इति ।

KA II,252.12-21 Ro III,591-592 bāhvādiprabhṛtiṣu yeṣām darśanam gotrabhāve laukike tataḥ anyatra teṣām pratiṣedhaḥ . bāhvādiprabhṛtiṣu yeṣām darśanam gotrabhāve laukike tataḥ anyatra teṣām pratiṣedhaḥ vaktavyaḥ . bāhoḥ apatyam bāhiḥ . yaḥ hi bāhuḥ nāma bāhavaḥ tasya bhavati . naḍasya apatyam nāḍāyanaḥ . yaḥ hi naḍaḥ nāma nāḍiḥ tasya bhavati . sambandhiśabdapratyayānām tatsadṛśāt pratiṣedhaḥ . sambandhiśabdapratyayānām ca tatsadṛśāt pratiṣedhaḥ vaktavyaḥ . śvaśurasya apatyam śvaśuryaḥ . yaḥ hi śvaśuraḥ nāma śvāśuriḥ tasya bhavati . pratyayagrahaṇena na arthaḥ . sambandhiśabdānām tatsadṛśāt pratiṣedhaḥ iti eva . idam api siddham bhavati . mātṛpitṛbhyām svasā . mātṛṣvasā . anyā mātṛsvasā iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२५३।२-६ रो इइइ,५९२-५९३ सुधातृव्यासयोः । सुधातृव्यासयोः इति वक्तव्यम् : सौधातकिः , वयासकिः शुकः । अत्यल्पम् इदम् उच्यते । सुधातृव्यासवरुडनिषादचण्डालबिम्बानाम् इति वक्तव्यम् : सौधातकिः , वैयासिकः शुकः , वारुडकिः , नैषादकिः , चाण्डालकिः , बैम्बकिः । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । प्रकृत्यन्तराणि एतानि ।

KA II,253.2-6 Ro III,592-593 sudhātṛvyāsayoḥ . sudhātṛvyāsayoḥ iti vaktavyam : saudhātakiḥ , vayāsakiḥ śukaḥ . atyalpam idam ucyate . sudhātṛvyāsavaruḍaniṣādacaṇḍālabimbānām iti vaktavyam : saudhātakiḥ , vaiyāsikaḥ śukaḥ , vāruḍakiḥ , naiṣādakiḥ , cāṇḍālakiḥ , baimbakiḥ . tat tarhi vaktavyam . na vaktavyam . prakṛtyantarāṇi etāni .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२५३।८-२५४।३ रो इइइ,५९३-५९४ किमर्थः चकारः । स्वरार्थः । चितः अन्तः उन्दात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् । अथ ञकारः किमर्थः । ञकारः वृद्ध्यर्थः । ञ्णिति इति वृद्धिः यथा स्यात् । एकेन ककारेण उभयम् सिद्धम् । अवश्यम् अत्र विशेषणाऋथः अन्यः अनुबन्धः कर्तव्यः । क्व विशेषणार्थेन अर्थः । व्रातच्फञोः अस्त्रियाम् इति । फकः इति हि उच्यमाने नाडायनः अत्र अपि प्रसज्येत । अथ अपि फञः इति उच्यते एवम् अपि आश्वायनः अत्र अपि प्रसज्येत । तस्मात् चकारः एव कर्तव्यः अन्तोदात्तत्वम् अपि यथा स्यात् । चकारे च इदानीम् विशेषणार्थे क्रियमाणे अवश्यम् वृद्ध्यर्थः अन्यः अनुबन्धः कर्तव्यः । सः च ञकारः एव कर्तव्यः सूत्रभेदः मा भूत् इति । अथ क्रियमाने अपि वै चकारे अन्तोदात्तत्वम् न प्राप्नोति । किम् कारणम् । परत्वात् ञ्निति इति आद्युदात्तत्वम् प्राप्नोति । चित्करणसामर्थ्यात् अन्तोदात्तत्वम् भविष्यति । ञित्करणसामर्थ्यात् आद्युदात्तत्वम् प्राप्नोति । अस्ति अन्यत् ञित्करणे प्रयोजनम् । किम् । वृद्ध्यर्थः ञकारः । चित्करणे अपि तर्हि अन्यत् प्रयोजनम् अस्ति । किम् । विशेषणार्थः चकारः । शक्यः अत्र विशेषणार्थः अन्यः अनुबन्धः आसङ्क्तुम् । तत्र चकारानुरोधात् अन्तोदात्तत्वम् भवति । वृद्ध्यर्थः अपि तर्हि अन्यः शक्यः अनुबन्धः आसङ्क्तुम् । तत्र ञकारानुरोधात् आद्युदात्तत्वम् प्राप्नोति । एवम् तर्हि स्वरे योगविभागः करिष्यते । इदम् अस्ति । चितः । चितः अन्तः उदात्तः भवति । ततः तद्धितस्य । तद्धितस्य च चितः अन्तः उदात्तः भवति इति । किमर्थम् इदम् । परत्वात् ञ्निति इति आद्युदात्तत्वम् प्राप्नोति । तद्बाधनार्थम् । ततः कितः । कितः तद्धितस्य अन्तः उदात्तः भवति । किम् पुनः अत्र स्वरार्थेन चकारेण अनुबन्धेन यावता च्फञन्तात् ञ्यः विधीयते । तत्र ञ्निति इति आद्युदात्तत्वेन भवितव्यम् । न एतत् अस्ति । बहुषु लोपे कृते अन्तोदात्तत्वम् यथा स्यात् । कौञ्चायनाः इति ।

KA II,253.8-254.3 Ro III,593-594 kimarthaḥ cakāraḥ . svarārthaḥ . citaḥ antaḥ undāttaḥ bhavati iti antodāttatvam yathā syāt . atha ñakāraḥ kimarthaḥ . ñakāraḥ vṛddhyarthaḥ . ñṇiti iti vṛddhiḥ yathā syāt . ekena kakāreṇa ubhayam siddham . avaśyam atra viśeṣaṇāṛthaḥ anyaḥ anubandhaḥ kartavyaḥ . kva viśeṣaṇārthena arthaḥ . vrātacphañoḥ astriyām iti . phakaḥ iti hi ucyamāne nāḍāyanaḥ atra api prasajyeta . atha api phañaḥ iti ucyate evam api āśvāyanaḥ atra api prasajyeta . tasmāt cakāraḥ eva kartavyaḥ antodāttatvam api yathā syāt . cakāre ca idānīm viśeṣaṇārthe kriyamāṇe avaśyam vṛddhyarthaḥ anyaḥ anubandhaḥ kartavyaḥ . saḥ ca ñakāraḥ eva kartavyaḥ sūtrabhedaḥ mā bhūt iti . atha kriyamāne api vai cakāre antodāttatvam na prāpnoti . kim kāraṇam . paratvāt ñniti iti ādyudāttatvam prāpnoti . citkaraṇasāmarthyāt antodāttatvam bhaviṣyati . ñitkaraṇasāmarthyāt ādyudāttatvam prāpnoti . asti anyat ñitkaraṇe prayojanam . kim . vṛddhyarthaḥ ñakāraḥ . citkaraṇe api tarhi anyat prayojanam asti . kim . viśeṣaṇārthaḥ cakāraḥ . śakyaḥ atra viśeṣaṇārthaḥ anyaḥ anubandhaḥ āsaṅktum . tatra cakārānurodhāt antodāttatvam bhavati . vṛddhyarthaḥ api tarhi anyaḥ śakyaḥ anubandhaḥ āsaṅktum . tatra ñakārānurodhāt ādyudāttatvam prāpnoti . evam tarhi svare yogavibhāgaḥ kariṣyate . idam asti . citaḥ . citaḥ antaḥ udāttaḥ bhavati . tataḥ taddhitasya . taddhitasya ca citaḥ antaḥ udāttaḥ bhavati iti . kimartham idam . paratvāt ñniti iti ādyudāttatvam prāpnoti . tadbādhanārtham . tataḥ kitaḥ . kitaḥ taddhitasya antaḥ udāttaḥ bhavati . kim punaḥ atra svarārthena cakāreṇa anubandhena yāvatā cphañantāt ñyaḥ vidhīyate . tatra ñniti iti ādyudāttatvena bhavitavyam . na etat asti . bahuṣu lope kṛte antodāttatvam yathā syāt . kauñcāyanāḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२५४।४-१४ रो इइइ,५९४-५९५ इह के चित् द्व्येकयोः फ्यञम् विदधति बहुषु च फकम् के चित् च्फञन्तात् ञ्यम् । किम् अत्र न्याय्यम् । ञ्यवचनम् एव न्याय्यम् । द्व्येकयोः हि फ्यञि सति बहुषु च फकि क्रौञ्जायनानाम् अपत्यम् माणवकः कौञ्जायन्यः कौञ्जायन्यौ केन यशब्दः श्रूयेत । द्व्येकयोः इति उच्यमानः न प्राप्नोति । इह कौञ्जायनस्य अपत्यम् बहवः माणवकाः कौञ्जायनाः केन य शब्दः न श्रूयेत । द्व्येकयोः इति उच्यमानः प्राप्नोति । तत् एतत् कथम् कृत्वा ञ्यवचनम् ज्यायः भवति । यदि तत् न अस्ति । आपत्यः वा गोत्रम् । परमप्रकृतेः च आपत्यः । आपत्यात् जीववञ्श्यात् स्वार्थे द्वितीयः युवसञ्ज्ञः सः च अस्त्रियाम् । एकोगोत्रग्रहणानर्थक्यम् च बहुवचनलोपिषु च सिद्धम् इति । सति हि तस्मिन् द्व्येकयोः अपि फ्यञि सति बहुषु च फकि न दोषः भवति । तत्र कौञ्जायनानाम् अपत्यम् माणवकः इति विगृह्य कुञ्जशब्दात् द्व्येकयोः उत्पत्तिः भविष्यति । कौञ्जायन्यः कौञ्जायन्यौ । कौञ्जायनस्य अपत्यम् बहवः माणवकाः इति विगृह्य कुञ्जशब्दात् बहुषु उत्पत्तिः भविष्यति । कौञ्जायनाः इति ।

KA II,254.4-14 Ro III,594-595 iha ke cit dvyekayoḥ phyañam vidadhati bahuṣu ca phakam ke cit cphañantāt ñyam . kim atra nyāyyam . ñyavacanam eva nyāyyam . dvyekayoḥ hi phyañi sati bahuṣu ca phaki krauñjāyanānām apatyam māṇavakaḥ kauñjāyanyaḥ kauñjāyanyau kena yaśabdaḥ śrūyeta . dvyekayoḥ iti ucyamānaḥ na prāpnoti . iha kauñjāyanasya apatyam bahavaḥ māṇavakāḥ kauñjāyanāḥ kena ya śabdaḥ na śrūyeta . dvyekayoḥ iti ucyamānaḥ prāpnoti . tat etat katham kṛtvā ñyavacanam jyāyaḥ bhavati . yadi tat na asti . āpatyaḥ vā gotram . paramaprakṛteḥ ca āpatyaḥ . āpatyāt jīvavañśyāt svārthe dvitīyaḥ yuvasañjñaḥ saḥ ca astriyām . ekogotragrahaṇānarthakyam ca bahuvacanalopiṣu ca siddham iti . sati hi tasmin dvyekayoḥ api phyañi sati bahuṣu ca phaki na doṣaḥ bhavati . tatra kauñjāyanānām apatyam māṇavakaḥ iti vigṛhya kuñjaśabdāt dvyekayoḥ utpattiḥ bhaviṣyati . kauñjāyanyaḥ kauñjāyanyau . kauñjāyanasya apatyam bahavaḥ māṇavakāḥ iti vigṛhya kuñjaśabdāt bahuṣu utpattiḥ bhaviṣyati . kauñjāyanāḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२५४।१६-२७ रो इइइ,५९५-५९६ अनृष्यानन्तर्ये इति उच्यते । तत्र इदम् सिध्यति कौशिकः विश्वामित्रः इति । किम् कारणम् । विश्वामित्रः तपः तेपे न अनृष्हिः स्याम् इति । तत्रभवान् ऋषिः सम्पन्नः । सः पुनः तपः तेपे न अनृष्हेः पुत्रः स्याम् इति । तत्रभवान् गाधिः अपि ऋषिः सम्पन्नः । सः पुनः तपः तेपे न अनृष्हेः पौत्रः स्याम् इति । तत्रभवान् कुशिकः अपि ऋषिः सम्पन्नः । तत् एतत् ऋष्यानन्तर्यम् भवति । तत्र अनृष्यानन्तर्ये इति प्रतिषेधः प्राप्नोति । न एषः दोषः । न एवम् विज्ञायते ऋष्यानन्तर्ये न भवति इति । कथम् तर्हि । ऋषौ अनन्तरे न इति । यदि एवम् । अनृष्यानन्तर्यवचनम् अनर्थकम् सञ्ज्ञागोत्राधिकारात् । अनृष्यानन्तर्यवचनम् अनर्थकम् । किम् कारणम् । सञ्ज्ञागोत्राधिकारात् । सञ्ज्ञागोत्रे इति वर्तते । कः प्रसङ्गः यत् अनन्तेरे स्यात् । न एव प्राप्नोति न अर्थः प्रतिषेधेन । एवम् तर्हि सिद्धे सति यत् अनृष्यानन्तर्ये इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः बिदादिषु ये अनृषयः पठन्ते तेषाम् अनन्तरे अपि वृत्तिः भवति । किम् एतस्य ज्ञापने प्रयोजनम् । नानान्द्रः पौत्रः दौहित्रः इति एतत् सिद्धम् भवति ।

KA II,254.16-27 Ro III,595-596 anṛṣyānantarye iti ucyate . tatra idam sidhyati kauśikaḥ viśvāmitraḥ iti . kim kāraṇam . viśvāmitraḥ tapaḥ tepe na anṛṣhiḥ syām iti . tatrabhavān ṛṣiḥ sampannaḥ . saḥ punaḥ tapaḥ tepe na anṛṣheḥ putraḥ syām iti . tatrabhavān gādhiḥ api ṛṣiḥ sampannaḥ . saḥ punaḥ tapaḥ tepe na anṛṣheḥ pautraḥ syām iti . tatrabhavān kuśikaḥ api ṛṣiḥ sampannaḥ . tat etat ṛṣyānantaryam bhavati . tatra anṛṣyānantarye iti pratiṣedhaḥ prāpnoti . na eṣaḥ doṣaḥ . na evam vijñāyate ṛṣyānantarye na bhavati iti . katham tarhi . ṛṣau anantare na iti . yadi evam . anṛṣyānantaryavacanam anarthakam sañjñāgotrādhikārāt . anṛṣyānantaryavacanam anarthakam . kim kāraṇam . sañjñāgotrādhikārāt . sañjñāgotre iti vartate . kaḥ prasaṅgaḥ yat anantere syāt . na eva prāpnoti na arthaḥ pratiṣedhena . evam tarhi siddhe sati yat anṛṣyānantarye iti pratiṣedham śāsti tat jñāpayati ācāryaḥ bidādiṣu ye anṛṣayaḥ paṭhante teṣām anantare api vṛttiḥ bhavati . kim etasya jñāpane prayojanam . nānāndraḥ pautraḥ dauhitraḥ iti etat siddham bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२५५।२-४ रो इइइ,५९६-५९७ किमर्थम् इदम् उच्यते न गर्गादिभ्यः यञ् इति एव सिद्धम् । लुक् स्त्रियाम् इति वक्ष्यामि इति । यदि पुनः तत्र एव उच्येत । न एवम् शक्यम् । आङ्गिरसग्रहणम् हि विच्छिद्येत ।

KA II,255.2-4 Ro III,596-597 kimartham idam ucyate na gargādibhyaḥ yañ iti eva siddham . luk striyām iti vakṣyāmi iti . yadi punaḥ tatra eva ucyeta . na evam śakyam . āṅgirasagrahaṇam hi vicchidyeta .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२५५।६-२४ रो इइइ,५९७-५९८ किमर्थम् शिवादिभ्यः अण् विधीयते न यथाविहितम् एव उच्येत । शिवादिभ्यः यथाविहितम् इति इयति उच्यमाने इञ् प्रसज्येत । इञ् अतो यथाविहितः । पुनर्वचनम् इदानीम् किमर्थम् स्यात् । पुनर्वचनम् इदानीम् किमर्थम् स्यात् । ये तस्य बाधकाः तद्बाधनार्थम् । सः वै न अस्ति यः तम् बाधेत । तत्र आरम्भसामर्थ्यात् यः विहितः न च प्राप्नोति सः भविष्यति । कः च असौ । अण् एव । उत्तरार्थम् तर्हि : अवृद्धाभ्यः नदीमानुषीभ्यः तन्नामिकाभ्यः इति । अत्र यथाविहितम् इति इयति उच्यमाने ढक् प्रस्ज्येत । ढक् अतः यथाविहितः । पुनर्वचनम् इदानीम् किमर्थम् स्यात् । ये तस्य बाधकाः तद्बाधनार्थम् । सः वै न अस्ति यः तम् बाधेत । तत्र आरम्भसामर्थ्यात् यः विहितः न च प्राप्नोति सः भविष्यति । कः च असौ । अण् एव । उत्तरार्थम् एव तर्हि : ऋष्यन्धकवृष्णिकुरुभ्यः च इति । अत्र यथाविहितम् इति इयति उच्यमाने इञ् प्रस्ज्येत । इञ् अतः यथाविहितः । पुनर्वचनम् इदानीम् किमर्थम् स्यात् । ये तस्य बाधकाः तद्बाधनार्थम् । सः वै न अस्ति यः तम् बाधेत । तत्र आरम्भसामर्थ्यात् यः विहितः न च प्राप्नोति सः भविष्यति । कः च असौ । अण् एव । उत्तरार्थम् एव तर्हि : मातुः उत् सङ्ख्यासम्भद्रपूर्वायाः , कन्यायाः कनीन च इति । अत्र यथाविहितम् इति इयति उच्यमाने ढक् प्रस्ज्येत । ढक् अतः यथाविहितः । पुनर्वचनम् इदानीम् किमर्थम् स्यात् । मातुः उकारम् वक्ष्यामि कन्यायाः कनीनभावम् इति । यदि एतावत् प्रयोजनम् स्यात् तत्र एव अयम् ब्रूयात् : स्त्रीभ्यः ढक् , मातुः उकारः , कन्यायाः च कनीनभावः इति । इदम् तर्हि प्रयोजनम् : अयम् ऋष्टिषेणशब्दः शिवादिषु पठ्यते । तत्र यथाविहितम् इति इयति उच्यमाने इञ् प्रसज्येत । तम् परत्वात् सेनान्तात् ण्यः बाधेत । तत्र आरम्भसामर्थ्यात् इञ् प्रसज्येत । पुनरण्ग्रहणात् अण् एव भवति

KA II,255.6-24 Ro III,597-598 kimartham śivādibhyaḥ aṇ vidhīyate na yathāvihitam eva ucyeta . śivādibhyaḥ yathāvihitam iti iyati ucyamāne iñ prasajyeta . iñ ato yathāvihitaḥ . punarvacanam idānīm kimartham syāt . punarvacanam idānīm kimartham syāt . ye tasya bādhakāḥ tadbādhanārtham . saḥ vai na asti yaḥ tam bādheta . tatra ārambhasāmarthyāt yaḥ vihitaḥ na ca prāpnoti saḥ bhaviṣyati . kaḥ ca asau . aṇ eva . uttarārtham tarhi : avṛddhābhyaḥ nadīmānuṣībhyaḥ tannāmikābhyaḥ iti . atra yathāvihitam iti iyati ucyamāne ḍhak prasjyeta . ḍhak ataḥ yathāvihitaḥ . punarvacanam idānīm kimartham syāt . ye tasya bādhakāḥ tadbādhanārtham . saḥ vai na asti yaḥ tam bādheta . tatra ārambhasāmarthyāt yaḥ vihitaḥ na ca prāpnoti saḥ bhaviṣyati . kaḥ ca asau . aṇ eva . uttarārtham eva tarhi : ṛṣyandhakavṛṣṇikurubhyaḥ ca iti . atra yathāvihitam iti iyati ucyamāne iñ prasjyeta . iñ ataḥ yathāvihitaḥ . punarvacanam idānīm kimartham syāt . ye tasya bādhakāḥ tadbādhanārtham . saḥ vai na asti yaḥ tam bādheta . tatra ārambhasāmarthyāt yaḥ vihitaḥ na ca prāpnoti saḥ bhaviṣyati . kaḥ ca asau . aṇ eva . uttarārtham eva tarhi : mātuḥ ut saṅkhyāsambhadrapūrvāyāḥ , kanyāyāḥ kanīna ca iti . atra yathāvihitam iti iyati ucyamāne ḍhak prasjyeta . ḍhak ataḥ yathāvihitaḥ . punarvacanam idānīm kimartham syāt . mātuḥ ukāram vakṣyāmi kanyāyāḥ kanīnabhāvam iti . yadi etāvat prayojanam syāt tatra eva ayam brūyāt : strībhyaḥ ḍhak , mātuḥ ukāraḥ , kanyāyāḥ ca kanīnabhāvaḥ iti . idam tarhi prayojanam : ayam ṛṣṭiṣeṇaśabdaḥ śivādiṣu paṭhyate . tatra yathāvihitam iti iyati ucyamāne iñ prasajyeta . tam paratvāt senāntāt ṇyaḥ bādheta . tatra ārambhasāmarthyāt iñ prasajyeta . punaraṇgrahaṇāt aṇ eva bhavati

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२५६।२-२५७।१५ रो इइइ,५५९-६०१ ऋषिस्त्र्यणः ढग्ढ्रकौ विप्रतिषेधेन । ऋषिस्त्र्यणः ढग्ढ्रकौ भवतः विप्रतिषेधेन । ऋष्यणः अवकाशः : वासिष्ठः, वैश्वामित्रः । ढकः अवकाशः : दुलि दौलेयः, बलि बालेयः । इह उभयम् प्राप्नोति : अत्रि , आत्रेयः । स्त्र्यणः अवकाशः : मकन्दिका माकन्दिकः । ढ्रकः अवकाशः : काणिकेरः । इह उभयम् प्राप्नोति : पौणिकेरः , मौद्गलिकेरः । ढग्ढ्रकौ भवतः विप्रतिषेधेन । द्व्यचः ढकः ढ्रग्ढञौ । द्व्यचः ढक् भवति इति एतस्मात् ढ्रग्ढञौ भवतः विप्रतिषेधेन । द्व्यचः ढक् भवति इति अस्य अवकाशः : दात्तेयः , गौप्तेयः । ढ्रकः सः एव । इह उभयम् प्राप्नोति : नटी नाटेरः , दासी दासेरः । ढञः अवकाशः : कामण्डलेयः , भाद्रबाहेयः । ढकः सः एव । इह उभयम् प्राप्नोति : जम्बू जाम्बेयः । ढ्रग्ढञौ भवतः विप्रतिषेधेन । न वा ऋष्यणः पुनर्वचनम् अन्यनिवृत्त्यर्थम् । न वा एषः युक्तः विप्रतिषेधः यः अयम् ऋष्यणः ढकः च । किम् कारणम् । ऋष्यणः पुनर्वचनम् अन्यनिवृत्त्यर्थम् । सिद्धः अत्र अण् उत्सर्गेण एव । तस्य पुनर्वचने एतत् प्रयोजनम् ये अन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थम् । सः यथा एव तदपवादम् इञम् बाधते एवम् ढकम् अपि बाधेत । तस्मात् ऋषिभ्यः अण्विधाने अत्र्यादिप्रतिषेधः । तस्मात् ऋषिभ्यः अण्विधाने अत्र्यादिप्रतिषेधः वक्तव्यः । न वक्तव्यः । मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् अयम् ऋष्यण् इञम् बाधिष्यते ढकम् न बाधिष्यते । अयम् च अपि अयुक्तः विप्रतिषेधः यः अयम् ढकः ड्रग्ढञोः च। किम् कारणम् । ढकः पुनर्वचनम् अन्यनिवृत्त्यर्थम् । सिद्धः अत्र ढक् स्त्रीभ्यः ढक् इति एव । तस्य पुनर्वचने एतत् प्रयोजनम् ये अन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थम् । सः यथा एव तदपवादम् तन्नामिकाणम् बाधते एवम् ढग्ढ्रञौ अपि बाधेत । तस्मात् तन्नामिकाणि अद्व्यचः । तस्मात् तन्नामिकाणि अद्व्यचः इति वक्तव्यम् । न वक्तव्यम् । मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् अयम् ढक् तन्नामिकाणम् तदपवादम् बाधिष्यते ढ्रग्ढञौ न बाधिष्यते । ऋष्यन्धकवृष्णिकुर्वणः सेनान्तात् ण्यः । ऋष्यन्धकवृष्णिकुर्वणः सेनान्तात् ण्यः भवति विप्रतिषेधेन । ऋष्यणः अवकाशः : वासिष्ठः, वैश्वामित्रः । ण्यस्य अवकाशः : पाऋइषेण्यः, वारिषेण्यः । जातसेनः नाम् ऋषिः तस्मात् उभयम् प्राप्नोति । ण्यः भवति विप्रतिषेधेन । अन्धकाणः अवकाशः : श्वाफल्कः, श्वैत्रकः । ण्यस्य सः एव । उग्रसेनः नाम अन्धकः । तस्मात् उभयम् प्राप्नोति । ण्यः भवति विप्रतिषेधेन : औग्रसेन्यः । वृष्ण्यणः अवकाशः : वासुदेवः , बालदेवः । ण्यस्य सः एव । व्ष्वक्सेनः नाम वृष्णिः तस्मात् उभयम् प्राप्नोति । ण्यः भवति विप्रतिषेधेन : वैष्वक्सेन्यः । कुर्वणः अवकाशः : नाकुलः , साहदेवः । ण्यस्य सः एव । भीमसेनः नाम कुरुः तस्मात् उभयम् प्राप्नोति । ण्यः भवति विप्रतिषेधेन : भैमसेन्यः । सेनान्तात् ण्यः भवति विप्रतिषेधेन जातोग्रविष्वग्भीमेभ्यः इति वक्तव्यम्

KA II,256.2-257.15 Ro III,559-601 ṛṣistryaṇaḥ ḍhagḍhrakau vipratiṣedhena . ṛṣistryaṇaḥ ḍhagḍhrakau bhavataḥ vipratiṣedhena . ṛṣyaṇaḥ avakāśaḥ : vāsiṣṭhaḥ, vaiśvāmitraḥ . ḍhakaḥ avakāśaḥ : duli dauleyaḥ, bali bāleyaḥ . iha ubhayam prāpnoti : atri , ātreyaḥ . stryaṇaḥ avakāśaḥ : makandikā mākandikaḥ . ḍhrakaḥ avakāśaḥ : kāṇikeraḥ . iha ubhayam prāpnoti : pauṇikeraḥ , maudgalikeraḥ . ḍhagḍhrakau bhavataḥ vipratiṣedhena . dvyacaḥ ḍhakaḥ ḍhragḍhañau . dvyacaḥ ḍhak bhavati iti etasmāt ḍhragḍhañau bhavataḥ vipratiṣedhena . dvyacaḥ ḍhak bhavati iti asya avakāśaḥ : dātteyaḥ , gaupteyaḥ . ḍhrakaḥ saḥ eva . iha ubhayam prāpnoti : naṭī nāṭeraḥ , dāsī dāseraḥ . ḍhañaḥ avakāśaḥ : kāmaṇḍaleyaḥ , bhādrabāheyaḥ . ḍhakaḥ saḥ eva . iha ubhayam prāpnoti : jambū jāmbeyaḥ . ḍhragḍhañau bhavataḥ vipratiṣedhena . na vā ṛṣyaṇaḥ punarvacanam anyanivṛttyartham . na vā eṣaḥ yuktaḥ vipratiṣedhaḥ yaḥ ayam ṛṣyaṇaḥ ḍhakaḥ ca . kim kāraṇam . ṛṣyaṇaḥ punarvacanam anyanivṛttyartham . siddhaḥ atra aṇ utsargeṇa eva . tasya punarvacane etat prayojanam ye anye tadapavādāḥ prāpnuvanti tadbādhanārtham . saḥ yathā eva tadapavādam iñam bādhate evam ḍhakam api bādheta . tasmāt ṛṣibhyaḥ aṇvidhāne atryādipratiṣedhaḥ . tasmāt ṛṣibhyaḥ aṇvidhāne atryādipratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . madhye apavādāḥ pūrvān vidhīn bādhante iti evam ayam ṛṣyaṇ iñam bādhiṣyate ḍhakam na bādhiṣyate . ayam ca api ayuktaḥ vipratiṣedhaḥ yaḥ ayam ḍhakaḥ ḍragḍhañoḥ ca. kim kāraṇam . ḍhakaḥ punarvacanam anyanivṛttyartham . siddhaḥ atra ḍhak strībhyaḥ ḍhak iti eva . tasya punarvacane etat prayojanam ye anye tadapavādāḥ prāpnuvanti tadbādhanārtham . saḥ yathā eva tadapavādam tannāmikāṇam bādhate evam ḍhagḍhrañau api bādheta . tasmāt tannāmikāṇi advyacaḥ . tasmāt tannāmikāṇi advyacaḥ iti vaktavyam . na vaktavyam . madhye apavādāḥ pūrvān vidhīn bādhante iti evam ayam ḍhak tannāmikāṇam tadapavādam bādhiṣyate ḍhragḍhañau na bādhiṣyate . ṛṣyandhakavṛṣṇikurvaṇaḥ senāntāt ṇyaḥ . ṛṣyandhakavṛṣṇikurvaṇaḥ senāntāt ṇyaḥ bhavati vipratiṣedhena . ṛṣyaṇaḥ avakāśaḥ : vāsiṣṭhaḥ, vaiśvāmitraḥ . ṇyasya avakāśaḥ : pāṛiṣeṇyaḥ, vāriṣeṇyaḥ . jātasenaḥ nām ṛṣiḥ tasmāt ubhayam prāpnoti . ṇyaḥ bhavati vipratiṣedhena . andhakāṇaḥ avakāśaḥ : śvāphalkaḥ, śvaitrakaḥ . ṇyasya saḥ eva . ugrasenaḥ nāma andhakaḥ . tasmāt ubhayam prāpnoti . ṇyaḥ bhavati vipratiṣedhena : augrasenyaḥ . vṛṣṇyaṇaḥ avakāśaḥ : vāsudevaḥ , bāladevaḥ . ṇyasya saḥ eva . vṣvaksenaḥ nāma vṛṣṇiḥ tasmāt ubhayam prāpnoti . ṇyaḥ bhavati vipratiṣedhena : vaiṣvaksenyaḥ . kurvaṇaḥ avakāśaḥ : nākulaḥ , sāhadevaḥ . ṇyasya saḥ eva . bhīmasenaḥ nāma kuruḥ tasmāt ubhayam prāpnoti . ṇyaḥ bhavati vipratiṣedhena : bhaimasenyaḥ . senāntāt ṇyaḥ bhavati vipratiṣedhena jātograviṣvagbhīmebhyaḥ iti vaktavyam

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२५७।१७-१९ रो इइइ,६०१ किमर्थम् स्त्रीलिङ्गेन निर्देशः क्रियते न सङ्ख्यासम्भद्रपूर्वस्य इति एव उच्येत । स्त्रीलिङ्गः यः मातृशब्दः तस्मात् यथा स्यात् । इह मा भूत् : सम्मिमीते सम्माता, सम्मातुः अपत्यम् साम्मात्रः इति

KA II,257.17-19 Ro III,601 kimartham strīliṅgena nirdeśaḥ kriyate na saṅkhyāsambhadrapūrvasya iti eva ucyeta . strīliṅgaḥ yaḥ mātṛśabdaḥ tasmāt yathā syāt . iha mā bhūt : sammimīte sammātā, sammātuḥ apatyam sāmmātraḥ iti

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२५७।२१-२५८।२ रो इइइ,६०१-६०२ इदम् विप्रतिषिद्धम् । कः विप्रतिषेधः । अपत्यम् इति वर्तते । यदि च कन्या न अपत्यम् अथ अपत्यम् न कन्या । कन्या च अपत्यम् च इति विप्रतिषिद्धम् । न एतत् विप्रतिषिद्धम् । कथम् । कन्याशब्दः अयम् पुंसा अभिसम्बन्धपूर्वके सम्प्रयोगे निवर्तते । या च इदानीम् प्राक् अभिसम्बन्धात् पुंसा सह सम्प्रयोगम् गच्छति तस्याम् कन्याशब्दः वर्तते एव । कन्यायाः कन्योक्तायाः कन्याभिमतायाः सुदर्शनायाः यत् अपत्यम् सः कानीनः इति ।

KA II,257.21-258.2 Ro III,601-602 idam vipratiṣiddham . kaḥ vipratiṣedhaḥ . apatyam iti vartate . yadi ca kanyā na apatyam atha apatyam na kanyā . kanyā ca apatyam ca iti vipratiṣiddham . na etat vipratiṣiddham . katham . kanyāśabdaḥ ayam puṃsā abhisambandhapūrvake samprayoge nivartate . yā ca idānīm prāk abhisambandhāt puṃsā saha samprayogam gacchati tasyām kanyāśabdaḥ vartate eva . kanyāyāḥ kanyoktāyāḥ kanyābhimatāyāḥ sudarśanāyāḥ yat apatyam saḥ kānīnaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२५८।३-१५ रो इइइ,६०३-६०४ इदम् सर्वेषु एव स्त्रीग्रहणेषु विचार्यते । स्त्रीप्रत्ययग्रहणम् वा स्यात् स्त्रीशब्दग्रहणम् वा स्त्र्यर्थग्रहणम् वा । किम् च अतः । यदि शब्दग्रहणम् अर्थग्रहणम् वा इडविड् ऐडद्विड् पृथ् पार्थः उशिज् आउशिजः शरत् शारदसः अत्र अपि प्राप्नोति । अथ प्रत्ययग्रहणम् लैखाभ्रेयः वैमात्रेयः इति न सिध्यति । अस्तु प्रत्ययग्रहणम् । कथम् लैखाभ्रेयः वैमात्रेयः इति । शुभ्रादिषु पाठः करिष्यते । वडवायाः वृषे वाच्ये । वडवायाः वृषे वाच्ये ढक् वक्तव्यः । वडवायाः वृषः वाडवेयः ।

KA II,258.3-15 Ro III,603-604 idam sarveṣu eva strīgrahaṇeṣu vicāryate . strīpratyayagrahaṇam vā syāt strīśabdagrahaṇam vā stryarthagrahaṇam vā . kim ca ataḥ . yadi śabdagrahaṇam arthagrahaṇam vā iḍaviḍ aiḍadviḍ pṛth pārthaḥ uśij āuśijaḥ śarat śāradasaḥ atra api prāpnoti . atha pratyayagrahaṇam laikhābhreyaḥ vaimātreyaḥ iti na sidhyati . astu pratyayagrahaṇam . katham laikhābhreyaḥ vaimātreyaḥ iti . śubhrādiṣu pāṭhaḥ kariṣyate . vaḍavāyāḥ vṛṣe vācye . vaḍavāyāḥ vṛṣe vācye ḍhak vaktavyaḥ . vaḍavāyāḥ vṛṣaḥ vāḍaveyaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२५८।१९-२४ रो इइइ,६०४ चटकायाः पुल्ंलिङ्गनिर्देशः । चटकायाः पुल्ंलिङ्गेन निर्देशः कर्तव्यः । इह अपि यथा स्यात् । चटकस्य अपत्यम् चाटकैरः । यदि पुल्ंलिन्ग्निर्देशः क्रियते चटकाया अपत्यम् चाटकैरः इति न सिध्यति । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति एवम् भविष्यति । स्त्रियाम् अपत्ये लुक् । स्त्रियाम् अपत्ये लुक् वक्तव्यः । चटकायाः अपत्यम् स्त्री चटका ।

KA II,258.19-24 Ro III,604 caṭakāyāḥ pulṃliṅganirdeśaḥ . caṭakāyāḥ pulṃliṅgena nirdeśaḥ kartavyaḥ . iha api yathā syāt . caṭakasya apatyam cāṭakairaḥ . yadi pulṃlingnirdeśaḥ kriyate caṭakāyā apatyam cāṭakairaḥ iti na sidhyati . prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti evam bhaviṣyati . striyām apatye luk . striyām apatye luk vaktavyaḥ . caṭakāyāḥ apatyam strī caṭakā .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२५९।२-६ रो इइइ,६०४ आरग्वचनम् अनर्थकम् रका सिद्धत्वात् । आरग्वचनम् अनर्थकम् । किम् कारणम् । रका सिद्धत्वात् । गोधा आकारान्ता रक् च प्रत्ययः । एवम् तर्हि सिद्धे सति यत् आरकम् शास्ति तत् ज्ञापयति आचार्यः अन्येभ्यः अपि अयम् भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । मौण्डारः जाण्डारः पाण्डारः इति एतत् सिद्धम् भवति इति ।

KA II,259.2-6 Ro III,604 āragvacanam anarthakam rakā siddhatvāt . āragvacanam anarthakam . kim kāraṇam . rakā siddhatvāt . godhā ākārāntā rak ca pratyayaḥ . evam tarhi siddhe sati yat ārakam śāsti tat jñāpayati ācāryaḥ anyebhyaḥ api ayam bhavati iti . kim etasya jñāpane prayojanam . mauṇḍāraḥ jāṇḍāraḥ pāṇḍāraḥ iti etat siddham bhavati iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२५९।८ रो इइइ,६०४ क्षुद्राभ्यः इति उच्यते । का क्षुद्रा नाम । अनियतपुंस्का अङ्गहीना वा ।

KA II,259.8 Ro III,604 kṣudrābhyaḥ iti ucyate . kā kṣudrā nāma . aniyatapuṃskā aṅgahīnā vā .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२५९।१०-११ रो इइइ,६०५ केन विहिते पितृष्वसुः ढकि लोपः इति उच्यते । एतत् एव ज्ञापयति भवति पितृष्वसुः ढक् इति यत् अयम् ढकि लोपम् शास्ति ।

KA II,259.10-11 Ro III,605 kena vihite pitṛṣvasuḥ ḍhaki lopaḥ iti ucyate . etat eva jñāpayati bhavati pitṛṣvasuḥ ḍhak iti yat ayam ḍhaki lopam śāsti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२५९।१७-१९ रो इइइ,६०५ राज्ञः अपत्ये जातिग्रहणम् । राज्ञः अपत्ये जातिग्रहणम् कर्तव्यम् । राजन्यः नाम जातिः । क्व मा भूत् । राजनः इति ।

KA II,259.17-19 Ro III,605 rājñaḥ apatye jātigrahaṇam . rājñaḥ apatye jātigrahaṇam kartavyam . rājanyaḥ nāma jātiḥ . kva mā bhūt . rājanaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२६०।२-६ रो इइइ,६०६ व्यन्वचनम् अनर्थकम् प्रत्ययार्थाभावात् । व्यन्वचनम् अनर्थकम् । किम् कारणम् । प्रत्ययार्थाभावात् । किम् इदम् प्रत्ययार्थाभावात् इति । अपत्यार्थाभावात् । अपत्यम् इति वर्तते अनपत्ये च अपि सपत्ने भ्रातृव्यशब्दः वर्तते । पाप्मना भ्रातृव्येण इति । अस्तु तावत् अपत्यम् सपत्नः च तत्र भ्रातृव्यः इति । कथम् पाप्मना भ्रातृव्येण इति । उपमानात् सिद्धम् । भ्रातृव्यः इव भ्रातृव्यः ।

KA II,260.2-6 Ro III,606 vyanvacanam anarthakam pratyayārthābhāvāt . vyanvacanam anarthakam . kim kāraṇam . pratyayārthābhāvāt . kim idam pratyayārthābhāvāt iti . apatyārthābhāvāt . apatyam iti vartate anapatye ca api sapatne bhrātṛvyaśabdaḥ vartate . pāpmanā bhrātṛvyeṇa iti . astu tāvat apatyam sapatnaḥ ca tatra bhrātṛvyaḥ iti . katham pāpmanā bhrātṛvyeṇa iti . upamānāt siddham . bhrātṛvyaḥ iva bhrātṛvyaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२६०।८-२६१।६ रो इइइ,६०६-६०८ किमर्थः णकारः । वृद्ध्यर्थः । ञ्णिति इति वृद्धिः यथा स्यात् । गार्गः जाल्मः । गोत्रस्त्रियाः प्रत्ययस्य णित्करणानर्थक्यम् वृद्धत्वात् प्रातिपदिकस्य । गोत्रस्त्रियाः प्रत्ययस्य णित्करणम् अनर्थकम् । किम् कारणम् । वृद्धत्वात् प्रातिपदिकस्य । वृद्धम् एव एतत् प्रातिपदिकम् । लुगर्थः तर्हि णकारः कर्तव्यः । यत् लुगन्तम् अवृद्धम् तत्र वृद्धिः यथात् स्यात् । वातण्डः जाल्मः । लुगर्थम् इति चेत् न लुक्प्रतिषेधात् । लुगर्थम् इति चेत् तत् न । किम् कारणम् । लुक्प्रतिषेधात् । प्रतिषिध्यते अत्र लुक् गोत्रे अलुक् अचि इति । व्यवहितत्वात् अप्रतिषेधः । ईकारेण व्यवहितत्वात् प्रतिषेधः न प्राप्नोति । व्यवहितत्वात् अप्रतिषेधः इति चेत् न पुंवद्भावात् । व्यवहितत्वात् अप्रतिषेधः इति चेत् तत् न । किम् कारणम् । पुंवद्भावात् । पुंवद्भावः अत्र भवति भस्य तद्धिते अढे पुंवद्भावः भवति इति । फिनर्थम् तु । फिनर्थम् तु णकारः कर्तव्यः । यत् फिनन्तम् अवृद्धम् तत्र वृद्धिः यथा स्यात् । ग्लौचुकायनः जाल्मः । पुंवद्भावप्रतिषेधार्थम् च । पुंवद्भावप्रतिषेधार्थम् च णकारः कर्तव्यः । गार्गा भार्या अस्य गार्गाभार्यः । वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः यथा स्यात् । गोत्रात् यूनि अस्त्रियाम् इति वचनात् अप्रयोजनम् । गोत्रात् यूनि अस्त्रियाम् इति वचनात् अप्रयोजनम् एतत् भवति । न अस्ति गार्गा । अवंश्यत्वात् वा स्त्रियाः प्रयोजनम् । अवंश्यत्वात् वा स्त्रियाः प्रयोजनम् एतत् भवति । न स्त्री वंश्या । अस्ति गार्गा स्त्री । अपरः आह : द्वौ एव वंशौ मातृवंशः पितृवंशः च । यावता मातृवंशः अपि अस्ति न अस्ति गार्गा ।

KA II,260.8-261.6 Ro III,606-608 kimarthaḥ ṇakāraḥ . vṛddhyarthaḥ . ñṇiti iti vṛddhiḥ yathā syāt . gārgaḥ jālmaḥ . gotrastriyāḥ pratyayasya ṇitkaraṇānarthakyam vṛddhatvāt prātipadikasya . gotrastriyāḥ pratyayasya ṇitkaraṇam anarthakam . kim kāraṇam . vṛddhatvāt prātipadikasya . vṛddham eva etat prātipadikam . lugarthaḥ tarhi ṇakāraḥ kartavyaḥ . yat lugantam avṛddham tatra vṛddhiḥ yathāt syāt . vātaṇḍaḥ jālmaḥ . lugartham iti cet na lukpratiṣedhāt . lugartham iti cet tat na . kim kāraṇam . lukpratiṣedhāt . pratiṣidhyate atra luk gotre aluk aci iti . vyavahitatvāt apratiṣedhaḥ . īkāreṇa vyavahitatvāt pratiṣedhaḥ na prāpnoti . vyavahitatvāt apratiṣedhaḥ iti cet na puṃvadbhāvāt . vyavahitatvāt apratiṣedhaḥ iti cet tat na . kim kāraṇam . puṃvadbhāvāt . puṃvadbhāvaḥ atra bhavati bhasya taddhite aḍhe puṃvadbhāvaḥ bhavati iti . phinartham tu . phinartham tu ṇakāraḥ kartavyaḥ . yat phinantam avṛddham tatra vṛddhiḥ yathā syāt . glaucukāyanaḥ jālmaḥ . puṃvadbhāvapratiṣedhārtham ca . puṃvadbhāvapratiṣedhārtham ca ṇakāraḥ kartavyaḥ . gārgā bhāryā asya gārgābhāryaḥ . vṛddhinimittasya iti puṃvadbhāvapratiṣedhaḥ yathā syāt . gotrāt yūni astriyām iti vacanāt aprayojanam . gotrāt yūni astriyām iti vacanāt aprayojanam etat bhavati . na asti gārgā . avaṃśyatvāt vā striyāḥ prayojanam . avaṃśyatvāt vā striyāḥ prayojanam etat bhavati . na strī vaṃśyā . asti gārgā strī . aparaḥ āha : dvau eva vaṃśau mātṛvaṃśaḥ pitṛvaṃśaḥ ca . yāvatā mātṛvaṃśaḥ api asti na asti gārgā .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२६१।८-१० रो इइइ,६०९ गोत्रस्त्रियाः वृद्धात् ठक् फेः छ च फाण्टाहृति इमे चत्वारः योगाः । तत्र त्रयः कुत्सने त्र्तयः सौवीरगोत्रे । आद्यः योगः कुत्सने एव । परः सौवीरगोत्रे एव ।

KA II,261.8-10 Ro III,609 gotrastriyāḥ vṛddhāt ṭhak pheḥ cha ca phāṇṭāhṛti ime catvāraḥ yogāḥ . tatra trayaḥ kutsane trtayaḥ sauvīragotre . ādyaḥ yogaḥ kutsane eva . paraḥ sauvīragotre eva .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२६१।१२-२१ रो इइइ,६०९-६१० किमर्थः णकारः । वृद्ध्यर्थः । ञ्णिति इति वृद्धिः यथा स्यात् । फाण्टाहृतः । फाण्टाहृतेः प्रत्ययस्य णित्करणानर्थक्यम् वृद्धत्वात् प्रातिपदिकस्य । फाण्टाहृतेः प्रत्ययस्य णित्करणम् अनर्थकम् । किम् कारणम् । वृद्धत्वात् प्रातिपदिकस्य । वृद्धम् एव एतत् प्रातिपदिकम् । पुंवद्भावप्रतिषेधार्थम् तु । पुंवद्भावस्य प्रतिषेधार्थः णकारः कर्तव्यः । फाण्टाहृता भार्या अस्य फाण्टाहृतभार्यः । वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः यथा स्यात् इति । उक्तम् वा । किम् उक्तम् । गोत्रात् यूनि अस्त्रियाम् इति वचनात् अप्रयोजनम् । अवंश्यत्वात् वा स्त्रियाः प्रयोजनम् इति ।

KA II,261.12-21 Ro III,609-610 kimarthaḥ ṇakāraḥ . vṛddhyarthaḥ . ñṇiti iti vṛddhiḥ yathā syāt . phāṇṭāhṛtaḥ . phāṇṭāhṛteḥ pratyayasya ṇitkaraṇānarthakyam vṛddhatvāt prātipadikasya . phāṇṭāhṛteḥ pratyayasya ṇitkaraṇam anarthakam . kim kāraṇam . vṛddhatvāt prātipadikasya . vṛddham eva etat prātipadikam . puṃvadbhāvapratiṣedhārtham tu . puṃvadbhāvasya pratiṣedhārthaḥ ṇakāraḥ kartavyaḥ . phāṇṭāhṛtā bhāryā asya phāṇṭāhṛtabhāryaḥ . vṛddhinimittasya iti puṃvadbhāvapratiṣedhaḥ yathā syāt iti . uktam vā . kim uktam . gotrāt yūni astriyām iti vacanāt aprayojanam . avaṃśyatvāt vā striyāḥ prayojanam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२६२।२-११ रो इइइ,६१०-६११ वामरथस्य कण्वादिवत् स्वरवर्जम् । वामरथस्य कण्वादिवद्भावः वक्तव्यः । किम् अविशेषेण । न इति आह । स्वरम् वर्जयित्वा । किम् प्रयोजनम् । वामरथ्यस्य छात्राः वामरथाः । कण्वादिभ्यः गोत्रे इति अण् यथा स्यात् । यदि कण्वादिवत् इति उच्यते प्रत्ययाश्रयम् अनतिदिष्टम् भवति । तत्र कः दोषः । वामरथाः । बहुषु लोपः न प्राप्नोति । वामरथानाम् सङ्घः । सङ्घाङ्कलक्षणेषु अञ्यञिञाम् अण् इति अण् न प्राप्नोति । यदि पुनः यञ्वत् इति उच्येत । एवम् अपि प्रकृत्याश्रितम् अनतिदिष्टम् भवति । तत्रो कः दोषः । वामरथ्यस्य छात्राः वामरथाः । कण्वादिभ्यः गोत्रे इति अण् न प्राप्नोति । अस्तु तर्हि कण्वादिवत् इति एव । कथम् वामरथाः वामरथानाम् सङ्घः इति । यत् अयम् स्वरवर्जम् इति आह तत् ज्ञापयति आचार्यः प्रत्ययाश्रितम् अपि अतिदिष्टम् भवति इति ।

KA II,262.2-11 Ro III,610-611 vāmarathasya kaṇvādivat svaravarjam . vāmarathasya kaṇvādivadbhāvaḥ vaktavyaḥ . kim aviśeṣeṇa . na iti āha . svaram varjayitvā . kim prayojanam . vāmarathyasya chātrāḥ vāmarathāḥ . kaṇvādibhyaḥ gotre iti aṇ yathā syāt . yadi kaṇvādivat iti ucyate pratyayāśrayam anatidiṣṭam bhavati . tatra kaḥ doṣaḥ . vāmarathāḥ . bahuṣu lopaḥ na prāpnoti . vāmarathānām saṅghaḥ . saṅghāṅkalakṣaṇeṣu añyañiñām aṇ iti aṇ na prāpnoti . yadi punaḥ yañvat iti ucyeta . evam api prakṛtyāśritam anatidiṣṭam bhavati . tatro kaḥ doṣaḥ . vāmarathyasya chātrāḥ vāmarathāḥ . kaṇvādibhyaḥ gotre iti aṇ na prāpnoti . astu tarhi kaṇvādivat iti eva . katham vāmarathāḥ vāmarathānām saṅghaḥ iti . yat ayam svaravarjam iti āha tat jñāpayati ācāryaḥ pratyayāśritam api atidiṣṭam bhavati iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२६२।१३-२० रो इइइ,६११-६१२ उदीचाम् अञ्विधौ तक्ष्णः अण्वचनम् । उदीचाम् अञ्विधौ तक्ष्णः अण् वक्तव्यः । ताक्ष्णः । यदि पुनः अयम् तक्षन्शब्दः शिवादिषु पठ्येत । शिवादिः इति चेत् ण्यविधिः । शिवादिः इति चेत् ण्यः विधेयः । ताक्ष्ण्यः इति । सिद्धम् तु उदीचाम् वा ण्यवचनात् । सिद्धम् एतत् । कथम् । उदीचाम् वा ण्यवचनात् । उदीचाम् वा ण्यः भवति इति वक्तव्यम् । ण्येन मुक्ते यः यतः प्राप्नोति सः ततः भविष्यति ।

KA II,262.13-20 Ro III,611-612 udīcām añvidhau takṣṇaḥ aṇvacanam . udīcām añvidhau takṣṇaḥ aṇ vaktavyaḥ . tākṣṇaḥ . yadi punaḥ ayam takṣanśabdaḥ śivādiṣu paṭhyeta . śivādiḥ iti cet ṇyavidhiḥ . śivādiḥ iti cet ṇyaḥ vidheyaḥ . tākṣṇyaḥ iti . siddham tu udīcām vā ṇyavacanāt . siddham etat . katham . udīcām vā ṇyavacanāt . udīcām vā ṇyaḥ bhavati iti vaktavyam . ṇyena mukte yaḥ yataḥ prāpnoti saḥ tataḥ bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२६२।२२-२६३।१५ रो इइइ,६१२-६१३ किम् इदम् कौसल्यकार्मार्ययोः विकृतयोः ग्रहणम् क्रियते । एवम् विकृताभ्याम् यथा स्यात् । अत्यल्पम् इदम् उच्यते : कौसल्यकार्मार्याभ्याम् च इति । फिञ्प्रकरणे दगुकोसलकर्मारच्छागवृषणाम् युट् च । फिञ्प्रकरणे दगुकोसलकर्मारच्छागवृषणाम् युट् च इति वक्तव्यम् । दगु दागव्यायनिः कोसल कौसल्यायनिः कर्मार कर्मार्यायणिः छाग छाग्यायनिः वृष वार्ष्यायणिः । यदि युट् क्रियते युटि कृते अनादित्वात् आदेशः न प्राप्नोति । इदम् इह सम्प्रधार्यम् । युट् क्रियताम् आदेशः इति । किम् अत्र कर्तव्यम् । परत्वात् आदेशः । नित्यः युट् । कृते अपि आदेशे प्राप्नोति अकृते अपि प्राप्नोति । युट् अपि अनित्यः । अन्यस्य कृते आदेशे प्राप्नोति अन्यस्य अकृते । शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति । अन्तरङ्गः तर्हि युट् । का अन्तरङ्गता । उत्पत्तिसन्नियोगेन युट् उच्यते । उत्पन्ने प्रत्यये प्रकृतिप्रत्ययौ आश्रित्य अङ्गस्य आदेशः उच्यते । आदेशः अपि अन्तरङ्गः । कथम् । वक्ष्यति एतत् आयनादिषु उपदेशिवद्वचनम् स्वरसिद्ध्यर्थम् इति । अनवकाशः तर्हि युट् । एवम् तर्हि पूर्वान्तः करिष्यते । यदि पूर्वान्तः क्रियते दागव्यायनिः ओः गुणः न प्राप्नोति । अस्तु तर्हि परादिः एव । ननु च उक्तम् युटि कृते अनादित्वात् आदेशः न प्राप्नोति इति । न एषः दोषः । सिद्धम् तु आदिष्टस्य युड्वचनात् । सिद्धम् एतत् । कथम् । आदिष्टस्य युड्वचनात् । युट् च आदिष्टस्य इति वक्तव्यम् । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । चेन सन्नियोगः करिष्यते । युट् च । किम् च । यत् च अन्यत् प्राप्नोति । किम् च अन्यत् प्राप्नोति । आदेशः इति ।

KA II,262.22-263.15 Ro III,612-613 kim idam kausalyakārmāryayoḥ vikṛtayoḥ grahaṇam kriyate . evam vikṛtābhyām yathā syāt . atyalpam idam ucyate : kausalyakārmāryābhyām ca iti . phiñprakaraṇe dagukosalakarmāracchāgavṛṣaṇām yuṭ ca . phiñprakaraṇe dagukosalakarmāracchāgavṛṣaṇām yuṭ ca iti vaktavyam . dagu dāgavyāyaniḥ kosala kausalyāyaniḥ karmāra karmāryāyaṇiḥ chāga chāgyāyaniḥ vṛṣa vārṣyāyaṇiḥ . yadi yuṭ kriyate yuṭi kṛte anāditvāt ādeśaḥ na prāpnoti . idam iha sampradhāryam . yuṭ kriyatām ādeśaḥ iti . kim atra kartavyam . paratvāt ādeśaḥ . nityaḥ yuṭ . kṛte api ādeśe prāpnoti akṛte api prāpnoti . yuṭ api anityaḥ . anyasya kṛte ādeśe prāpnoti anyasya akṛte . śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . antaraṅgaḥ tarhi yuṭ . kā antaraṅgatā . utpattisanniyogena yuṭ ucyate . utpanne pratyaye prakṛtipratyayau āśritya aṅgasya ādeśaḥ ucyate . ādeśaḥ api antaraṅgaḥ . katham . vakṣyati etat āyanādiṣu upadeśivadvacanam svarasiddhyartham iti . anavakāśaḥ tarhi yuṭ . evam tarhi pūrvāntaḥ kariṣyate . yadi pūrvāntaḥ kriyate dāgavyāyaniḥ oḥ guṇaḥ na prāpnoti . astu tarhi parādiḥ eva . nanu ca uktam yuṭi kṛte anāditvāt ādeśaḥ na prāpnoti iti . na eṣaḥ doṣaḥ . siddham tu ādiṣṭasya yuḍvacanāt . siddham etat . katham . ādiṣṭasya yuḍvacanāt . yuṭ ca ādiṣṭasya iti vaktavyam . tat tarhi vaktavyam . na vaktavyam . cena sanniyogaḥ kariṣyate . yuṭ ca . kim ca . yat ca anyat prāpnoti . kim ca anyat prāpnoti . ādeśaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२६३।१७-२६४।१० रो इइइ,६१३-६१४ यदि पुनः अयम् कुट् परादिः क्रियेत । कुटि प्रत्ययादेः आदेशानुपपत्तिः अनादित्वात् । कुटि सति प्रत्ययादेः आदेशः न उपपद्यते । किम् कारणम् । अनादित्वात् । कुटि सति अनादित्वात् आदेशः न प्राप्नोति । एवम् तर्हि पूर्वान्तः करिष्यते । पूर्वान्ते नलोपवचनम् । यदि पूर्वान्तः क्रियते नलोपः वक्तव्यः । चार्मिकायणिः वार्मिकायणिः । नलोपः प्रातिपदिकान्तस्य इति नलोपः न प्राप्नोति । परादौ पुनः सति नलोपः प्रातिपदिकान्तस्य इति नलोपः सिध्यति । अस्तु तर्हि परादिः एव । ननु च उक्तम् कुटि सति अनादित्वात् आदेशः न प्राप्नोति । सिद्धम् तु आदिष्टस्य कुड्वचनात् । सिद्धम् एतत् । कथम् । कुट् च आदिष्टस्य इति वक्तव्यम् । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । चेन सन्नियोगः करिष्यते । कुट् च । किम् च । यत् च अन्यत् प्राप्नोति । किम् च अन्यत् प्राप्नोति । आदेशः । सिध्यति । सूत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् पूर्वान्ते नलोपवचनम् इति । क्रियते एतत् न्यासे एव चर्मिवर्मिणोः नलोपः च इति । कारिभ्यः इञः अगोत्रात् फिञ् विप्रतिषेधेन । कारिभ्यः इञ् भवति इति एतस्मात् अगोत्रात् फिञ् भवति विप्रतिषेधेन । कारिभ्यः इञ् भवति इति अस्य अवकाशः आयस्कारिः लौहकारिः । फिञः अवकाशः तापसायनिः साम्मितिकायनिः । इह उभयम् प्राप्नोति । नापितायनिः । फिञ् भवति विप्रतिषेधेन ।

KA II,263.17-264.10 Ro III,613-614 yadi punaḥ ayam kuṭ parādiḥ kriyeta . kuṭi pratyayādeḥ ādeśānupapattiḥ anāditvāt . kuṭi sati pratyayādeḥ ādeśaḥ na upapadyate . kim kāraṇam . anāditvāt . kuṭi sati anāditvāt ādeśaḥ na prāpnoti . evam tarhi pūrvāntaḥ kariṣyate . pūrvānte nalopavacanam . yadi pūrvāntaḥ kriyate nalopaḥ vaktavyaḥ . cārmikāyaṇiḥ vārmikāyaṇiḥ . nalopaḥ prātipadikāntasya iti nalopaḥ na prāpnoti . parādau punaḥ sati nalopaḥ prātipadikāntasya iti nalopaḥ sidhyati . astu tarhi parādiḥ eva . nanu ca uktam kuṭi sati anāditvāt ādeśaḥ na prāpnoti . siddham tu ādiṣṭasya kuḍvacanāt . siddham etat . katham . kuṭ ca ādiṣṭasya iti vaktavyam . tat tarhi vaktavyam . na vaktavyam . cena sanniyogaḥ kariṣyate . kuṭ ca . kim ca . yat ca anyat prāpnoti . kim ca anyat prāpnoti . ādeśaḥ . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam pūrvānte nalopavacanam iti . kriyate etat nyāse eva carmivarmiṇoḥ nalopaḥ ca iti . kāribhyaḥ iñaḥ agotrāt phiñ vipratiṣedhena . kāribhyaḥ iñ bhavati iti etasmāt agotrāt phiñ bhavati vipratiṣedhena . kāribhyaḥ iñ bhavati iti asya avakāśaḥ āyaskāriḥ lauhakāriḥ . phiñaḥ avakāśaḥ tāpasāyaniḥ sāmmitikāyaniḥ . iha ubhayam prāpnoti . nāpitāyaniḥ . phiñ bhavati vipratiṣedhena .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२६४।१२-२१ रो इइइ,६१४-६१५ यदि षुक् पूर्वान्तः क्रियते मानुषाः बहुषु लोपः प्राप्नोति । मानुषाणाम् सङ्घः सङ्घाङ्कलक्षणेषु अञ्यञिञाम् इत् अण् प्राप्नोति । अस्तु तर्हि परादिः । यदि परादिः मानुषी अञन्तात् ईकारः न प्राप्नोति । अस्तु तर्हि पूर्वान्तः एव । कथम् मानुषाः मानुषाणाम् सङ्घः इति । उभयत्र लौकिकस्य गोत्रस्य ग्रहणम् न च एतत् लौकिकम् गोत्रम् । इह तर्हि मानुष्यकम् इति हलः तद्धितस्य इति लोपः प्राप्नोति । परादौ अपि एषः दोषः । यत् हि हलः तद्धितस्य इति हल्ग्रहणम् न तत् अङ्गविशेषणम् शक्यम् विज्ञातुम् । इह तर्हि दोषः स्यात् । वृकात् टेण्यण् वार्केणी इति । तस्मात् उभाभ्याम् एव वक्तव्यम् प्रकृत्या अके राजन्यमनुष्ययुवानः इति ।

KA II,264.12-21 Ro III,614-615 yadi ṣuk pūrvāntaḥ kriyate mānuṣāḥ bahuṣu lopaḥ prāpnoti . mānuṣāṇām saṅghaḥ saṅghāṅkalakṣaṇeṣu añyañiñām it aṇ prāpnoti . astu tarhi parādiḥ . yadi parādiḥ mānuṣī añantāt īkāraḥ na prāpnoti . astu tarhi pūrvāntaḥ eva . katham mānuṣāḥ mānuṣāṇām saṅghaḥ iti . ubhayatra laukikasya gotrasya grahaṇam na ca etat laukikam gotram . iha tarhi mānuṣyakam iti halaḥ taddhitasya iti lopaḥ prāpnoti . parādau api eṣaḥ doṣaḥ . yat hi halaḥ taddhitasya iti halgrahaṇam na tat aṅgaviśeṣaṇam śakyam vijñātum . iha tarhi doṣaḥ syāt . vṛkāt ṭeṇyaṇ vārkeṇī iti . tasmāt ubhābhyām eva vaktavyam prakṛtyā ake rājanyamanuṣyayuvānaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२६४।२३-२६५।८ रो इइइ,६१६-६१७ पौत्रप्रभृतेः गोत्रसञ्ज्ञायाम् यस्य अपत्यम् तस्य पौत्रप्रभृतिसञ्ज्ञाकरणम् । पौत्रप्रभृतेः गोत्रसञ्ज्ञायाम् यस्य अपत्यविवक्षा तस्य पौत्रप्रभृतेः गोत्रसञ्ज्ञा भवति इति वक्तव्यम् । गर्गः अपि हि कम् चित् प्रति पौत्रः कुशिकः अपि । तत्र मा भूत् । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । समर्थानाम् प्रथमात् वा इति वर्तते । समर्थानाम् प्रथमस्य यत् अपत्यम् पौत्रप्रभृति इति विज्ञायते । जीवद्वंश्यम् च कुत्सितम् । जीवद्वंश्यम् च कुत्सितम् गोत्रसञ्ज्ञम् भवति इति वक्तव्यम् । गार्ग्यः त्वम् जाल्म। वात्स्यः त्वम् जाल्म । का पुनः इह कुत्सा । पितृतः लोके व्यपदेशवता अस्वतन्त्रेण भवितव्यम् । यः इदानीम् पितृमान् स्वतन्त्रः भवति सः उच्यते गार्ग्यः त्वम् असि जाल्म । न त्वम् पितृतः व्यपदेशम् अर्हसि ।

KA II,264.23-265.8 Ro III,616-617 pautraprabhṛteḥ gotrasañjñāyām yasya apatyam tasya pautraprabhṛtisañjñākaraṇam . pautraprabhṛteḥ gotrasañjñāyām yasya apatyavivakṣā tasya pautraprabhṛteḥ gotrasañjñā bhavati iti vaktavyam . gargaḥ api hi kam cit prati pautraḥ kuśikaḥ api . tatra mā bhūt . tat tarhi vaktavyam . na vaktavyam . samarthānām prathamāt vā iti vartate . samarthānām prathamasya yat apatyam pautraprabhṛti iti vijñāyate . jīvadvaṃśyam ca kutsitam . jīvadvaṃśyam ca kutsitam gotrasañjñam bhavati iti vaktavyam . gārgyaḥ tvam jālma. vātsyaḥ tvam jālma . kā punaḥ iha kutsā . pitṛtaḥ loke vyapadeśavatā asvatantreṇa bhavitavyam . yaḥ idānīm pitṛmān svatantraḥ bhavati saḥ ucyate gārgyaḥ tvam asi jālma . na tvam pitṛtaḥ vyapadeśam arhasi .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२६५।१०-२६६।१५ रो इइइ,६१७-६१९ जीवति तु वंश्ये युवा इति पौत्रप्रभृत्यपेक्षम् च । जीवति तु वंश्ये युवा इति पौत्रप्रभृत्यपेक्षम् च इति वक्तव्यम् । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । पौत्रप्रभृति इति वर्तते । एवम् तर्हि अन्वाचष्टे पौत्रप्रभृति इति वर्तते इति । किम् एतस्य अन्वाख्याने प्रयोजनम् । तत् च दैवदत्त्यर्थम् । देवदत्तस्य अपत्यम् देवदत्तिः इति । अनन्तरम् यत् अपत्यम् तस्य युवसञ्ज्ञा मा भूत् इति । देवदत्तस्य तर्हि पौत्रे युवसञ्ज्ञा प्राप्नोति । एतत् अपि पौत्रप्रभृति भवति । न पौत्रप्रभृति इति अनेन अपत्यम् अभिसम्बध्यते : पौत्रप्रभृति यत् अपत्यम् इति । किम् तर्हि । वंश्ये अभिसम्बध्यते : पौत्रप्रभृतिवंश्ये जीवति यत् अपत्यम् इति । एवम् अपि देवदत्तस्य द्वौ पुत्र तयोः कनीयसि युवसञ्ज्ञा प्राप्नोति भ्रातरि च ज्यायसि इति । एवम् तर्हि अपत्यम् एव अभिसम्बध्यते न तु पौत्रप्रभृतिसमानाधिकरणम् अपत्यम् । न एवम् विज्ञायते पौत्रप्रभृति यत् अपत्यम् इति । कथम् तर्हि । पौत्रप्रभृतेः यत् अपत्यम् इति । वृद्धस्य च पूजायाम् । वृद्धस्य च पूजायाम् युवसञ्ज्ञा वक्तव्या । तत्रभवन्तः गार्ग्यायणाः तत्रभवन्तः वात्स्यायनाः । का पुनः इह पूजा । युवत्वम् लोके ईप्सितम् पूजा इति उपचर्यते । तत्रभवन्तः युवत्वेन उपचर्यमाणाः प्रीताः भवन्ति । आपत्यः वा गोत्रम् । अथ वा आपत्यः गोत्रसञ्ज्ञः भवति इति वक्तव्यम् । परमप्रकृतेः च आपत्यः । परमप्रकृतेः च आपत्यः भवति इति वक्तव्यम् । आपत्यात् जीवद्वंश्यात् स्वार्थे द्वितीयः युवसञ्ज्ञः । आपत्यात् जीवद्वंश्यात् स्वार्थे द्वितीयः प्रत्ययः वक्तव्यः युवसञ्ज्ञः च भवति इति वक्तव्यम् । सः च अस्त्रियाम् । सः च अस्त्रियाम् इति वक्तव्यम् । एकोगोत्रग्रहणानर्थक्यम् च । एवम् च कृत्वा एकोगोत्रग्रहणम् अनर्थकम् भवति । बहुवचनलोपिषु च सिद्धम् । बहुवचनलोपिषु च सिद्धम् भवति । तत्र बिदाणाम् अपत्यम् माणवकः इति विगृह्य बिदशब्दात् द्व्येकयोः उत्पत्तिः भविष्यति । बैदः बैदौ । बैदस्य अपत्यम् बहवः माणवकाः इति विगृह्य बिदशब्दात् बहुषु उत्पत्तिः भविष्यति । बिदाः इति ।

KA II,265.10-266.15 Ro III,617-619 jīvati tu vaṃśye yuvā iti pautraprabhṛtyapekṣam ca . jīvati tu vaṃśye yuvā iti pautraprabhṛtyapekṣam ca iti vaktavyam . tat tarhi vaktavyam . na vaktavyam . pautraprabhṛti iti vartate . evam tarhi anvācaṣṭe pautraprabhṛti iti vartate iti . kim etasya anvākhyāne prayojanam . tat ca daivadattyartham . devadattasya apatyam devadattiḥ iti . anantaram yat apatyam tasya yuvasañjñā mā bhūt iti . devadattasya tarhi pautre yuvasañjñā prāpnoti . etat api pautraprabhṛti bhavati . na pautraprabhṛti iti anena apatyam abhisambadhyate : pautraprabhṛti yat apatyam iti . kim tarhi . vaṃśye abhisambadhyate : pautraprabhṛtivaṃśye jīvati yat apatyam iti . evam api devadattasya dvau putra tayoḥ kanīyasi yuvasañjñā prāpnoti bhrātari ca jyāyasi iti . evam tarhi apatyam eva abhisambadhyate na tu pautraprabhṛtisamānādhikaraṇam apatyam . na evam vijñāyate pautraprabhṛti yat apatyam iti . katham tarhi . pautraprabhṛteḥ yat apatyam iti . vṛddhasya ca pūjāyām . vṛddhasya ca pūjāyām yuvasañjñā vaktavyā . tatrabhavantaḥ gārgyāyaṇāḥ tatrabhavantaḥ vātsyāyanāḥ . kā punaḥ iha pūjā . yuvatvam loke īpsitam pūjā iti upacaryate . tatrabhavantaḥ yuvatvena upacaryamāṇāḥ prītāḥ bhavanti . āpatyaḥ vā gotram . atha vā āpatyaḥ gotrasañjñaḥ bhavati iti vaktavyam . paramaprakṛteḥ ca āpatyaḥ . paramaprakṛteḥ ca āpatyaḥ bhavati iti vaktavyam . āpatyāt jīvadvaṃśyāt svārthe dvitīyaḥ yuvasañjñaḥ . āpatyāt jīvadvaṃśyāt svārthe dvitīyaḥ pratyayaḥ vaktavyaḥ yuvasañjñaḥ ca bhavati iti vaktavyam . saḥ ca astriyām . saḥ ca astriyām iti vaktavyam . ekogotragrahaṇānarthakyam ca . evam ca kṛtvā ekogotragrahaṇam anarthakam bhavati . bahuvacanalopiṣu ca siddham . bahuvacanalopiṣu ca siddham bhavati . tatra bidāṇām apatyam māṇavakaḥ iti vigṛhya bidaśabdāt dvyekayoḥ utpattiḥ bhaviṣyati . baidaḥ baidau . baidasya apatyam bahavaḥ māṇavakāḥ iti vigṛhya bidaśabdāt bahuṣu utpattiḥ bhaviṣyati . bidāḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२६६।१७-२० रो इइइ,६२०-६२१ अन्यग्रहणम् किमर्थम् । भ्रातरि इति वर्तते । सपिण्डमात्रे यथा स्यात् । अथ स्थविरतरग्रहणम् किमर्थम् । उभयतः विशिष्टे यथा स्यात् स्थानतः वयस्तः च । अथ जीवति इति वर्तमाने पुनः जीवतिग्रहणम् किमर्थम् । जीवतः जीवति यथा स्यात् मृते मा भूत् । मृते हि मार्ग्यः मृतः इति एव भवितव्यम् ।

KA II,266.17-20 Ro III,620-621 anyagrahaṇam kimartham . bhrātari iti vartate . sapiṇḍamātre yathā syāt . atha sthavirataragrahaṇam kimartham . ubhayataḥ viśiṣṭe yathā syāt sthānataḥ vayastaḥ ca . atha jīvati iti vartamāne punaḥ jīvatigrahaṇam kimartham . jīvataḥ jīvati yathā syāt mṛte mā bhūt . mṛte hi mārgyaḥ mṛtaḥ iti eva bhavitavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२६६।२१-२६८।१८ रो इइइ,६२१-६२५ अथ गोत्रयूनयोः समावेशः भवति उताहो न । किम् च प्राप्नोति । बाढम् प्राप्नोति । न हि अयम् एकसञ्ज्ञाधिकारः । किम् च अतः । गोत्रयोः समावेशे कः दोषः । तत्कृतम् भवेत् । गोत्रयोः समावेशे कः दोषः । तत्कृतम् प्राप्नोति । गोत्राश्रयाः विधयः यूनि अपि प्राप्नुवन्ति । यास्कायनयः लाह्यायनयः । यस्कादिभ्यः गोत्रे इति लुक् प्राप्नोति । यस्कादिषु न दोषः अस्ति न यूनि इति अनुवर्तनात् । यस्कादिषु न दोषः । किम् कारणम् । न यूनि इति अनुवर्तनात् । न यूनि इति तत्र अनुवर्तते । क्व प्रकृतम् । न तौल्वलिभ्यः इति । दोषः अत्रिबिदपञ्चालाः न यूनि इति अनुवर्तनात् । यदि न यूनि इति अनुवर्तते अत्रयः बिदाः पञ्चालाः माणवकाः इति न सिध्यति । न एषः दोषः । सम्बन्धम् अनुवर्तिष्यते । न तौल्वलिभ्यः । तद्राजस्य बहुषु तेन एव अस्त्रियाम् लुक् भवति तौल्वलिभ्यः यूनि न । यस्कादिभ्यः गोत्रे लुक् भवति यूनि न । तौल्वलिभ्यः इति निवृत्तम् । यञञोः च अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यः च लुक् भवति । यूनि न इति निवृत्तम् । इह तर्हि काण्व्ययनस्य छात्राः काण्व्यायनीयाः । कण्वादिभ्यः गोत्रे इति अण् प्राप्नोति । कण्वादिषु न दोषः अस्ति न यूनि अस्ति ततः परम् । कण्वादिषु दोषः न अस्ति । किम् कारणम् । न यूनि अस्ति ततः परम् । कण्वादिभ्यः यः विहितः तदन्तात् प्रातिपदिकात् इति उच्यते । यः च अत्र कण्वादिभ्यः विहितः न तदन्तम् प्रातिपदिकम् यदन्तम् च प्रातिपदिकम् न असौ कण्वादिभ्यः । इह तर्हि औपगवस्य अपत्यम् औपगविः इति एकः गोत्रे इति एतस्मात् नियमात् प्रत्ययः न प्राप्नोति । एकः गोत्रे प्रतिपदम् । प्रतिपदम् अत्र प्रत्ययाः विधीयन्ते गोत्रात् यूनि अस्त्रियाम् इति । तदन्तात् तर्हि अनेकः प्रत्ययः प्राप्नोति । गोत्रात् यूनि च तत् स्मरेत् । गोत्रात् यूनि अस्त्रियाम् इति तत् स्मरेत् । किम् । एकः इति एव । गोत्रे तर्हि अलुक् उक्तः । सः यूनि अपि प्राप्नोति । अस्तु । पुनः यूनि लुक् भविष्यति । न एवम् शक्यम् । फक्फिञोः दोषः स्यात् । शालङ्केः यूनः छात्राः शालङ्काः पैलस्य पैलाः । फक्फिञोः अन्यतरस्याम् इति अन्यतरस्याम् श्रवणम् प्रसज्येत । तस्मात् युवसञ्ज्ञायाम् गोत्रसञ्ज्ञायाः प्रतिषेधः वक्तव्यः । न वक्तव्यः । तुः नियामकः । तुः क्रियते । सः नियामकः भविष्यति : जीवति तु वंश्ये अपत्यम् युवसञ्ज्ञम् एव भवति इति । यदि तर्हि युवसञ्ज्ञायाम् गोत्रसञ्ज्ञा न भवति ये इष्यन्ते यूनि गोत्राश्रयाः विधयः ते न सिध्यन्ति । गार्ग्यायणानाम् समूहः गार्ग्यायणकम् गार्ग्यायणानाम् किम् चित् गार्ग्यायणकम् गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः । गोत्राश्रयः वुञ् न प्राप्नोति । एवम् तर्हि राजन्यात् वुञ् मनुष्यात् च ज्ञापकम् लौकिकम् परम् । यत् अयम् वुञ्विधौ राजन्यमनुष्ययोः ग्रहणम् करोति तत् ज्ञापयति आचार्यः लौकिकम् परम् गोत्रग्रहणम् इति । युवा च लोके गोत्रम् इति उच्यते । किम्गोत्रः असि माणवक । गार्ग्यायणः । किम्गोत्रः असि माणवक । वात्स्यायनः । यदि एतत् ज्ञाप्यते औपगवेः यूनः छात्राः औपगवीयाः इति गोत्रे इति अण् प्राप्नोति । सामूहिकेषु ज्ञापकम् । यदि सामूहिकेषु ज्ञापकम् गार्ग्यायणानाम् किम् चित् गार्ग्यायणकम् गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः गोत्राश्रयः वुञ् न प्राप्नोति । वुञ्विधौ ज्ञापकम् । वुञ्विधौ एतत् ज्ञापकम् । यदि वुञ्विधौ ज्ञापकम् शालङ्केः यूनः छात्राः शालङ्काः इञः गोत्रे इति अण् न प्राप्नोति । अस्तु तर्हि अविशेषेण । कथम् औपगवेः यूनः छात्राः औपगवीयाः । इञः गोत्रे इति अण् प्राप्नोति । न एषः दोषः । गोत्रेण इञम् विशेषयिष्यामः । गोत्रे यः इञ् विहितः इति ।

KA II,266.21-268.18 Ro III,621-625 atha gotrayūnayoḥ samāveśaḥ bhavati utāho na . kim ca prāpnoti . bāḍham prāpnoti . na hi ayam ekasañjñādhikāraḥ . kim ca ataḥ . gotrayoḥ samāveśe kaḥ doṣaḥ . tatkṛtam bhavet . gotrayoḥ samāveśe kaḥ doṣaḥ . tatkṛtam prāpnoti . gotrāśrayāḥ vidhayaḥ yūni api prāpnuvanti . yāskāyanayaḥ lāhyāyanayaḥ . yaskādibhyaḥ gotre iti luk prāpnoti . yaskādiṣu na doṣaḥ asti na yūni iti anuvartanāt . yaskādiṣu na doṣaḥ . kim kāraṇam . na yūni iti anuvartanāt . na yūni iti tatra anuvartate . kva prakṛtam . na taulvalibhyaḥ iti . doṣaḥ atribidapañcālāḥ na yūni iti anuvartanāt . yadi na yūni iti anuvartate atrayaḥ bidāḥ pañcālāḥ māṇavakāḥ iti na sidhyati . na eṣaḥ doṣaḥ . sambandham anuvartiṣyate . na taulvalibhyaḥ . tadrājasya bahuṣu tena eva astriyām luk bhavati taulvalibhyaḥ yūni na . yaskādibhyaḥ gotre luk bhavati yūni na . taulvalibhyaḥ iti nivṛttam . yañañoḥ ca atribhṛgukutsavasiṣṭhagotamāṅgirobhyaḥ ca luk bhavati . yūni na iti nivṛttam . iha tarhi kāṇvyayanasya chātrāḥ kāṇvyāyanīyāḥ . kaṇvādibhyaḥ gotre iti aṇ prāpnoti . kaṇvādiṣu na doṣaḥ asti na yūni asti tataḥ param . kaṇvādiṣu doṣaḥ na asti . kim kāraṇam . na yūni asti tataḥ param . kaṇvādibhyaḥ yaḥ vihitaḥ tadantāt prātipadikāt iti ucyate . yaḥ ca atra kaṇvādibhyaḥ vihitaḥ na tadantam prātipadikam yadantam ca prātipadikam na asau kaṇvādibhyaḥ . iha tarhi aupagavasya apatyam aupagaviḥ iti ekaḥ gotre iti etasmāt niyamāt pratyayaḥ na prāpnoti . ekaḥ gotre pratipadam . pratipadam atra pratyayāḥ vidhīyante gotrāt yūni astriyām iti . tadantāt tarhi anekaḥ pratyayaḥ prāpnoti . gotrāt yūni ca tat smaret . gotrāt yūni astriyām iti tat smaret . kim . ekaḥ iti eva . gotre tarhi aluk uktaḥ . saḥ yūni api prāpnoti . astu . punaḥ yūni luk bhaviṣyati . na evam śakyam . phakphiñoḥ doṣaḥ syāt . śālaṅkeḥ yūnaḥ chātrāḥ śālaṅkāḥ pailasya pailāḥ . phakphiñoḥ anyatarasyām iti anyatarasyām śravaṇam prasajyeta . tasmāt yuvasañjñāyām gotrasañjñāyāḥ pratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . tuḥ niyāmakaḥ . tuḥ kriyate . saḥ niyāmakaḥ bhaviṣyati : jīvati tu vaṃśye apatyam yuvasañjñam eva bhavati iti . yadi tarhi yuvasañjñāyām gotrasañjñā na bhavati ye iṣyante yūni gotrāśrayāḥ vidhayaḥ te na sidhyanti . gārgyāyaṇānām samūhaḥ gārgyāyaṇakam gārgyāyaṇānām kim cit gārgyāyaṇakam gārgyāyaṇaḥ bhaktiḥ asya gārgyāyaṇakaḥ . gotrāśrayaḥ vuñ na prāpnoti . evam tarhi rājanyāt vuñ manuṣyāt ca jñāpakam laukikam param . yat ayam vuñvidhau rājanyamanuṣyayoḥ grahaṇam karoti tat jñāpayati ācāryaḥ laukikam param gotragrahaṇam iti . yuvā ca loke gotram iti ucyate . kimgotraḥ asi māṇavaka . gārgyāyaṇaḥ . kimgotraḥ asi māṇavaka . vātsyāyanaḥ . yadi etat jñāpyate aupagaveḥ yūnaḥ chātrāḥ aupagavīyāḥ iti gotre iti aṇ prāpnoti . sāmūhikeṣu jñāpakam . yadi sāmūhikeṣu jñāpakam gārgyāyaṇānām kim cit gārgyāyaṇakam gārgyāyaṇaḥ bhaktiḥ asya gārgyāyaṇakaḥ gotrāśrayaḥ vuñ na prāpnoti . vuñvidhau jñāpakam . vuñvidhau etat jñāpakam . yadi vuñvidhau jñāpakam śālaṅkeḥ yūnaḥ chātrāḥ śālaṅkāḥ iñaḥ gotre iti aṇ na prāpnoti . astu tarhi aviśeṣeṇa . katham aupagaveḥ yūnaḥ chātrāḥ aupagavīyāḥ . iñaḥ gotre iti aṇ prāpnoti . na eṣaḥ doṣaḥ . gotreṇa iñam viśeṣayiṣyāmaḥ . gotre yaḥ iñ vihitaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२६८।२०-२६९।३ रो इइइ,६२५-६२६ क्षत्रियात् एकराजात् सङ्घप्रतिषेधार्थम् । क्षत्रियात् एकराजात् इति वक्तव्यम् । किम् प्रयोजनम् । सङ्घप्रतिषेधार्थम् । सङ्घात् मा भूत् । पञ्चालानाम् अपत्यम् विदेहानाम् अपत्यम् इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । न हि अन्तरेण बहुषु लुकम् पञ्चालाः इति एतत् भवति । यः तस्मात् उत्पद्यते युवप्रत्ययः सः स्यात् । युवप्रत्ययः चेत् तस्य लुक् तस्मिन् च अलुक् भविष्यति । इदम् तर्हि क्षौद्रकाणाम् अपत्यम् मालवानाम् अपत्यम् इति । अत्र अपि क्षौद्रक्यः मालक्यः इति न एतत् तेषाम् दासे वा भवति कर्मकरे वा । किम् तर्हि तेषाम् एव कस्मिन् चित् । यावता तेषाम् एव कस्मिन् चित् तस्मात् उत्पद्यते युवप्रत्ययः सः स्यात् । युवप्रत्ययः चेत् तस्य लुक् तस्मिन् च अलुक् भविष्यति ।

KA II,268.20-269.3 Ro III,625-626 kṣatriyāt ekarājāt saṅghapratiṣedhārtham . kṣatriyāt ekarājāt iti vaktavyam . kim prayojanam . saṅghapratiṣedhārtham . saṅghāt mā bhūt . pañcālānām apatyam videhānām apatyam iti . tat tarhi vaktavyam . na vaktavyam . na hi antareṇa bahuṣu lukam pañcālāḥ iti etat bhavati . yaḥ tasmāt utpadyate yuvapratyayaḥ saḥ syāt . yuvapratyayaḥ cet tasya luk tasmin ca aluk bhaviṣyati . idam tarhi kṣaudrakāṇām apatyam mālavānām apatyam iti . atra api kṣaudrakyaḥ mālakyaḥ iti na etat teṣām dāse vā bhavati karmakare vā . kim tarhi teṣām eva kasmin cit . yāvatā teṣām eva kasmin cit tasmāt utpadyate yuvapratyayaḥ saḥ syāt . yuvapratyayaḥ cet tasya luk tasmin ca aluk bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२६९।४-८ रो इइइ,६२६ अथ क्षत्रियग्रहणम् किमर्थम् । इह मा भूत् । विदेहः नाम ब्राह्मणः तस्य अपत्यम् वैदेहिः । क्षत्रियग्रहणानर्थक्ये च उक्तम् । किम् उक्तम् । एकम् तावत् उक्तम् : बाह्वादिप्रभृतिषु येषाम् दर्शनम् गोत्रभावे लौकिके ततः अन्यत्र तेषाम् प्रतिषेधः इति । अपरम् उक्तम् : अनभिधानात् इति ।

KA II,269.4-8 Ro III,626 atha kṣatriyagrahaṇam kimartham . iha mā bhūt . videhaḥ nāma brāhmaṇaḥ tasya apatyam vaidehiḥ . kṣatriyagrahaṇānarthakye ca uktam . kim uktam . ekam tāvat uktam : bāhvādiprabhṛtiṣu yeṣām darśanam gotrabhāve laukike tataḥ anyatra teṣām pratiṣedhaḥ iti . aparam uktam : anabhidhānāt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२६९।९-१३ रो इइइ,६२६ क्षत्रियसमानशब्दात् जनपदात् तस्य राजनि अपत्यवत् । क्षत्रियसमानशब्दात् जनपदात् तस्य राजनि अपत्यवत् प्रत्ययाः भवन्ति इति वक्तव्यम् । पञ्चालानाम् राजा पाञ्चालः । पूरोः अण् वक्तव्यः । पौरवः । पाण्डोः ड्यण् वक्तव्यः । पाण्ड्यः ।

KA II,269.9-13 Ro III,626 kṣatriyasamānaśabdāt janapadāt tasya rājani apatyavat . kṣatriyasamānaśabdāt janapadāt tasya rājani apatyavat pratyayāḥ bhavanti iti vaktavyam . pañcālānām rājā pāñcālaḥ . pūroḥ aṇ vaktavyaḥ . pauravaḥ . pāṇḍoḥ ḍyaṇ vaktavyaḥ . pāṇḍyaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२६९।१५-२४ रो इइइ,६२७ अणः ण्यङ्ण्येञः विप्रतिषेधेन । अणः ण्यङ् ण्य इञ् इति एते भवन्ति विप्रतिषेधेन । अणः अवकाशः आङ्गः वाङ्गः । ञ्यङः अवकाशः आम्बष्ठ्यः सौवीर्यः । इह उभयम् प्राप्नोति । दार्व्यः । ण्यस्य अवकाशः निचकः नैचक्यः । अणः सः एव । इह उभयम् प्राप्नोति । नीपः नैप्यः । इञः अवकाशः आजमीढिः आजक्रन्दिः । अणः सः एव । इह उभयम् प्राप्नोति । बुधः बौधिः । ण्यङ्ण्येञः भवन्ति विप्रतिषेधेन । ञ्यङः कुरुनादिभ्यः ण्यः । ञ्यङः कुरुनादिभ्यः ण्यः भवति विप्रतिषेधेन । ञ्यङः अवकाशः आवन्त्यः कौन्त्यः । ण्यस्य सः एव। नैशः नाम जनपदः । तस्मात् उभयम् प्राप्नोति । ण्यः भवति विप्रतिषेधेन । नैश्यः ।

KA II,269.15-24 Ro III,627 aṇaḥ ṇyaṅṇyeñaḥ vipratiṣedhena . aṇaḥ ṇyaṅ ṇya iñ iti ete bhavanti vipratiṣedhena . aṇaḥ avakāśaḥ āṅgaḥ vāṅgaḥ . ñyaṅaḥ avakāśaḥ āmbaṣṭhyaḥ sauvīryaḥ . iha ubhayam prāpnoti . dārvyaḥ . ṇyasya avakāśaḥ nicakaḥ naicakyaḥ . aṇaḥ saḥ eva . iha ubhayam prāpnoti . nīpaḥ naipyaḥ . iñaḥ avakāśaḥ ājamīḍhiḥ ājakrandiḥ . aṇaḥ saḥ eva . iha ubhayam prāpnoti . budhaḥ baudhiḥ . ṇyaṅṇyeñaḥ bhavanti vipratiṣedhena . ñyaṅaḥ kurunādibhyaḥ ṇyaḥ . ñyaṅaḥ kurunādibhyaḥ ṇyaḥ bhavati vipratiṣedhena . ñyaṅaḥ avakāśaḥ āvantyaḥ kauntyaḥ . ṇyasya saḥ eva. naiśaḥ nāma janapadaḥ . tasmāt ubhayam prāpnoti . ṇyaḥ bhavati vipratiṣedhena . naiśyaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२७०।२-४ रो इइइ,६२७ कम्बोजादिभ्यः लुग्वचनम् चोडाद्यर्थम् । कम्बोजादिभ्यः लुक् वक्तव्यः । किम् प्रयोजनम् । चोडाद्यर्थम् । चोडः कडेरः केरलः ।

KA II,270.2-4 Ro III,627 kambojādibhyaḥ lugvacanam coḍādyartham . kambojādibhyaḥ luk vaktavyaḥ . kim prayojanam . coḍādyartham . coḍaḥ kaḍeraḥ keralaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२७०।६-१० रो इइइ,६२७-६२८ इह कस्मात् न भवति । आम्बष्ठ्या सौवीर्या । अतः इति उच्यते । न च एषः अकारः । तदन्तविधिना प्राप्नोति । अतः उत्तरम् पठति अतः इति तदन्ताग्रहणम् अवन्त्यादिभ्यः लुग्वचनात् । अतः इति तदन्तस्य अग्रहणम् । किम् कारणम् । अवन्त्यादिभ्यः लुग्वचनात् । यत् अयम् अवन्त्यादिभ्यः लुकम् शास्ति तत् ज्ञापयति आचार्यः न अत्र तदन्तविधिः भवति इति ।

KA II,270.6-10 Ro III,627-628 iha kasmāt na bhavati . āmbaṣṭhyā sauvīryā . ataḥ iti ucyate . na ca eṣaḥ akāraḥ . tadantavidhinā prāpnoti . ataḥ uttaram paṭhati ataḥ iti tadantāgrahaṇam avantyādibhyaḥ lugvacanāt . ataḥ iti tadantasya agrahaṇam . kim kāraṇam . avantyādibhyaḥ lugvacanāt . yat ayam avantyādibhyaḥ lukam śāsti tat jñāpayati ācāryaḥ na atra tadantavidhiḥ bhavati iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२७०।११-१४ रो इइइ,६२८ पर्श्वादिभ्यः लुक् वक्तव्यः । पर्शूः रक्षाः असुरी । यौधेयादिप्रतिषेधः ज्ञापकः पार्श्वादिलुकः । यत् अयम् न प्राच्यभर्गादियौधेयादिभ्यः इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः भवति पर्श्वादिभ्यः लुक् इति ।

KA II,270.11-14 Ro III,628 parśvādibhyaḥ luk vaktavyaḥ . parśūḥ rakṣāḥ asurī . yaudheyādipratiṣedhaḥ jñāpakaḥ pārśvādilukaḥ . yat ayam na prācyabhargādiyaudheyādibhyaḥ iti pratiṣedham śāsti tat jñāpayati ācāryaḥ bhavati parśvādibhyaḥ luk iti .

Sanskrit only: no published translation is held for this verse.