क्अ इइ,२१५।४-२१६।२ रो इइइ,४९३-४९५ पूतक्रत्वादीनाम् पुंयोगप्रकरणे वचनम् । पूतक्रत्वादयः पुंयोगप्रकरणे वक्तव्याः । पूतक्रतोः स्त्री पूतक्रतायी । यया हि पूताः क्रतवः पूतक्रतुः सा भवति ।
KA II,215.4-216.2 Ro III,493-495 pūtakratvādīnām puṃyogaprakaraṇe vacanam . pūtakratvādayaḥ puṃyogaprakaraṇe vaktavyāḥ . pūtakratoḥ strī pūtakratāyī . yayā hi pūtāḥ kratavaḥ pūtakratuḥ sā bhavati .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२१५।७-२१६।२ रो इइइ,४९३-४९५ लिङ्गसन्निगोयेन सर्वत्र आगमादेशानाम् वचने लिङ्गलुकि तत्कृतप्रसङ्गः । लिङ्गसन्निगोयेन सर्वत्र आगमादेशानाम् वचने लिङ्गलुकि तत्कृतम् प्राप्नोति । पञ्चेन्द्राण्यः देवताः अस्य पञ्चेन्द्रः पञ्चाग्निः दशाग्निः । किम् उच्यते सर्वत्र इति । अन्यत्र अपि न अवश्यम् इह एव । क्व अन्यत्र । पञ्चभिः धीवरीभिः क्रीतः पञ्चधीवा दशधीवा इति । लिङ्गग्रहणे न अर्थः । सर्वत्र आगमादेशानाम् वचने लुकि तत्कृतप्रसङ्गः इति एव । इदम् अपि सिद्धम् भवति । पञ्चमेन गृह्णाति पञ्चकः । न एतत् अस्ति । मट् अयम् परादिः । स टतः ग्रहणेन ग्रहीष्यते । इदम् तर्हि प्रयोजनम् । षष्ठेन गृह्णाति षट्कः इति । सिद्धम् तु आगमादेशानाम् अङ्गतः स्त्रीप्रकरणे वचनात् । सिद्धम् एतत् । कथम् । आगमादेशाः ये इह स्त्रीप्रकरणे उच्यन्ते ते अङ्गाधिकारे वक्तव्याः । स्त्रीप्रकरणग्रहणेन न अर्थः । सिद्धम् तु आगमादेशानाम् अङ्गतः वचनात् इति एव । इदम् अपि सिद्धम् भवति । षष्ठेन गृह्णाति षट्कः इति । लिङ्गलुकि वा प्रकृतिप्रत्यापत्तिवचनम् । अथ वा लिङ्गलुकि एव प्रकृतिप्रत्यापत्तिः वक्तव्या । लिङ्गग्रहणेन न अर्थः । लुकि वा प्रकृतिप्रत्यापत्तिवचनम् इति एव । इदम् अपि सिद्धम् भवति । षष्ठेन गृह्णाति षट्कः इति । किम् पुनः अत्र ज्यायः । लुकि प्रकृतिप्रत्यापत्तिवचनम् इति एव ज्यायः । इदम् अपि सिद्धम् भवति । पञ्चभिः पट्वीभिः क्रीतः पञ्चपटुः दशपटुः । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । सन्नियोगशिष्टानाम् अन्यतरापाये उभयोः अपि अभावः । तत् यथा । देवदत्तयज्ञदत्ताभ्याम् इदम् कर्म कर्तव्यम् । देवदत्तापाये यज्ञदत्तः अपि न करोति ।
KA II,215.7-216.2 Ro III,493-495 liṅgasannigoyena sarvatra āgamādeśānām vacane liṅgaluki tatkṛtaprasaṅgaḥ . liṅgasannigoyena sarvatra āgamādeśānām vacane liṅgaluki tatkṛtam prāpnoti . pañcendrāṇyaḥ devatāḥ asya pañcendraḥ pañcāgniḥ daśāgniḥ . kim ucyate sarvatra iti . anyatra api na avaśyam iha eva . kva anyatra . pañcabhiḥ dhīvarībhiḥ krītaḥ pañcadhīvā daśadhīvā iti . liṅgagrahaṇe na arthaḥ . sarvatra āgamādeśānām vacane luki tatkṛtaprasaṅgaḥ iti eva . idam api siddham bhavati . pañcamena gṛhṇāti pañcakaḥ . na etat asti . maṭ ayam parādiḥ . sa ṭataḥ grahaṇena grahīṣyate . idam tarhi prayojanam . ṣaṣṭhena gṛhṇāti ṣaṭkaḥ iti . siddham tu āgamādeśānām aṅgataḥ strīprakaraṇe vacanāt . siddham etat . katham . āgamādeśāḥ ye iha strīprakaraṇe ucyante te aṅgādhikāre vaktavyāḥ . strīprakaraṇagrahaṇena na arthaḥ . siddham tu āgamādeśānām aṅgataḥ vacanāt iti eva . idam api siddham bhavati . ṣaṣṭhena gṛhṇāti ṣaṭkaḥ iti . liṅgaluki vā prakṛtipratyāpattivacanam . atha vā liṅgaluki eva prakṛtipratyāpattiḥ vaktavyā . liṅgagrahaṇena na arthaḥ . luki vā prakṛtipratyāpattivacanam iti eva . idam api siddham bhavati . ṣaṣṭhena gṛhṇāti ṣaṭkaḥ iti . kim punaḥ atra jyāyaḥ . luki prakṛtipratyāpattivacanam iti eva jyāyaḥ . idam api siddham bhavati . pañcabhiḥ paṭvībhiḥ krītaḥ pañcapaṭuḥ daśapaṭuḥ . tat tarhi vaktavyam . na vaktavyam . sanniyogaśiṣṭānām anyatarāpāye ubhayoḥ api abhāvaḥ . tat yathā . devadattayajñadattābhyām idam karma kartavyam . devadattāpāye yajñadattaḥ api na karoti .
Sanskrit only: no published translation is held for this verse.