क्अ इइ,२८०।८-२८१।१४ रो इइइ,६४४-६४७ खण्डिका शुक उलूक । किमर्थम् कण्डिकादिषु उलूकशब्दः पठ्यते न अनुदात्तदेः इति एव सिद्धम् । न सिध्यति । चाषोलूकयोः छन्दसि आद्युदात्तः प्रयोगः दृश्यते । चषेण किकिदीविना । यत् उलूकः वदति । न एतयोः छन्दसि सामूहिकः दृश्यते । यत्र च दृश्यते तत्र एतौ अनुदात्तादी । इदम् तर्हि प्रयोजनम् । अयम् औलूक्यः गोत्रम् । तत्र गोत्राश्रयः वुञ् प्राप्तः । तद्बाधनार्थम् । एतत् अपि न अस्ति प्रयोजनम् । बहुवचनान्तानाम् सामूहिकः बहुषु च लुक् । तत्र लुकि कृते अनुदात्तादेः इति एव सिद्धम् । न सिध्यति । गोत्रे अलुक् अचि इति अलुक् प्राप्नोति । अञ्सिद्धिः अनुदात्तादेः कः अर्थः क्षुद्रकमालवात् । अनुदात्तादेः इति एव अञ् सिद्धः । किमर्थम् क्षुद्रमालवशब्दः खण्डिकादिषु पठ्यते । गोत्राश्रयः वुञ् प्राप्तः तद्बाधनार्थम् । गोत्रात् वुञ् न च तत् गोत्रम् । गोत्रात् वुञ् भवति इति उच्यते न च क्षुद्रमालवकशब्दः गोत्रम् । न च गोत्रसमुदायः गोत्रग्रहणेन गृह्यते । तत् यथा जनपदसमुदायः जनपदग्रहणेन न गृह्यते । काशिकोसलीयाः इति वुञ् न भवति । तदन्तविधिना प्राप्नोति । तदन्तात् न सः सर्वतः । परिगणितेषु कार्येषु तदन्तविधिः । न च इदम् तत्र परिगण्यते । ज्ञापकम् स्यात् तदन्तत्वे । एवम् तर्हि ज्ञापयति आचार्यः भवति इह तदन्तविधिः इति । तथा च आपिशलेः विधिः । एवम् च कृत्वा आपिशलेः आचार्यस्य विधिः उपपन्नः भवति । धेनुः अनञि कम् उत्पादयति । धेनूनाम् समूहः धैनुकम् । अनञि इति किम् । अधेनूनाम् समूहः आधेनवम् । सेनायाम् नियमार्थम् वा । अथ वा नियमार्थः अयम् आरम्भः । क्षुद्रकमालवशब्दात् सेनायाम् एव । क्व मा भूत् । क्षौद्रकमालवकम् अन्यत् इति । यथा बाध्येत वा अञ् वुञा । अथ वा ज्ञापयति आचार्यः पूर्वः अपि वुञ् परम् अञम् बाधते इति । ननु च उक्तम् गोत्रात् वुञ् न च तत् गोत्रम् इति । तदन्तविधिना प्राप्नोति । ननु च उक्तम् तदन्तात् न सः सर्वतः इति । ज्ञापकम् स्यात् तदन्तत्वे । एवम् तर्हि ज्ञापयति आचार्यः भवति इह तदन्तविधिः इति । कथम् पुनः एतत् उभयम् शक्यम् ज्ञापयितुम् भवति च तदन्तविधिः पूर्वः च वुञ् परम् अञम् बाधते इति । उभयम् ज्ञाप्यते ।
KA II,280.8-281.14 Ro III,644-647 khaṇḍikā śuka ulūka . kimartham kaṇḍikādiṣu ulūkaśabdaḥ paṭhyate na anudāttadeḥ iti eva siddham . na sidhyati . cāṣolūkayoḥ chandasi ādyudāttaḥ prayogaḥ dṛśyate . caṣeṇa kikidīvinā . yat ulūkaḥ vadati . na etayoḥ chandasi sāmūhikaḥ dṛśyate . yatra ca dṛśyate tatra etau anudāttādī . idam tarhi prayojanam . ayam aulūkyaḥ gotram . tatra gotrāśrayaḥ vuñ prāptaḥ . tadbādhanārtham . etat api na asti prayojanam . bahuvacanāntānām sāmūhikaḥ bahuṣu ca luk . tatra luki kṛte anudāttādeḥ iti eva siddham . na sidhyati . gotre aluk aci iti aluk prāpnoti . añsiddhiḥ anudāttādeḥ kaḥ arthaḥ kṣudrakamālavāt . anudāttādeḥ iti eva añ siddhaḥ . kimartham kṣudramālavaśabdaḥ khaṇḍikādiṣu paṭhyate . gotrāśrayaḥ vuñ prāptaḥ tadbādhanārtham . gotrāt vuñ na ca tat gotram . gotrāt vuñ bhavati iti ucyate na ca kṣudramālavakaśabdaḥ gotram . na ca gotrasamudāyaḥ gotragrahaṇena gṛhyate . tat yathā janapadasamudāyaḥ janapadagrahaṇena na gṛhyate . kāśikosalīyāḥ iti vuñ na bhavati . tadantavidhinā prāpnoti . tadantāt na saḥ sarvataḥ . parigaṇiteṣu kāryeṣu tadantavidhiḥ . na ca idam tatra parigaṇyate . jñāpakam syāt tadantatve . evam tarhi jñāpayati ācāryaḥ bhavati iha tadantavidhiḥ iti . tathā ca āpiśaleḥ vidhiḥ . evam ca kṛtvā āpiśaleḥ ācāryasya vidhiḥ upapannaḥ bhavati . dhenuḥ anañi kam utpādayati . dhenūnām samūhaḥ dhainukam . anañi iti kim . adhenūnām samūhaḥ ādhenavam . senāyām niyamārtham vā . atha vā niyamārthaḥ ayam ārambhaḥ . kṣudrakamālavaśabdāt senāyām eva . kva mā bhūt . kṣaudrakamālavakam anyat iti . yathā bādhyeta vā añ vuñā . atha vā jñāpayati ācāryaḥ pūrvaḥ api vuñ param añam bādhate iti . nanu ca uktam gotrāt vuñ na ca tat gotram iti . tadantavidhinā prāpnoti . nanu ca uktam tadantāt na saḥ sarvataḥ iti . jñāpakam syāt tadantatve . evam tarhi jñāpayati ācāryaḥ bhavati iha tadantavidhiḥ iti . katham punaḥ etat ubhayam śakyam jñāpayitum bhavati ca tadantavidhiḥ pūrvaḥ ca vuñ param añam bādhate iti . ubhayam jñāpyate .
Sanskrit only: no published translation is held for this verse.