क्अ इइ,२७१।२-५ रो इइइ,६२९ रागात् इति किम् । देवदत्तेन रक्तम् वस्त्रम् । रक्तादीनाम् अर्थाभिधाने प्रत्ययविधानात् उपाध्यानर्थक्यम् । रक्तादीनाम् अर्थाभिधाने प्रत्ययविधानात् उपाधिग्रहणम् अनर्थकम् । न हि अरागात् उत्पद्यमानेन प्रत्ययेन अर्थस्य अभिधानम् स्यात् । अनभिधानात् ततः उत्पत्तिः न भविष्यति ।
KA II,271.2-5 Ro III,629 rāgāt iti kim . devadattena raktam vastram . raktādīnām arthābhidhāne pratyayavidhānāt upādhyānarthakyam . raktādīnām arthābhidhāne pratyayavidhānāt upādhigrahaṇam anarthakam . na hi arāgāt utpadyamānena pratyayena arthasya abhidhānam syāt . anabhidhānāt tataḥ utpattiḥ na bhaviṣyati .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२७१।७-१७ रो इइइ,६२९-६३० ठक्प्रकरणे शकलकर्दमाभ्याम् उपसङ्ख्यानम् । ठक्प्रकरणे शकलकर्दमाभ्याम् उपसङ्ख्यानम् कर्तव्यम् । शाकलिकम् कार्दमिकम् । नील्याः अन् । नील्याः अन् वक्तव्यः । नील्या रक्तम् नीलम् । पीतात् कन् ।पीतात् कन् वक्तव्यः । पीतेन रक्तम् पीतकम् । पीतकशब्दः वा प्रकृत्यन्तरम् । तस्मात् लुक् वक्तव्यः । हरिद्रामहारजनाभ्याम् अञ् । हरिद्रामहारजनाभ्याम् अञ् वक्तव्यः । हारिद्रम् माहारजनम् । रागात् इति उच्यते । तत्र इदम् न सिध्यति । हारिद्रौ कुक्कुटस्य पादौ । काषायौ गर्दभस्य कर्णौ इति । उपमानात् सिद्धम् । हरिद्रौ इव हरिद्रौ । काषायौ इव काषायौ ।
KA II,271.7-17 Ro III,629-630 ṭhakprakaraṇe śakalakardamābhyām upasaṅkhyānam . ṭhakprakaraṇe śakalakardamābhyām upasaṅkhyānam kartavyam . śākalikam kārdamikam . nīlyāḥ an . nīlyāḥ an vaktavyaḥ . nīlyā raktam nīlam . pītāt kan .pītāt kan vaktavyaḥ . pītena raktam pītakam . pītakaśabdaḥ vā prakṛtyantaram . tasmāt luk vaktavyaḥ . haridrāmahārajanābhyām añ . haridrāmahārajanābhyām añ vaktavyaḥ . hāridram māhārajanam . rāgāt iti ucyate . tatra idam na sidhyati . hāridrau kukkuṭasya pādau . kāṣāyau gardabhasya karṇau iti . upamānāt siddham . haridrau iva haridrau . kāṣāyau iva kāṣāyau .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२७१।१९-२७२।१७ रो इइइ,६३०-६३१ अयुक्तः अयम् निर्देशः । योगः हिम् नाम भवति ययोः सन्निकर्षविप्रकर्षौ स्तः । न च कालनक्षत्रयोः सन्निकर्षविप्रकर्षौ स्तः । नित्ये हि कालनक्षत्रे । कथम् तर्हि निर्देशः कर्तव्यः । नक्षत्रेण चन्द्रमसः योगात् तद्युक्तात् काले प्रत्ययविधानम् । नक्षत्रेण चन्द्रमसः योगात् तद्युक्तात् काले प्रत्ययः भवति इति वक्तव्यम् । पुष्येण युक्तः पुष्ययुक्तः , पुष्ययुक्तः चन्द्रमाः अस्मिन् काले : पौषम् अहः , पौषी रात्रिः । तत्र उत्तरपदलोपः । तत्र उत्तरपदलोपः वक्तव्यः । पुष्ययुक्तशब्दात् हि प्रत्ययः विधीयते । लिङ्गवचनानुपपत्तिः च । लिङ्गवचनयोः च अनुपपत्तिः । चन्द्रमसः यत् लिङ्गम् वचनम् च तत् युक्तवद्भावेन प्राप्नोति । कालयोगात् सिद्धम् । अस्तु नक्ष्त्रेण युक्तः कालः इति एव । नन् च उक्तम् अयुक्तः अयम् निर्देशः । योगः हिम् नाम भवति ययोः सन्निकर्षविप्रकर्षौ स्तः न च कालनक्षत्रयोः सन्निकर्षविप्रकर्षौ स्तः । नित्ये हि कालनक्षत्रे इति । न एषः दोषः । पुष्यसमीपगते चन्द्रमसि पुष्यशब्दः वर्तते । तेन तत्सञ्ज्ञकेन कालः विशेष्यते । तथा च सम्प्रत्ययः । एवम् च कृत्वा लोके सम्प्रत्ययः भवति । पुष्यसमीपगते चन्द्रमसि वक्तारः भवन्ति पुष्येण अद्य । मघाभिः अद्य इति ।
KA II,271.19-272.17 Ro III,630-631 ayuktaḥ ayam nirdeśaḥ . yogaḥ him nāma bhavati yayoḥ sannikarṣaviprakarṣau staḥ . na ca kālanakṣatrayoḥ sannikarṣaviprakarṣau staḥ . nitye hi kālanakṣatre . katham tarhi nirdeśaḥ kartavyaḥ . nakṣatreṇa candramasaḥ yogāt tadyuktāt kāle pratyayavidhānam . nakṣatreṇa candramasaḥ yogāt tadyuktāt kāle pratyayaḥ bhavati iti vaktavyam . puṣyeṇa yuktaḥ puṣyayuktaḥ , puṣyayuktaḥ candramāḥ asmin kāle : pauṣam ahaḥ , pauṣī rātriḥ . tatra uttarapadalopaḥ . tatra uttarapadalopaḥ vaktavyaḥ . puṣyayuktaśabdāt hi pratyayaḥ vidhīyate . liṅgavacanānupapattiḥ ca . liṅgavacanayoḥ ca anupapattiḥ . candramasaḥ yat liṅgam vacanam ca tat yuktavadbhāvena prāpnoti . kālayogāt siddham . astu nakṣtreṇa yuktaḥ kālaḥ iti eva . nan ca uktam ayuktaḥ ayam nirdeśaḥ . yogaḥ him nāma bhavati yayoḥ sannikarṣaviprakarṣau staḥ na ca kālanakṣatrayoḥ sannikarṣaviprakarṣau staḥ . nitye hi kālanakṣatre iti . na eṣaḥ doṣaḥ . puṣyasamīpagate candramasi puṣyaśabdaḥ vartate . tena tatsañjñakena kālaḥ viśeṣyate . tathā ca sampratyayaḥ . evam ca kṛtvā loke sampratyayaḥ bhavati . puṣyasamīpagate candramasi vaktāraḥ bhavanti puṣyeṇa adya . maghābhiḥ adya iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२७२।१९-२७३।२ रो इइइ,६३२ इह कस्मात् न भवति । पौषी रात्रिः पौषम् अहः । अविशेषे इति उच्यते । विशेषः च अत्र गम्यते । रात्रिः इति उक्ते अहः न इति गम्यते । अहः इति उक्ते रात्रिः न इति गम्यते । इह अपि तर्हि न प्राप्नोति । अद्य पुष्यः इति । अत्र अपि हि विशेषः गम्यते । अद्य इति उक्ते न ह्यः न श्वः इति । यदि अपि अत्र विशेषः गम्यते अविशेषः अपि गम्यते । अद्य इति उक्ते न ज्ञायते रात्रौ वा दिवा वा इति । यतः अविशेषः तदाश्रयः लुप् भविष्यति । इह अपि तर्हि यदि अपि विशेषः गम्यते अविशेषः अपि तु गम्यते । रात्रिः इति उक्ते न ज्ञायते कदा इति । यतः अविशेषः तदाश्रयः लुप् प्राप्नोति । एवम् तर्हि नक्षत्रेण युक्तः कालः इति अनुवर्तते । नक्षत्रेण युक्तस्य कालस्य अविशेषे । कः पुनः कालः नक्षत्रेण युज्यते । अहोरात्रः ।
KA II,272.19-273.2 Ro III,632 iha kasmāt na bhavati . pauṣī rātriḥ pauṣam ahaḥ . aviśeṣe iti ucyate . viśeṣaḥ ca atra gamyate . rātriḥ iti ukte ahaḥ na iti gamyate . ahaḥ iti ukte rātriḥ na iti gamyate . iha api tarhi na prāpnoti . adya puṣyaḥ iti . atra api hi viśeṣaḥ gamyate . adya iti ukte na hyaḥ na śvaḥ iti . yadi api atra viśeṣaḥ gamyate aviśeṣaḥ api gamyate . adya iti ukte na jñāyate rātrau vā divā vā iti . yataḥ aviśeṣaḥ tadāśrayaḥ lup bhaviṣyati . iha api tarhi yadi api viśeṣaḥ gamyate aviśeṣaḥ api tu gamyate . rātriḥ iti ukte na jñāyate kadā iti . yataḥ aviśeṣaḥ tadāśrayaḥ lup prāpnoti . evam tarhi nakṣatreṇa yuktaḥ kālaḥ iti anuvartate . nakṣatreṇa yuktasya kālasya aviśeṣe . kaḥ punaḥ kālaḥ nakṣatreṇa yujyate . ahorātraḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२७३।४-५ रो इइइ,६३२-६३३ इह कस्मात् न युक्तवद्भावः भवति । श्रवणा रात्रिः । निपातनात् एतत् सिद्धम् । किम् निपातनम् । फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः इति ।
KA II,273.4-5 Ro III,632-633 iha kasmāt na yuktavadbhāvaḥ bhavati . śravaṇā rātriḥ . nipātanāt etat siddham . kim nipātanam . phālgunīśravaṇākārttikīcaitrībhyaḥ iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२७३।७-२३ रो इइइ,६३३-६३४ दृष्टम् साम कलेः ढक् । दृष्टम् साम इति अत्र कलेः ढक् वक्तव्यः । कलिना दृष्टम् साम कालेयम् साम गीयते । अपरः आह : सर्वत्र अग्निकलिभ्याम् ढक् । सर्वत्र अग्निकलिभ्याम् ढक् वक्तव्यः । अग्निना दृष्टम् साम आग्नेयम् । अग्नौ भवम् आग्नेयम् । अग्नेः आगतम् आग्नेयम् । अग्नेः स्वम् आग्नेयम् । अग्निः देवता अस्य आग्नेयम् । कलिना दृष्टम् साम कालेयम् । कलेः आगतम् कालेयम् । कलौ भवम् कालेयम् । कलेः स्वम् कालेयम् । कलिः देवता अस्य कालेयः चरुः । दृष्टे सामनि जाते च अपि अण् डित् द्विः वा विधीयते । दृष्टे सामनि जाते च अपि अण् डित् द्विः वा वक्तव्यः । उशनसा दृष्टम् साम औशनसम् औशनम् । शतभिषजि जातः शातभिषजः शातभिषः । तीयात् ईकक् । तीयात् ईकक् वक्तव्यः । द्वैतीयिकः तार्तीयिकः । न विद्यायाः । विद्यायाः न भवति इति वक्तव्यम् । द्वितीया विद्या तृतीया विद्या इति एव । गोत्रात् अङ्कवत् इष्यते । औपगवकम् । दृष्टे सामनि जाते च अपि अण् डित् द्विः वा विधीयते । तीयात् ईकक् न विद्यायाः गोत्रात् अङ्कवत् इष्यते ।
KA II,273.7-23 Ro III,633-634 dṛṣṭam sāma kaleḥ ḍhak . dṛṣṭam sāma iti atra kaleḥ ḍhak vaktavyaḥ . kalinā dṛṣṭam sāma kāleyam sāma gīyate . aparaḥ āha : sarvatra agnikalibhyām ḍhak . sarvatra agnikalibhyām ḍhak vaktavyaḥ . agninā dṛṣṭam sāma āgneyam . agnau bhavam āgneyam . agneḥ āgatam āgneyam . agneḥ svam āgneyam . agniḥ devatā asya āgneyam . kalinā dṛṣṭam sāma kāleyam . kaleḥ āgatam kāleyam . kalau bhavam kāleyam . kaleḥ svam kāleyam . kaliḥ devatā asya kāleyaḥ caruḥ . dṛṣṭe sāmani jāte ca api aṇ ḍit dviḥ vā vidhīyate . dṛṣṭe sāmani jāte ca api aṇ ḍit dviḥ vā vaktavyaḥ . uśanasā dṛṣṭam sāma auśanasam auśanam . śatabhiṣaji jātaḥ śātabhiṣajaḥ śātabhiṣaḥ . tīyāt īkak . tīyāt īkak vaktavyaḥ . dvaitīyikaḥ tārtīyikaḥ . na vidyāyāḥ . vidyāyāḥ na bhavati iti vaktavyam . dvitīyā vidyā tṛtīyā vidyā iti eva . gotrāt aṅkavat iṣyate . aupagavakam . dṛṣṭe sāmani jāte ca api aṇ ḍit dviḥ vā vidhīyate . tīyāt īkak na vidyāyāḥ gotrāt aṅkavat iṣyate .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२७४।२-८ रो इइइ,६३४ किमर्थः डकारः । डिति इति लोपः यथा स्यात् । न एतत् अस्ति प्रयोजनम् । यस्येतिलोपेन अपि एतत् सिद्धम् । एवम् तर्हि सिद्धे सति यत् ययतौ डितौ करोति तत् ज्ञापयति आचार्यः भवतः एते परिभाषे । अननुबन्धकग्रहणे न सानुबन्धकस्य तदनुबन्धकग्रहणे न अतदनुबन्धकस्य ग्रहणम् इति । किम् एतस्य ज्ञापने प्रयोजनम् । अवामदेव्यम् इति एतत् सिद्धम् भवति । सिद्धे यस्येतिलोपेन किमर्थम् ययतौ डितौ । ग्रहणम् मा अतदर्थे भूत् वामदेवस्य नञ्स्वरे ।
KA II,274.2-8 Ro III,634 kimarthaḥ ḍakāraḥ . ḍiti iti lopaḥ yathā syāt . na etat asti prayojanam . yasyetilopena api etat siddham . evam tarhi siddhe sati yat yayatau ḍitau karoti tat jñāpayati ācāryaḥ bhavataḥ ete paribhāṣe . ananubandhakagrahaṇe na sānubandhakasya tadanubandhakagrahaṇe na atadanubandhakasya grahaṇam iti . kim etasya jñāpane prayojanam . avāmadevyam iti etat siddham bhavati . siddhe yasyetilopena kimartham yayatau ḍitau . grahaṇam mā atadarthe bhūt vāmadevasya nañsvare .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२७४।१०-१४ रो इइइ,६३५ परिवृतः रथः इति तदेकान्तग्रहणम् । परिवृतः रथः इति अत्र तदेकान्तग्रहणम् कर्तव्यम् । येन परिवृतः रथः रथैकान्तः चेत् सः भवति इति वक्तव्यम् । इह मा भूत् : पुत्रैः परिवृतः रथः । छात्रैः परिवृतः रथः इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । कस्मात् न भवति : पुत्रैः परिवृतः रथः , छात्रैः परिवृतः रथः इति । अनभिधानात् ।
KA II,274.10-14 Ro III,635 parivṛtaḥ rathaḥ iti tadekāntagrahaṇam . parivṛtaḥ rathaḥ iti atra tadekāntagrahaṇam kartavyam . yena parivṛtaḥ rathaḥ rathaikāntaḥ cet saḥ bhavati iti vaktavyam . iha mā bhūt : putraiḥ parivṛtaḥ rathaḥ . chātraiḥ parivṛtaḥ rathaḥ iti . tat tarhi vaktavyam . na vaktavyam . kasmāt na bhavati : putraiḥ parivṛtaḥ rathaḥ , chātraiḥ parivṛtaḥ rathaḥ iti . anabhidhānāt .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२७४।१६-१७ रो इइइ,६३५ अयम् योगः शक्यः अवक्तुम् । कथम् पाण्डुकम्बली पाण्डुकम्बलिनौ पाण्डुकम्बलिनः इति । इनिना एतत् मत्वर्थीयेन सिद्धम् । पाण्डुकम्बलः अस्य अस्ति इति पाण्डुकम्बली ।
KA II,274.16-17 Ro III,635 ayam yogaḥ śakyaḥ avaktum . katham pāṇḍukambalī pāṇḍukambalinau pāṇḍukambalinaḥ iti . ininā etat matvarthīyena siddham . pāṇḍukambalaḥ asya asti iti pāṇḍukambalī .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२७४।१९-२७५।५ रो इइइ,६३५-६३६ कौमारापूर्ववचने इति उभयतः स्त्रियाः अपूर्वत्वे । कौमारापूर्ववचने इति अत्र उभयतः स्त्रियाः अपूर्वत्वे इति वक्तव्यम् । अपूर्वपतिम् कुमारीम् उपपन्नः कौमारः भर्ता । कुमारी अपूर्वपतिः पतिम् उपपन्ना कौमारी भार्या । कौमारापूर्ववचने कुमार्याः अण् विधीयते अपूर्वत्वम् यदा तस्याः कुमार्याम् भवति इति वा । अथ वा कुमार्याम् भवः कौमारः । यदि एवम् कौमारी भार्या इति न सिध्यति । पुंयोगात् स्त्र्यभिधानम् । पुंयोगात् स्त्र्यभिधानम् भविष्यति । कौमारस्य भार्या कौमारी इति ।
KA II,274.19-275.5 Ro III,635-636 kaumārāpūrvavacane iti ubhayataḥ striyāḥ apūrvatve . kaumārāpūrvavacane iti atra ubhayataḥ striyāḥ apūrvatve iti vaktavyam . apūrvapatim kumārīm upapannaḥ kaumāraḥ bhartā . kumārī apūrvapatiḥ patim upapannā kaumārī bhāryā . kaumārāpūrvavacane kumāryāḥ aṇ vidhīyate apūrvatvam yadā tasyāḥ kumāryām bhavati iti vā . atha vā kumāryām bhavaḥ kaumāraḥ . yadi evam kaumārī bhāryā iti na sidhyati . puṃyogāt stryabhidhānam . puṃyogāt stryabhidhānam bhaviṣyati . kaumārasya bhāryā kaumārī iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२७५।७-१३ रो इइइ,६३६-६३७ सा अस्मिन् पौर्णमासी इति सञ्ज्ञाग्रहणम् । सा अस्मिन् पौर्णमासी इति सञ्ज्ञाग्रहणम् कर्तव्यम् । असञ्ज्ञायाम् गरीयान् उप्संयोगः । अक्रियमाणे हि सञ्ज्ञाग्रहणे गरीयान् उप्संयोगः कर्तव्यः स्यात् । मासार्धमासयोः इति वक्तव्यम् स्यात् । इह मा भूत् । पौषी पौर्णमासी अस्मिन् पञ्चदशरात्रे दशरात्रे इति । संवत्सरपर्वणि इति च वक्तव्यम् स्यात् । भृतकमासे मा भूत् इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । इतिकरणः क्रियते । ततः चेत् विवक्षा ।
KA II,275.7-13 Ro III,636-637 sā asmin paurṇamāsī iti sañjñāgrahaṇam . sā asmin paurṇamāsī iti sañjñāgrahaṇam kartavyam . asañjñāyām garīyān upsaṃyogaḥ . akriyamāṇe hi sañjñāgrahaṇe garīyān upsaṃyogaḥ kartavyaḥ syāt . māsārdhamāsayoḥ iti vaktavyam syāt . iha mā bhūt . pauṣī paurṇamāsī asmin pañcadaśarātre daśarātre iti . saṃvatsaraparvaṇi iti ca vaktavyam syāt . bhṛtakamāse mā bhūt iti . tat tarhi vaktavyam . na vaktavyam . itikaraṇaḥ kriyate . tataḥ cet vivakṣā .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२७५।१५-२१ रो इइइ,६३७-६३८ यस्य इति लोपः कस्मात् न भवति । इकारोच्चारणसामर्थ्यात् । अथ यत् कायम् हविः कथम् तस्य सम्प्रैषः कर्तव्यः । यदि तावत् किमः कादेशः कस्मै अनुब्रूहि इति भवितव्यम् । अथ न किमः काय अनुब्रूहि इति भवितव्यम् । यदि अपि किमः अथ अपि न किमः उभयथा कस्मै अनुब्रूहि इति भवितव्यम् । सर्वस्य हि सर्वनामसञ्ज्ञा क्रियते । सर्वः च प्रजापतिः प्रजापतिः च कः । अपरः आह : यदि एव किमः अथ अपि न किमः उभयथा काय अनुब्रूहि इति भवितव्यम् । सञ्ज्ञोपसर्जनयोः हि सर्वनामसञ्ज्ञा प्रतिषिध्यते । सञ्ज्ञा च एषा तत्रभवतः ।
KA II,275.15-21 Ro III,637-638 yasya iti lopaḥ kasmāt na bhavati . ikāroccāraṇasāmarthyāt . atha yat kāyam haviḥ katham tasya sampraiṣaḥ kartavyaḥ . yadi tāvat kimaḥ kādeśaḥ kasmai anubrūhi iti bhavitavyam . atha na kimaḥ kāya anubrūhi iti bhavitavyam . yadi api kimaḥ atha api na kimaḥ ubhayathā kasmai anubrūhi iti bhavitavyam . sarvasya hi sarvanāmasañjñā kriyate . sarvaḥ ca prajāpatiḥ prajāpatiḥ ca kaḥ . aparaḥ āha : yadi eva kimaḥ atha api na kimaḥ ubhayathā kāya anubrūhi iti bhavitavyam . sañjñopasarjanayoḥ hi sarvanāmasañjñā pratiṣidhyate . sañjñā ca eṣā tatrabhavataḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२७६।२-४ रो इइइ,६३८ अथ यत् अपोनप्त्रियम् अपान्नप्त्रियम् हविः कथम् तस्य सम्प्रैषः कर्तव्यः । अपोनपाते अनुब्रूहि । अपान्नपाते अनुब्रूहि । अपोनप्त्रपान्नप्तृभावः कस्मात् न भवति । प्रत्ययसन्नियोगेन ऋकारान्तत्वम् उच्यते । तेन असति प्रत्यये न भवितव्यम् ।
KA II,276.2-4 Ro III,638 atha yat aponaptriyam apānnaptriyam haviḥ katham tasya sampraiṣaḥ kartavyaḥ . aponapāte anubrūhi . apānnapāte anubrūhi . aponaptrapānnaptṛbhāvaḥ kasmāt na bhavati . pratyayasanniyogena ṛkārāntatvam ucyate . tena asati pratyaye na bhavitavyam .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२७६।६-१० रो इइइ,६३९ छप्रकरणे पैङ्गाक्षीपुत्रादिभ्यः उपसङ्ख्यानम् । छप्रकरणे पैङ्गाक्षीपुत्रादिभ्यः उपसङ्ख्यानम् कर्तव्यम् । पैङ्गाक्षीपुत्रीयम् तार्णबिन्दवीयम् । शतरुद्रात् घ च । शतरुद्रात् घप्रत्ययः वक्तव्यः छः च वक्तव्यः । शतरुद्रियम् शतरुद्रीयम् ।
KA II,276.6-10 Ro III,639 chaprakaraṇe paiṅgākṣīputrādibhyaḥ upasaṅkhyānam . chaprakaraṇe paiṅgākṣīputrādibhyaḥ upasaṅkhyānam kartavyam . paiṅgākṣīputrīyam tārṇabindavīyam . śatarudrāt gha ca . śatarudrāt ghapratyayaḥ vaktavyaḥ chaḥ ca vaktavyaḥ . śatarudriyam śatarudrīyam .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२७६।१२-२७७।५ रो इइइ,६३९-६४० कथम् इदम् विज्ञायते : भवे ये प्रत्ययाः विहिताः ते भवन्ति कालेभ्यः सा अस्य देवता इति अस्मिन् अर्थे इति । आहोस्वित् कालेभ्यः भवे ये प्रत्ययाः विहिताः ते भवन्ति कालेभ्यः सा अस्य देवता इति अस्मिन् अर्थे इति । कः च अत्र विशेषः । कालेभ्यः भवे प्रत्ययमात्रप्रसङ्गः । यदि विज्ञायते भवे ये प्रत्ययाः विहिताः ते भवन्ति कालेभ्यः सा अस्य देवता इति अस्मिन् अर्थे इति प्रत्ययमात्रम् प्राप्नोति । यः कालेभ्यः भवे तस्य विधाने प्रातिपदिकमात्रात् प्रसङ्गः । अथ विज्ञायते कालेभ्यः भवे ये प्रत्ययाः विहिताः ते भवन्ति कालेभ्यः सा अस्य देवता इति अस्मिन् अर्थे इति प्रातिपदिकमात्रात् प्राप्नुवन्ति । सिद्धम् तु उभयनिर्देशात् । सिद्धम् एतत् । कथम् । उभयनिर्देशात् । उभयनिर्देशः कर्तव्यः । कालेभ्यः भववत् कालेभ्यः इति । सः तर्हि उभयनिर्देशः कर्तव्यः । न कर्तव्यः । भववत् इति वतिना निर्देशः अयम् । यदि च याभ्यः प्रकृतिभ्यः येन विशेषेण भवे प्रत्ययाः विहिताः ताभ्यः प्रकृतिभ्यः तेन विशेषेण सा अस्य देवता इति अस्मिन् अर्थे भवन्ति ततः अमी भववत् कृताः स्युः । अथ हि प्रकृतिमात्रात् वा स्युः प्रत्ययमात्रम् वा स्यात् न अमी भववत् कृताः स्युः ।
KA II,276.12-277.5 Ro III,639-640 katham idam vijñāyate : bhave ye pratyayāḥ vihitāḥ te bhavanti kālebhyaḥ sā asya devatā iti asmin arthe iti . āhosvit kālebhyaḥ bhave ye pratyayāḥ vihitāḥ te bhavanti kālebhyaḥ sā asya devatā iti asmin arthe iti . kaḥ ca atra viśeṣaḥ . kālebhyaḥ bhave pratyayamātraprasaṅgaḥ . yadi vijñāyate bhave ye pratyayāḥ vihitāḥ te bhavanti kālebhyaḥ sā asya devatā iti asmin arthe iti pratyayamātram prāpnoti . yaḥ kālebhyaḥ bhave tasya vidhāne prātipadikamātrāt prasaṅgaḥ . atha vijñāyate kālebhyaḥ bhave ye pratyayāḥ vihitāḥ te bhavanti kālebhyaḥ sā asya devatā iti asmin arthe iti prātipadikamātrāt prāpnuvanti . siddham tu ubhayanirdeśāt . siddham etat . katham . ubhayanirdeśāt . ubhayanirdeśaḥ kartavyaḥ . kālebhyaḥ bhavavat kālebhyaḥ iti . saḥ tarhi ubhayanirdeśaḥ kartavyaḥ . na kartavyaḥ . bhavavat iti vatinā nirdeśaḥ ayam . yadi ca yābhyaḥ prakṛtibhyaḥ yena viśeṣeṇa bhave pratyayāḥ vihitāḥ tābhyaḥ prakṛtibhyaḥ tena viśeṣeṇa sā asya devatā iti asmin arthe bhavanti tataḥ amī bhavavat kṛtāḥ syuḥ . atha hi prakṛtimātrāt vā syuḥ pratyayamātram vā syāt na amī bhavavat kṛtāḥ syuḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२७७।७-११ रो इइइ,६४० ठञ्प्रकरणे तत् अस्मिन् वर्तते इति नवयज्ञादिभ्यः उपसङ्ख्यानम् । ठञ्प्रकरणे तत् अस्मिन् वर्तते इति नवयज्ञादिभ्यः उपसङ्ख्यानम् कर्तव्यम् । नवयज्ञः वर्तते अस्मिन् काले नावयज्ञिकः । पाकयज्ञिकः । पूर्णमासात् अण् । पूर्णमासात् अण् वक्तव्यः । पूर्णमासः वर्तते अस्मिन् काले पौर्णमासी तिथिः ।
KA II,277.7-11 Ro III,640 ṭhañprakaraṇe tat asmin vartate iti navayajñādibhyaḥ upasaṅkhyānam . ṭhañprakaraṇe tat asmin vartate iti navayajñādibhyaḥ upasaṅkhyānam kartavyam . navayajñaḥ vartate asmin kāle nāvayajñikaḥ . pākayajñikaḥ . pūrṇamāsāt aṇ . pūrṇamāsāt aṇ vaktavyaḥ . pūrṇamāsaḥ vartate asmin kāle paurṇamāsī tithiḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२७०।१३-२७८।१० रो इइइ,६४०-६४१ पितृव्यमातुल इति किम् निपात्यते । पितृमातृभ्याम् भ्रातरि व्यड्डुलचौ । पितृमातृभ्याम् भ्रातरि व्यड्डुलचौ प्रत्ययौ निपात्येते । पितुः भ्राता पितृव्यः । मातुः भ्राता मातुलः । मातामहपितामहेति किम् निपात्यते । मातृपितृभ्याम् पितरि डामहच् । मातृपितृभ्याम् पितरि डामहच्प्रत्ययः निपात्यते । मातुः पिता मातामहः । पितुः पिता पितामहः । मातरि षित् च । षित् च वक्तव्यः । मातामही पितामही । महः वा छन्दसि आनङः अवग्रहदर्शनात् । महः वा पुनः एषः भविष्यति छन्दसि आनङः अवग्रहदर्शनात् । छन्दसि आनङः अवग्रहः दृश्यते । पिता-महः इति । अवेः दुग्धे सोढदूसमरीसचः । अवेः दुग्धे सोढदूसमरीसचः इति एते प्रत्ययाः वक्तव्याः । अविसोढम् अविदूसम् अविमरीसम् । तिलात् निष्फलात् पिञ्जपेजौ । तिलात् निष्फलात् पिञ्जपेजौ वक्तव्यौ । तिलपिञ्जः तिलपेजः । पिञ्जः छन्दसि डित् च । पिञ्जः छन्दसि डित् च वक्तव्यः । तिलपिञ्जम् दण्डानतम् ।
KA II,270.13-278.10 Ro III,640-641 pitṛvyamātula iti kim nipātyate . pitṛmātṛbhyām bhrātari vyaḍḍulacau . pitṛmātṛbhyām bhrātari vyaḍḍulacau pratyayau nipātyete . pituḥ bhrātā pitṛvyaḥ . mātuḥ bhrātā mātulaḥ . mātāmahapitāmaheti kim nipātyate . mātṛpitṛbhyām pitari ḍāmahac . mātṛpitṛbhyām pitari ḍāmahacpratyayaḥ nipātyate . mātuḥ pitā mātāmahaḥ . pituḥ pitā pitāmahaḥ . mātari ṣit ca . ṣit ca vaktavyaḥ . mātāmahī pitāmahī . mahaḥ vā chandasi ānaṅaḥ avagrahadarśanāt . mahaḥ vā punaḥ eṣaḥ bhaviṣyati chandasi ānaṅaḥ avagrahadarśanāt . chandasi ānaṅaḥ avagrahaḥ dṛśyate . pitā-mahaḥ iti . aveḥ dugdhe soḍhadūsamarīsacaḥ . aveḥ dugdhe soḍhadūsamarīsacaḥ iti ete pratyayāḥ vaktavyāḥ . avisoḍham avidūsam avimarīsam . tilāt niṣphalāt piñjapejau . tilāt niṣphalāt piñjapejau vaktavyau . tilapiñjaḥ tilapejaḥ . piñjaḥ chandasi ḍit ca . piñjaḥ chandasi ḍit ca vaktavyaḥ . tilapiñjam daṇḍānatam .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२७८।१२-१७ रो इइइ,६४२ किमर्थम् भिक्षादिषु युवतिशब्दः पठ्यते न तस्य समूहः इति एव सिद्धम् । न सिध्यति । अनुदात्तादिलक्षणः अञ् प्राप्तः । तद्बाधनार्थम् । अतः उत्तरम् पठति : भिक्षादिषु युवतिग्रहणानर्थक्यम् पुंवद्भावस्य सिद्धत्वात् प्रत्ययविधौ । भिक्षादिषु युवतिग्रहणम् अनर्थकम् । किम् कारणम् । पुंवद्भावस्य सिद्धत्वात् प्रत्ययविधौ । पुंवद्भावः अत्र भविष्यते भस अढे तद्धिते पुंवत् भवति इति । सिद्धः च प्रत्ययविधौ । सः च सिद्धः प्रत्ययविधौ ।
KA II,278.12-17 Ro III,642 kimartham bhikṣādiṣu yuvatiśabdaḥ paṭhyate na tasya samūhaḥ iti eva siddham . na sidhyati . anudāttādilakṣaṇaḥ añ prāptaḥ . tadbādhanārtham . ataḥ uttaram paṭhati : bhikṣādiṣu yuvatigrahaṇānarthakyam puṃvadbhāvasya siddhatvāt pratyayavidhau . bhikṣādiṣu yuvatigrahaṇam anarthakam . kim kāraṇam . puṃvadbhāvasya siddhatvāt pratyayavidhau . puṃvadbhāvaḥ atra bhaviṣyate bhasa aḍhe taddhite puṃvat bhavati iti . siddhaḥ ca pratyayavidhau . saḥ ca siddhaḥ pratyayavidhau .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२७८।२०-२७९।७ रो इइइ,६४२-६४३ वृद्धात् च इति वक्तव्यम् । वृद्धानाम् समूहः वार्धकम् । अञः वुञ् पूर्वविप्रतिषिद्धम् । अञः वुञ् भवति पूर्वविप्रतिषेधेन । अञः अवकाशः कपोत कापोतम् । वुञः अवकाशः ग्लुचुकायनि ग्लौचुकायनकम् । इह उभयम् प्राप्नोति औपगवकम् कापटवकम् । वुञ् भवति पूर्वविप्रतिषेधेन । सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः । न वक्तव्यः । वक्ष्यति एतत् पूर्वः अपि वुञ् परम् अञम् बाधते इति । अथ वा इष्टवाची परशब्दः । विप्रतिषेधे परम् यत् इष्टम् तत् भवति इति । ठक् तु विप्रतिषेधात् । ठक् तु भवति विप्रतिषेधेन । ठकः अवकाशः सक्तु साक्तुकम् । अञः सः एव । इह उभयम् प्राप्नोति आपूपिकम् शाष्कुलिकम् मौदिकम् । ठक् भवति विप्रतिषेधेन ।
KA II,278.20-279.7 Ro III,642-643 vṛddhāt ca iti vaktavyam . vṛddhānām samūhaḥ vārdhakam . añaḥ vuñ pūrvavipratiṣiddham . añaḥ vuñ bhavati pūrvavipratiṣedhena . añaḥ avakāśaḥ kapota kāpotam . vuñaḥ avakāśaḥ glucukāyani glaucukāyanakam . iha ubhayam prāpnoti aupagavakam kāpaṭavakam . vuñ bhavati pūrvavipratiṣedhena . saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . vakṣyati etat pūrvaḥ api vuñ param añam bādhate iti . atha vā iṣṭavācī paraśabdaḥ . vipratiṣedhe param yat iṣṭam tat bhavati iti . ṭhak tu vipratiṣedhāt . ṭhak tu bhavati vipratiṣedhena . ṭhakaḥ avakāśaḥ saktu sāktukam . añaḥ saḥ eva . iha ubhayam prāpnoti āpūpikam śāṣkulikam maudikam . ṭhak bhavati vipratiṣedhena .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२७९।९ रो इइइ,६४३ गणिकायः च इति वक्तव्यम् । गणिकानाम् समूहः गाणिक्यम् ।
KA II,279.9 Ro III,643 gaṇikāyaḥ ca iti vaktavyam . gaṇikānām samūhaḥ gāṇikyam .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२७९।११-१७ रो इइइ,६४३ किमर्थम् ब्राह्मणादिभ्यः यन् विधीयते न यञ् प्रकृतः सः अनुवर्तिष्यते । न हि अस्ति विशेषः ब्राह्मणादिभ्यः यनः वा यञः वा । तत् एव रूपम् सः एव स्वरः । एवम् तर्हि सिद्धे सति यत् ब्राह्मणादिभ्यः यनम् शास्ति तत् ज्ञापयति आचार्यः अन्येभ्यः अपि अयम् भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । यन्प्रकरणे पृष्ठात् उपसङ्ख्यानम् इति चोदयिष्यति । तन् न कर्तव्यम् भवति । यन्प्रकरणे पृष्ठात् उपसङ्ख्यानम् । यन्प्रकरणे पृष्ठात् उपसङ्ख्यानम् कर्तव्यम् । पृष्ठानाम् समूहः पृष्ठ्यः षडहः ।
KA II,279.11-17 Ro III,643 kimartham brāhmaṇādibhyaḥ yan vidhīyate na yañ prakṛtaḥ saḥ anuvartiṣyate . na hi asti viśeṣaḥ brāhmaṇādibhyaḥ yanaḥ vā yañaḥ vā . tat eva rūpam saḥ eva svaraḥ . evam tarhi siddhe sati yat brāhmaṇādibhyaḥ yanam śāsti tat jñāpayati ācāryaḥ anyebhyaḥ api ayam bhavati iti . kim etasya jñāpane prayojanam . yanprakaraṇe pṛṣṭhāt upasaṅkhyānam iti codayiṣyati . tan na kartavyam bhavati . yanprakaraṇe pṛṣṭhāt upasaṅkhyānam . yanprakaraṇe pṛṣṭhāt upasaṅkhyānam kartavyam . pṛṣṭhānām samūhaḥ pṛṣṭhyaḥ ṣaḍahaḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२७९।१९-२८०।६ रो इइइ,६४४ गजसहायाभ्याम् च इति वक्तव्यम् । गजता सहायता । अह्नः खः । अह्नः खः वक्तव्यः । अह्नाम् समूहः अहीनः । क्रतौ । क्रतौ इति वक्तव्यम् । इह मा भूत् । आह्नाय धूतपाप्मानः भास्कराः जातमृत्यवः । पर्श्वाः सण् । पर्श्वाः सण् वक्तव्यः । पर्शूनाम् समूहः पार्श्वम् । यदि सण् क्रियते इत्सञ्ज्ञा न प्राप्नोति । एवम् तर्हि णस् वक्तव्यः ।
KA II,279.19-280.6 Ro III,644 gajasahāyābhyām ca iti vaktavyam . gajatā sahāyatā . ahnaḥ khaḥ . ahnaḥ khaḥ vaktavyaḥ . ahnām samūhaḥ ahīnaḥ . kratau . kratau iti vaktavyam . iha mā bhūt . āhnāya dhūtapāpmānaḥ bhāskarāḥ jātamṛtyavaḥ . parśvāḥ saṇ . parśvāḥ saṇ vaktavyaḥ . parśūnām samūhaḥ pārśvam . yadi saṇ kriyate itsañjñā na prāpnoti . evam tarhi ṇas vaktavyaḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२८०।८-२८१।१४ रो इइइ,६४४-६४७ खण्डिका शुक उलूक । किमर्थम् कण्डिकादिषु उलूकशब्दः पठ्यते न अनुदात्तदेः इति एव सिद्धम् । न सिध्यति । चाषोलूकयोः छन्दसि आद्युदात्तः प्रयोगः दृश्यते । चषेण किकिदीविना । यत् उलूकः वदति । न एतयोः छन्दसि सामूहिकः दृश्यते । यत्र च दृश्यते तत्र एतौ अनुदात्तादी । इदम् तर्हि प्रयोजनम् । अयम् औलूक्यः गोत्रम् । तत्र गोत्राश्रयः वुञ् प्राप्तः । तद्बाधनार्थम् । एतत् अपि न अस्ति प्रयोजनम् । बहुवचनान्तानाम् सामूहिकः बहुषु च लुक् । तत्र लुकि कृते अनुदात्तादेः इति एव सिद्धम् । न सिध्यति । गोत्रे अलुक् अचि इति अलुक् प्राप्नोति । अञ्सिद्धिः अनुदात्तादेः कः अर्थः क्षुद्रकमालवात् । अनुदात्तादेः इति एव अञ् सिद्धः । किमर्थम् क्षुद्रमालवशब्दः खण्डिकादिषु पठ्यते । गोत्राश्रयः वुञ् प्राप्तः तद्बाधनार्थम् । गोत्रात् वुञ् न च तत् गोत्रम् । गोत्रात् वुञ् भवति इति उच्यते न च क्षुद्रमालवकशब्दः गोत्रम् । न च गोत्रसमुदायः गोत्रग्रहणेन गृह्यते । तत् यथा जनपदसमुदायः जनपदग्रहणेन न गृह्यते । काशिकोसलीयाः इति वुञ् न भवति । तदन्तविधिना प्राप्नोति । तदन्तात् न सः सर्वतः । परिगणितेषु कार्येषु तदन्तविधिः । न च इदम् तत्र परिगण्यते । ज्ञापकम् स्यात् तदन्तत्वे । एवम् तर्हि ज्ञापयति आचार्यः भवति इह तदन्तविधिः इति । तथा च आपिशलेः विधिः । एवम् च कृत्वा आपिशलेः आचार्यस्य विधिः उपपन्नः भवति । धेनुः अनञि कम् उत्पादयति । धेनूनाम् समूहः धैनुकम् । अनञि इति किम् । अधेनूनाम् समूहः आधेनवम् । सेनायाम् नियमार्थम् वा । अथ वा नियमार्थः अयम् आरम्भः । क्षुद्रकमालवशब्दात् सेनायाम् एव । क्व मा भूत् । क्षौद्रकमालवकम् अन्यत् इति । यथा बाध्येत वा अञ् वुञा । अथ वा ज्ञापयति आचार्यः पूर्वः अपि वुञ् परम् अञम् बाधते इति । ननु च उक्तम् गोत्रात् वुञ् न च तत् गोत्रम् इति । तदन्तविधिना प्राप्नोति । ननु च उक्तम् तदन्तात् न सः सर्वतः इति । ज्ञापकम् स्यात् तदन्तत्वे । एवम् तर्हि ज्ञापयति आचार्यः भवति इह तदन्तविधिः इति । कथम् पुनः एतत् उभयम् शक्यम् ज्ञापयितुम् भवति च तदन्तविधिः पूर्वः च वुञ् परम् अञम् बाधते इति । उभयम् ज्ञाप्यते ।
KA II,280.8-281.14 Ro III,644-647 khaṇḍikā śuka ulūka . kimartham kaṇḍikādiṣu ulūkaśabdaḥ paṭhyate na anudāttadeḥ iti eva siddham . na sidhyati . cāṣolūkayoḥ chandasi ādyudāttaḥ prayogaḥ dṛśyate . caṣeṇa kikidīvinā . yat ulūkaḥ vadati . na etayoḥ chandasi sāmūhikaḥ dṛśyate . yatra ca dṛśyate tatra etau anudāttādī . idam tarhi prayojanam . ayam aulūkyaḥ gotram . tatra gotrāśrayaḥ vuñ prāptaḥ . tadbādhanārtham . etat api na asti prayojanam . bahuvacanāntānām sāmūhikaḥ bahuṣu ca luk . tatra luki kṛte anudāttādeḥ iti eva siddham . na sidhyati . gotre aluk aci iti aluk prāpnoti . añsiddhiḥ anudāttādeḥ kaḥ arthaḥ kṣudrakamālavāt . anudāttādeḥ iti eva añ siddhaḥ . kimartham kṣudramālavaśabdaḥ khaṇḍikādiṣu paṭhyate . gotrāśrayaḥ vuñ prāptaḥ tadbādhanārtham . gotrāt vuñ na ca tat gotram . gotrāt vuñ bhavati iti ucyate na ca kṣudramālavakaśabdaḥ gotram . na ca gotrasamudāyaḥ gotragrahaṇena gṛhyate . tat yathā janapadasamudāyaḥ janapadagrahaṇena na gṛhyate . kāśikosalīyāḥ iti vuñ na bhavati . tadantavidhinā prāpnoti . tadantāt na saḥ sarvataḥ . parigaṇiteṣu kāryeṣu tadantavidhiḥ . na ca idam tatra parigaṇyate . jñāpakam syāt tadantatve . evam tarhi jñāpayati ācāryaḥ bhavati iha tadantavidhiḥ iti . tathā ca āpiśaleḥ vidhiḥ . evam ca kṛtvā āpiśaleḥ ācāryasya vidhiḥ upapannaḥ bhavati . dhenuḥ anañi kam utpādayati . dhenūnām samūhaḥ dhainukam . anañi iti kim . adhenūnām samūhaḥ ādhenavam . senāyām niyamārtham vā . atha vā niyamārthaḥ ayam ārambhaḥ . kṣudrakamālavaśabdāt senāyām eva . kva mā bhūt . kṣaudrakamālavakam anyat iti . yathā bādhyeta vā añ vuñā . atha vā jñāpayati ācāryaḥ pūrvaḥ api vuñ param añam bādhate iti . nanu ca uktam gotrāt vuñ na ca tat gotram iti . tadantavidhinā prāpnoti . nanu ca uktam tadantāt na saḥ sarvataḥ iti . jñāpakam syāt tadantatve . evam tarhi jñāpayati ācāryaḥ bhavati iha tadantavidhiḥ iti . katham punaḥ etat ubhayam śakyam jñāpayitum bhavati ca tadantavidhiḥ pūrvaḥ ca vuñ param añam bādhate iti . ubhayam jñāpyate .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२८१।१५-१७ रो इइइ,६४७ अञ्प्रकरणे क्षुद्रकमालवात् सेनासञ्ज्ञायाम् । अञ्प्रकरणे क्षुद्रकमालवात् सेनासञ्ज्ञायाम् इति वक्तव्यम् । क्षौद्रकमालवी सेना चेत् । क्व मा भूत् । क्षौद्रकमालवकम् अन्यत् ।
KA II,281.15-17 Ro III,647 añprakaraṇe kṣudrakamālavāt senāsañjñāyām . añprakaraṇe kṣudrakamālavāt senāsañjñāyām iti vaktavyam . kṣaudrakamālavī senā cet . kva mā bhūt . kṣaudrakamālavakam anyat .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२८१।१९-२५ रो इइइ,६४७-६४८ पाश तृण धूम वात । पृथग्वातादर्शनात् असमूहः । पृथग्वातादर्शनात् अयुक्तः अयम् सामूहिकः । न हि पृथक् वाताः दृश्यन्ते । न तर्हि इदानीम् भवति वात्या इति । भवति । शीघ्रत्वे तु । शीघ्रः वातः वात्या । अथ वा पृथक् वाताः अपि दृश्यन्ते । तत् यथा पूर्वः वातः उत्तरः वातः सर्वतः वातः । वाताः वान्तु दिशः दश ।
KA II,281.19-25 Ro III,647-648 pāśa tṛṇa dhūma vāta . pṛthagvātādarśanāt asamūhaḥ . pṛthagvātādarśanāt ayuktaḥ ayam sāmūhikaḥ . na hi pṛthak vātāḥ dṛśyante . na tarhi idānīm bhavati vātyā iti . bhavati . śīghratve tu . śīghraḥ vātaḥ vātyā . atha vā pṛthak vātāḥ api dṛśyante . tat yathā pūrvaḥ vātaḥ uttaraḥ vātaḥ sarvataḥ vātaḥ . vātāḥ vāntu diśaḥ daśa .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२८२।३-४ रो इइइ,६४८ खलादिभः इनिः । खलादिभः इनिः वक्तव्यः । खलिनी ऊहिनी कुन्दुमिनी इति ।
KA II,282.3-4 Ro III,648 khalādibhaḥ iniḥ . khalādibhaḥ iniḥ vaktavyaḥ . khalinī ūhinī kunduminī iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२८२।६-२८३।३ रो इइइ,६४८-६५० विषयाभिधाने जनपदे लुप् बहुवचनविषयात् । विषयाभिधाने जनपदे लुप् बहुवचनविषयात् वक्तव्यः । अङ्गानाम् विषयः अङ्गाः । वङ्गाः सुह्माः पुण्ड्राः । गान्धार्यादिभ्यः वा । गान्धार्यादिभ्यः वा इति वक्तव्यम् । गान्धारः गान्धारयः वासातः वसातयः शैबः शिबयः । राजन्यादिभ्यः वा वुञ् । राजन्यादिभ्यः वा वुञ् वक्तव्यः । राजन्याः राजन्यकः दैवयातवः दैवयातवकः । बैल्ववनादिभ्यः नित्यम् । बैल्ववनादिभ्यः नित्यम् इति वक्तव्यम् । बैल्ववनकः आम्बरीषपुत्रकः आत्मकामेयकः । तत् तर्हि बहु वक्तव्यम् । न वा अभिधेयस्य निवासविषयत्वात् निवासविवक्षायाम् लुब्विषयविवक्षायाम् प्रत्ययः । न वा वक्तव्यम् । किम् कारणम् । अभिधेयस्य निवासविषयत्वात् । यत् अभिधेयम् सः निवासः च विषयः च । अभिधेयस्य निवासविषयत्वात् निवासविवक्षायाम् लुप् विषयविवक्षायाम् प्रत्ययः भविष्यति । इदम् तर्हि प्रयोजनम् । एतत् ज्ञास्यामि इह नित्यः विधिः इह विभाषा इति । एतत् अपि न अस्ति प्रयोजनम् । यावता यत् अभिधेयम् सः निवासः च विषयः च । अभिधेयस्य निवासविषयत्वात् निवासविवक्षायाम् लुप् विषयविवक्षायाम् प्रत्ययः ।
KA II,282.6-283.3 Ro III,648-650 viṣayābhidhāne janapade luP bahuvacanaviṣayāt . viṣayābhidhāne janapade lup bahuvacanaviṣayāt vaktavyaḥ . aṅgānām viṣayaḥ aṅgāḥ . vaṅgāḥ suhmāḥ puṇḍrāḥ . gāndhāryādibhyaḥ vā . gāndhāryādibhyaḥ vā iti vaktavyam . gāndhāraḥ gāndhārayaḥ vāsātaḥ vasātayaḥ śaibaḥ śibayaḥ . rājanyādibhyaḥ vā vuñ . rājanyādibhyaḥ vā vuñ vaktavyaḥ . rājanyāḥ rājanyakaḥ daivayātavaḥ daivayātavakaḥ . bailvavanādibhyaḥ nityam . bailvavanādibhyaḥ nityam iti vaktavyam . bailvavanakaḥ āmbarīṣaputrakaḥ ātmakāmeyakaḥ . tat tarhi bahu vaktavyam . na vā abhidheyasya nivāsaviṣayatvāt nivāsavivakṣāyām lubviṣayavivakṣāyām pratyayaḥ . na vā vaktavyam . kim kāraṇam . abhidheyasya nivāsaviṣayatvāt . yat abhidheyam saḥ nivāsaḥ ca viṣayaḥ ca . abhidheyasya nivāsaviṣayatvāt nivāsavivakṣāyām lup viṣayavivakṣāyām pratyayaḥ bhaviṣyati . idam tarhi prayojanam . etat jñāsyāmi iha nityaḥ vidhiḥ iha vibhāṣā iti . etat api na asti prayojanam . yāvatā yat abhidheyam saḥ nivāsaḥ ca viṣayaḥ ca . abhidheyasya nivāsaviṣayatvāt nivāsavivakṣāyām lup viṣayavivakṣāyām pratyayaḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२८३।५-७ रो इइइ,६५० छन्दसः प्रत्ययविधाने नपुंसकात् स्वार्थे उपसङ्ख्यानम् । छन्दसः प्रत्ययविधाने नपुंसकात् स्वार्थे उपसङ्ख्यानम् कर्तव्यम् । त्रिष्टुप् एव त्रैष्टुभम् अनुष्टुप् एव आनुष्टुभम् जगती एव जागतम् ।
KA II,283.5-7 Ro III,650 chandasaḥ pratyayavidhāne napuṃsakāt svārthe upasaṅkhyānam . chandasaḥ pratyayavidhāne napuṃsakāt svārthe upasaṅkhyānam kartavyam . triṣṭup eva traiṣṭubham anuṣṭup eva ānuṣṭubham jagatī eva jāgatam .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२८३।९-११ रो इइइ,६५०-६५१ किमर्थम् इमौ उभौ अर्थौ निर्दिश्येते न यः अधीते वेत्ति अपि असौ यः तु वेत्ति अधीते अपि असौ । न एतयोः आवश्यकः समावेशः । भवति हि कः चित् सम्पाठम् पठति न च वेत्ति कः चित् च वेत्ति न च सम्पाठम् पठति ।
KA II,283.9-11 Ro III,650-651 kimartham imau ubhau arthau nirdiśyete na yaḥ adhīte vetti api asau yaḥ tu vetti adhīte api asau . na etayoḥ āvaśyakaḥ samāveśaḥ . bhavati hi kaḥ cit sampāṭham paṭhati na ca vetti kaḥ cit ca vetti na ca sampāṭham paṭhati .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२८३।१३-२८४।१५ रो इइइ,६५१-६५३ उक्थादि इति उच्यते । कानि उक्थानि । सामानि । यदि एवम् सामगमात्रे औक्थिकः इति प्राप्नोति । न एषः दोषः । तादर्थ्यात् ताच्छब्द्यम् भविष्यति । उक्थार्थम् उक्थम् । इह उक्थानि अधीते औक्थिकः यज्ञम् अधीते याज्ञिकः । यः इदानीम् औक्थिक्यम् याज्ञिकम् च अधीते कथम् तत्र भवितव्यम् । औक्थिकः याज्ञिकः इति एव भवितव्यम् । कथम् । तस्येदम्प्रत्ययात् लुक् । तस्येदम्प्रत्ययात् लुक् । तस्येदम्प्रत्ययस्य च । सः तर्हि वक्तव्यः । न वक्तव्यः । इह अस्माभिः त्रैशब्द्यम् साध्यम् । उक्थानि अधीते औक्थिक्यम् अधीते औक्थिकः इति । तत्र द्वयोः समानार्थयोः एकेन विग्रहः अपरस्मात् उत्पत्तिः भविष्यति अविरविकन्यायेन । तत् यथा अवेः मांसम् इति विगृह्य अविकशब्दात् उत्पत्तिः भवति आविकम् इति । एवम् उक्थानि अधीते इति विगृह्य औक्थिकः इति भविष्यति । औक्थिक्यम् अधीते इति विगृह्य वाक्यम् एव। विद्यालक्षणकल्पसूत्रान्तात् अकल्पादेः इकक् स्मृतः । विद्या । वायसविद्यकः । विद्या लक्षण गोलक्षणिकः आश्वलक्षणिकः । लक्षण । कल्प । पाराशरकल्पिकः पारकल्पिकः । कल्प् । सूत्र । वार्त्तिकसूत्रिकः साङ्ग्रहसूत्रिकः । अकल्पादेः इति किमर्थम् । काल्पसूत्रः । विद्या च अनङ्गक्षत्रधर्मत्रिपूर्वा । विद्या च अनङ्गक्षत्रधर्मत्रिपूर्वा इति वक्तव्यम् । आङ्गविद्यः क्षात्रविद्यः धार्मविद्यः त्रैविद्यः । आख्यानाख्यायिकेतिहासपुराणेभ्यः च ठक् वक्तव्यः । यावक्रीतिकः प्रैयङ्गविकः यायातिकः । आख्यान । आख्यायिका । वासवदत्तिकः सौमनोत्तरिकः । ऐतिहासिकः पौराणिकः । सर्वसादेः द्विगोः च लः । सर्वसादेः द्विगोः च लः वक्तव्यः । सर्ववेदः सर्वतन्त्रः । सवार्त्तिकः ससङ्ग्रहः । पञ्चकल्पः द्वितन्त्रः । अनुसूः लक्ष्यलक्षणे सर्वसादेः द्विगोः च लः इकन् पदोत्तरपदात् शतषष्टेः षिकन् पथः ।
KA II,283.13-284.15 Ro III,651-653 ukthādi iti ucyate . kāni ukthāni . sāmāni . yadi evam sāmagamātre aukthikaḥ iti prāpnoti . na eṣaḥ doṣaḥ . tādarthyāt tācchabdyam bhaviṣyati . ukthārtham uktham . iha ukthāni adhīte aukthikaḥ yajñam adhīte yājñikaḥ . yaḥ idānīm aukthikyam yājñikam ca adhīte katham tatra bhavitavyam . aukthikaḥ yājñikaḥ iti eva bhavitavyam . katham . tasyedampratyayāt luk . tasyedampratyayāt luk . tasyedampratyayasya ca . saḥ tarhi vaktavyaḥ . na vaktavyaḥ . iha asmābhiḥ traiśabdyam sādhyam . ukthāni adhīte aukthikyam adhīte aukthikaḥ iti . tatra dvayoḥ samānārthayoḥ ekena vigrahaḥ aparasmāt utpattiḥ bhaviṣyati aviravikanyāyena . tat yathā aveḥ māṃsam iti vigṛhya avikaśabdāt utpattiḥ bhavati āvikam iti . evam ukthāni adhīte iti vigṛhya aukthikaḥ iti bhaviṣyati . aukthikyam adhīte iti vigṛhya vākyam eva. vidyālakṣaṇakalpasūtrāntāt akalpādeḥ ikak smṛtaḥ . vidyā . vāyasavidyakaḥ . vidyā lakṣaṇa golakṣaṇikaḥ āśvalakṣaṇikaḥ . lakṣaṇa . kalpa . pārāśarakalpikaḥ pārakalpikaḥ . kalp . sūtra . vārttikasūtrikaḥ sāṅgrahasūtrikaḥ . akalpādeḥ iti kimartham . kālpasūtraḥ . vidyā ca anaṅgakṣatradharmatripūrvā . vidyā ca anaṅgakṣatradharmatripūrvā iti vaktavyam . āṅgavidyaḥ kṣātravidyaḥ dhārmavidyaḥ traividyaḥ . ākhyānākhyāyiketihāsapurāṇebhyaḥ ca ṭhak vaktavyaḥ . yāvakrītikaḥ praiyaṅgavikaḥ yāyātikaḥ . ākhyāna . ākhyāyikā . vāsavadattikaḥ saumanottarikaḥ . aitihāsikaḥ paurāṇikaḥ . sarvasādeḥ dvigoḥ ca laḥ . sarvasādeḥ dvigoḥ ca laḥ vaktavyaḥ . sarvavedaḥ sarvatantraḥ . savārttikaḥ sasaṅgrahaḥ . pañcakalpaḥ dvitantraḥ . anusūḥ lakṣyalakṣaṇe sarvasādeḥ dvigoḥ ca laḥ ikan padottarapadāt śataṣaṣṭeḥ ṣikan pathaḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२८४।१७-१८ रो इइइ,६५४ अयम् योगः शक्यः अवक्तुम् । कथम् अनुब्राह्मणी अनुब्राह्मणिनौ अनुब्राह्मणिनः । इनिना एव मत्वर्थीयेन सिद्धम् ।
KA II,284.17-18 Ro III,654 ayam yogaḥ śakyaḥ avaktum . katham anubrāhmaṇī anubrāhmaṇinau anubrāhmaṇinaḥ . ininā eva matvarthīyena siddham .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२८४।२०-२२ रो इइइ,६५४ अयुक्तः अयम् निर्देशः । अधीते इति वर्तते न च वसन्तः नाम अध्ययनम् अस्ति । न एषः दोषः । साहचर्यात् ताच्छब्द्यम् भविष्यति । वसन्तसहचरितम् अध्ययनम् वसन्ते अध्ययनम् इति ।
KA II,284.20-22 Ro III,654 ayuktaḥ ayam nirdeśaḥ . adhīte iti vartate na ca vasantaḥ nāma adhyayanam asti . na eṣaḥ doṣaḥ . sāhacaryāt tācchabdyam bhaviṣyati . vasantasahacaritam adhyayanam vasante adhyayanam iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२८४।२४ रो इइइ,६५४ अयुक्तः अयम् निर्देशः । प्रौक्तात् इति भवितव्यम् । सौत्रः निर्देशः ।
KA II,284.24 Ro III,654 ayuktaḥ ayam nirdeśaḥ . prauktāt iti bhavitavyam . sautraḥ nirdeśaḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२८५।२ रो इइइ,६५५ सङ्ख्याप्रकृतेः इति वक्तव्यम् । इह मा भूत् । माहावार्त्तिकः कालपकः ।
KA II,285.2 Ro III,655 saṅkhyāprakṛteḥ iti vaktavyam . iha mā bhūt . māhāvārttikaḥ kālapakaḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२८५।४-२० रो इइइ,६५५-६५७ किमर्थम् इदम् उच्यते । अन्यत्र अभिधेयस्य अनित्यत्वात् छन्दोब्राह्मणानाम् तद्विषयवचनम् । अन्यत्र अभिधेयम् अनित्यम् भवति । पाणिनीयम् इति वा भवति पाणिनीयाः इति वा । अन्यत्र अभिधेयस्य अनित्यत्वात् छन्दोब्राह्मणानाम् अपि अनित्यता प्राप्नोति । इष्यते च तद्विषयता एव स्यात् इति । तत् च अन्तरेण यत्नम् न सिध्यति इति छन्दोब्राह्मणानाम् तद्विषयवचनम् । एवमर्थम् इदम् उच्यते । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति । तत्र यथाधिकारम् तद्विषयप्रसङ्गः । तत्र यथाधिकारम् तद्विषयता प्राप्नोति । अधीते वेद इति वर्तते । तेन अध्येतृवेदित्रोः एव तद्विषयता स्यात् । ये अन्ये उपचाराः तत्र न स्यात् । यथा इह भवति पाणिनीयम् महत् सुविहितम् इति एवम् इह अपि स्यात् कठम् महत् सुविहितम् इति । सिद्धम् तु प्रोक्ताधिकारे तद्विषयवचनात् । सिद्धम् एतत् । कथम् । प्रोक्ताधिकारे एव तद्विषयता वक्तव्या । तेन प्रोक्तम् । छन्दोब्राह्मणानि अध्येतृवेदित्रोः एव इति । तत् तर्हि अध्येतृवेदितृग्रहणम् कर्तव्यम् । ननु च इह अपि क्रियते । परार्थम् एतद् भवति तत् अधीते तत् वेद इति । एवम् तर्हि यावत् इह छन्दोब्राह्मणग्रहणम् तावत् अत्र अध्येतृवेदितृग्रहणम् । ननु च तत्र अपि क्रियते । परार्थम् तत् भविष्यति । पुराण्प्रोक्तेषु ब्राह्मणकल्पेषु शौनकादिभ्यः छन्दसि इति । इह वा छन्दोब्राह्मणग्रहणम् क्रियते तत्र वा अध्येतृवेदितृग्रहणम् । कः नु अत्र विशेषः ।
KA II,285.4-20 Ro III,655-657 kimartham idam ucyate . anyatra abhidheyasya anityatvāt chandobrāhmaṇānām tadviṣayavacanam . anyatra abhidheyam anityam bhavati . pāṇinīyam iti vā bhavati pāṇinīyāḥ iti vā . anyatra abhidheyasya anityatvāt chandobrāhmaṇānām api anityatā prāpnoti . iṣyate ca tadviṣayatā eva syāt iti . tat ca antareṇa yatnam na sidhyati iti chandobrāhmaṇānām tadviṣayavacanam . evamartham idam ucyate . asti prayojanam etat . kim tarhi iti . tatra yathādhikāram tadviṣayaprasaṅgaḥ . tatra yathādhikāram tadviṣayatā prāpnoti . adhīte veda iti vartate . tena adhyetṛveditroḥ eva tadviṣayatā syāt . ye anye upacārāḥ tatra na syāt . yathā iha bhavati pāṇinīyam mahat suvihitam iti evam iha api syāt kaṭham mahat suvihitam iti . siddham tu proktādhikāre tadviṣayavacanāt . siddham etat . katham . proktādhikāre eva tadviṣayatā vaktavyā . tena proktam . chandobrāhmaṇāni adhyetṛveditroḥ eva iti . tat tarhi adhyetṛveditṛgrahaṇam kartavyam . nanu ca iha api kriyate . parārtham etad bhavati tat adhīte tat veda iti . evam tarhi yāvat iha chandobrāhmaṇagrahaṇam tāvat atra adhyetṛveditṛgrahaṇam . nanu ca tatra api kriyate . parārtham tat bhaviṣyati . purāṇprokteṣu brāhmaṇakalpeṣu śaunakādibhyaḥ chandasi iti . iha vā chandobrāhmaṇagrahaṇam kriyate tatra vā adhyetṛveditṛgrahaṇam . kaḥ nu atra viśeṣaḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२८५।२१-२८६।१९ रो इइइ,६५७-६५९ याज्ञवक्क्यादिभ्यः प्रतिषेधः । याज्ञवक्यादिभ्यः प्रतिषेधः वक्तव्यः । याज्ञवल्कानि ब्राह्मणानि । सौलभानि । किम् प्रोक्ताधिकारे तद्विषयता क्रियते इति अतः याज्ञवक्क्यादिभ्यः प्रतिषेधः वक्तव्यः । न इति आह । सर्वथा याज्ञवक्क्यादिभ्यः प्रतिषेधः वक्तव्यः । इनिः वा प्रोक्ते तद्विषयः । अथ वा इनिः प्रोक्ते तद्विषयः भवति इति वक्तव्यम् । यदि इनिः प्रोक्ते तद्विषयः भवति इति उच्यते पैङ्गी कल्पः अत्र अपि प्राप्नोति । काश्यपकौशिकग्रहणम् च कल्पे नियमार्थम् । काश्यपकौशिकग्रहणम् च कल्पे नियमार्थम् द्रष्टव्यम् । काश्यपकौशिकाभ्याम् एव इनिः कल्पे तद्विषयः भवति न अन्येभ्यः इति । एवम् अपि छणादीनाम् तद्विषयता न प्राप्नोति । तैत्तिरीयाः वारतन्तवीयाः । यदि पुनः छणादयः प्रोक्ते तद्विषयाः भवन्ति इति उच्येत । एवम् अपि पैङ्गी कल्पः अत्र अपि प्राप्नोति । काश्यपकौशिकग्रहणम् च कल्पे नियमार्थम् इति एव । एवम् अपि औत्सर्गिकाणाम् तद्विषयता न प्राप्नोति । क्रौडाः काङ्कताः मौदाः पैप्पलादाः । छणादयः च अपि औत्सर्गिकान् अध्येतृवेदित्रोः एव बाधेरन् । ये अन्ये उपचाराः तत्र न बाधेरन् । तित्तिरिणा प्रोक्ताः श्लोकाः इति । अस्ति तर्हि अविशेषेण । ननु च उक्तम् याज्ञवक्यादिभ्यः प्रतिषेधः इति । वक्ष्यति एतत् । याज्ञवक्यादिभ्यः प्रतिषेधः तुल्यकालत्वात् इति । तत्र एव वक्तव्यम् । तद्विषयता च न भवति इति । कथम् काश्यपिनः कौशिकिनः इति । इनिः प्रोक्ते तद्विषयः भवति इति उच्यमाने अवश्यम् काश्यपकौशिकग्रहणम् कल्पे नियमार्थम् द्रष्टव्यम् । तत् एव इदानीम् विध्यर्थम् भविष्यति । कथम् पाराशरिणः भिक्षवः शैलालिनः नटाः । अत्र अपि तद्विषयता च इति अनुवर्तिष्यते ।
KA II,285.21-286.19 Ro III,657-659 yājñavakkyādibhyaḥ pratiṣedhaḥ . yājñavakyādibhyaḥ pratiṣedhaḥ vaktavyaḥ . yājñavalkāni brāhmaṇāni . saulabhāni . kim proktādhikāre tadviṣayatā kriyate iti ataḥ yājñavakkyādibhyaḥ pratiṣedhaḥ vaktavyaḥ . na iti āha . sarvathā yājñavakkyādibhyaḥ pratiṣedhaḥ vaktavyaḥ . iniḥ vā prokte tadviṣayaḥ . atha vā iniḥ prokte tadviṣayaḥ bhavati iti vaktavyam . yadi iniḥ prokte tadviṣayaḥ bhavati iti ucyate paiṅgī kalpaḥ atra api prāpnoti . kāśyapakauśikagrahaṇam ca kalpe niyamārtham . kāśyapakauśikagrahaṇam ca kalpe niyamārtham draṣṭavyam . kāśyapakauśikābhyām eva iniḥ kalpe tadviṣayaḥ bhavati na anyebhyaḥ iti . evam api chaṇādīnām tadviṣayatā na prāpnoti . taittirīyāḥ vāratantavīyāḥ . yadi punaḥ chaṇādayaḥ prokte tadviṣayāḥ bhavanti iti ucyeta . evam api paiṅgī kalpaḥ atra api prāpnoti . kāśyapakauśikagrahaṇam ca kalpe niyamārtham iti eva . evam api autsargikāṇām tadviṣayatā na prāpnoti . krauḍāḥ kāṅkatāḥ maudāḥ paippalādāḥ . chaṇādayaḥ ca api autsargikān adhyetṛveditroḥ eva bādheran . ye anye upacārāḥ tatra na bādheran . tittiriṇā proktāḥ ślokāḥ iti . asti tarhi aviśeṣeṇa . nanu ca uktam yājñavakyādibhyaḥ pratiṣedhaḥ iti . vakṣyati etat . yājñavakyādibhyaḥ pratiṣedhaḥ tulyakālatvāt iti . tatra eva vaktavyam . tadviṣayatā ca na bhavati iti . katham kāśyapinaḥ kauśikinaḥ iti . iniḥ prokte tadviṣayaḥ bhavati iti ucyamāne avaśyam kāśyapakauśikagrahaṇam kalpe niyamārtham draṣṭavyam . tat eva idānīm vidhyartham bhaviṣyati . katham pārāśariṇaḥ bhikṣavaḥ śailālinaḥ naṭāḥ . atra api tadviṣayatā ca iti anuvartiṣyate .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२८६।२४-२८७।१० रो इइइ,६६०-६६१ किम् पुनः अयम् एकः योगः आहोस्वित् नानायोगाः । किम् च अतः । यदि एकः योगः उत्तरेषु अर्थादेशनेषु देशे तन्नाम्नि देशे तन्नाम्नि इति अस्य अनुवृत्तिः कर्तव्या । न हि एकयोगे अनुवृत्तिः भवति । कथम् ज्ञायते । यत् अयम् तत् अधीते तत् वेद इति द्विः तद्ग्रहणम् करोति । अथ नानायोगाः ओः अञ् इति एवमादि अनुक्रमणम् यत् एव सर्वान्त्यम् अर्थादेशनम् तस्य एव विषये स्यात् । यथा इच्छसि तथा अस्तु । अस्तु तावत् एकः योगः । ननु च उक्तम् उत्तरेषु अर्थादेशनेषु देशे तन्नाम्नि देशे तन्नाम्नि इति अस्य अनुवृत्तिः कर्तव्या । न हि एकयोगे अनुवृत्तिः भवति इति । एकयोगे अपि अनुवृत्तिः भवति । कथम् ज्ञायते । यत् अयम् तत् अस्य अस्ति अस्मिन् इति मतुप् इति द्विः तद्ग्रहणम् न करोति । कथम् तत् अधीते तत् वेद इति । प्रमादकृतम् आचार्यस्य शक्यम् अकर्तुम् । अथ वा पुनः सन्तु नानायोगाः । ननु च उक्तम् ओः अञ् इति एवमादि अनुक्रमणम् यत् एव सर्वान्त्यम् अर्थादेशनम् तस्य एव विषये स्यात् इति । न एषः दोषः । गोयूथवत् अधिकाराः । तत् यथा गोयूथम् एकदण्डप्रघट्टितम् सर्वम् समम् घोषम् गच्छति तद्वत् अधिकाराः ।
KA II,286.24-287.10 Ro III,660-661 kim punaḥ ayam ekaḥ yogaḥ āhosvit nānāyogāḥ . kim ca ataḥ . yadi ekaḥ yogaḥ uttareṣu arthādeśaneṣu deśe tannāmni deśe tannāmni iti asya anuvṛttiḥ kartavyā . na hi ekayoge anuvṛttiḥ bhavati . katham jñāyate . yat ayam tat adhīte tat veda iti dviḥ tadgrahaṇam karoti . atha nānāyogāḥ oḥ añ iti evamādi anukramaṇam yat eva sarvāntyam arthādeśanam tasya eva viṣaye syāt . yathā icchasi tathā astu . astu tāvat ekaḥ yogaḥ . nanu ca uktam uttareṣu arthādeśaneṣu deśe tannāmni deśe tannāmni iti asya anuvṛttiḥ kartavyā . na hi ekayoge anuvṛttiḥ bhavati iti . ekayoge api anuvṛttiḥ bhavati . katham jñāyate . yat ayam tat asya asti asmin iti matup iti dviḥ tadgrahaṇam na karoti . katham tat adhīte tat veda iti . pramādakṛtam ācāryasya śakyam akartum . atha vā punaḥ santu nānāyogāḥ . nanu ca uktam oḥ añ iti evamādi anukramaṇam yat eva sarvāntyam arthādeśanam tasya eva viṣaye syāt iti . na eṣaḥ doṣaḥ . goyūthavat adhikārāḥ . tat yathā goyūtham ekadaṇḍapraghaṭṭitam sarvam samam ghoṣam gacchati tadvat adhikārāḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२८७।१३-१६ रो इइइ,६६१ ओः अञ्विधेः नद्याम् मतुप् विप्रतिषिद्धम् । ओः अञ्विधेः नद्याम् मतुप् भवति विप्रतिषेधेन । ओः अञः अवकाशह्ः कन्नतु कान्नवतम् । मतुपः अवकाशः उदुम्बरावती मशकावती । इह उभयम् प्राप्नोति । इक्षुमती द्रुमती । मतुप् भवति विप्रतिषेधेन ।
KA II,287.13-16 Ro III,661 oḥ añvidheḥ nadyām matuP vipratiṣiddham . oḥ añvidheḥ nadyām matup bhavati vipratiṣedhena . oḥ añaḥ avakāśahḥ kannatu kānnavatam . matupaḥ avakāśaḥ udumbarāvatī maśakāvatī . iha ubhayam prāpnoti . ikṣumatī drumatī . matup bhavati vipratiṣedhena .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२८७।१८-२१ रो इइइ,६६१-६६२ अङ्गग्रहणम् किमर्थम् । यथा बह्वज्ग्रहणम् अङ्गविशेषणम् विज्ञायेत । बह्वचः अङ्गात् इति । अथ अक्रियमाणे अङ्गग्रहणे बह्वज्ग्रहणम् कस्य विशेषणम् स्यात् । मत्वन्तविशेषणम् । तत्र कः दोषः । इह अपि प्रसज्येत । मालावताम् अयम् निवासः मालावतम् । अस्ति च इदानीम् अबह्वच् मत्वन्तः यदर्थः विधिः स्यात् । अस्ति इति आह : स्ववान् , श्ववान् ।
KA II,287.18-21 Ro III,661-662 aṅgagrahaṇam kimartham . yathā bahvajgrahaṇam aṅgaviśeṣaṇam vijñāyeta . bahvacaḥ aṅgāt iti . atha akriyamāṇe aṅgagrahaṇe bahvajgrahaṇam kasya viśeṣaṇam syāt . matvantaviśeṣaṇam . tatra kaḥ doṣaḥ . iha api prasajyeta . mālāvatām ayam nivāsaḥ mālāvatam . asti ca idānīm abahvac matvantaḥ yadarthaḥ vidhiḥ syāt . asti iti āha : svavān , śvavān .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२८७।२३-२८८।५ रो इइइ,६६२ किमर्थम् नद्याम् मतुप् विधीयते न तत् अस्य अस्ति अस्मिन् इति मतुप् इति एव सिद्धम् । नद्याम् मतुब्वचनम् मत्वर्थे अण्विधानात् । नद्याम् मतुब्वचनम् क्रियते मत्वर्थे अण्विधानात् । अयम् मत्वर्थे अण् विधीयते । सः विशेषविहितः सामान्यविहितम् मतुपम् बाधेत । निर्वृत्ताद्यर्थम् च । निर्वृत्ताद्यर्थम् च नद्याम् मतुब्वचनम् क्रियते । निर्वृत्ताद्यर्थेषु मतुप् यथा स्यात् ।
KA II,287.23-288.5 Ro III,662 kimartham nadyām matup vidhīyate na tat asya asti asmin iti matup iti eva siddham . nadyām matubvacanam matvarthe aṇvidhānāt . nadyām matubvacanam kriyate matvarthe aṇvidhānāt . ayam matvarthe aṇ vidhīyate . saḥ viśeṣavihitaḥ sāmānyavihitam matupam bādheta . nirvṛttādyartham ca . nirvṛttādyartham ca nadyām matubvacanam kriyate . nirvṛttādyartheṣu matup yathā syāt .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२८८।७ रो इइइ,६६२ महिषात् च इति वक्तव्यम् । महिष्मान् ।
KA II,288.7 Ro III,662 mahiṣāt ca iti vaktavyam . mahiṣmān .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२८८।९-२८९।६ रो इइइ,६६२-६६४ यदि पुनः अयम् कुट् परादिः क्रियेत । कुटि प्रत्ययादेः आदेशानुपपत्तिः अनादित्वात् । कुटि सति प्रत्ययादेः इति आदेशस्य अनुपपत्तिः । कुटि कृते अनादित्वात् आदेशः न प्राप्नोति । एवम् तर्हि पूर्वान्तः करिष्यते । पूर्वान्ते ह्रस्वत्वम् । यदि पूर्वान्तः ह्रस्वत्वम् वक्तव्यम् । कुञ्चकीयाः । परादौ पुनः सति के अणः इति ह्रस्वत्वम् सिद्धम् भवति । अस्तु तर्हि परादिः । ननु च उक्तम् कुटि कृते अनादित्वात् आदेशः न प्राप्नोति इति । सिद्धम् तु आदिष्टस्य कुड्वचनात् । सिद्धम् एतत् । कथम् । कुट् आदिष्टस्य इति वक्तव्यम् । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । सन्नियोगात् सिद्धम् । सन्नियोग्ः करिष्यते । कः एषः यत्नः चोद्यते सन्नियोगः नाम । चकारः कर्तव्यः । कुट् च । यत् च अन्यत् प्राप्नोति । किम् च अन्यत् प्राप्नोति । आदेशः । सिध्यति । सूत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् । पूर्वान्ते ह्रस्वत्वम् इति । निपातनात् एतत् सिद्धम् । किम् निपातनम् । क्रुञ्चाः ह्रस्वत्वम् च इति । तत् तर्हि पूर्वान्ते सति निपातनम् कर्तव्यम् । परादौ अपि एषः दोषः । यत् हि तत् के अणः इति ह्रस्वत्वम् न तत् कादिमात्रे शख्यम् विज्ञातुम् । इह अपि प्रसज्येत । नदीकल्पः परीवाहः कुमारीकाम्यति इति । तस्मात् उभाभ्याम् एतत् वक्तव्यम् । क्रुञ्चाः ह्रस्वत्वम् च इति ।
KA II,288.9-289.6 Ro III,662-664 yadi punaḥ ayam kuṭ parādiḥ kriyeta . kuṭi pratyayādeḥ ādeśānupapattiḥ anāditvāt . kuṭi sati pratyayādeḥ iti ādeśasya anupapattiḥ . kuṭi kṛte anāditvāt ādeśaḥ na prāpnoti . evam tarhi pūrvāntaḥ kariṣyate . pūrvānte hrasvatvam . yadi pūrvāntaḥ hrasvatvam vaktavyam . kuñcakīyāḥ . parādau punaḥ sati ke aṇaḥ iti hrasvatvam siddham bhavati . astu tarhi parādiḥ . nanu ca uktam kuṭi kṛte anāditvāt ādeśaḥ na prāpnoti iti . siddham tu ādiṣṭasya kuḍvacanāt . siddham etat . katham . kuṭ ādiṣṭasya iti vaktavyam . tat tarhi vaktavyam . na vaktavyam . sanniyogāt siddham . sanniyogḥ kariṣyate . kaḥ eṣaḥ yatnaḥ codyate sanniyogaḥ nāma . cakāraḥ kartavyaḥ . kuṭ ca . yat ca anyat prāpnoti . kim ca anyat prāpnoti . ādeśaḥ . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam . pūrvānte hrasvatvam iti . nipātanāt etat siddham . kim nipātanam . kruñcāḥ hrasvatvam ca iti . tat tarhi pūrvānte sati nipātanam kartavyam . parādau api eṣaḥ doṣaḥ . yat hi tat ke aṇaḥ iti hrasvatvam na tat kādimātre śakhyam vijñātum . iha api prasajyeta . nadīkalpaḥ parīvāhaḥ kumārīkāmyati iti . tasmāt ubhābhyām etat vaktavyam . kruñcāḥ hrasvatvam ca iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२९०।२-२९१ ८ रो इइइ,६६४-६७० शेषे इति उच्यते । कः शेषः नाम । अपत्यादिभ्यः चातुरर्थ्पर्यन्तेभ्यः ये अन्ये अर्थाः सः शेषः । किमर्थम् पुनः शेषग्रहणम् । शेषे घादयः यथा स्युः । स्वार्थे मा भूवन् इति । न एतत् अस्ति प्रयोजनम् । इदम् तावत् अयम् प्रष्टव्यः । अणादयः स्वार्थे कस्मात् न भवन्ति इति । अपत्यादिषु अर्थेषु अणादयः विधीयन्ते । तेन स्वार्थे न भविष्यन्ति । इमे अपि तर्हि जातादिषु अर्थेषु विधीयन्ते । तेन स्वार्थे न भविष्यन्ति । कथम् पुनः इह उच्यमानाः घादयः जातादिषु शक्याः विज्ञातुम् । अनुवर्तिष्यन्ते तत्र घादयः । यदि अनुवर्तन्ते घादयः या या परा प्रकृतिः तस्याः तस्याः पूर्वे पूर्वे प्रत्ययाः प्राप्नुवन्ति । एवम् तर्हि जातादिषु अर्थेषु घादीन् अपेक्षिष्यामहे । अयुक्ता एवम् बहुनः अपेक्षा । अपेक्षमाणः अयम् अनन्तरम् योगम् अपेक्षेत । बहुनः अपि अपेक्षा भवति । तत् यथा कषादिषु यथाविधि अनुप्रयोगः इति सामान्यकम् सविशेषकम् सर्वम् अपेक्ष्यते । अथ वा पुनः अस्तु अनुवृत्तिः । ननु च उक्तम् या या परा प्रकृतिः तस्याः तस्याः पूर्वे पूर्वे प्रत्ययाः प्राप्नुवन्ति इति । न एषः दोषः । सम्बन्धम् अनुवर्तिष्यते । राष्ट्रावारपारात् घखौ । ग्रामात् यखञौ राष्ट्रावारपारात् घखौ । कत्त्र्यादिभ्यः ढकञ् राष्ट्रावारपारात् घखौ ग्रामात् यखञौ इति । अतः उत्तरम् पठति । शेषवचनम् घादीनाम् अपत्यादिषु अप्रसङ्गार्थम् । शेषवचनम् क्रियते शेषे घादयः यथा स्युः । अपत्यादिषु मा भूवन् इति इति । कथम् च प्राप्नुवन्ति । तस्येदंवचनात् प्रसङ्गः । तस्येदंविशेषाः हि एते अपत्यम् समूहः निवासः विकारः इति । विप्रतिषेधात् सिद्धम् । अणादयः क्रियन्ताम् घातयः इति अणादयः भवन्ति विप्रतिषेधेन । न वा परत्वात् घादीनाम् । न एषः युक्तः विप्रतिषेधः । किम् कारणम् । परत्वात् घादीनाम् । विप्रतिषेधे परम् इति उच्यते । पूर्वे च अणादयः परे घादयः । परे अणादयः करिष्यन्ते । सूत्रविपर्यासः च एवम् कृतः भवति । अणपवादत्वात् च अण्विषये घादिप्रसङ्गः । अणपवादत्वात् च घादीनाम् अण्विषये घादयः प्राप्नुवन्ति । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति न अण्विषये घादयः भवन्ति इति यत् अयम् फेः छ च इति फ्यन्तम् छम् शास्ति । न एतत् अस्ति ज्ञापकम् । फिनर्थम् एतत् स्यात् । सौवीरेषु इति वर्तते न च फिनन्तम् सौवीरगोत्रम् अस्ति । गोत्रग्रहणम् सामुहिकेषु ज्ञापकम् दैवयातवग्रहणम् वैषयिकेषु भास्त्रायणग्रहणम् नैवासिकेषु ।
KA II,290.2-291 8 Ro III,664-670 śeṣe iti ucyate . kaḥ śeṣaḥ nāma . apatyādibhyaḥ cāturarthparyantebhyaḥ ye anye arthāḥ saḥ śeṣaḥ . kimartham punaḥ śeṣagrahaṇam . śeṣe ghādayaḥ yathā syuḥ . svārthe mā bhūvan iti . na etat asti prayojanam . idam tāvat ayam praṣṭavyaḥ . aṇādayaḥ svārthe kasmāt na bhavanti iti . apatyādiṣu artheṣu aṇādayaḥ vidhīyante . tena svārthe na bhaviṣyanti . ime api tarhi jātādiṣu artheṣu vidhīyante . tena svārthe na bhaviṣyanti . katham punaḥ iha ucyamānāḥ ghādayaḥ jātādiṣu śakyāḥ vijñātum . anuvartiṣyante tatra ghādayaḥ . yadi anuvartante ghādayaḥ yā yā parā prakṛtiḥ tasyāḥ tasyāḥ pūrve pūrve pratyayāḥ prāpnuvanti . evam tarhi jātādiṣu artheṣu ghādīn apekṣiṣyāmahe . ayuktā evam bahunaḥ apekṣā . apekṣamāṇaḥ ayam anantaram yogam apekṣeta . bahunaḥ api apekṣā bhavati . tat yathā kaṣādiṣu yathāvidhi anuprayogaḥ iti sāmānyakam saviśeṣakam sarvam apekṣyate . atha vā punaḥ astu anuvṛttiḥ . nanu ca uktam yā yā parā prakṛtiḥ tasyāḥ tasyāḥ pūrve pūrve pratyayāḥ prāpnuvanti iti . na eṣaḥ doṣaḥ . sambandham anuvartiṣyate . rāṣṭrāvārapārāt ghakhau . grāmāt yakhañau rāṣṭrāvārapārāt ghakhau . kattryādibhyaḥ ḍhakañ rāṣṭrāvārapārāt ghakhau grāmāt yakhañau iti . ataḥ uttaram paṭhati . śeṣavacanam ghādīnām apatyādiṣu aprasaṅgārtham . śeṣavacanam kriyate śeṣe ghādayaḥ yathā syuḥ . apatyādiṣu mā bhūvan iti iti . katham ca prāpnuvanti . tasyedaṃvacanāt prasaṅgaḥ . tasyedaṃviśeṣāḥ hi ete apatyam samūhaḥ nivāsaḥ vikāraḥ iti . vipratiṣedhāt siddham . aṇādayaḥ kriyantām ghātayaḥ iti aṇādayaḥ bhavanti vipratiṣedhena . na vā paratvāt ghādīnām . na eṣaḥ yuktaḥ vipratiṣedhaḥ . kim kāraṇam . paratvāt ghādīnām . vipratiṣedhe param iti ucyate . pūrve ca aṇādayaḥ pare ghādayaḥ . pare aṇādayaḥ kariṣyante . sūtraviparyāsaḥ ca evam kṛtaḥ bhavati . aṇapavādatvāt ca aṇviṣaye ghādiprasaṅgaḥ . aṇapavādatvāt ca ghādīnām aṇviṣaye ghādayaḥ prāpnuvanti . na eṣaḥ doṣaḥ . ācāryapravṛttiḥ jñāpayati na aṇviṣaye ghādayaḥ bhavanti iti yat ayam pheḥ cha ca iti phyantam cham śāsti . na etat asti jñāpakam . phinartham etat syāt . sauvīreṣu iti vartate na ca phinantam sauvīragotram asti . gotragrahaṇam sāmuhikeṣu jñāpakam daivayātavagrahaṇam vaiṣayikeṣu bhāstrāyaṇagrahaṇam naivāsikeṣu .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२९१।१०-१३ रो इइइ,६७० अवारपारात् विगृहीतात् अपि । अवारपारात् विगृहीतात् अपि इति वक्तव्यम् । अवरीणः पारीणः अवारपारीणः । विपरीतात् च । विपरीतात् च इति वक्तव्यम् । पारावारीणः ।
KA II,291.10-13 Ro III,670 avārapārāt vigṛhītāt api . avārapārāt vigṛhītāt api iti vaktavyam . avarīṇaḥ pārīṇaḥ avārapārīṇaḥ . viparītāt ca . viparītāt ca iti vaktavyam . pārāvārīṇaḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२९१।१५-१६ रो इइइ,६७० ग्रामात् च इति वक्तव्यम् । ग्रामेयकः । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । कत्त्र्यादिभ्यः ढकञ् इति अत्र ग्रामात् इति अनुवर्तिष्यते ।
KA II,291.15-16 Ro III,670 grāmāt ca iti vaktavyam . grāmeyakaḥ . tat tarhi vaktavyam . na vaktavyam . kattryādibhyaḥ ḍhakañ iti atra grāmāt iti anuvartiṣyate .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२९१।१८-२० रो इइइ,६७०-६७१ अयम् योगः शक्यः अवक्तुम् । कथम् कौलेयकः । कुलस्य अपत्यम् । कुक्षिग्रीवात् तु कन् ढञः । कुलस्य अपत्यम् कौलेयकः इति भविष्यति । कुक्षिग्रीवात् अपि ढञन्तात् कन् भविष्यति ।
KA II,291.18-20 Ro III,670-671 ayam yogaḥ śakyaḥ avaktum . katham kauleyakaḥ . kulasya apatyam . kukṣigrīvāt tu kan ḍhañaḥ . kulasya apatyam kauleyakaḥ iti bhaviṣyati . kukṣigrīvāt api ḍhañantāt kan bhaviṣyati .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२९२।२ रो इइइ,६७१ बाह्ल्युर्दिपर्दिभ्यः च इति वक्तव्यम् । बाह्लायनी और्दायनी पार्दायनी ।
KA II,292.2 Ro III,671 bāhlyurdipardibhyaḥ ca iti vaktavyam . bāhlāyanī aurdāyanī pārdāyanī .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२९२।४-१४ रो इइइ,६७१-६७२ अमनुष्ये इति किमर्थम् । राङ्कवकः मनुष्यः । रङ्कोः अमनुष्यग्रहणानर्थक्यम् मनुष्यतत्स्थयोः वुञ्विधानात् । रङ्कोः अमनुष्यग्रहणम् अनर्थकम् । किम् कारणम् । मनुष्यतत्स्थयोः वुञ्विधानात् । अयम् मनुष्ये मनुष्यतत्स्थे च वुञ् विधीयते । सः बाधकः भविष्यति । एवम् तर्हि ज्ञापयति आचार्यः अमनुष्ये मनुष्यस्थे ष्फगणौ भवतः इति । अमनुष्ये मनुष्यस्थे ष्फगणोः ज्ञापकम् इति चेत् न अनिष्टत्वात् । अमनुष्ये मनुष्यस्थे ष्फगणोः ज्ञापकम् इति चेत् तत् न । किम् कारणम् । अनिष्टत्वात् । न हि अमनुष्ये मनुष्यस्थे ष्फगणौ इष्येते । किम् तर्हि । वुञ् एव इष्यते । अण्ग्रहनम् च कच्छादिभ्यः अण्वचनात् । अण्ग्रहनम् च अनर्थकम् । किम् कारणम् । कच्छादिभ्यः अण्वचनात् । कच्छादिपाठात् अत्र अण् भविष्यति ।
KA II,292.4-14 Ro III,671-672 amanuṣye iti kimartham . rāṅkavakaḥ manuṣyaḥ . raṅkoḥ amanuṣyagrahaṇānarthakyam manuṣyatatsthayoḥ vuñvidhānāt . raṅkoḥ amanuṣyagrahaṇam anarthakam . kim kāraṇam . manuṣyatatsthayoḥ vuñvidhānāt . ayam manuṣye manuṣyatatsthe ca vuñ vidhīyate . saḥ bādhakaḥ bhaviṣyati . evam tarhi jñāpayati ācāryaḥ amanuṣye manuṣyasthe ṣphagaṇau bhavataḥ iti . amanuṣye manuṣyasthe ṣphagaṇoḥ jñāpakam iti cet na aniṣṭatvāt . amanuṣye manuṣyasthe ṣphagaṇoḥ jñāpakam iti cet tat na . kim kāraṇam . aniṣṭatvāt . na hi amanuṣye manuṣyasthe ṣphagaṇau iṣyete . kim tarhi . vuñ eva iṣyate . aṇgrahanam ca kacchādibhyaḥ aṇvacanāt . aṇgrahanam ca anarthakam . kim kāraṇam . kacchādibhyaḥ aṇvacanāt . kacchādipāṭhāt atra aṇ bhaviṣyati .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२९२।१६-२९३।७ रो इइइ,६७२-६७३ परिगणनम् कर्तव्यम् । अमेहक्वतसित्रेभ्यः त्यब्विधिः यो अव्ययात् स्मृतः । अमा अमात्यः अमा । इह इहत्यः इह । क्व क्वत्यः क्व । तसि ततस्त्यः यतस्त्यः । त्र तत्रत्र्यः यत्रत्यः । इतरथा हि औत्तराहौपरिष्टपारतानाम् प्रतिषेधः वक्तव्यः स्यात् । औत्तराहः औपरिष्टः पारतः । त्यप् नेः ध्रुवे । त्यप् नेः ध्रुवे वक्तव्यः । नित्यः । निसः गते । त्यप् वक्तव्यः इति । निष्ट्यः । अरण्यात् णः । अरण्यात् णः वक्तव्यः । आरण्याः सुमनसः । दूरात् एत्यः डूरात् एत्यः वक्तव्यः । दूरेत्यः । उत्तरात् आहञ् । उत्तरात् आहञ् वक्तव्यः । औत्तराहः । अव्ययात् त्यपि आविष्टस्य उपसङ्ख्यानम् छन्दसि । अव्ययात् त्यप् इति अत्र आविष्टस्य छन्दसि उपसङ्ख्यानम् कर्तव्यम् । आविष्ट्यः वर्धते चारुः [आसु (र्)]।
KA II,292.16-293.7 Ro III,672-673 parigaṇanam kartavyam . amehakvatasitrebhyaḥ tyabvidhiḥ yo avyayāt smṛtaḥ . amā amātyaḥ amā . iha ihatyaḥ iha . kva kvatyaḥ kva . tasi tatastyaḥ yatastyaḥ . tra tatratryaḥ yatratyaḥ . itarathā hi auttarāhaupariṣṭapāratānām pratiṣedhaḥ vaktavyaḥ syāt . auttarāhaḥ aupariṣṭaḥ pārataḥ . tyap neḥ dhruve . tyap neḥ dhruve vaktavyaḥ . nityaḥ . nisaḥ gate . tyap vaktavyaḥ iti . niṣṭyaḥ . araṇyāt ṇaḥ . araṇyāt ṇaḥ vaktavyaḥ . āraṇyāḥ sumanasaḥ . dūrāt etyaḥ ḍūrāt etyaḥ vaktavyaḥ . dūretyaḥ . uttarāt āhañ . uttarāt āhañ vaktavyaḥ . auttarāhaḥ . avyayāt tyapi āviṣṭasya upasaṅkhyānam chandasi . avyayāt tyap iti atra āviṣṭasya chandasi upasaṅkhyānam kartavyam . āviṣṭyaḥ vardhate cāruḥ [āsu (R)].
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२९३।८-२९९।५ रो इइइ,६७४-६८३ अययतीररूप्योत्तरपदोदीच्यग्रामकोपधविधेः वृद्धात् छः विप्रतिषेधेन । अययतीररूप्योत्तरपदोदीच्यग्रामकोपधविधेः वृद्धात् छः भवति विप्रतिषेधेन । अव्ययात् त्यप् भवति इति अस्य अवकाशः अमात्यः । छस्य अवकाशः शालीयः मालीयः । आरात् उभयम् प्राप्नोति । आरातीयः । तीरोत्तरपदाद् अञ् भवति इति अस्य अवकाशः कखतीर काखतीरी । छस्य सः एव । वायस्तीरात् उभयम् प्राप्नोति । वायसतीरीयः । रूप्योत्तरपदात् ञः भवति इति अस्य अवकाशः चणाररूप्य चाणाररूप्या । छस्य सः एव । माणिरूप्यात् उभयम् प्राप्नोति । तम् च अपि छम् परत्वात् योपधलक्षणः वुञ् बाधते । माणिरूप्यकः । उदीच्यग्रामात् च बह्वचः अन्तोदात्तात् अञ् भवति इति अस्य अवकाशः शिवपुर शैवपुरः । छस्य सः एव । वाडवकर्षात् उभयम् प्राप्नोति । वाडवकर्षीयः । कोपधात् अण् भवति इति अस्य अवकाशः निलीनकः नैलीनकः । छस्य सः एव । औलूकात् उभयम् प्राप्नोति । औलूकीयः । तेभ्यः ठञ्ञिठौ । तेभ्यः त्यबादिभ्यः ठञ्ञिठौ भवतः विप्रतिषेधेन । अव्ययात् त्यप् भवति इति अस्य अवकाशः अमात्यः । ठञ्ञिठयोः अवकाशः कारन्तविकी कारन्तविका [र्: कारतन्तविकी कारतन्तविका] । आरात् नाम वाहीकग्रामः । तस्मात् उभयम् प्राप्नोति । आरात्की आरात्का । तीरोत्तरपदाद् अञ् भवति इति अस्य अवकाशः कखतीर काखतीरी । ठञ्ञिठयोः सः एव । कास्तीरः [र्: कास्तीरम्] नाम वाहीकग्रामः । तस्मात् उभयम् प्राप्नोति । कास्तीरिकी कास्तिरिका । रूप्योत्तरपदात् ञः भवति इति अस्य अवकाशः चणाररूप्य चाणाररूप्या । ठञ्ञिठयोः सः एव । दासरूपम् नाम वाहीकग्रामः । तस्मात् उभयम् प्राप्नोति । तौ च अपि ठञ्ञिठौ परत्वात् योपधलक्षणः वुञ् बाधते । दासरूप्यकः । उदीच्यग्रामात् च बह्वचः अन्तोदात्तात् अञ् भवति इति अस्य अवकाशः शिवपुर शैवपुरः । ठञ्ञिठयोः सः एव । शाकलम् नाम वाहीकग्रामः । तस्मात् उभयम् प्राप्नोति । शाकलिकी शाकलिका । कोपधात् अण् भवति इति अस्य अवकाशः निलीनकः नैलीनकः । ठञ्ञिठयोः सः एव । सौसुकम् नाम वाहीकग्रामः । तस्मात् उभयम् प्राप्नोति । तौ च अपि ठञ्ञिठौ परत्वात् कोपधलक्षणः छः बाधते । सौसुकीयः । न वा ठञादीनाम् छापवादत्वात् तद्विषये च अभावात् इतरेषाम् । न वा अर्थः विप्रतिषेधेन । किम् कारणम् । ठञादीनाम् छापवादत्वात् । ठञादयः छापवादाः । तद्विषये च अभावात् इतरेषाम् । तद्विषये छविषये त्यबादीनाम् अभावः । कोपधात् अणः पुनर्वचनम् अन्यनिवृत्त्यर्थम् । अयम् च अपि अयुक्तः विप्रतिषेधः यः अयम् कोपधात् अणः छस्य च । किम् कारणम् । कोपधात् अणः पुनर्वचनम् अन्यनिवृत्त्यर्थम् । सिद्धः अत्र अण् उत्सर्गेण एव । तस्य पुनर्वचने एतत् प्रयोजनम् ये अन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थम् । सः यथा एव तदपवादम् अञम् बाधते एवम् छम् अपि बाधेत । तस्मात् अन्तोदात्ते कोपधप्रतिषेधः । तस्मात् अन्तोदात्ते कोपधात् अञः प्रतिषेधः वक्तव्यः । न वक्तव्यः । मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् कोपधात् अण् अञम् एव बाधिष्यते । छम् न बाधिष्यते । छात् ओः देशे कालात् ठञ् । छात् ओः देशे ठञ् कालात् ठञ् इति एतत् भवति विप्रतिषेधेन । छस्य अवकाशः शालीयः मालीयः । ओः देशे ठञ् भवति इति अस्य अवकाशः निषाहकर्षू नैषाहकर्षुकः [र्: निषादकर्षूः नाम देशः नैषादकर्षुकः ] । इह उभयम् प्राप्नोति । दाक्षिकर्षुकः । कालात् ठञ् भवति इति अस्य अवकाशः आर्धमासिकम् सांवत्सरिकम् । छस्य सः एव। मासात् उभयम् प्राप्नोति । मासिकम् । नक्षत्रात् अण् । नक्षत्रात् अण् छात् भवति विप्रतिषेधेन । अणः अवकाशः तैषः पौषः । छस्य सः एव । स्वातेः उभयम् प्राप्नोति । सौवातः । अव्ययात् ट्युट्युलौ । अव्ययात् ट्युट्युलौ छात् भवतः विप्रतिषेधेन । ट्युट्युलयोः अवकाशः दोषान्तनम् दिवातनम् । छस्य सः एव। प्रातःशब्दात् उभयम् प्राप्नोति । प्रातस्तनम् । शरीरावयवात् यत् । शरीरावयवात् यत् छात् भवति विप्रतिषेधेन । यतः अवकाशः दन्त्यम् ओष्ठ्यम् । छस्य सः एव । पादशब्दात् उभयम् प्राप्नोति । पद्यम् । वर्गान्तात् च अशब्दे यत्खौ । वर्गान्तात् च अशब्दे यत्खौ छात् भवतः विप्रतिषेधेन । यत्खयोः अवकाशः अक्रूरवग्यः अक्रूरवर्गीणः । छस्य सः एव । वासुदेववर्गात् उभयम् प्राप्नोति । वासुदेवावर्ग्यः वासुदेववर्गीणः । बह्वचः अन्तोदात्तात् वुञ् । बह्वचः अन्तोदात्तात् ठञ् छात् भवति विप्रतिषेधेन । ठञः अवकाशः नतानन नातानतिकः । छस्य सः एव । सामस्तात् उभयम् प्राप्नोति । सामस्तिकः । आयस्थानेभ्यः ठक् । आयस्थानेभ्यः ठक् छात् भवति विप्रतिषेधेन । ठकः अवकाशः शौल्किकम् गौल्किकम् । छस्य सः एव । आपणात् उभयम् प्राप्नोति । आपणिकम् । विद्यायोनिसम्बन्धेभ्यः वुञ् । विद्यायोनिसम्बन्धेभ्यः वुञ् छात् भवति विप्रतिषेधेन । वुञः अवकाशः औपाध्यायकम् पैतामहकम् । छस्य सः एव । इह उभयम् प्राप्नोति । आचार्यकम् मातुलकम् । ऋतः ठञ् । ऋतः ठञ् छात् भवति विप्रतिषेधेन । ठञः अवकाशः हौतृकम् स्वासृकम् । छस्य सः एव । इह
KA II,293.8-299.5 Ro III,674-683 ayayatīrarūpyottarapadodīcyagrāmakopadhavidheḥ vṛddhāt chaḥ vipratiṣedhena . ayayatīrarūpyottarapadodīcyagrāmakopadhavidheḥ vṛddhāt chaḥ bhavati vipratiṣedhena . avyayāt tyap bhavati iti asya avakāśaḥ amātyaḥ . chasya avakāśaḥ śālīyaḥ mālīyaḥ . ārāt ubhayam prāpnoti . ārātīyaḥ . tīrottarapadād añ bhavati iti asya avakāśaḥ kakhatīra kākhatīrī . chasya saḥ eva . vāyastīrāt ubhayam prāpnoti . vāyasatīrīyaḥ . rūpyottarapadāt ñaḥ bhavati iti asya avakāśaḥ caṇārarūpya cāṇārarūpyā . chasya saḥ eva . māṇirūpyāt ubhayam prāpnoti . tam ca api cham paratvāt yopadhalakṣaṇaḥ vuñ bādhate . māṇirūpyakaḥ . udīcyagrāmāt ca bahvacaḥ antodāttāt añ bhavati iti asya avakāśaḥ śivapura śaivapuraḥ . chasya saḥ eva . vāḍavakarṣāt ubhayam prāpnoti . vāḍavakarṣīyaḥ . kopadhāt aṇ bhavati iti asya avakāśaḥ nilīnakaḥ nailīnakaḥ . chasya saḥ eva . aulūkāt ubhayam prāpnoti . aulūkīyaḥ . tebhyaḥ ṭhaññiṭhau . tebhyaḥ tyabādibhyaḥ ṭhaññiṭhau bhavataḥ vipratiṣedhena . avyayāt tyap bhavati iti asya avakāśaḥ amātyaḥ . ṭhaññiṭhayoḥ avakāśaḥ kārantavikī kārantavikā [R: kāratantavikī kāratantavikā] . ārāt nāma vāhīkagrāmaḥ . tasmāt ubhayam prāpnoti . ārātkī ārātkā . tīrottarapadād añ bhavati iti asya avakāśaḥ kakhatīra kākhatīrī . ṭhaññiṭhayoḥ saḥ eva . kāstīraḥ [R: kāstīram] nāma vāhīkagrāmaḥ . tasmāt ubhayam prāpnoti . kāstīrikī kāstirikā . rūpyottarapadāt ñaḥ bhavati iti asya avakāśaḥ caṇārarūpya cāṇārarūpyā . ṭhaññiṭhayoḥ saḥ eva . dāsarūpam nāma vāhīkagrāmaḥ . tasmāt ubhayam prāpnoti . tau ca api ṭhaññiṭhau paratvāt yopadhalakṣaṇaḥ vuñ bādhate . dāsarūpyakaḥ . udīcyagrāmāt ca bahvacaḥ antodāttāt añ bhavati iti asya avakāśaḥ śivapura śaivapuraḥ . ṭhaññiṭhayoḥ saḥ eva . śākalam nāma vāhīkagrāmaḥ . tasmāt ubhayam prāpnoti . śākalikī śākalikā . kopadhāt aṇ bhavati iti asya avakāśaḥ nilīnakaḥ nailīnakaḥ . ṭhaññiṭhayoḥ saḥ eva . sausukam nāma vāhīkagrāmaḥ . tasmāt ubhayam prāpnoti . tau ca api ṭhaññiṭhau paratvāt kopadhalakṣaṇaḥ chaḥ bādhate . sausukīyaḥ . na vā ṭhañādīnām chāpavādatvāt tadviṣaye ca abhāvāt itareṣām . na vā arthaḥ vipratiṣedhena . kim kāraṇam . ṭhañādīnām chāpavādatvāt . ṭhañādayaḥ chāpavādāḥ . tadviṣaye ca abhāvāt itareṣām . tadviṣaye chaviṣaye tyabādīnām abhāvaḥ . kopadhāt aṇaḥ punarvacanam anyanivṛttyartham . ayam ca api ayuktaḥ vipratiṣedhaḥ yaḥ ayam kopadhāt aṇaḥ chasya ca . kim kāraṇam . kopadhāt aṇaḥ punarvacanam anyanivṛttyartham . siddhaḥ atra aṇ utsargeṇa eva . tasya punarvacane etat prayojanam ye anye tadapavādāḥ prāpnuvanti tadbādhanārtham . saḥ yathā eva tadapavādam añam bādhate evam cham api bādheta . tasmāt antodātte kopadhapratiṣedhaḥ . tasmāt antodātte kopadhāt añaḥ pratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . madhye apavādāḥ pūrvān vidhīn bādhante iti evam kopadhāt aṇ añam eva bādhiṣyate . cham na bādhiṣyate . chāt oḥ deśe kālāt ṭhañ . chāt oḥ deśe ṭhañ kālāt ṭhañ iti etat bhavati vipratiṣedhena . chasya avakāśaḥ śālīyaḥ mālīyaḥ . oḥ deśe ṭhañ bhavati iti asya avakāśaḥ niṣāhakarṣū naiṣāhakarṣukaḥ [R: niṣādakarṣūḥ nāma deśaḥ naiṣādakarṣukaḥ ] . iha ubhayam prāpnoti . dākṣikarṣukaḥ . kālāt ṭhañ bhavati iti asya avakāśaḥ ārdhamāsikam sāṃvatsarikam . chasya saḥ eva. māsāt ubhayam prāpnoti . māsikam . nakṣatrāt aṇ . nakṣatrāt aṇ chāt bhavati vipratiṣedhena . aṇaḥ avakāśaḥ taiṣaḥ pauṣaḥ . chasya saḥ eva . svāteḥ ubhayam prāpnoti . sauvātaḥ . avyayāt ṭyuṭyulau . avyayāt ṭyuṭyulau chāt bhavataḥ vipratiṣedhena . ṭyuṭyulayoḥ avakāśaḥ doṣāntanam divātanam . chasya saḥ eva. prātaḥśabdāt ubhayam prāpnoti . prātastanam . śarīrāvayavāt yat . śarīrāvayavāt yat chāt bhavati vipratiṣedhena . yataḥ avakāśaḥ dantyam oṣṭhyam . chasya saḥ eva . pādaśabdāt ubhayam prāpnoti . padyam . vargāntāt ca aśabde yatkhau . vargāntāt ca aśabde yatkhau chāt bhavataḥ vipratiṣedhena . yatkhayoḥ avakāśaḥ akrūravagyaḥ akrūravargīṇaḥ . chasya saḥ eva . vāsudevavargāt ubhayam prāpnoti . vāsudevāvargyaḥ vāsudevavargīṇaḥ . bahvacaḥ antodāttāt vuñ . bahvacaḥ antodāttāt ṭhañ chāt bhavati vipratiṣedhena . ṭhañaḥ avakāśaḥ natānana nātānatikaḥ . chasya saḥ eva . sāmastāt ubhayam prāpnoti . sāmastikaḥ . āyasthānebhyaḥ ṭhak . āyasthānebhyaḥ ṭhak chāt bhavati vipratiṣedhena . ṭhakaḥ avakāśaḥ śaulkikam gaulkikam . chasya saḥ eva . āpaṇāt ubhayam prāpnoti . āpaṇikam . vidyāyonisambandhebhyaḥ vuñ . vidyāyonisambandhebhyaḥ vuñ chāt bhavati vipratiṣedhena . vuñaḥ avakāśaḥ aupādhyāyakam paitāmahakam . chasya saḥ eva . iha ubhayam prāpnoti . ācāryakam mātulakam . ṛtaḥ ṭhañ . ṛtaḥ ṭhañ chāt bhavati vipratiṣedhena . ṭhañaḥ avakāśaḥ hautṛkam svāsṛkam . chasya saḥ eva . iha
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२९९।७-१४ रो इइइ,६८४ जनपदतदवह्योः वुञ्विधाने अवयवमात्रात् प्रसङ्गः । जनपदतदवह्योः वुञ्विधाने अवयवमात्रात् प्राप्नोति । मौञ्जः नाम वाहीकेषु ग्रामः । तस्मिन् भवः मौञ्जीयः । एवम् तर्हि जनपदात् एव जनपदावधेः । जनपदात् इति चेत् वचनानर्थक्यम् । जनपदात् इति चेत् अवधिग्रहणम् अनर्थकम् । सिद्धम् जनपदात् इति एव । इदम् तर्हि प्रयोजनम् । जनपदात् जनपदावदेः वुञ् यथा स्यात् । यत् अन्यत् प्राप्नोति तत् मा भूत् इति । किम् च अन्यत् प्राप्नोति । छः । गर्तोत्तरपदात् छविधेः जनपदात् वुञ् पूर्वविप्रतिषिद्धम् वक्ष्यति । सः पूर्वविप्रतिषेधः न पठितव्यः भवति ।
KA II,299.7-14 Ro III,684 janapadatadavahyoḥ vuñvidhāne avayavamātrāt prasaṅgaḥ . janapadatadavahyoḥ vuñvidhāne avayavamātrāt prāpnoti . mauñjaḥ nāma vāhīkeṣu grāmaḥ . tasmin bhavaḥ mauñjīyaḥ . evam tarhi janapadāt eva janapadāvadheḥ . janapadāt iti cet vacanānarthakyam . janapadāt iti cet avadhigrahaṇam anarthakam . siddham janapadāt iti eva . idam tarhi prayojanam . janapadāt janapadāvadeḥ vuñ yathā syāt . yat anyat prāpnoti tat mā bhūt iti . kim ca anyat prāpnoti . chaḥ . gartottarapadāt chavidheḥ janapadāt vuñ pūrvavipratiṣiddham vakṣyati . saḥ pūrvavipratiṣedhaḥ na paṭhitavyaḥ bhavati .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२९९।१६-१९ रो इइइ,६८४-६८५ अत्यल्पम् इदम् उच्यते : मनुष्ये इति । पथ्यध्यायन्यायविहारमनुष्यहस्तिषु इति वक्तव्यम् : आरण्यकः पन्थाः आरण्यकः अध्यायः आरण्यकः न्यायः आरण्यकः विहारः आरण्यकः मनुष्यः आरण्यकः हस्ती । वा गोमयेषु इति वक्तव्यम् । आरण्यकाः गोमयाः आरण्याः गोमयाः ।
KA II,299.16-19 Ro III,684-685 atyalpam idam ucyate : manuṣye iti . pathyadhyāyanyāyavihāramanuṣyahastiṣu iti vaktavyam : āraṇyakaḥ panthāḥ āraṇyakaḥ adhyāyaḥ āraṇyakaḥ nyāyaḥ āraṇyakaḥ vihāraḥ āraṇyakaḥ manuṣyaḥ āraṇyakaḥ hastī . vā gomayeṣu iti vaktavyam . āraṇyakāḥ gomayāḥ āraṇyāḥ gomayāḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२९९।२१-३००।८ रो इइइ,६८५ कुरुयुगन्धरेभ्यः वावचनात् मनुष्यतत्स्थयोः वुञ्विधानम् । कुरुयुगन्धरेभ्यः वावचनात् मनुष्यतत्स्थयोः वुञ् इति एतत् भवति विप्रतिषेधेन । कुरुयुगन्धरेभ्यः वावचनस्य अवकाशः कौरवः कौरवकः यौगन्धरः यौगन्धरकः । मनुष्यतत्स्थयोः वुञ् भवति इति अस्य अवकाशः अन्ये कच्छादयः । काच्छकः मनुष्यः काच्छकम् अस्य ईक्षितम् जल्पितम् हसितम् स्मितम् । इह उभयम् प्राप्नोति । कौरव्कः मनुष्यः कौरवकम् अस्य ईक्षितम् जल्पितम् हसितम् स्मितम् । वुञ् भवति विप्रतिषेधेन । न एषः युक्तः विप्रतिषेधः । न हि कुरुशब्दस्य अन्ये कच्छादयः अवकाशः । कुरुशब्दस्य यः कच्चादिषु पाठः सः अनवकाशः । न खलु अपि कुरुशब्दः विभाषाम् प्रयोजयति । अनेन वुञ् कच्छादिपाठात् अण् भविष्यति । सा एषा युगन्धरार्था विभाषा ।
KA II,299.21-300.8 Ro III,685 kuruyugandharebhyaḥ vāvacanāt manuṣyatatsthayoḥ vuñvidhānam . kuruyugandharebhyaḥ vāvacanāt manuṣyatatsthayoḥ vuñ iti etat bhavati vipratiṣedhena . kuruyugandharebhyaḥ vāvacanasya avakāśaḥ kauravaḥ kauravakaḥ yaugandharaḥ yaugandharakaḥ . manuṣyatatsthayoḥ vuñ bhavati iti asya avakāśaḥ anye kacchādayaḥ . kācchakaḥ manuṣyaḥ kācchakam asya īkṣitam jalpitam hasitam smitam . iha ubhayam prāpnoti . kauravkaḥ manuṣyaḥ kauravakam asya īkṣitam jalpitam hasitam smitam . vuñ bhavati vipratiṣedhena . na eṣaḥ yuktaḥ vipratiṣedhaḥ . na hi kuruśabdasya anye kacchādayaḥ avakāśaḥ . kuruśabdasya yaḥ kaccādiṣu pāṭhaḥ saḥ anavakāśaḥ . na khalu api kuruśabdaḥ vibhāṣām prayojayati . anena vuñ kacchādipāṭhāt aṇ bhaviṣyati . sā eṣā yugandharārthā vibhāṣā .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,३००।१०-१५ रो इइइ,६८६ किमर्थम् साल्वानाम् कच्छादिषु पाठः क्रियते । साल्वानाम् कच्छादिषु पाठः अण्विधानार्थः । साल्वानाम् कच्छादिषु पाठः अण्विधानार्थः क्रियते । अण् यथा स्यात् । वुञ् मा भूत् इति । न वा अपदातियोगवाग्रहणम् अवधारणार्थम् । न वा एतत् प्रयोजनम् । किम् कारणम् । अपदातियोगवाग्रहणम् अवधारणार्थम् भविष्यति । अपदातौ एव साल्वात् । गोयवाग्वोः एव च साल्वात् इति ।
KA II,300.10-15 Ro III,686 kimartham sālvānām kacchādiṣu pāṭhaḥ kriyate . sālvānām kacchādiṣu pāṭhaḥ aṇvidhānārthaḥ . sālvānām kacchādiṣu pāṭhaḥ aṇvidhānārthaḥ kriyate . aṇ yathā syāt . vuñ mā bhūt iti . na vā apadātiyogavāgrahaṇam avadhāraṇārtham . na vā etat prayojanam . kim kāraṇam . apadātiyogavāgrahaṇam avadhāraṇārtham bhaviṣyati . apadātau eva sālvāt . goyavāgvoḥ eva ca sālvāt iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,३००।१७-२२ रो इइइ,६८६ गर्तोत्तरपदात् छविधेः जनपदात् वुञ् पूर्वविप्रतिषिद्धम् । गर्त्तोत्तरपदात् छविधेः जनपदात् वुञ् भवति पूर्वविप्रतिषेधेन । गर्त्तोत्तरपदात् छः भवति इति अस्य अवकाशः श्वाविद्गर्त श्वाविद्गर्तीयः । वुञः अवकाशः अङ्गाः आङ्गकः । इह उभयम् प्राप्नोति । त्रैगर्तकः । वुञ् भवति पूर्वविप्रतिषेधेन । सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः । न वक्तव्यः । उक्तम् एव अवधिग्रहणस्य प्रयोजनम् जनपदात् जनपदावदेः वुञ् यथा स्यात् । यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।
KA II,300.17-22 Ro III,686 gartottarapadāt chavidheḥ janapadāt vuñ pūrvavipratiṣiddham . garttottarapadāt chavidheḥ janapadāt vuñ bhavati pūrvavipratiṣedhena . garttottarapadāt chaḥ bhavati iti asya avakāśaḥ śvāvidgarta śvāvidgartīyaḥ . vuñaḥ avakāśaḥ aṅgāḥ āṅgakaḥ . iha ubhayam prāpnoti . traigartakaḥ . vuñ bhavati pūrvavipratiṣedhena . saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . uktam eva avadhigrahaṇasya prayojanam janapadāt janapadāvadeḥ vuñ yathā syāt . yat anyat prāpnoti tat mā bhūt iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,३०१।२-६ रो इइइ,६८७ गहादिषु पृथिवीमध्यस्य मध्यमभावः । गहादिषु पृथिवीमध्यस्य मध्यमभावः वक्तव्यः । पृथिवीमध्ये भवः मध्यमीयः । चरणसम्बन्धेन निवासलक्षणः अण् । चरणसम्बन्धेन निवासलक्षणः अण् वक्तव्यः । त्रयः प्राच्याः त्रयः माध्यमाः । सर्वे निवासलक्षणाः ।
KA II,301.2-6 Ro III,687 gahādiṣu pṛthivīmadhyasya madhyamabhāvaḥ . gahādiṣu pṛthivīmadhyasya madhyamabhāvaḥ vaktavyaḥ . pṛthivīmadhye bhavaḥ madhyamīyaḥ . caraṇasambandhena nivāsalakṣaṇaḥ aṇ . caraṇasambandhena nivāsalakṣaṇaḥ aṇ vaktavyaḥ . trayaḥ prācyāḥ trayaḥ mādhyamāḥ . sarve nivāsalakṣaṇāḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,३०१।८-१२ रो इइइ,६८७-६८८ ईकान्तात् अपि इति वक्तव्यम् इह यथा स्यात् । ऐणीकीयः । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । अकेकान्तग्रहणे कोपधग्रहणम् सौसुकाद्यर्थम् । अकेकान्तग्रहणे कोपधग्रहणम् कर्तव्यम् । किम् प्रयोजनम् । सौसुकाद्यर्थम् । सौसुकीयः ।
KA II,301.8-12 Ro III,687-688 īkāntāt api iti vaktavyam iha yathā syāt . aiṇīkīyaḥ . tat tarhi vaktavyam . na vaktavyam . akekāntagrahaṇe kopadhagrahaṇam sausukādyartham . akekāntagrahaṇe kopadhagrahaṇam kartavyam . kim prayojanam . sausukādyartham . sausukīyaḥ .
Sanskrit only: no published translation is held for this verse.
A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.